ऊरुभङ्गम्
/ 3
←

Urubhangam English (IAST) PDF & Online Reader (ūrubhaṅgam)

Urubhangam (ऊरुभङ्गम्) by भासः — English (IAST) Text & PDF Download

📜 Last Proofread: 14 Oct 2026
📥 Download English (IAST) PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 14 Oct 2026
📥 Download PDF ♡ Save
🌐 Language & Script English (IAST)
↔️ Text Alignment Center
॥ श्रीः ॥ भासनाटकचक्रे ऊरुभङ्गम् । (नान्द्यन्ते ततः प्रविशति सूत्रधारः ।) सूत्रधारः — भीष्मद्रोणतटां जयद्रथजलां गान्धारराजहृदां कर्णद्रौणिकृपोर्मिनक्रमकरां दुर्योधनस्रोतसम् । तीर्णः शत्रुनदीं शरा१सिसिकतां येन प्लवेनार्जुनः शत्रूणां तरणेषु वः स भगवानस्तु वः केशवः ॥ १ ॥ एवमार्यमिश्रान्विज्ञापयामि । अये, किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि । (नेपथ्ये) एते स्मो भोः ! एते स्मः । सूत्रधारः — भवतु, विज्ञातम् । (प्रविश्य) पारिपार्श्विकः — भाव कुतो नु खल्वेते, स्वर्गार्थमाहवमुखोद्यतगात्रहोमा२ नाराचतोमरशतैर्विषमीकृताङ्गाः । मत्तद्विपेन्द्रदशनोल्लिखितैः शरीरै- रन्योन्यवीर्यनिकषाः पुरुषा भ्रमन्ति ॥ २ ॥ सूत्रधारः — मार्ष ! किं नावगच्छसि । तनयशतनयन३शून्ये दुर्योधनावशेषे धृतराष्ट्रपक्षे, पाण्डवजनार्दनावशेषे युधिष्ठिरपक्षे, राज्ञां शरीरसमाकीर्णे समन्तपञ्चके, एत१द्रणं हतगजाश्वनरेन्द्रयोधं सङ्कीर्णलेख्यमिव चित्रपटं प्रविद्धम् । युद्धे वृकोदरसुयोधनयोः प्रवृत्ते यौधा नरेन्द्रनिधनैकगृहं प्रविष्टाः ॥ ३ ॥ (निष्क्रान्ती) स्थापना (ततः प्रविशति भटास्त्रयः ।) सर्वे — एते स्मो भोः ! एते स्मः । प्रथमः — वैरस्यायतनं बलस्य निकषं मानप्रतिष्ठागृहं युद्धेष्वप्सरसां स्वयंवरसभां शौर्यप्रतिष्ठां नृणाम् । राज्ञां पश्चिमकालवीरशयनं प्राणाग्निहोमक्रतुं सम्प्राप्ता रणसञ्ज्ञमाश्रमपदं राज्ञां नभःसङ्क्रमम् ॥ ४ ॥ द्वितीयः — सम्यग्भवानाह । उपलविषमा नागेन्द्राणां शरीरधराधरा दिशि दिशि कृता गृध्रावासा हतातिरथा रथाः । अवनिपतयः स्वर्गं प्राप्ताः क्रियामरणे रणे प्रतिमुखमिमे तत्तत्कृत्वा चिरं निहताहताः ॥ ५ ॥ तृतीयः — एवमेतन् । करिवरकरयूपो बाणविन्यस्तदर्भो हतगजचयनोच्चो वैरवह्निप्रदीप्तः । ध्वजविततवि२तानः सिंहनादोच्चमन्त्रः पतितपशुमनुष्यः संस्थितो युद्धयज्ञः ॥ ६ ॥ प्रथमः — इदमपरं पश्येतां भवन्तौ । एते परस्परशरैर्हृतजीवितानां देहै रणाजिरमहीं समुपाश्रितानाम् । कुर्वन्ति चात्र पिशितार्द्रमुखा विहङ्गा राज्ञां शरीरशिथिलानि विभूषणानि ॥ ७ ॥ द्वितीयः — प्रसक्तनाराचनिपातपातितः समग्रयुद्धोद्यतकल्पितो गजः । विशीर्णवर्मा सशरः सकार्मुको नृपायुधागारमिवावसीदति ॥ ८ ॥ तृतीयः — इदमपरं पश्येतां भवन्तौ । माल्यैर्ध्वजाग्रपतितैः कृतमुण्डमालं लग्नैकसायकवरं रथिनं विपन्नम् । जामातरं प्रवहणादिव बन्धुनार्यो हृष्टाः शिवा रथमुखादवतारयन्ति ॥ ९ ॥ सर्वे — अहोतुखलु निहतपतितगजतुरगनररुधिरकलिलभूमिप्रदेशस्य विक्षिप्तवर्मचर्मातपत्रचामरतोमरशरकुन्तकवचकबन्धादिपर्याकुलस्य शक्तिप्रासपरशु१भिण्डिपालशूलमुसलमुद्गरवराहकर्णकणयकर्पणशङ्कुत्रासिगदादिभिरायुधैरवकीर्णस्य समन्तपञ्चकस्य प्रतिभयता । प्रथमः — इह हि, रुधिरसरितो निस्तीर्यन्ते हतद्विपसङ्क्रमा नृपतिरहितैः स्रस्तैः सूतैर्वहन्ति रथान् हयाः । पतितशिरसः पूर्वाभ्यासाद् द्रवन्ति कबन्धकाः पुरुषरहिता मत्ता नागा भ्रमन्ति यतस्ततः ॥ १० ॥ द्वितीयः — इदमपरं पश्येतां भवन्तौ । एते, गृध्रा मधूकमुकुलोन्नतपिङ्गलाक्षा दैत्येन्द्रकुञ्जरनताङ्कुशतीक्ष्णतुण्डाः । भान्त्यम्बरे विततलम्बविकीर्णपक्षा मांसैः प्रवालरचिता इव तालवृन्ताः ॥ ११ ॥ तृतीयः — एषा निरस्तहयनागनरेद्रयोधाः व्यक्तीकृता दिनकरोग्रकरैः समन्तात् । नाराचकुन्तशरतोमरखड्गकीर्णा तारागणं पतितमुद्वहतीव भूमिः ॥ १२ ॥ प्रथमः — अहो ईदृश्यामप्यवस्थायामविमुक्तशोभा विराजन्ते क्षत्रियाः । इह हि, स्रस्तोद्वर्तितनेत्रषट्पदगणा ताम्रोष्ठपत्रोत्करा भ्रूभेदाञ्चितकेसरा स्वमुकुटव्याविद्धसंवर्तिका । वीर्यादित्यविबोधिता रणमुखे नाराचनालोन्नता विष्कम्पा स्थलपद्मिनीव रचिता राज्ञामभीतैर्मुखैः ॥ १३ ॥ द्वितीयः — ईदृशानामपि क्षत्रियाणां मृत्युः प्रभवतीति न शक्यं खलु विषमस्थैः पुरुषैरात्मबलाधानं कर्तुम् । तृतीयः — मृत्युरेव प्रभवति क्षत्रियाणामिति । प्रथमः — कः संशयः । द्वितीयः — मा मा भवानेवम् । स्पृष्ट्वा खाण्डवधूमरञ्जितगुणं संशप्तकोत्सादनं स्वर्गानन्दहरं निवातकवचप्राणोपहारं धनुः । पार्थेनास्त्रबलान्महेश्वररणक्षेपावशिष्टैः शरै- र्दर्पोत्सिक्तवशा नृपा रणमुखे मृत्योः प्रतिग्राहिताः ॥ १४ ॥ सर्वे — अये शब्दः । किं मेघा निनदन्ति वज्रपतनैश्चूर्णीकृताः पर्वता निर्घातैस्तुमुलस्वनप्रतिभयैः किं दार्यते वा मही । किं मुञ्चत्यनिलावधूतचपलक्षुब्धोर्मिमालाकुलं शब्दं मन्दरकन्दरोदरदरीः संहत्य वा सागरः ॥ १५ ॥ भवतु, पश्यामस्तावत् । (सर्वे परिक्रामन्ति ।) प्रथमः — अये एतत्खलु द्रौपदीकेशधर्षणावमर्षितस्य पाण्डवमध्यमस्य भीमसेनस्य भ्रातृशतवधक्रुद्धस्य महाराजदुर्योधनस्य च द्वैपायनहलायुधकृष्णविदुरप्रमुखानां कुरुयदुकुलदैवतानां प्रत्यक्षं प्रवृत्तं गदायुद्धम् । द्वितीयः — भीमस्योरसि चारुकाञ्चनारीलापीने प्रतिस्फालिते भिन्ने वासवहस्तिहस्तकठिने दुर्योधनांसस्थले । अन्योन्यस्य भुजद्वयान्तरतटेष्वासज्यमानायुधे यस्मिंश्चण्डगदाभिघातजनितः शब्दः समुत्तिष्ठति ॥ १६ ॥ तृतीयः — एष महाराजः, शी१र्षोत्कम्पनवल्गमानमकुटः क्रोधा२ग्निकाक्षाननः स्थानाक्रामणवामनीकृततनुः प्रत्यग्रहस्तोच्छ्रयः । यस्यैषा रिपुशोणितार्द्रकलिला भात्यग्रहस्ते गदा कैलासस्य गिरेरिवाग्ररचिता सोल्का महेन्द्राशनिः ॥ १७ ॥ प्रथम : — एष सम्प्रहाररुधिरसिक्ताङ्गस्तावद्दश्यतां पाण्डवः । निर्भिन्नाप्ग्रललाटवान्तरुधिरो भग्नांसकूटद्वयः सान्द्रैर्निर्गलितप्रहाररुधिरैराद्रीकृतोरःस्थलः । भीमो भाति गदाभिघातरुधिरक्लिन्नावगाढव्रणः शैलो मेरुरिवैष धातुसलिलासारोपदिग्धोपलः ॥ १८ ॥ द्वितीयः — भीमां गदां क्षिपति गर्जति वल्गमानः शीघ्रं भुजं हरति तस्य कृतं भिनत्ति । चारीं गतिं प्रचरति प्रहरत्यभीक्ष्णं शिक्षा१न्वितो नरपतिर्बलवांस्तु भीमः ॥ १९ ॥ तृतीयः — एष वृकोदरः, शिरसि गुरुनिखातस्रस्तरक्तार्द्रगात्रो धरणिधरनिकाशः संयुगेष्वप्रमेयः । प्रविशति गिरिराजो मेदिनीं वज्रदग्धः शिथिलविसृतधातुर्हेमकूटो यथाद्रिः ॥ २० ॥ प्रथमः — एष गाढप्रहारशिथिलीकृताङ्गं निपतन्तं भीमसेनं दृष्ट्वा, एकाग्राङ्गुलिधारितोन्नतमुखो व्यासः स्थितो विस्मितः द्वितीयः — दैन्यं याति युधिष्ठिरोऽत्र विदुरो बाष्पाकुलाक्षः स्थितः । तृतीयः — स्पृष्टं गाण्डिवमर्जुनेन गगनं कृष्णः समुद्वीक्षते सर्वे — शिष्यप्रीतत२या हलं भ्रमयते रामो रणप्रेक्षकः ॥ २१ ॥ प्रथमः — एष महाराजः, वीर्यालयो विविधरत्नविचित्रमौलि- र्युक्तोऽभिमानविनयद्युतिसाहसैश्च । वाक्यं वदत्युपहसन्न तु भीम ! दीनं वीरो निहन्ति समरेषु भयं त्यजेति ॥ २२ ॥ द्वितीयः — एष इदानीमपहास्यमानं भीमसेनं दृष्ट्वा स्वमूरुमभिहत्य कामपि सञ्ज्ञां प्रयच्छति जनार्दनः । तृतीयः — एष सञ्ज्ञया समाश्वासितो मारुतिः, संहृत्य भ्रुकुटीललाटविवरे स्वेदं करेणाक्षिपन् बाहुभ्यां परिगृह्य भीमवदनश्चित्राङ्गदां स्वां गदाम् । पुत्रं दीनमुदीक्ष्य सर्वगतिना लब्ध्वेव दत्तं बलं गर्जन सिंहवृषेक्षणः क्षितितलाद्भूयः समुत्तिष्ठति ॥ २३ ॥ प्रथमः — हन्त पुनः प्रवृत्तं गदायुद्धम् । अनेन हि, भूमौ पाणितले निघृष्य तरसा बाहू प्रमृज्याधिकं सन्दष्टोष्ठपुटेन विक्रमबलात् क्रोधाधिकं गर्जता । त्यक्त्वा धर्मघृणां विहाय समयं कृष्णस्य सञ्ज्ञासमं गान्धारीतनयस्य पाण्डुतनयेनोर्वोर्विमुक्ता गदा ॥ २४ ॥ सर्वे — हा धिक् पतितो महाराजः । तृतीयः — एष रुधिरपतनद्योतिताङ्गं निपतन्तं कुरुराजं दृष्ट्वा खमुत्पतितो भगवान् द्वैपायनः । य एषः, मा१लासंवृतलोचनेन हलिना नेत्रोपरोधः कृतः दृष्ट्वा क्रोधनिमीलितं हलधरं दुर्योधनापेक्षया । सम्भ्रान्तैः करपञ्जरान्तरगतो द्वैपायनज्ञापितो भीमः कृष्णभुजावलम्बितगतिर्निर्वाह्यते पाण्डवैः ॥ २५ ॥ प्रथमः — अये अयमप्यमर्षोन्मीलितरभसलोचनो भीमसेनापक्रमणमुद्वीक्षमाणः इत एवाभिवर्तते भगवान् हलायुधः । य एषः, च१लविलुलितमौलिः क्रोधताम्रायताक्षो भ्रमरमुखविदष्टां किञ्चिदुत्कृष्य मालाम् । असिततनुविलम्बिस्रस्तवस्त्रानुकर्षी क्षितितलमवतीर्णः पारिवेषीव चन्द्रः ॥ २६ ॥ द्वितीयः — तदागम्यतां वयमपि तावन्महाराजस्य प्रत्यनन्तरीभवामः । उभौ — बाढम् । प्रथमः कल्पः । (निष्कान्ताः ।) विष्कम्भकः । (ततः प्रविशति बलदेवः ।) बलदेवः — भो भोः पार्थिवाः ! न युक्तमिदम् । मम रिपुबलकालं लाङ्गलं लङ्घयित्वा रणकृतमतिसन्धिं मां च नावेक्ष्य दर्पान् । रणशिरसि गदां तां तेन दुर्योधनोर्वोः कुलविनयसमृध्या पातितः पातयित्वा ॥ २७ ॥ भो दुर्योधन ! मुहूर्तं तावदात्मा धार्यताम् । सौमोच्छिष्टमुखं महासुरपुरप्राकारकूटाङ्कुशं कालिन्दीजलदेशिकं रिपुबलप्राणोपहारार्चितम् । हस्तोत्क्षिप्तहलं करोमि रुधिरस्वेदार्द्रपङ्कोत्तरं भीमस्योरसि यादवद्य विपुले केदारमार्गाकुलम् ॥ २८ ॥ (नेपथ्ये) प्रसीदतु प्रसीदतु भगवान् हलायुधः । बलदेवः — अये एवङ्गतोऽप्यनुगच्छति मां तपस्वी दुर्योधनः । य एषः,
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 14 Oct 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine