वेदान्तसारः
/ 4
←

Vedantasara English (IAST) PDF & Online Reader (vedāntasāraḥ)

Vedantasara (वेदान्तसारः) by सदानन्दः — English (IAST) Text & PDF Download

📜 Last Proofread: 10 Sep 2026
📥 Download English (IAST) PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 10 Sep 2026
📥 Download PDF ♡ Save
🌐 Language & Script English (IAST)
↔️ Text Alignment Center
॥ वेदान्तसारः ॥ अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम् । आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥ १ ॥ अर्थतोऽप्यद्वयानन्दानतीतद्वैतभानतः । गुरूनाराध्य वेदान्तसारं वक्ष्ये यथामति ॥ २ ॥ वेदान्तो नामोपनिषत्प्रमाणं तदुपकारीणि शारीरकसूत्रादीनि च ॥ ३ ॥ अस्य वेदान्तप्रकरणत्वात् तदीयैः एव अनुबन्धैः तद्वत्तासिद्धेः न ते पृथगालोचनीयाः ॥ ४ ॥ तत्र अनुबन्धो नाम अधिकारिविषयसम्बन्धप्रयोजनानि ॥ ५ ॥ अधिकारी तु विधिवदधीतवेदवेदाङ्गत्वेनापाततोऽधिगताखिल- वेदार्थोऽस्मिन् जन्मनि जन्मान्तरे वा काम्यनिषिद्धवर्जनपुरःसरं नित्यनैमित्तिकप्रायश्चित्तोपासनानुष्ठानेन निर्गतनिखिलकल्मषतया नितान्तनिर्मलस्वान्तः साधनचतुष्टयसम्पन्नः प्रमाता ॥ ६ ॥ काम्यानि - स्वर्गादीष्टसाधनानि ज्योतिष्टोमादीनि ॥ ७ ॥ निषिद्धानि - नरकाद्यनिष्टसाधनानि ब्राह्मणहननादीनि ॥ ८ ॥ नित्यानि - अकरणे प्रत्यवायसाधनानि सन्ध्यावन्दनादीनि ॥ ९ ॥ नैमित्तिकानि - पुत्रजन्माद्यनुबन्धीनि जातेष्ट्यादीनि ॥ १० ॥ प्रायश्चित्तानि - पापक्षयसाधनानि चान्द्रायणादीनि ॥ ११ ॥ उपासनानि - सगुणब्रह्मविषयमानसव्यापाररूपाणि शाण्डिल्यविद्यादीनि ॥ १२ ॥ एतेषां नित्यादीनां बुद्धिशुद्धिः परं प्रयोजनमुपासनानां तु चित्तैकाग्र्यं ``तमेतमात्मानं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन” (बृ उ ४.४.२२] इत्यादि श्रुतेः ``तपसा कल्मषं हन्ति” (मनु १२ - १०४] इत्यादि स्मृतेश्च ॥ १३ ॥ नित्यनैमित्तिकयोः उपासनानां त्ववान्तरफलं पितृलोकसत्यलोकप्राप्तिः ``कर्मणा पितृलोकः विद्यया देवलोकः” (बृ उ १-५-१६] इत्यादिश्रुतेः ॥ १४ ॥ साधनानि - नित्यानित्यवस्तुविवेकेहामुत्रार्थफलभोगविराग- शमादिषट्कसम्पत्तिमुमुक्षुत्वानि ॥ १५ ॥ नित्यानित्यवस्तुविवेकस्तावद् ब्रह्मैव नित्यं वस्तु ततोऽन्यदखिलमनित्यमिति विवेचनम् ॥ १६ ॥ ऐहिकानां स्रक्चन्दनवनितादिविषयभोगानां कर्मजन्यतयानित्यत्ववदामुष्मिकाणामप्यमृतादि- विषयभोगानामनित्यतया तेभ्यो नितरां विरतिः - इहामुत्रार्थफलभोगविरागः ॥ १७ ॥ शमादयस्तु - शमदमोपरतितितिक्षासमाधानश्रद्धाख्याः ॥ १८ ॥ शमस्तावत् - श्रवणादिव्यतिरिक्तविषयेभ्यो मनसो निग्रहः ॥ १९ ॥ दमः - बाह्येन्द्रियाणां तद्व्यतिरिक्तविषयेभ्यो निवर्तनम् ॥ २० ॥ निवर्तितानामेतेषां तद्व्यतिरिक्तविषयेभ्य उपरमणमुपरतिरथवा विहितानां कर्मणां विधिना परित्यागः ॥ २१ ॥ तितिक्षा - शीतोष्णादिद्वन्द्वसहिष्णुता ॥ २२ ॥ निगृहीतस्य मनसः श्रवणादौ तदनुगुणविषये च समाधिः - समाधानम् ॥ २३ ॥ गुरूपदिष्टवेदान्तवाक्येषु विश्वासः - श्रद्धा ॥ २४ ॥ मुमुक्षुत्वम् - मोक्षेच्छा ॥ २५ ॥ एवम्भूतः प्रमाताधिकारी ``शान्तो दान्तः” (बृ उ ४.४.२३) इत्यादिश्रुतेः । उक्तञ्च - ``प्रशान्तचित्ताय जितेन्द्रियाय च प्रहीणदोषाय यथोक्तकारिणे । गुणान्वितायानुगताय सर्वदा प्रदेयमेतत् सततं मुमुक्षवे ॥ २६ ॥” (उपदेशसाहस्री ३२४.१६.७२) विषयः - जीवब्रह्मैक्यं शुद्धचैतन्यं प्रमेयं तत्र एव वेदान्तानां तात्पर्यात् ॥ २७ ॥ सम्बन्धस्तु - तदैक्यप्रमेयस्य तत्प्रतिपादकोपनिषत्प्रमाणस्य च बोध्यबोधकभावः ॥ २८ ॥ प्रयोजनं तु - तदैक्यप्रमेयगताज्ञाननिवृत्तिः स्वस्वरूपानन्दावाप्तिश्च ``तरति शोकम् आत्मवित् (छामु ७.१.३) इत्यादिश्रुतेः” ब्रह्मविद् ब्रह्मैव भवति `` (मुण्ड उ ३.२.९) इत्यादिश्रुतेश्च ॥ २९ ॥ अयमधिकारी जननमरणादिसंसारानलसन्तप्तो दीप्तशिरा जलराशिमिवोपहारपाणिः श्रोत्रियं ब्रह्मनिष्ठं गुरुमुपसृत्य तमनुसरति ``तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्” (मुण्ड उ १.२.१२) इत्यादिश्रुतेः ॥ ३० ॥ स गुरुः परमकृपयाध्यारोपापवादन्यायेनैनमुपदिशति ``तस्मै स विद्वानुपसन्नया सम्यक् प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥” (मुण्ड उ १.२.१३) इत्यादिश्रुतेः ॥ ३१ ॥ २ असर्पभूतायां रज्जौ सर्पारोपवत् वस्तुनि अवस्त्वारोपः - अध्यारोपः ॥ ३२ ॥ वस्तु - सच्चिदानन्दमद्वयं ब्रह्म अज्ञानादिसकलजडसमूहोऽवस्तु ॥ ३३ ॥ अज्ञानं तु - सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मकं ज्ञानविरोधि भावरूपं यत्किञ्चिदिति वदन्त्यहमज्ञ इत्याद्यनुभवात् ``देवात्मशक्तिं स्वगुणैर्निगूढाम्” (श्वेत उ १.३) इत्यादिश्रुतेश्च ॥ ३४ ॥ इदमज्ञानं समष्टिव्यष्ट्यभिप्रायेणैकमनेकमिति च व्यवह्रियते ॥ ३५ ॥ तथाहि यथा वृक्षाणां समष्ट्यभिप्रायेण वनमित्येकत्वव्यपदेशो यथा वा जलानां समष्ट्यभिप्रायेण जलाशय इति तथा नानात्वेन प्रतिभासमानानां जीवगताज्ञानानां समष्ट्यभिप्रायेण तदेकत्वव्यपदेशः ``अजामेकां” (श्वे उ ४.५) इत्यादिश्रुतेः ॥ ३६ ॥ इयं समष्टिरुत्कृष्टोपाधितया विशुद्धसत्त्वप्रधाना ॥ ३७ ॥ एतदुपहितं चैतन्यं सर्वज्ञत्वसर्वेश्वरत्वसर्वनियन्तृत्वादिगुणकमव्यक्तमन्तर्यामी जगत्कारणमीश्वर इति च व्यपदिश्यते सकलाज्ञानावभासकत्वात् । ``यः सर्वज्ञः सर्ववित्” (मुण्ड उ १.१.९) इति श्रुतेः ॥ ३८ ॥ ईश्वरस्येयं समष्टिरखिलकारणत्वात्कारणशरीरमानन्दप्रचुरत्वा- त्कोशवदाच्छादकत्वाच्चानन्दमयकोशः सर्वोपरमत्वा- त्सुषुप्तिरत एव स्थूलसूक्ष्मप्रपञ्चलयस्थानमिति च उच्यते ॥ ३९ ॥ यथा वनस्य व्यष्ट्यभिप्रायेण वृक्षा इत्यनेकत्वव्यपदेशो यथा वा जलाशयस्य व्यष्ट्यभिप्रायेण जलानीति तथाज्ञानस्य व्यष्ट्यभिप्रायेण तदनेकत्वव्यपदेशः ``इन्द्रो मायाभिः पुरुरूप ईयते” (ऋग्वेद ६.४७.१८) इत्यादिश्रुतेः ॥ ४० ॥ अत्र व्यस्तसमस्तव्यापित्वेन व्यष्टिसमष्टिताव्यपदेशः ॥ ४१ ॥ इयं व्यष्टिर्निकृष्टोपाधितया मलिनसत्त्वप्रधाना ॥ ४२ ॥ एतदुपहितं चैतन्यमल्पज्ञत्वानीश्वरत्वादिगुणकं प्राज्ञ इत्युच्यत एकाज्ञानावभासकत्वात् ॥ ४३ ॥ अस्य प्राज्ञत्वमस्पष्टोपाधितयानतिप्रकाशकत्वात् ॥ ४४ ॥ अस्यापीयमहङ्कारादिकारणत्वात्कारणशरीरमानन्द- प्रचुरत्वात्कोशवदाच्छादकत्वाच्चानन्दमयकोशः सर्वोपरमत्वात्सुषुप्तिरत एव स्थूलसूक्ष्मशरीरप्रपञ्च- लयस्थानमिति च उच्यते ॥ ४५ ॥ तदानीमेतावीश्वरप्राज्ञौ चैतन्यप्रदीप्ताभिरतिसूक्ष्माभि- रज्ञानवृत्तिभिरानन्दमनुभवतः ``आनन्दभुक् चेतोमुखः प्राज्ञः” (माण्डू उ ५) इति श्रुतेः सुखमहमवाप्सं न किञ्चिदवेदिषमिथ्युत्थितस्यपरामर्शोपपत्तेश्च ॥ ४६ ॥ अनयोः समष्टिव्यष्ट्योर्वनवृक्षयोरिव जलाशयजलयोरिव वाभेदः ॥ ४७ ॥ एतदुपहितयोरीश्वरप्राज्ञयोरपि वनवृक्षावच्छिन्नाकाशयोरिव जलाशयजलगतप्रतिबिम्बाकाशयोरिव वाभेदः ``एष सर्वेश्वर (एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम्)” (माण्डू उ ६) इत्यादि श्रुतेः ॥ ४८ ॥ वनवृक्षतदवच्छिन्नाकाशयोर्जलाशयजलतद्गतप्रतिबिम्बाकाशयो- र्वाधारभूतानुपहिताकाशवदनयोरज्ञानतदुपहितचैतन्ययो- राधारभूतं यदनुपहितं चैतन्यं तत्तुरीयमित्युच्यते ``शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते (स आत्मा स विज्ञेयः)” (माण्डू उ ७) इत्यादिश्रुतेः ॥ ४९ ॥ इदमेव तुरीयं शुद्धचैतन्यमज्ञानादितदुपहितचैतन्याभ्यां तप्तायः पिण्डवदविविक्तं सन्महावाक्यस्य वाच्यं विविक्तं सल्लक्ष्यमिति चोच्यते ॥ ५० ॥ अस्याज्ञानस्यावरणविक्षेपनामकमस्ति शक्तिद्वयम् ॥ ५१ ॥ आवरणशक्तिस्तावदल्पोऽपि मेघोऽनेकयोजनायतमादित्य- मण्डलमवलोकयितृनयनपथपिधायकतया यथाच्छादयतीव तथाज्ञानं परिच्छिन्नमप्यात्मानमपरिच्छिन्नमसंसारिण- मवलोकयितृबुद्धिपिधायकतयाच्छादयतीव तादृशं सामर्थ्यम् । तदुक्तं - ``घनच्छन्नदृष्टिर्घनच्छन्नमर्कं यथा मन्यते निष्प्रभं चातिमूढः । तथा बद्धवद्भाति यो मूढदृष्टेः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥” इति (हस्तामलकम् १०) ॥ ५२ ॥ अनया आवृतस्यात्मनः कर्तृत्वभोक्तृत्वसुखित्वदुःखित्वादिसंसारसम्भावनापि भवति यथा स्वाज्ञानेनावृतायां रज्ज्वां सर्पत्वसम्भावना ॥ ५३ ॥ विक्षेपशक्तिस्तु यथा रज्ज्वज्ञानं स्वावृत रज्जौ स्वशक्त्या सर्पादिकमुद्भावयत्येवमज्ञानमपि स्वावृतात्मनि स्वशक्त्याऽऽकाशादिप्रपञ्चमुद्भावयति तादृशं सामर्थ्यम् । तदुक्तम् - ``विक्षेपशक्तिर्लिङ्गादि ब्रह्माण्डान्तं जगत् सृजेत्” इति । (वाक्यसुधा १३) ॥ ५४ ॥ शक्तिद्वयवदज्ञानोपहितं चैतन्यं स्वप्रधानतया निमित्तं स्वोपाधिप्रधानतयोपादानं च भवति ॥ ५५ ॥ यथा लूता तन्तुकार्यं प्रति स्वप्रधानतया निमित्तं स्वशरीरप्रधानतयोपादानञ्च भवति ॥ ५६ ॥ तमःप्रधानविक्षीपशक्तिमदज्ञानोपहितचैतन्यादाकाश आकाशाद्वायुर्वायोरग्निरग्नेरापोऽद्भ्यः पृथिवी चोत्पद्यते ``एतस्मादात्मन आकाशः सम्भूतः” (तै उ २.१.१) इत्यादिश्रुतेः ॥ ५७ ॥ तेषु जाड्याधिक्यदर्शनात्तमःप्राधान्यं तत्कारणस्य । तदानीं सत्त्वरजस्तमांसि कारणगुणप्रक्रमेण तेष्वाकाशादिषूत्पद्यन्ते ॥ ५८ ॥ एतान्येव सूक्ष्मभूतानि तन्मात्राण्यपञ्चीकृतानि चोच्यन्ते ॥ ५९ ॥ एतेभ्यः सूक्ष्मशरीराणि स्थूलभूतानि चोत्पद्यन्ते ॥ ६० ॥ सूक्ष्मशरीराणि सप्तदशावयवानि लिङ्गशरीराणि ॥ ६१ ॥ अवयवास्तु ज्ञानेन्द्रियपञ्चकं बुद्धिमनसी कर्मेन्द्रियपञ्चकं वायुपञ्चकं चेति ॥ ६२ ॥ ज्ञानेन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणाख्यानि ॥ ६३ ॥ एतान्याकाशादीनां सात्त्विकांशेभ्यो व्यस्तेभ्यः पृथक् पृथक् क्रमेणोत्पद्यन्ते ॥ ६४ ॥ बुद्धिर्नाम निश्चयात्मिकान्तःकरणवृत्तिः ॥ ६५ ॥ मनो नाम सङ्कल्पविकल्पात्मिकान्तःकरणवृत्तिः ॥ ६६ ॥ अनयोरेव चित्ताहङ्कारयोरन्तर्भावः ॥ ६७ ॥ अनुसन्धानात्मिकान्तःकरणवृत्तिः चित्तम् ॥ ६८ ॥ अभिमानात्मिकान्तःकरणवृत्तिः अहङ्कारः ॥ ६९ ॥ एते पुनराकाशादिगतसात्त्विकांशेभ्यो मिलितेभ्य उत्पद्यन्ते ॥ ७० ॥ एतेषां प्रकाशात्मकत्वात्सात्त्विकांशकार्यत्वम् ॥ ७१ ॥ इयं बुद्धिर्ज्ञानेन्द्रियैः सहिता विज्ञानमयकोशो भवति ॥ ७२ ॥ अयं कर्तृत्वभोक्तृत्वसुखित्वदुःखित्वाद्यभिमानत्वेनेहलोकपरलोकगामी व्यवहारिको जीव इत्युच्यते ॥ ७३ ॥ मनस्तु ज्ञानेन्द्रियैः सहितं सन्मनोमयकोशो भवति ॥ ७४ ॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 10 Sep 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine