॥ वेदान्तसारः ॥
अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम् । आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥ १ ॥
अर्थतोऽप्यद्वयानन्दानतीतद्वैतभानतः । गुरूनाराध्य वेदान्तसारं वक्ष्ये यथामति ॥ २ ॥
वेदान्तो नामोपनिषत्प्रमाणं तदुपकारीणि शारीरकसूत्रादीनि च ॥ ३ ॥
अस्य वेदान्तप्रकरणत्वात् तदीयैः एव अनुबन्धैः तद्वत्तासिद्धेः न ते पृथगालोचनीयाः ॥ ४ ॥
तत्र अनुबन्धो नाम अधिकारिविषयसम्बन्धप्रयोजनानि ॥ ५ ॥
अधिकारी तु विधिवदधीतवेदवेदाङ्गत्वेनापाततोऽधिगताखिल- वेदार्थोऽस्मिन् जन्मनि जन्मान्तरे वा काम्यनिषिद्धवर्जनपुरःसरं नित्यनैमित्तिकप्रायश्चित्तोपासनानुष्ठानेन निर्गतनिखिलकल्मषतया नितान्तनिर्मलस्वान्तः साधनचतुष्टयसम्पन्नः प्रमाता ॥ ६ ॥
काम्यानि - स्वर्गादीष्टसाधनानि ज्योतिष्टोमादीनि ॥ ७ ॥
निषिद्धानि - नरकाद्यनिष्टसाधनानि ब्राह्मणहननादीनि ॥ ८ ॥
नित्यानि - अकरणे प्रत्यवायसाधनानि सन्ध्यावन्दनादीनि ॥ ९ ॥
नैमित्तिकानि - पुत्रजन्माद्यनुबन्धीनि जातेष्ट्यादीनि ॥ १० ॥
प्रायश्चित्तानि - पापक्षयसाधनानि चान्द्रायणादीनि ॥ ११ ॥
उपासनानि - सगुणब्रह्मविषयमानसव्यापाररूपाणि शाण्डिल्यविद्यादीनि ॥ १२ ॥
एतेषां नित्यादीनां बुद्धिशुद्धिः परं प्रयोजनमुपासनानां तु चित्तैकाग्र्यं ``तमेतमात्मानं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन” (बृ उ ४.४.२२] इत्यादि श्रुतेः ``तपसा कल्मषं हन्ति” (मनु १२ - १०४] इत्यादि स्मृतेश्च ॥ १३ ॥
नित्यनैमित्तिकयोः उपासनानां त्ववान्तरफलं पितृलोकसत्यलोकप्राप्तिः ``कर्मणा पितृलोकः विद्यया देवलोकः” (बृ उ १-५-१६] इत्यादिश्रुतेः ॥ १४ ॥
साधनानि - नित्यानित्यवस्तुविवेकेहामुत्रार्थफलभोगविराग- शमादिषट्कसम्पत्तिमुमुक्षुत्वानि ॥ १५ ॥
नित्यानित्यवस्तुविवेकस्तावद् ब्रह्मैव नित्यं वस्तु ततोऽन्यदखिलमनित्यमिति विवेचनम् ॥ १६ ॥
ऐहिकानां स्रक्चन्दनवनितादिविषयभोगानां कर्मजन्यतयानित्यत्ववदामुष्मिकाणामप्यमृतादि- विषयभोगानामनित्यतया तेभ्यो नितरां विरतिः - इहामुत्रार्थफलभोगविरागः ॥ १७ ॥
शमादयस्तु - शमदमोपरतितितिक्षासमाधानश्रद्धाख्याः ॥ १८ ॥
शमस्तावत् - श्रवणादिव्यतिरिक्तविषयेभ्यो मनसो निग्रहः ॥ १९ ॥
दमः - बाह्येन्द्रियाणां तद्व्यतिरिक्तविषयेभ्यो निवर्तनम् ॥ २० ॥
निवर्तितानामेतेषां तद्व्यतिरिक्तविषयेभ्य उपरमणमुपरतिरथवा विहितानां कर्मणां विधिना परित्यागः ॥ २१ ॥
तितिक्षा - शीतोष्णादिद्वन्द्वसहिष्णुता ॥ २२ ॥
निगृहीतस्य मनसः श्रवणादौ तदनुगुणविषये च समाधिः - समाधानम् ॥ २३ ॥
गुरूपदिष्टवेदान्तवाक्येषु विश्वासः - श्रद्धा ॥ २४ ॥
मुमुक्षुत्वम् - मोक्षेच्छा ॥ २५ ॥
एवम्भूतः प्रमाताधिकारी ``शान्तो दान्तः” (बृ उ ४.४.२३) इत्यादिश्रुतेः । उक्तञ्च - ``प्रशान्तचित्ताय जितेन्द्रियाय च प्रहीणदोषाय यथोक्तकारिणे । गुणान्वितायानुगताय सर्वदा प्रदेयमेतत् सततं मुमुक्षवे ॥ २६ ॥”
(उपदेशसाहस्री ३२४.१६.७२) विषयः - जीवब्रह्मैक्यं शुद्धचैतन्यं प्रमेयं तत्र एव वेदान्तानां तात्पर्यात् ॥ २७ ॥
सम्बन्धस्तु - तदैक्यप्रमेयस्य तत्प्रतिपादकोपनिषत्प्रमाणस्य च बोध्यबोधकभावः ॥ २८ ॥
प्रयोजनं तु - तदैक्यप्रमेयगताज्ञाननिवृत्तिः स्वस्वरूपानन्दावाप्तिश्च ``तरति शोकम् आत्मवित् (छामु ७.१.३) इत्यादिश्रुतेः” ब्रह्मविद् ब्रह्मैव भवति `` (मुण्ड उ ३.२.९) इत्यादिश्रुतेश्च ॥ २९ ॥
अयमधिकारी जननमरणादिसंसारानलसन्तप्तो दीप्तशिरा जलराशिमिवोपहारपाणिः श्रोत्रियं ब्रह्मनिष्ठं गुरुमुपसृत्य तमनुसरति ``तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्” (मुण्ड उ १.२.१२) इत्यादिश्रुतेः ॥ ३० ॥
स गुरुः परमकृपयाध्यारोपापवादन्यायेनैनमुपदिशति ``तस्मै स विद्वानुपसन्नया सम्यक् प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥” (मुण्ड उ १.२.१३) इत्यादिश्रुतेः ॥ ३१ ॥
२ असर्पभूतायां रज्जौ सर्पारोपवत् वस्तुनि अवस्त्वारोपः - अध्यारोपः ॥ ३२ ॥
वस्तु - सच्चिदानन्दमद्वयं ब्रह्म अज्ञानादिसकलजडसमूहोऽवस्तु ॥ ३३ ॥
अज्ञानं तु - सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मकं ज्ञानविरोधि भावरूपं यत्किञ्चिदिति वदन्त्यहमज्ञ इत्याद्यनुभवात् ``देवात्मशक्तिं स्वगुणैर्निगूढाम्” (श्वेत उ १.३) इत्यादिश्रुतेश्च ॥ ३४ ॥
इदमज्ञानं समष्टिव्यष्ट्यभिप्रायेणैकमनेकमिति च व्यवह्रियते ॥ ३५ ॥
तथाहि यथा वृक्षाणां समष्ट्यभिप्रायेण वनमित्येकत्वव्यपदेशो यथा वा जलानां समष्ट्यभिप्रायेण जलाशय इति तथा नानात्वेन प्रतिभासमानानां जीवगताज्ञानानां समष्ट्यभिप्रायेण तदेकत्वव्यपदेशः ``अजामेकां” (श्वे उ ४.५) इत्यादिश्रुतेः ॥ ३६ ॥
इयं समष्टिरुत्कृष्टोपाधितया विशुद्धसत्त्वप्रधाना ॥ ३७ ॥
एतदुपहितं चैतन्यं सर्वज्ञत्वसर्वेश्वरत्वसर्वनियन्तृत्वादिगुणकमव्यक्तमन्तर्यामी जगत्कारणमीश्वर इति च व्यपदिश्यते सकलाज्ञानावभासकत्वात् । ``यः सर्वज्ञः सर्ववित्” (मुण्ड उ १.१.९) इति श्रुतेः ॥ ३८ ॥
ईश्वरस्येयं समष्टिरखिलकारणत्वात्कारणशरीरमानन्दप्रचुरत्वा- त्कोशवदाच्छादकत्वाच्चानन्दमयकोशः सर्वोपरमत्वा- त्सुषुप्तिरत एव स्थूलसूक्ष्मप्रपञ्चलयस्थानमिति च उच्यते ॥ ३९ ॥
यथा वनस्य व्यष्ट्यभिप्रायेण वृक्षा इत्यनेकत्वव्यपदेशो यथा वा जलाशयस्य व्यष्ट्यभिप्रायेण जलानीति तथाज्ञानस्य व्यष्ट्यभिप्रायेण तदनेकत्वव्यपदेशः ``इन्द्रो मायाभिः पुरुरूप ईयते” (ऋग्वेद ६.४७.१८) इत्यादिश्रुतेः ॥ ४० ॥
अत्र व्यस्तसमस्तव्यापित्वेन व्यष्टिसमष्टिताव्यपदेशः ॥ ४१ ॥
इयं व्यष्टिर्निकृष्टोपाधितया मलिनसत्त्वप्रधाना ॥ ४२ ॥
एतदुपहितं चैतन्यमल्पज्ञत्वानीश्वरत्वादिगुणकं प्राज्ञ इत्युच्यत एकाज्ञानावभासकत्वात् ॥ ४३ ॥
अस्य प्राज्ञत्वमस्पष्टोपाधितयानतिप्रकाशकत्वात् ॥ ४४ ॥
अस्यापीयमहङ्कारादिकारणत्वात्कारणशरीरमानन्द- प्रचुरत्वात्कोशवदाच्छादकत्वाच्चानन्दमयकोशः सर्वोपरमत्वात्सुषुप्तिरत एव स्थूलसूक्ष्मशरीरप्रपञ्च- लयस्थानमिति च उच्यते ॥ ४५ ॥
तदानीमेतावीश्वरप्राज्ञौ चैतन्यप्रदीप्ताभिरतिसूक्ष्माभि- रज्ञानवृत्तिभिरानन्दमनुभवतः ``आनन्दभुक् चेतोमुखः प्राज्ञः” (माण्डू उ ५) इति श्रुतेः सुखमहमवाप्सं न किञ्चिदवेदिषमिथ्युत्थितस्यपरामर्शोपपत्तेश्च ॥ ४६ ॥
अनयोः समष्टिव्यष्ट्योर्वनवृक्षयोरिव जलाशयजलयोरिव वाभेदः ॥ ४७ ॥
एतदुपहितयोरीश्वरप्राज्ञयोरपि वनवृक्षावच्छिन्नाकाशयोरिव जलाशयजलगतप्रतिबिम्बाकाशयोरिव वाभेदः ``एष सर्वेश्वर (एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम्)” (माण्डू उ ६) इत्यादि श्रुतेः ॥ ४८ ॥
वनवृक्षतदवच्छिन्नाकाशयोर्जलाशयजलतद्गतप्रतिबिम्बाकाशयो- र्वाधारभूतानुपहिताकाशवदनयोरज्ञानतदुपहितचैतन्ययो- राधारभूतं यदनुपहितं चैतन्यं तत्तुरीयमित्युच्यते ``शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते (स आत्मा स विज्ञेयः)” (माण्डू उ ७) इत्यादिश्रुतेः ॥ ४९ ॥
इदमेव तुरीयं शुद्धचैतन्यमज्ञानादितदुपहितचैतन्याभ्यां तप्तायः पिण्डवदविविक्तं सन्महावाक्यस्य वाच्यं विविक्तं सल्लक्ष्यमिति चोच्यते ॥ ५० ॥
अस्याज्ञानस्यावरणविक्षेपनामकमस्ति शक्तिद्वयम् ॥ ५१ ॥
आवरणशक्तिस्तावदल्पोऽपि मेघोऽनेकयोजनायतमादित्य- मण्डलमवलोकयितृनयनपथपिधायकतया यथाच्छादयतीव तथाज्ञानं परिच्छिन्नमप्यात्मानमपरिच्छिन्नमसंसारिण- मवलोकयितृबुद्धिपिधायकतयाच्छादयतीव तादृशं सामर्थ्यम् । तदुक्तं - ``घनच्छन्नदृष्टिर्घनच्छन्नमर्कं यथा मन्यते निष्प्रभं चातिमूढः । तथा बद्धवद्भाति यो मूढदृष्टेः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥” इति (हस्तामलकम् १०) ॥ ५२ ॥
अनया आवृतस्यात्मनः कर्तृत्वभोक्तृत्वसुखित्वदुःखित्वादिसंसारसम्भावनापि भवति यथा स्वाज्ञानेनावृतायां रज्ज्वां सर्पत्वसम्भावना ॥ ५३ ॥
विक्षेपशक्तिस्तु यथा रज्ज्वज्ञानं स्वावृत रज्जौ स्वशक्त्या सर्पादिकमुद्भावयत्येवमज्ञानमपि स्वावृतात्मनि स्वशक्त्याऽऽकाशादिप्रपञ्चमुद्भावयति तादृशं सामर्थ्यम् । तदुक्तम् - ``विक्षेपशक्तिर्लिङ्गादि ब्रह्माण्डान्तं जगत् सृजेत्” इति । (वाक्यसुधा १३) ॥ ५४ ॥
शक्तिद्वयवदज्ञानोपहितं चैतन्यं स्वप्रधानतया निमित्तं स्वोपाधिप्रधानतयोपादानं च भवति ॥ ५५ ॥
यथा लूता तन्तुकार्यं प्रति स्वप्रधानतया निमित्तं स्वशरीरप्रधानतयोपादानञ्च भवति ॥ ५६ ॥
तमःप्रधानविक्षीपशक्तिमदज्ञानोपहितचैतन्यादाकाश आकाशाद्वायुर्वायोरग्निरग्नेरापोऽद्भ्यः पृथिवी चोत्पद्यते ``एतस्मादात्मन आकाशः सम्भूतः” (तै उ २.१.१) इत्यादिश्रुतेः ॥ ५७ ॥
तेषु जाड्याधिक्यदर्शनात्तमःप्राधान्यं तत्कारणस्य । तदानीं सत्त्वरजस्तमांसि कारणगुणप्रक्रमेण तेष्वाकाशादिषूत्पद्यन्ते ॥ ५८ ॥
एतान्येव सूक्ष्मभूतानि तन्मात्राण्यपञ्चीकृतानि चोच्यन्ते ॥ ५९ ॥
एतेभ्यः सूक्ष्मशरीराणि स्थूलभूतानि चोत्पद्यन्ते ॥ ६० ॥
सूक्ष्मशरीराणि सप्तदशावयवानि लिङ्गशरीराणि ॥ ६१ ॥
अवयवास्तु ज्ञानेन्द्रियपञ्चकं बुद्धिमनसी कर्मेन्द्रियपञ्चकं वायुपञ्चकं चेति ॥ ६२ ॥
ज्ञानेन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणाख्यानि ॥ ६३ ॥
एतान्याकाशादीनां सात्त्विकांशेभ्यो व्यस्तेभ्यः पृथक् पृथक् क्रमेणोत्पद्यन्ते ॥ ६४ ॥
बुद्धिर्नाम निश्चयात्मिकान्तःकरणवृत्तिः ॥ ६५ ॥
मनो नाम सङ्कल्पविकल्पात्मिकान्तःकरणवृत्तिः ॥ ६६ ॥
अनयोरेव चित्ताहङ्कारयोरन्तर्भावः ॥ ६७ ॥
अनुसन्धानात्मिकान्तःकरणवृत्तिः चित्तम् ॥ ६८ ॥
अभिमानात्मिकान्तःकरणवृत्तिः अहङ्कारः ॥ ६९ ॥
एते पुनराकाशादिगतसात्त्विकांशेभ्यो मिलितेभ्य उत्पद्यन्ते ॥ ७० ॥
एतेषां प्रकाशात्मकत्वात्सात्त्विकांशकार्यत्वम् ॥ ७१ ॥
इयं बुद्धिर्ज्ञानेन्द्रियैः सहिता विज्ञानमयकोशो भवति ॥ ७२ ॥
अयं कर्तृत्वभोक्तृत्वसुखित्वदुःखित्वाद्यभिमानत्वेनेहलोकपरलोकगामी व्यवहारिको जीव इत्युच्यते ॥ ७३ ॥
मनस्तु ज्ञानेन्द्रियैः सहितं सन्मनोमयकोशो भवति ॥ ७४ ॥