याज्ञवल्क्यस्मृतिः
/ 15
←

Yajnavalkyasmriti English (IAST) PDF & Online Reader (yājñavalkyasmṛtiḥ)

Yajnavalkyasmriti (याज्ञवल्क्यस्मृतिः) by याज्ञवल्क्यः — English (IAST) Text & PDF Download

📜 Last Proofread: 15 Oct 2026
📥 Download English (IAST) PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 15 Oct 2026
📥 Download PDF ♡ Save
🌐 Language & Script English (IAST)
↔️ Text Alignment Center
॥ याज्ञवल्क्यस्मृतिः ॥ ॥ याज्ञवल्क्यप्रणीता ॥ ॥ आचाराध्यायः ॥ ॥ उपोद्घातप्रकरणम् ॥ योगीश्वरं याज्ञवल्क्यं सम्पूज्य मुनयोऽब्रुवन् । वर्णाश्रमेतराणां नो ब्रूहि धर्मानशेषतः । । १.१ । । मिथिलास्थः स योगीन्द्रः क्षणं ध्यात्वाब्रवीन्मुनीन् । यस्मिन्देशे मृगः कृष्णस्तस्मिन्धर्मान्निबोधत । । १.२ । । पुराणन्यायमीमांसा धर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश । । १.३ । । मन्वत्रिविष्णुहारीत याज्ञवल्क्योशनोऽङ्गिराः । यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती । । १.४ । । पराशरव्यासशङ्ख लिखिता दक्षगौतमौ । शातातपो वसिष्ठश्च धर्मशास्त्रप्रयोजकाः । । १.५ । । देशे काल उपायेन द्रव्यं श्रद्धासमन्वितम् । पात्रे प्रदीयते यत्तत्सकलं धर्मलक्षणम् । । १.६ । । श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । सम्यक्सङ्कल्पजः कामो धर्ममूलमिदं स्मृतम् । । १.७ । । इज्याचारदमाहिंसा दानस्वाध्यायकर्मणाम् । अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् । । १.८ । । चत्वारो वेदधर्मज्ञाः पर्षत्त्रैविद्यमेव वा । सा ब्रूते यं स धर्मः स्यादेको वाध्यात्मवित्तमः । । १.९ । । ॥ ब्रह्मचारिप्रकरणम् ॥ ब्रह्मक्षत्रियविट्शूद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः । निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः । । १.१० । । गर्भाधानमृतौ पुंसः सवनं स्पन्दनात्पुरा । षष्ठेऽष्टमे वा सीमन्तो मास्येते जातकर्म च । । १.११ । । अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः । षष्ठेऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् । । १.१२ । । एवमेनः शमं याति बीजगर्भसमुद्भवम् । तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः । । १.१३ । । गर्भाष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् । राज्ञामेकादशे सैके विशामेके यथाकुलम् । । १.१४ । । उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् । वेदमध्यापयेदेनं शौचाचारांश्च शिक्षयेत् । । १.१५ । । दिवासन्ध्यासु कर्णस्थ ब्रह्मसूत्रोदङ्मुखः । कुर्यान्मूत्रपुरीषे च रात्रौ चेद्दक्षिणामुखः । । १.१६ । । गृहीतशिश्नश्चोत्थाय मृद्भिरभ्युद्धृतैर्जलैः । गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः । । १.१७ । । अन्तर्जानु शुचौ देश उपविष्ट उदङ्मुखः । प्राग्वा ब्राह्मेण तीर्थेन द्विजो नित्यमुपस्पृशेत् । । १.१८ । । कनिष्ठादेशिन्यङ्गुष्ठ मूलान्यग्रं करस्य च । प्रजापतिपितृब्रह्म देवतीर्थान्यनुक्रमात् । । १.१९ । । त्रिः प्राश्यापो द्विरुन्मृज्य खान्यद्भिः समुपस्पृशेत् । अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनबुद्बुदैः । । १.२० । । हृत्कण्ठतालुगाभिस्तु यथासङ्ख्यं द्विजातयः । शुध्येरन्स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः । । १.२१ । । स्नानमब्दैवतैर्मन्त्रैर्मार्जनं प्राणसंयमः । सूर्यस्य चाप्युपस्थानं गायत्र्याः प्रत्यहं जपः । । १.२२ । । गायत्रीं शिरसा सार्धं जपेद्व्याहृतिपूर्विकाम् । प्रतिप्रणवसंयुक्तां त्रिरयं प्राणसंयमः । । १.२३ । । प्राणानायम्य सम्प्रोक्ष्य तृचेनाब्दैवतेन तु । जपन्नासीत सावित्रीं प्रत्यगातारकोदयात् । । १.२४ । । सन्ध्यां प्राक्प्रातरेवं हि तिष्ठेदासूर्यदर्शनात् । अग्निकार्यं ततः कुर्यात्सन्ध्ययोरुभयोरपि । । १.२५ । । ततोऽभिवादयेद्वृद्धानसावहमिति ब्रुवन् । गुरुं चैवाप्युपासीत स्वाध्यायार्थं समाहितः । । १.२६ । । आहूतश्चाप्यधीयीत लब्धं चास्मै निवेदयेत् । हितं तस्याचरेन्नित्यं मनोवाक्कायकर्मभिः । । १.२७ । । कृतज्ञाद्रोहिमेधावि शुचिकल्यानसूयकाः । अध्याप्या धर्मतः साधु शक्ताप्तज्ञानवित्तदाः । । १.२८ । । दण्डाजिनोपवीतानि मेखलां चैव धारयेत् । ब्राह्मणेषु चरेद्भैक्षमनिन्द्येष्वात्मवृत्तये । । १.२९ । । आदिमध्यावसानेषु भवच्छब्दोपलक्षिता । ब्राह्मणक्षत्रियविशां भैक्षचर्या यथाक्रमम् । । १.३० । । कृताग्निकार्यो भुञ्जीत वाग्यतो गुर्वनुज्ञया । आपोशानक्रियापूर्वं सत्कृत्यान्नमकुत्सयन् । । १.३१ । । ब्रह्मचर्ये स्थितो नैकमन्नमद्यादनापदि । ब्राह्मणः काममश्नीयाच्छ्राद्धे व्रतमपीडयन् । । १.३२ । । मधुमांसाञ्जनोच्छिष्ट शुक्तस्त्रीप्राणिहिंसनम् । भास्करालोकनाश्लील परिवादादि वर्जयेत् । । १.३३ । । स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति । उपनीय ददद्वेदमाचार्यः स उदाहृतः । । १.३४ । । एकदेशमुपाध्याय ऋत्विग्यज्ञकृदुच्यते । एते मान्या यथापूर्वमेभ्यो माता गरीयसी । । १.३५ । । प्रतिवेदं ब्रह्मचर्यं द्वादशाब्दानि पञ्च वा । ग्रहणान्तिकमित्येके केशान्तश्चैव षोडशे । । १.३६ । । आषोडशादाद्वाविंशाच्चतुर्विंशाच्च वत्सरात् । ब्रह्मक्षत्रविशां कालौपनायनिकः परः । । १.३७ । । अत ऊर्ध्वं पतन्त्येते सर्वधर्मबहिष्कृताः । सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते क्रतोः । । १.३८ । । मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् । ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजाः स्मृताः । । १.३९ । । यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् । वेद एव द्विजातीनां निःश्रेयसकरः परः । । १.४० । । मधुना पयसा चैव स देवांस्तर्पयेद्द्विजः । पितॄन्मधुघृताभ्यां च ऋचोऽधीते च योऽन्वहम् । । १.४१ । । यजूंषि शक्तितोऽधीते योऽन्वहं स घृतामृतैः । प्रीणाति देवानाज्येन मधुना च पितॄंस्तथा । । १.४२ । । स तु सोमघृतैर्देवांस्तर्पयेद्योऽन्वहं पठेत् । सामानि तृप्तिं कुर्याच्च पितॄणां मधुसर्पिषा । । १.४३ । । मेदसा तर्पयेद्देवानथर्वाङ्गिरसः पठन् । पितॄंश्च मधुसर्पिर्भ्यामन्वहं शक्तितो द्विजः । । १.४४ । । वाकोवाक्यं पुराणं च नाराशंसीश्च गाथिकाः । इतिहासांस्तथा विद्याः शक्त्याधीते हि योऽन्वहम् । । १.४५ । । मांसक्षीरौदनमधु तर्पणं स दिवौकसाम् । करोति तृप्तिं कुर्याच्च पितॄणां मधुसर्पिषा । । १.४६ । । ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः । यं यं क्रतुमधीते च तस्य तस्याप्नुयात्फलम् । । १.४७ । । त्रिर्वित्तपूर्णपृथिवी दानस्य फलमश्नुते । तपसश्च परस्येह नित्यं स्वाध्यायवान्द्विजः । । १.४८ । । नैष्ठिको ब्रह्मचारी तु वसेदाचार्यसंनिधौ । तदभावेऽस्य तनये पत्न्यां वैश्वानरेऽपि वा । । १.४९ । । अनेन विधिना देहं सादयन्विजितेन्द्रियः । ब्रह्मलोकमवाप्नोति न चेहाजायते पुनः । । १.५० । । ॥ विवाहप्रकरणम् ॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 15 Oct 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine