॥ वैशेषिकसूत्राणि ॥ ॥ महर्षिकणादप्रणीतानि ॥
अथातो धर्मं व्याख्यास्यामः । वैशेषिक-१,१.१ । यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः । वैशेषिक-१,१.२ । तद्वचनादाम्नायस्य प्रामाण्यम् । वैशेषिक-१,१.३ । धर्मविशेष प्रसूतात् द्रव्यगुणकर्मसामान्य विशेषसमवायानां पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानान्निःश्रेयसम् । वैशेषिक-१,१.४ । पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि । वैशेषिक-१,१.५ । रूपरसगन्धस्पर्शाः सङ्ख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वाऽपरत्वे बुद्धयः सुखदुःख इच्छाद्वेषौ प्रयत्नाश्च गुणाः । वैशेषिक-१,१.६ । उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणि । वैशेषिक-१,१.७ । सदनित्यं द्रव्यवत् कार्यं कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेषः । वैशेषिक-१,१.८ । द्रव्यगुणयोः सजातीयारम्भकत्वं साधर्म्यम् । वैशेषिक-१,१.९ । द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम् । वैशेषिक-१,१.१० । कर्म कर्मसाध्यं न विद्यते । वैशेषिक-१,१.११ । न द्रव्यं कार्यं कारणं च वधति । वैशेषिक-१,१.१२ । उभयथा गुणाः । वैशेषिक-१,१.१३ । कार्यविरोधि कर्म । वैशेषिक-१,१.१४ । क्रियागुणवत् समवायिकारणमिति द्रव्यलक्षणम् । वैशेषिक-१,१.१५ । द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम् । वैशेषिक-१,१.१६ । एकद्रव्यमगुणं संयोगविभागेष्वनपेक्ष कारणमिति कर्मलक्षणम् । वैशेषिक-१,१.१७ । द्रव्यगुणकर्मणां द्रव्यं कारणं सामान्यम् । वैशेषिक-१,१.१८ । तथा गुणः । वैशेषिक-१,१.१९ । संयोगविभागवेगानां कर्म समानम् । वैशेषिक-१,१.२० । न द्रव्याणां कर्म । वैशेषिक-१,१.२१ । व्यतिरेकात् । वैशेषिक-१,१.२२ । द्रव्याणां द्रव्यं कार्यं सामान्यम् । वैशेषिक-१,१.२३ । गुणवैधर्म्यान्न कर्मणां कर्म । वैशेषिक-१,१.२४ । द्वित्वप्रभृतयः सङ्ख्याः पृथक्त्व संयोग विभागाश्च । वैशेषिक-१,१.२५ । असमवायात् सामान्यकार्यं कर्म न विद्यते । वैशेषिक-१,१.२६ । संयोगानां द्रव्यम् । वैशेषिक-१,१.२७ । रूपाणां रूपम् । वैशेषिक-१,१.२८ । गुरुत्वप्रयत्नसंयोगानामुत्क्षेपणम् । वैशेषिक-१,१.२९ । संयोगविभागाश्च कर्मणाम् । वैशेषिक-१,१.३० । कारणसामान्ये द्रव्यकर्मणां कर्माकारणमुक्तम् । वैशेषिक-१,१.३१ । कारणाभावात् कार्याभावः । वैशेषिक-१,२.१ । न तु कार्याभावात् कारणाभावः । वैशेषिक-१,२.२ । सामान्यं विशेष इति बुद्ध्यपेक्षम् । वैशेषिक-१,२.३ । भावोऽनुवृत्तेरेव हेतुत्वात् सामान्यमेव । वैशेषिक-१,२.४ । द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाश्च । वैशेषिक-१,२.५ । अन्यत्रान्त्येभ्यो विशेषेभ्यः । वैशेषिक-१,२.६ । सदिति यतो द्रव्यगुणकर्मसु सा सत्ता । वैशेषिक-१,२.७ । द्रव्यगुणकर्मभ्योर्थान्तरं सत्ता । वैशेषिक-१,२.८ । गुणकर्मसु च भावान्न कर्म न गुणः । वैशेषिक-१,२.९ । सामान्यविशेषाभावेन च । वैशेषिक-१,२.१० । अनेकद्रव्यवत्त्वेन द्रव्यत्वमुक्तम् । वैशेषिक-१,२.११ । सामान्यविशेषाभावेन च । वैशेषिक-१,२.१२ । तथा गुणेषु भावाद्गुणत्वमुक्तम् । वैशेषिक-१,२.१३ । सामान्यविशेषाभावेन च । वैशेषिक-१,२.१४ । कर्मसु भावात्कर्मत्वमुक्तम् । वैशेषिक-१,२.१५ । सामान्यविशेषाभावेन च । वैशेषिक-१,२.१६ । सदिति लिङ्गाविशेषात् विशेषलिङ्गाभावाच्चैको भावः । वैशेषिक-१,२.१७ । रूपरसगन्धस्पर्शवती पृथिवी । वैशेषिक-२,१.१ । रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाः । वैशेषिक-२,१.२ । तेजो रूपस्पर्शवत् । वैशेषिक-२,१.३ । स्पर्शवान् वायुः । वैशेषिक-२,१.४ । त आकाशे न विद्यन्ते । वैशेषिक-२,१.५ । सर्पिर्जतुमधूच्छिष्टानामग्निसंयोगाद्द्रवत्वमद्भिः सामान्यम् । वैशेषिक-२,१.६ । त्रपुसीस लोह रजत सुवर्णानामग्निसंयोगाद्द्रवत्वमद्भिः सामान्यम् । वैशेषिक-२,१.७ । विषाणी ककुद्मान् प्रान्तेवालधिः सास्नावान् इति गोत्वे दृष्टं लिङ्गम् । वैशेषिक-२,१.८ । स्पर्शश्च वायोः । वैशेषिक-२,१.९ । न च दृष्टानां स्पर्श इत्यदृष्टलिङ्गो वायुः । वैशेषिक-२,१.१० । अद्रव्यवत्त्वेन द्रव्यम् । वैशेषिक-२,१.११ । क्रियावत्त्वात् गुणवत्त्वाच्च । वैशेषिक-२,१.१२ । अद्रव्यत्वेन नित्यत्वमुक्तम् । वैशेषिक-२,१.१३ । वायोर्वायुसंमूर्छनं नानात्वलिङ्गम् । वैशेषिक-२,१.१४ । वायुसन्निकर्षे प्रत्यक्षाभावात् दृष्टं लिङ्गं न विद्यते । वैशेषिक-२,१.१५ । सामान्यतो दृष्टाच्चाविशेषः । वैशेषिक-२,१.१६ । तस्मादागमिकम् । वैशेषिक-२,१.१७ । सञ्ज्ञाकर्म त्वस्मद्विशिष्टानां लिङ्गम् । वैशेषिक-२,१.१८ । प्रत्यक्षप्रवृत्तत्वात् सञ्ज्ञाकर्मणः । वैशेषिक-२,१.१९ । निष्क्रमणं प्रवेशनमित्याकाशस्य लिङ्गम् । वैशेषिक-२,१.२० । तदलिङ्गमेकद्रव्यत्वात् कर्मणः । वैशेषिक-२,१.२१ । कारणान्तरानुकिप्ति वैधर्म्याच्च । वैशेषिक-२,१.२२ । संयोगादभावः कर्मणः । वैशेषिक-२,१.२३ । कारणगुणपूर्वकः कार्यगुणो दृष्टः । वैशेषिक-२,१.२४ । कार्यान्तराप्रादुर्भावाच्च शब्दः स्पर्शवतामगुणः । वैशेषिक-२,१.२५ । परत्र समवायात् प्रत्यक्षत्वाच्च नात्मगुणो न मनोगुणः । वैशेषिक-२,१.२६ । परिशेषाल्लिङ्गमाकाशस्य । वैशेषिक-२,१.२७ । द्रव्यत्वनित्यत्वे वायुना व्याख्याते । वैशेषिक-२,१.२८ । तत्त्वम्भावेन । वैशेषिक-२,१.२९ । शब्दालिङ्गाविशेषाद्विशेषलिङ्गाभावाच्च । वैशेषिक-२,१.३० । तदनुविधानादेकपृथक्त्वञ्चेति । वैशेषिक-२,१.३१ । पुष्पवस्त्रयोः सति सन्निकर्षे गुणान्तराप्रादुर्भावो वस्त्रे गन्धाभावलिङ्गम् । वैशेषिक-२,२.१ । व्यवस्थितः पृथिव्यां गन्धः । वैशेषिक-२,२.२ । एतेनोष्णता व्याख्याता । वैशेषिक-२,२.३ । तेजस उष्णता । वैशेषिक-२,२.४ । अप्सु शीतता । वैशेषिक-२,२.५ । अपरस्मिन्नपरं युगपत् चिरं क्षिप्रमिति काललिङ्गानि । वैशेषिक-२,२.६ । द्रव्यत्व नित्यत्वे वायुना व्याख्याते । वैशेषिक-२,२.७ । तत्त्वम्भावेन । वैशेषिक-२,२.८ । नित्येष्वभावादनित्येषु भावात् कारणे कालाख्येति । वैशेषिक-२,२.९ । इत इदमिति यतस्तद्दिश्यं लिङ्गम् । वैशेषिक-२,२.१० । द्रव्यत्व नित्यत्वे वायुना व्याख्याते । वैशेषिक-२,२.११ । तत्त्वम्भावेन । वैशेषिक-२,२.१२ । कार्यविशेषेण नानात्वम् । वैशेषिक-२,२.१३ । आदित्यसंयोगात् भूतपूर्वात् भविष्यतो भूताच्च प्राची । वैशेषिक-२,२.१४ । तथा दक्षिणा प्रतीची उदीची च । वैशेषिक-२,२.१५ । एतेन दिगन्तरालानि व्याख्यातानि । वैशेषिक-२,२.१६ । सामान्यप्रत्यक्षाद्विशेषस्मृतेश्च संशयः । वैशेषिक-२,२.१७ । दृष्टञ्च दृष्टवत् । वैशेषिक-२,२.१८ । यथादृष्टमयथादृष्टत्वाच्च । वैशेषिक-२,२.१९ । विद्याविद्यातश्च संशयः । वैशेषिक-२,२.२० । श्रोत्रग्रहणो योर्थः स शब्दः । वैशेषिक-२,२.२१ । तुल्यजातीयेष्वर्थान्तरभूतेषु विशेषस्य उभयथा दृष्टत्वात् । वैशेषिक-२,२.२२ । एकद्रव्यत्वान्न द्रव्यम् । वैशेषिक-२,२.२३ । नापि कर्माचाक्षुषत्वात् । वैशेषिक-२,२.२४ । गुणस्य सतोऽपवर्गः कर्मभिः साधर्म्यम् । वैशेषिक-२,२.२५ । सतो लिङ्गाभावात् । वैशेषिक-२,२.२६ । नित्यवैधर्म्यात् । वैशेषिक-२,२.२७ । अनित्यश्चायं कारणतः । वैशेषिक-२,२.२८ । ज चासिद्धं विकारात् । वैशेषिक-२,२.२९ । अभिव्यक्तौ दोषात् । वैशेषिक-२,२.३० । संयोगाद्विभागाच्च शब्दाच्च शब्दनिष्पत्तिः । वैशेषिक-२,२.३१ । लिङ्गाच्चानित्यः शब्दः । वैशेषिक-२,२.३२ । द्वयोस्तु प्रवृत्त्योरभावात् । वैशेषिक-२,२.३३ । प्रथमाशब्दात् । वैशेषिक-२,२.३४ । सम्प्रतिपत्तिभावाच्च । वैशेषिक-२,२.३५ । सन्दिग्धाः सति बहुत्वे । वैशेषिक-२,२.३६ । सङ्ख्याभावः सामान्यतः । वैशेषिक-२,२.३७ । प्रसिद्धा इन्द्रियार्थाः । वैशेषिक-३,१.१ । इन्द्रियार्थाप्रसिद्धिरिन्द्रियार्थेभ्योर्थान्तरस्य हेतुः । वैशेषिक-३,१.२ । सोऽनपदेशः । वैशेषिक-३,१.३ । कारणाज्ञानात् । वैशेषिक-३,१.४ । कार्येषु ज्ञानात् । वैशेषिक-३,१.५ । अज्ञानाच्च । वैशेषिक-३,१.६ । अन्यदेव हेतुरित्यनपदेशः । वैशेषिक-३,१.७ । अर्थान्तरं ह्यर्थान्तरस्यानपदेशः । वैशेषिक-३,१.८ । संयोगि समवाय्येकार्थसमवायि विरोधि च । वैशेषिक-३,१.९ । कार्यं कार्यान्तरस्य । वैशेषिक-३,१.१० । विरोध्यभूतं भूतस्य । वैशेषिक-३,१.११ । भूतमभूतस्य । वैशेषिक-३,१.१२ । भूतो भूतस्य । वैशेषिक-३,१.१३ । प्रसिद्धिपूर्वकत्वादपदेशस्य । वैशेषिक-३,१.१४ । अप्रसिद्धोऽनपदेशोऽसन् सन्दिग्धश्चानपदेशः । वैशेषिक-३,१.१५ । यस्माद्विषाणी तस्मादश्वः । वैशेषिक-३,१.१६ । यस्माद्विषाणी तस्माद्गौरितिचानैकान्तिकस्योदाहरणम् । वैशेषिक-३,१.१७ । आत्मेन्द्रियार्थसन्निकर्षाद्यन्निष्पद्यते तदन्यत् । वैशेषिक-३,१.१८ । प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम् । वैशेषिक-३,१.१९ । आत्मेन्द्रियार्थसन्निकर्षज्ञानस्य भावोऽभावश्च मनसो लिङ्गम् । वैशेषिक-३,२.१ । तस्य द्रव्यत्व नित्यत्वे वायुना व्याख्याते । वैशेषिक-३,२.२ । प्रयत्नायौगपद्याज्ज्ञानायौगपद्याच्चैकम् । वैशेषिक-३,२.३ । प्राणाऽपाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तर विकाराः सुखदुःखेच्छाद्वेष प्रयत्नाश्चात्मनो लिङ्गानि । वैशेषिक-३,२.४ । तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते । वैशेषिक-३,२.५ । यज्ञदत्त इति सन्निकर्षे प्रत्यक्षाभावात् दृष्टं लिङ्गं न विद्यते । वैशेषिक-३,२.६ । सामान्यतो दृष्टाच्चाविशेषः । वैशेषिक-३,२.७ । तस्मादागमिकः । वैशेषिक-३,२.८ । अहमिति शब्दस्य व्यतिरेकान्नागमिकम् । वैशेषिक-३,२.९ । यदि दृष्टमन्वक्षमहं देवदत्तोऽहं यज्ञदत्त इति । वैशेषिक-३,२.१० । दृष्ट्यात्मनि लिङ्गे एक एव दृढत्वात् प्रत्यक्षवत् प्रत्ययः । वैशेषिक-३,२.११ । देवदत्तो गच्छति यज्ञदत्तो गच्छतीत्युपचाराच्छरीरे प्रत्ययः । वैशेषिक-३,२.१२ । सन्दिग्धास्तूपचाराः । वैशेषिक-३,२.१३ । अहमिति प्रत्यगात्मनि भावात् परत्राभावादर्थान्तर प्रत्यक्षः । वैशेषिक-३,२.१४ । देवदत्तो गच्छतीत्युपचारादभिमानात्तावच्छरीरप्रत्यक्षोऽहङ्कारः । वैशेषिक-३,२.१५ ।