वैशेषिकसूत्राणि
/ 3
←

Vaisheshikasutrani Tamil PDF & Online Reader (வைஶேஷிகஸூத்ராணி)

Vaisheshikasutrani (वैशेषिकसूत्राणि) by कणादः — Tamil Text & PDF Download

📜 Last Proofread: 04 Sep 2026
📥 Download Tamil PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 04 Sep 2026
📥 Download PDF ♡ Save
🌐 Language & Script தமிழ்
↔️ Text Alignment Center
॥ वैशेषिकसूत्राणि ॥ ॥ महर्षिकणादप्रणीतानि ॥ अथातो धर्मं व्याख्यास्यामः । वैशेषिक-१,१.१ । यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः । वैशेषिक-१,१.२ । तद्वचनादाम्नायस्य प्रामाण्यम् । वैशेषिक-१,१.३ । धर्मविशेष प्रसूतात् द्रव्यगुणकर्मसामान्य विशेषसमवायानां पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानान्निःश्रेयसम् । वैशेषिक-१,१.४ । पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि । वैशेषिक-१,१.५ । रूपरसगन्धस्पर्शाः सङ्ख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वाऽपरत्वे बुद्धयः सुखदुःख इच्छाद्वेषौ प्रयत्नाश्च गुणाः । वैशेषिक-१,१.६ । उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणि । वैशेषिक-१,१.७ । सदनित्यं द्रव्यवत् कार्यं कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेषः । वैशेषिक-१,१.८ । द्रव्यगुणयोः सजातीयारम्भकत्वं साधर्म्यम् । वैशेषिक-१,१.९ । द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम् । वैशेषिक-१,१.१० । कर्म कर्मसाध्यं न विद्यते । वैशेषिक-१,१.११ । न द्रव्यं कार्यं कारणं च वधति । वैशेषिक-१,१.१२ । उभयथा गुणाः । वैशेषिक-१,१.१३ । कार्यविरोधि कर्म । वैशेषिक-१,१.१४ । क्रियागुणवत् समवायिकारणमिति द्रव्यलक्षणम् । वैशेषिक-१,१.१५ । द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम् । वैशेषिक-१,१.१६ । एकद्रव्यमगुणं संयोगविभागेष्वनपेक्ष कारणमिति कर्मलक्षणम् । वैशेषिक-१,१.१७ । द्रव्यगुणकर्मणां द्रव्यं कारणं सामान्यम् । वैशेषिक-१,१.१८ । तथा गुणः । वैशेषिक-१,१.१९ । संयोगविभागवेगानां कर्म समानम् । वैशेषिक-१,१.२० । न द्रव्याणां कर्म । वैशेषिक-१,१.२१ । व्यतिरेकात् । वैशेषिक-१,१.२२ । द्रव्याणां द्रव्यं कार्यं सामान्यम् । वैशेषिक-१,१.२३ । गुणवैधर्म्यान्न कर्मणां कर्म । वैशेषिक-१,१.२४ । द्वित्वप्रभृतयः सङ्ख्याः पृथक्त्व संयोग विभागाश्च । वैशेषिक-१,१.२५ । असमवायात् सामान्यकार्यं कर्म न विद्यते । वैशेषिक-१,१.२६ । संयोगानां द्रव्यम् । वैशेषिक-१,१.२७ । रूपाणां रूपम् । वैशेषिक-१,१.२८ । गुरुत्वप्रयत्नसंयोगानामुत्क्षेपणम् । वैशेषिक-१,१.२९ । संयोगविभागाश्च कर्मणाम् । वैशेषिक-१,१.३० । कारणसामान्ये द्रव्यकर्मणां कर्माकारणमुक्तम् । वैशेषिक-१,१.३१ । कारणाभावात् कार्याभावः । वैशेषिक-१,२.१ । न तु कार्याभावात् कारणाभावः । वैशेषिक-१,२.२ । सामान्यं विशेष इति बुद्ध्यपेक्षम् । वैशेषिक-१,२.३ । भावोऽनुवृत्तेरेव हेतुत्वात् सामान्यमेव । वैशेषिक-१,२.४ । द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाश्च । वैशेषिक-१,२.५ । अन्यत्रान्त्येभ्यो विशेषेभ्यः । वैशेषिक-१,२.६ । सदिति यतो द्रव्यगुणकर्मसु सा सत्ता । वैशेषिक-१,२.७ । द्रव्यगुणकर्मभ्योर्थान्तरं सत्ता । वैशेषिक-१,२.८ । गुणकर्मसु च भावान्न कर्म न गुणः । वैशेषिक-१,२.९ । सामान्यविशेषाभावेन च । वैशेषिक-१,२.१० । अनेकद्रव्यवत्त्वेन द्रव्यत्वमुक्तम् । वैशेषिक-१,२.११ । सामान्यविशेषाभावेन च । वैशेषिक-१,२.१२ । तथा गुणेषु भावाद्गुणत्वमुक्तम् । वैशेषिक-१,२.१३ । सामान्यविशेषाभावेन च । वैशेषिक-१,२.१४ । कर्मसु भावात्कर्मत्वमुक्तम् । वैशेषिक-१,२.१५ । सामान्यविशेषाभावेन च । वैशेषिक-१,२.१६ । सदिति लिङ्गाविशेषात् विशेषलिङ्गाभावाच्चैको भावः । वैशेषिक-१,२.१७ । रूपरसगन्धस्पर्शवती पृथिवी । वैशेषिक-२,१.१ । रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाः । वैशेषिक-२,१.२ । तेजो रूपस्पर्शवत् । वैशेषिक-२,१.३ । स्पर्शवान् वायुः । वैशेषिक-२,१.४ । त आकाशे न विद्यन्ते । वैशेषिक-२,१.५ । सर्पिर्जतुमधूच्छिष्टानामग्निसंयोगाद्द्रवत्वमद्भिः सामान्यम् । वैशेषिक-२,१.६ । त्रपुसीस लोह रजत सुवर्णानामग्निसंयोगाद्द्रवत्वमद्भिः सामान्यम् । वैशेषिक-२,१.७ । विषाणी ककुद्मान् प्रान्तेवालधिः सास्नावान् इति गोत्वे दृष्टं लिङ्गम् । वैशेषिक-२,१.८ । स्पर्शश्च वायोः । वैशेषिक-२,१.९ । न च दृष्टानां स्पर्श इत्यदृष्टलिङ्गो वायुः । वैशेषिक-२,१.१० । अद्रव्यवत्त्वेन द्रव्यम् । वैशेषिक-२,१.११ । क्रियावत्त्वात् गुणवत्त्वाच्च । वैशेषिक-२,१.१२ । अद्रव्यत्वेन नित्यत्वमुक्तम् । वैशेषिक-२,१.१३ । वायोर्वायुसंमूर्छनं नानात्वलिङ्गम् । वैशेषिक-२,१.१४ । वायुसन्निकर्षे प्रत्यक्षाभावात् दृष्टं लिङ्गं न विद्यते । वैशेषिक-२,१.१५ । सामान्यतो दृष्टाच्चाविशेषः । वैशेषिक-२,१.१६ । तस्मादागमिकम् । वैशेषिक-२,१.१७ । सञ्ज्ञाकर्म त्वस्मद्विशिष्टानां लिङ्गम् । वैशेषिक-२,१.१८ । प्रत्यक्षप्रवृत्तत्वात् सञ्ज्ञाकर्मणः । वैशेषिक-२,१.१९ । निष्क्रमणं प्रवेशनमित्याकाशस्य लिङ्गम् । वैशेषिक-२,१.२० । तदलिङ्गमेकद्रव्यत्वात् कर्मणः । वैशेषिक-२,१.