॥ श्रीः ॥
भासनाटकचक्रे
ऊरुभङ्गम् ।
(नान्द्यन्ते ततः प्रविशति सूत्रधारः ।)
सूत्रधारः —
भीष्मद्रोणतटां जयद्रथजलां गान्धारराजहृदां
कर्णद्रौणिकृपोर्मिनक्रमकरां दुर्योधनस्रोतसम् ।
तीर्णः शत्रुनदीं शरा१सिसिकतां येन प्लवेनार्जुनः
शत्रूणां तरणेषु वः स भगवानस्तु वः केशवः ॥ १ ॥
एवमार्यमिश्रान्विज्ञापयामि । अये, किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि ।
(नेपथ्ये)
एते स्मो भोः ! एते स्मः ।
सूत्रधारः —
भवतु, विज्ञातम् ।
(प्रविश्य)
पारिपार्श्विकः —
भाव कुतो नु खल्वेते,
स्वर्गार्थमाहवमुखोद्यतगात्रहोमा२
नाराचतोमरशतैर्विषमीकृताङ्गाः ।
मत्तद्विपेन्द्रदशनोल्लिखितैः शरीरै-
रन्योन्यवीर्यनिकषाः पुरुषा भ्रमन्ति ॥ २ ॥
सूत्रधारः —
मार्ष ! किं नावगच्छसि । तनयशतनयन३शून्ये दुर्योधनावशेषे धृतराष्ट्रपक्षे, पाण्डवजनार्दनावशेषे युधिष्ठिरपक्षे, राज्ञां शरीरसमाकीर्णे समन्तपञ्चके,
एत१द्रणं हतगजाश्वनरेन्द्रयोधं
सङ्कीर्णलेख्यमिव चित्रपटं प्रविद्धम् ।
युद्धे वृकोदरसुयोधनयोः प्रवृत्ते
यौधा नरेन्द्रनिधनैकगृहं प्रविष्टाः ॥ ३ ॥
(निष्क्रान्ती)
स्थापना
(ततः प्रविशति भटास्त्रयः ।)
सर्वे —
एते स्मो भोः ! एते स्मः ।
प्रथमः —
वैरस्यायतनं बलस्य निकषं मानप्रतिष्ठागृहं
युद्धेष्वप्सरसां स्वयंवरसभां शौर्यप्रतिष्ठां नृणाम् ।
राज्ञां पश्चिमकालवीरशयनं प्राणाग्निहोमक्रतुं
सम्प्राप्ता रणसञ्ज्ञमाश्रमपदं राज्ञां नभःसङ्क्रमम् ॥ ४ ॥
द्वितीयः —
सम्यग्भवानाह ।
उपलविषमा नागेन्द्राणां शरीरधराधरा
दिशि दिशि कृता गृध्रावासा हतातिरथा रथाः ।
अवनिपतयः स्वर्गं प्राप्ताः क्रियामरणे रणे
प्रतिमुखमिमे तत्तत्कृत्वा चिरं निहताहताः ॥ ५ ॥
तृतीयः —
एवमेतन् ।
करिवरकरयूपो बाणविन्यस्तदर्भो
हतगजचयनोच्चो वैरवह्निप्रदीप्तः ।
ध्वजविततवि२तानः सिंहनादोच्चमन्त्रः
पतितपशुमनुष्यः संस्थितो युद्धयज्ञः ॥ ६ ॥
प्रथमः —
इदमपरं पश्येतां भवन्तौ ।
एते परस्परशरैर्हृतजीवितानां
देहै रणाजिरमहीं समुपाश्रितानाम् ।
कुर्वन्ति चात्र पिशितार्द्रमुखा विहङ्गा
राज्ञां शरीरशिथिलानि विभूषणानि ॥ ७ ॥
द्वितीयः —
प्रसक्तनाराचनिपातपातितः समग्रयुद्धोद्यतकल्पितो गजः ।
विशीर्णवर्मा सशरः सकार्मुको नृपायुधागारमिवावसीदति ॥ ८ ॥
तृतीयः —
इदमपरं पश्येतां भवन्तौ ।
माल्यैर्ध्वजाग्रपतितैः कृतमुण्डमालं
लग्नैकसायकवरं रथिनं विपन्नम् ।
जामातरं प्रवहणादिव बन्धुनार्यो
हृष्टाः शिवा रथमुखादवतारयन्ति ॥ ९ ॥
सर्वे —
अहोतुखलु निहतपतितगजतुरगनररुधिरकलिलभूमिप्रदेशस्य विक्षिप्तवर्मचर्मातपत्रचामरतोमरशरकुन्तकवचकबन्धादिपर्याकुलस्य शक्तिप्रासपरशु१भिण्डिपालशूलमुसलमुद्गरवराहकर्णकणयकर्पणशङ्कुत्रासिगदादिभिरायुधैरवकीर्णस्य समन्तपञ्चकस्य प्रतिभयता ।
प्रथमः —
इह हि,
रुधिरसरितो निस्तीर्यन्ते हतद्विपसङ्क्रमा
नृपतिरहितैः स्रस्तैः सूतैर्वहन्ति रथान् हयाः ।
पतितशिरसः पूर्वाभ्यासाद् द्रवन्ति कबन्धकाः
पुरुषरहिता मत्ता नागा भ्रमन्ति यतस्ततः ॥ १० ॥
द्वितीयः —
इदमपरं पश्येतां भवन्तौ । एते,
गृध्रा मधूकमुकुलोन्नतपिङ्गलाक्षा
दैत्येन्द्रकुञ्जरनताङ्कुशतीक्ष्णतुण्डाः ।
भान्त्यम्बरे विततलम्बविकीर्णपक्षा
मांसैः प्रवालरचिता इव तालवृन्ताः ॥ ११ ॥
तृतीयः —
एषा निरस्तहयनागनरेद्रयोधाः
व्यक्तीकृता दिनकरोग्रकरैः समन्तात् ।
नाराचकुन्तशरतोमरखड्गकीर्णा
तारागणं पतितमुद्वहतीव भूमिः ॥ १२ ॥
प्रथमः —
अहो ईदृश्यामप्यवस्थायामविमुक्तशोभा विराजन्ते क्षत्रियाः । इह हि,
स्रस्तोद्वर्तितनेत्रषट्पदगणा ताम्रोष्ठपत्रोत्करा
भ्रूभेदाञ्चितकेसरा स्वमुकुटव्याविद्धसंवर्तिका ।
वीर्यादित्यविबोधिता रणमुखे नाराचनालोन्नता
विष्कम्पा स्थलपद्मिनीव रचिता राज्ञामभीतैर्मुखैः ॥ १३ ॥
द्वितीयः —
ईदृशानामपि क्षत्रियाणां मृत्युः प्रभवतीति न शक्यं खलु विषमस्थैः पुरुषैरात्मबलाधानं कर्तुम् ।
तृतीयः —
मृत्युरेव प्रभवति क्षत्रियाणामिति ।
प्रथमः —
कः संशयः ।
द्वितीयः —
मा मा भवानेवम् ।
स्पृष्ट्वा खाण्डवधूमरञ्जितगुणं संशप्तकोत्सादनं
स्वर्गानन्दहरं निवातकवचप्राणोपहारं धनुः ।
पार्थेनास्त्रबलान्महेश्वररणक्षेपावशिष्टैः शरै-
र्दर्पोत्सिक्तवशा नृपा रणमुखे मृत्योः प्रतिग्राहिताः ॥ १४ ॥
सर्वे —
अये शब्दः ।
किं मेघा निनदन्ति वज्रपतनैश्चूर्णीकृताः पर्वता
निर्घातैस्तुमुलस्वनप्रतिभयैः किं दार्यते वा मही ।
किं मुञ्चत्यनिलावधूतचपलक्षुब्धोर्मिमालाकुलं
शब्दं मन्दरकन्दरोदरदरीः संहत्य वा सागरः ॥ १५ ॥
भवतु, पश्यामस्तावत् । (सर्वे परिक्रामन्ति ।)
प्रथमः —
अये एतत्खलु द्रौपदीकेशधर्षणावमर्षितस्य पाण्डवमध्यमस्य भीमसेनस्य भ्रातृशतवधक्रुद्धस्य महाराजदुर्योधनस्य च द्वैपायनहलायुधकृष्णविदुरप्रमुखानां कुरुयदुकुलदैवतानां प्रत्यक्षं प्रवृत्तं गदायुद्धम् ।
द्वितीयः —
भीमस्योरसि चारुकाञ्चनारीलापीने प्रतिस्फालिते
भिन्ने वासवहस्तिहस्तकठिने दुर्योधनांसस्थले ।
अन्योन्यस्य भुजद्वयान्तरतटेष्वासज्यमानायुधे
यस्मिंश्चण्डगदाभिघातजनितः शब्दः समुत्तिष्ठति ॥ १६ ॥
तृतीयः —
एष महाराजः,
शी१र्षोत्कम्पनवल्गमानमकुटः क्रोधा२ग्निकाक्षाननः स्थानाक्रामणवामनीकृततनुः प्रत्यग्रहस्तोच्छ्रयः । यस्यैषा रिपुशोणितार्द्रकलिला भात्यग्रहस्ते गदा कैलासस्य गिरेरिवाग्ररचिता सोल्का महेन्द्राशनिः ॥ १७ ॥
प्रथम : —
एष सम्प्रहाररुधिरसिक्ताङ्गस्तावद्दश्यतां पाण्डवः ।
निर्भिन्नाप्ग्रललाटवान्तरुधिरो भग्नांसकूटद्वयः
सान्द्रैर्निर्गलितप्रहाररुधिरैराद्रीकृतोरःस्थलः ।
भीमो भाति गदाभिघातरुधिरक्लिन्नावगाढव्रणः
शैलो मेरुरिवैष धातुसलिलासारोपदिग्धोपलः ॥ १८ ॥
द्वितीयः —
भीमां गदां क्षिपति गर्जति वल्गमानः
शीघ्रं भुजं हरति तस्य कृतं भिनत्ति ।
चारीं गतिं प्रचरति प्रहरत्यभीक्ष्णं
शिक्षा१न्वितो नरपतिर्बलवांस्तु भीमः ॥ १९ ॥
तृतीयः —
एष वृकोदरः,
शिरसि गुरुनिखातस्रस्तरक्तार्द्रगात्रो
धरणिधरनिकाशः संयुगेष्वप्रमेयः ।
प्रविशति गिरिराजो मेदिनीं वज्रदग्धः
शिथिलविसृतधातुर्हेमकूटो यथाद्रिः ॥ २० ॥
प्रथमः —
एष गाढप्रहारशिथिलीकृताङ्गं निपतन्तं भीमसेनं दृष्ट्वा,
एकाग्राङ्गुलिधारितोन्नतमुखो व्यासः स्थितो विस्मितः
द्वितीयः —
दैन्यं याति युधिष्ठिरोऽत्र विदुरो बाष्पाकुलाक्षः स्थितः ।
तृतीयः —
स्पृष्टं गाण्डिवमर्जुनेन गगनं कृष्णः समुद्वीक्षते
सर्वे —
शिष्यप्रीतत२या हलं भ्रमयते रामो रणप्रेक्षकः ॥ २१ ॥
प्रथमः —
एष महाराजः,
वीर्यालयो विविधरत्नविचित्रमौलि-
र्युक्तोऽभिमानविनयद्युतिसाहसैश्च ।
वाक्यं वदत्युपहसन्न तु भीम ! दीनं
वीरो निहन्ति समरेषु भयं त्यजेति ॥ २२ ॥
द्वितीयः —
एष इदानीमपहास्यमानं भीमसेनं दृष्ट्वा स्वमूरुमभिहत्य कामपि सञ्ज्ञां प्रयच्छति जनार्दनः ।
तृतीयः —
एष सञ्ज्ञया समाश्वासितो मारुतिः,
संहृत्य भ्रुकुटीललाटविवरे स्वेदं करेणाक्षिपन्
बाहुभ्यां परिगृह्य भीमवदनश्चित्राङ्गदां स्वां गदाम् ।
पुत्रं दीनमुदीक्ष्य सर्वगतिना लब्ध्वेव दत्तं बलं
गर्जन सिंहवृषेक्षणः क्षितितलाद्भूयः समुत्तिष्ठति ॥ २३ ॥
प्रथमः —
हन्त पुनः प्रवृत्तं गदायुद्धम् । अनेन हि,
भूमौ पाणितले निघृष्य तरसा बाहू प्रमृज्याधिकं
सन्दष्टोष्ठपुटेन विक्रमबलात् क्रोधाधिकं गर्जता ।
त्यक्त्वा धर्मघृणां विहाय समयं कृष्णस्य सञ्ज्ञासमं
गान्धारीतनयस्य पाण्डुतनयेनोर्वोर्विमुक्ता गदा ॥ २४ ॥
सर्वे —
हा धिक् पतितो महाराजः ।
तृतीयः —
एष रुधिरपतनद्योतिताङ्गं निपतन्तं कुरुराजं दृष्ट्वा खमुत्पतितो भगवान् द्वैपायनः । य एषः,
मा१लासंवृतलोचनेन हलिना नेत्रोपरोधः कृतः
दृष्ट्वा क्रोधनिमीलितं हलधरं दुर्योधनापेक्षया ।
सम्भ्रान्तैः करपञ्जरान्तरगतो द्वैपायनज्ञापितो
भीमः कृष्णभुजावलम्बितगतिर्निर्वाह्यते पाण्डवैः ॥ २५ ॥
प्रथमः —
अये अयमप्यमर्षोन्मीलितरभसलोचनो भीमसेनापक्रमणमुद्वीक्षमाणः इत एवाभिवर्तते भगवान् हलायुधः । य एषः,
च१लविलुलितमौलिः क्रोधताम्रायताक्षो
भ्रमरमुखविदष्टां किञ्चिदुत्कृष्य मालाम् ।
असिततनुविलम्बिस्रस्तवस्त्रानुकर्षी
क्षितितलमवतीर्णः पारिवेषीव चन्द्रः ॥ २६ ॥
द्वितीयः —
तदागम्यतां वयमपि तावन्महाराजस्य प्रत्यनन्तरीभवामः ।
उभौ —
बाढम् । प्रथमः कल्पः ।
(निष्कान्ताः ।)
विष्कम्भकः ।
(ततः प्रविशति बलदेवः ।)
बलदेवः —
भो भोः पार्थिवाः ! न युक्तमिदम् ।
मम रिपुबलकालं लाङ्गलं लङ्घयित्वा
रणकृतमतिसन्धिं मां च नावेक्ष्य दर्पान् ।
रणशिरसि गदां तां तेन दुर्योधनोर्वोः
कुलविनयसमृध्या पातितः पातयित्वा ॥ २७ ॥
भो दुर्योधन ! मुहूर्तं तावदात्मा धार्यताम् ।
सौमोच्छिष्टमुखं महासुरपुरप्राकारकूटाङ्कुशं
कालिन्दीजलदेशिकं रिपुबलप्राणोपहारार्चितम् ।
हस्तोत्क्षिप्तहलं करोमि रुधिरस्वेदार्द्रपङ्कोत्तरं
भीमस्योरसि यादवद्य विपुले केदारमार्गाकुलम् ॥ २८ ॥
(नेपथ्ये)
प्रसीदतु प्रसीदतु भगवान् हलायुधः ।
बलदेवः —
अये एवङ्गतोऽप्यनुगच्छति मां तपस्वी दुर्योधनः । य एषः,