॥ याज्ञवल्क्यस्मृतिः ॥
॥ याज्ञवल्क्यप्रणीता ॥
॥ आचाराध्यायः ॥
॥ उपोद्घातप्रकरणम् ॥
योगीश्वरं याज्ञवल्क्यं सम्पूज्य मुनयोऽब्रुवन् । वर्णाश्रमेतराणां नो ब्रूहि धर्मानशेषतः । । १.१ । ।
मिथिलास्थः स योगीन्द्रः क्षणं ध्यात्वाब्रवीन्मुनीन् । यस्मिन्देशे मृगः कृष्णस्तस्मिन्धर्मान्निबोधत । । १.२ । ।
पुराणन्यायमीमांसा धर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश । । १.३ । ।
मन्वत्रिविष्णुहारीत याज्ञवल्क्योशनोऽङ्गिराः । यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती । । १.४ । ।
पराशरव्यासशङ्ख लिखिता दक्षगौतमौ । शातातपो वसिष्ठश्च धर्मशास्त्रप्रयोजकाः । । १.५ । ।
देशे काल उपायेन द्रव्यं श्रद्धासमन्वितम् । पात्रे प्रदीयते यत्तत्सकलं धर्मलक्षणम् । । १.६ । ।
श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । सम्यक्सङ्कल्पजः कामो धर्ममूलमिदं स्मृतम् । । १.७ । ।
इज्याचारदमाहिंसा दानस्वाध्यायकर्मणाम् । अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् । । १.८ । ।
चत्वारो वेदधर्मज्ञाः पर्षत्त्रैविद्यमेव वा । सा ब्रूते यं स धर्मः स्यादेको वाध्यात्मवित्तमः । । १.९ । ।
॥ ब्रह्मचारिप्रकरणम् ॥
ब्रह्मक्षत्रियविट्शूद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः । निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः । । १.१० । ।
गर्भाधानमृतौ पुंसः सवनं स्पन्दनात्पुरा । षष्ठेऽष्टमे वा सीमन्तो मास्येते जातकर्म च । । १.११ । ।
अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः । षष्ठेऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् । । १.१२ । ।
एवमेनः शमं याति बीजगर्भसमुद्भवम् । तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः । । १.१३ । ।
गर्भाष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् । राज्ञामेकादशे सैके विशामेके यथाकुलम् । । १.१४ । ।
उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् । वेदमध्यापयेदेनं शौचाचारांश्च शिक्षयेत् । । १.१५ । ।
दिवासन्ध्यासु कर्णस्थ ब्रह्मसूत्रोदङ्मुखः । कुर्यान्मूत्रपुरीषे च रात्रौ चेद्दक्षिणामुखः । । १.१६ । ।
गृहीतशिश्नश्चोत्थाय मृद्भिरभ्युद्धृतैर्जलैः । गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः । । १.१७ । ।
अन्तर्जानु शुचौ देश उपविष्ट उदङ्मुखः । प्राग्वा ब्राह्मेण तीर्थेन द्विजो नित्यमुपस्पृशेत् । । १.१८ । ।
कनिष्ठादेशिन्यङ्गुष्ठ मूलान्यग्रं करस्य च । प्रजापतिपितृब्रह्म देवतीर्थान्यनुक्रमात् । । १.१९ । ।
त्रिः प्राश्यापो द्विरुन्मृज्य खान्यद्भिः समुपस्पृशेत् । अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनबुद्बुदैः । । १.२० । ।
हृत्कण्ठतालुगाभिस्तु यथासङ्ख्यं द्विजातयः । शुध्येरन्स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः । । १.२१ । ।
स्नानमब्दैवतैर्मन्त्रैर्मार्जनं प्राणसंयमः । सूर्यस्य चाप्युपस्थानं गायत्र्याः प्रत्यहं जपः । । १.२२ । ।
गायत्रीं शिरसा सार्धं जपेद्व्याहृतिपूर्विकाम् । प्रतिप्रणवसंयुक्तां त्रिरयं प्राणसंयमः । । १.२३ । ।
प्राणानायम्य सम्प्रोक्ष्य तृचेनाब्दैवतेन तु । जपन्नासीत सावित्रीं प्रत्यगातारकोदयात् । । १.२४ । ।
सन्ध्यां प्राक्प्रातरेवं हि तिष्ठेदासूर्यदर्शनात् । अग्निकार्यं ततः कुर्यात्सन्ध्ययोरुभयोरपि । । १.२५ । ।
ततोऽभिवादयेद्वृद्धानसावहमिति ब्रुवन् । गुरुं चैवाप्युपासीत स्वाध्यायार्थं समाहितः । । १.२६ । ।
आहूतश्चाप्यधीयीत लब्धं चास्मै निवेदयेत् । हितं तस्याचरेन्नित्यं मनोवाक्कायकर्मभिः । । १.२७ । ।
कृतज्ञाद्रोहिमेधावि शुचिकल्यानसूयकाः । अध्याप्या धर्मतः साधु शक्ताप्तज्ञानवित्तदाः । । १.२८ । ।
दण्डाजिनोपवीतानि मेखलां चैव धारयेत् । ब्राह्मणेषु चरेद्भैक्षमनिन्द्येष्वात्मवृत्तये । । १.२९ । ।
आदिमध्यावसानेषु भवच्छब्दोपलक्षिता । ब्राह्मणक्षत्रियविशां भैक्षचर्या यथाक्रमम् । । १.३० । ।
कृताग्निकार्यो भुञ्जीत वाग्यतो गुर्वनुज्ञया । आपोशानक्रियापूर्वं सत्कृत्यान्नमकुत्सयन् । । १.३१ । ।
ब्रह्मचर्ये स्थितो नैकमन्नमद्यादनापदि । ब्राह्मणः काममश्नीयाच्छ्राद्धे व्रतमपीडयन् । । १.३२ । ।
मधुमांसाञ्जनोच्छिष्ट शुक्तस्त्रीप्राणिहिंसनम् । भास्करालोकनाश्लील परिवादादि वर्जयेत् । । १.३३ । ।
स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति । उपनीय ददद्वेदमाचार्यः स उदाहृतः । । १.३४ । ।
एकदेशमुपाध्याय ऋत्विग्यज्ञकृदुच्यते । एते मान्या यथापूर्वमेभ्यो माता गरीयसी । । १.३५ । ।
प्रतिवेदं ब्रह्मचर्यं द्वादशाब्दानि पञ्च वा । ग्रहणान्तिकमित्येके केशान्तश्चैव षोडशे । । १.३६ । ।
आषोडशादाद्वाविंशाच्चतुर्विंशाच्च वत्सरात् । ब्रह्मक्षत्रविशां कालौपनायनिकः परः । । १.३७ । ।
अत ऊर्ध्वं पतन्त्येते सर्वधर्मबहिष्कृताः । सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते क्रतोः । । १.३८ । ।
मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् । ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजाः स्मृताः । । १.३९ । ।
यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् । वेद एव द्विजातीनां निःश्रेयसकरः परः । । १.४० । ।
मधुना पयसा चैव स देवांस्तर्पयेद्द्विजः । पितॄन्मधुघृताभ्यां च ऋचोऽधीते च योऽन्वहम् । । १.४१ । ।
यजूंषि शक्तितोऽधीते योऽन्वहं स घृतामृतैः । प्रीणाति देवानाज्येन मधुना च पितॄंस्तथा । । १.४२ । ।
स तु सोमघृतैर्देवांस्तर्पयेद्योऽन्वहं पठेत् । सामानि तृप्तिं कुर्याच्च पितॄणां मधुसर्पिषा । । १.४३ । ।
मेदसा तर्पयेद्देवानथर्वाङ्गिरसः पठन् । पितॄंश्च मधुसर्पिर्भ्यामन्वहं शक्तितो द्विजः । । १.४४ । ।
वाकोवाक्यं पुराणं च नाराशंसीश्च गाथिकाः । इतिहासांस्तथा विद्याः शक्त्याधीते हि योऽन्वहम् । । १.४५ । ।
मांसक्षीरौदनमधु तर्पणं स दिवौकसाम् । करोति तृप्तिं कुर्याच्च पितॄणां मधुसर्पिषा । । १.४६ । ।
ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः । यं यं क्रतुमधीते च तस्य तस्याप्नुयात्फलम् । । १.४७ । ।
त्रिर्वित्तपूर्णपृथिवी दानस्य फलमश्नुते । तपसश्च परस्येह नित्यं स्वाध्यायवान्द्विजः । । १.४८ । ।
नैष्ठिको ब्रह्मचारी तु वसेदाचार्यसंनिधौ । तदभावेऽस्य तनये पत्न्यां वैश्वानरेऽपि वा । । १.४९ । ।
अनेन विधिना देहं सादयन्विजितेन्द्रियः । ब्रह्मलोकमवाप्नोति न चेहाजायते पुनः । । १.५० । ।
॥ विवाहप्रकरणम् ॥