२१ । कारणान्तरानुकिप्ति वैधर्म्याच्च । वैशेषिक-२,१.२२ । संयोगादभावः कर्मणः । वैशेषिक-२,१.२३ । कारणगुणपूर्वकः कार्यगुणो दृष्टः । वैशेषिक-२,१.२४ । कार्यान्तराप्रादुर्भावाच्च शब्दः स्पर्शवतामगुणः । वैशेषिक-२,१.२५ । परत्र समवायात् प्रत्यक्षत्वाच्च नात्मगुणो न मनोगुणः । वैशेषिक-२,१.२६ । परिशेषाल्लिङ्गमाकाशस्य । वैशेषिक-२,१.२७ । द्रव्यत्वनित्यत्वे वायुना व्याख्याते । वैशेषिक-२,१.२८ । तत्त्वम्भावेन । वैशेषिक-२,१.२९ । शब्दालिङ्गाविशेषाद्विशेषलिङ्गाभावाच्च । वैशेषिक-२,१.३० । तदनुविधानादेकपृथक्त्वञ्चेति । वैशेषिक-२,१.३१ । पुष्पवस्त्रयोः सति सन्निकर्षे गुणान्तराप्रादुर्भावो वस्त्रे गन्धाभावलिङ्गम् । वैशेषिक-२,२.१ । व्यवस्थितः पृथिव्यां गन्धः । वैशेषिक-२,२.२ । एतेनोष्णता व्याख्याता । वैशेषिक-२,२.३ । तेजस उष्णता । वैशेषिक-२,२.४ । अप्सु शीतता । वैशेषिक-२,२.५ । अपरस्मिन्नपरं युगपत् चिरं क्षिप्रमिति काललिङ्गानि । वैशेषिक-२,२.६ । द्रव्यत्व नित्यत्वे वायुना व्याख्याते । वैशेषिक-२,२.७ । तत्त्वम्भावेन । वैशेषिक-२,२.८ । नित्येष्वभावादनित्येषु भावात् कारणे कालाख्येति । वैशेषिक-२,२.९ । इत इदमिति यतस्तद्दिश्यं लिङ्गम् । वैशेषिक-२,२.१० । द्रव्यत्व नित्यत्वे वायुना व्याख्याते । वैशेषिक-२,२.११ । तत्त्वम्भावेन । वैशेषिक-२,२.१२ । कार्यविशेषेण नानात्वम् । वैशेषिक-२,२.१३ । आदित्यसंयोगात् भूतपूर्वात् भविष्यतो भूताच्च प्राची । वैशेषिक-२,२.१४ । तथा दक्षिणा प्रतीची उदीची च । वैशेषिक-२,२.१५ । एतेन दिगन्तरालानि व्याख्यातानि । वैशेषिक-२,२.१६ । सामान्यप्रत्यक्षाद्विशेषस्मृतेश्च संशयः । वैशेषिक-२,२.१७ । दृष्टञ्च दृष्टवत् । वैशेषिक-२,२.१८ । यथादृष्टमयथादृष्टत्वाच्च । वैशेषिक-२,२.१९ । विद्याविद्यातश्च संशयः । वैशेषिक-२,२.२० । श्रोत्रग्रहणो योर्थः स शब्दः । वैशेषिक-२,२.२१ । तुल्यजातीयेष्वर्थान्तरभूतेषु विशेषस्य उभयथा दृष्टत्वात् । वैशेषिक-२,२.२२ । एकद्रव्यत्वान्न द्रव्यम् । वैशेषिक-२,२.२३ । नापि कर्माचाक्षुषत्वात् । वैशेषिक-२,२.२४ । गुणस्य सतोऽपवर्गः कर्मभिः साधर्म्यम् । वैशेषिक-२,२.२५ । सतो लिङ्गाभावात् । वैशेषिक-२,२.२६ । नित्यवैधर्म्यात् । वैशेषिक-२,२.२७ । अनित्यश्चायं कारणतः । वैशेषिक-२,२.२८ । ज चासिद्धं विकारात् । वैशेषिक-२,२.२९ । अभिव्यक्तौ दोषात् । वैशेषिक-२,२.३० । संयोगाद्विभागाच्च शब्दाच्च शब्दनिष्पत्तिः । वैशेषिक-२,२.३१ । लिङ्गाच्चानित्यः शब्दः । वैशेषिक-२,२.३२ । द्वयोस्तु प्रवृत्त्योरभावात् । वैशेषिक-२,२.३३ । प्रथमाशब्दात् । वैशेषिक-२,२.३४ । सम्प्रतिपत्तिभावाच्च । वैशेषिक-२,२.३५ । सन्दिग्धाः सति बहुत्वे । वैशेषिक-२,२.३६ । सङ्ख्याभावः सामान्यतः । वैशेषिक-२,२.३७ । प्रसिद्धा इन्द्रियार्थाः । वैशेषिक-३,१.१ । इन्द्रियार्थाप्रसिद्धिरिन्द्रियार्थेभ्योर्थान्तरस्य हेतुः । वैशेषिक-३,१.२ । सोऽनपदेशः । वैशेषिक-३,१.३ । कारणाज्ञानात् । वैशेषिक-३,१.४ । कार्येषु ज्ञानात् । वैशेषिक-३,१.५ । अज्ञानाच्च । वैशेषिक-३,१.६ । अन्यदेव हेतुरित्यनपदेशः । वैशेषिक-३,१.७ । अर्थान्तरं ह्यर्थान्तरस्यानपदेशः । वैशेषिक-३,१.८ । संयोगि समवाय्येकार्थसमवायि विरोधि च । वैशेषिक-३,१.९ । कार्यं कार्यान्तरस्य । वैशेषिक-३,१.१० । विरोध्यभूतं भूतस्य । वैशेषिक-३,१.११ । भूतमभूतस्य । वैशेषिक-३,१.१२ । भूतो भूतस्य । वैशेषिक-३,१.१३ । प्रसिद्धिपूर्वकत्वादपदेशस्य । वैशेषिक-३,१.१४ । अप्रसिद्धोऽनपदेशोऽसन् सन्दिग्धश्चानपदेशः । वैशेषिक-३,१.१५ । यस्माद्विषाणी तस्मादश्वः । वैशेषिक-३,१.१६ । यस्माद्विषाणी तस्माद्गौरितिचानैकान्तिकस्योदाहरणम् । वैशेषिक-३,१.१७ । आत्मेन्द्रियार्थसन्निकर्षाद्यन्निष्पद्यते तदन्यत् । वैशेषिक-३,१.१८ । प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम् । वैशेषिक-३,१.१९ । आत्मेन्द्रियार्थसन्निकर्षज्ञानस्य भावोऽभावश्च मनसो लिङ्गम् । वैशेषिक-३,२.१ । तस्य द्रव्यत्व नित्यत्वे वायुना व्याख्याते । वैशेषिक-३,२.२ । प्रयत्नायौगपद्याज्ज्ञानायौगपद्याच्चैकम् । वैशेषिक-३,२.३ । प्राणाऽपाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तर विकाराः सुखदुःखेच्छाद्वेष प्रयत्नाश्चात्मनो लिङ्गानि । वैशेषिक-३,२.४ । तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते । वैशेषिक-३,२.५ । यज्ञदत्त इति सन्निकर्षे प्रत्यक्षाभावात् दृष्टं लिङ्गं न विद्यते । वैशेषिक-३,२.६ । सामान्यतो दृष्टाच्चाविशेषः । वैशेषिक-३,२.७ । तस्मादागमिकः । वैशेषिक-३,२.८ । अहमिति शब्दस्य व्यतिरेकान्नागमिकम् । वैशेषिक-३,२.९ । यदि दृष्टमन्वक्षमहं देवदत्तोऽहं यज्ञदत्त इति । वैशेषिक-३,२.१० । दृष्ट्यात्मनि लिङ्गे एक एव दृढत्वात् प्रत्यक्षवत् प्रत्ययः । वैशेषिक-३,२.११ । देवदत्तो गच्छति यज्ञदत्तो गच्छतीत्युपचाराच्छरीरे प्रत्ययः । वैशेषिक-३,२.१२ । सन्दिग्धास्तूपचाराः । वैशेषिक-३,२.१३ । अहमिति प्रत्यगात्मनि भावात् परत्राभावादर्थान्तर प्रत्यक्षः । वैशेषिक-३,२.१४ । देवदत्तो गच्छतीत्युपचारादभिमानात्तावच्छरीरप्रत्यक्षोऽहङ्कारः । वैशेषिक-३,२.१५ ।
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 04 Sep 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine