॥ श्रीः ॥
॥ भासनाटकचक्रे स्वप्नवासवदत्तम् ॥
स्वप्नवासवदत्तम्
कथापात्राणि ।
पुरुषपात्राणि
उदयनः - वत्सदेशस्य राजा ।
यौगन्धरायणः - उदयनस्य मुख्यमन्त्री ।
रुमण्वान् - उदयनस्य द्वितीयः मन्त्री ।
वसन्तकः - उदयनस्य विदूषकः ।
ब्रह्मचारी - लावाणक ग्रामस्य छात्रः ।
(1)काञ्चुकीय - मगधे अन्तः पुरस्य अधिकारी ब्राह्मणः ।
(2)काञ्चुकीय - उज्जयिन्यामन्तःपुरस्यामधिकारी ब्राह्मणः ।
स्त्री पात्राणि
वासवदत्ता - उदयनस्य प्रथमपत्नी, उज्जयिनीराजस्य प्रद्योतस्य पुत्रीः ।
आवन्तिका - छद्मवेशधारिणी वासवदत्ता ।
पद्मावती - मगधराजस्य दर्शकस्य भगिनी, उदयनस्य द्वितीयपत्नी ।
अङ्गारवती - प्रद्योतस्यराणि, वासवदत्तायाः माता ।
तापसी - मगजराज्यस्य तपोवने विद्यमाना तपस्विनी ।
मधुकरिका, पद्मिनिका - पद्मावत्याः सख्यौ ।
धात्री - पद्मावत्याः उपमाता ।
वसुन्धरा - वासवदत्ताया धात्री ।
विजया - वत्सराजस्य प्रतीहारी ॥ । स्वप्नवासवदत्तम् ॥
(नान्द्यन्ते ततः प्रविशति सूत्रधारः ।)
सूत्रधारः - उदयनवेन्दुसवर्णावासवदत्ताबलौ बलस्य त्वाम् ।
पद्मावतीर्णपूर्णौ वसन्तकम्रौ भुजौ पाताम् ॥ 1 ॥
एवमार्यमिश्रान् विज्ञापयामि । अये । किं नु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग । पश्यामि ।
(नेपथ्ये)
उस्सरह उस्सरह अय्या ! उस्सरह । (उत्सरतोत्सरतार्या ! उत्सरत ।)
सूत्रधारः - भवतु, विज्ञातम् ।
भृत्यैर्मगधराजस्य स्निग्धैः कन्यानुगामिभिः ।
घृष्टमुत्सार्यते सर्वस्तपोवनगतो जनः ॥ 2 ॥
(निष्क्रान्तः)
॥ इति स्थापना ॥
अथ प्रथमोऽङ्कः
(प्रविश्य)
भटौ - उस्सरह उस्सरह अय्या ! उस्सरह । (उत्सरतोत्सरतार्याः उत्सरत ।)
(ततः प्रविशति परिव्राजकवेषो यौगन्धरायणः, आवन्तिकावेषधारिणी वासवदत्ता च ।)
यौगन्धरायणः - (कर्णं दत्त्वा) कथमिहाप्युत्सार्यते । कुतः,
धीरस्याश्रमसंश्रितस्य वसतस्तुष्टस्य वन्यैः फलैर्मानार्हस्य जनस्य वल्कलवतस्त्रासः समुत्पाद्यते ।
उत्सिक्तो विनयादपेतपुरुषो भाग्यैश्चलैर्विस्मितः
कोऽयं भो! निभृतं तपोवनमिदं ग्रामीकरोत्याज्ञया ॥ 3 ॥
वासवदत्ता - अय्य! को एसो उस्सारेदि । (आर्य! क एष उत्सारयति?)
यौगन्धरायणः - भवति! यो धर्मादात्मानमुत्सारयति ।
वासवदत्ता - अय्य । ण हि एव्वं वत्तुकामा, अहं वि णाम उस्सारइदव्वा होमि त्ति । (आर्य! न ह्येवं वक्तुकामा । अहमपि नामोत्सारयितव्या
भवामीति ।)
यौगन्धरायणः - भवति! एवमनिज्र्ञातानि दैवतान्यवधूयन्ते ।
वासवदत्ता - अय्य! तह परिस्समो परिखेदं ण उप्पादेदि, जह अअं परिभवो । (आर्य! तथा परिश्रमः परिखेदं नोत्पादयति, यथायं परिभवः । )
यौगन्धरायणः - भुक्तोज्झित एष विषयोऽत्रभवत्या । नात्र चिन्ता कार्या । कुतः,
पूर्वं त्वयाप्यभिमतं गतमेवमासीच्छ्लाध्यं गमिष्यसि पुनर्विजयेन भर्तुः ।
कालक्रमेण जगतः परिवर्तमाना चक्रारपङ्क्तिरिव गच्छति भाग्यपङ्क्तिः ॥ 4 ॥
भटौ - उस्सरह अय्या ! उस्सरह । (उत्सरतार्याः उत्सरत ।)
(ततः प्रविशिति काञ्चुकीयः)
काञ्चुकीयः - सम्भषक! न खलु न खलूत्सारणा कार्या । पश्य,
परिहरतु भवान् नृपापवादं न परुषमाश्रमवासिषु प्रयोज्यम् ।
नगरपरिभवान् विमोक्तुमेते वनमभिगम्य मनस्विनो वसन्ति ॥ 5 ॥ 8
भटौ- अय्य! तह (आर्य! तथा ।) (इति निष्क्रान्तौ)
उभौ - अय्य! तह (आर्य! तथा ।)
(निष्क्रन्तौ)
यौगन्धरायणः - हन्त सविज्ञानमस्य दर्शनम् । वत्से ! उपसर्पावस्तावदेनम् ।
वासवदत्ता - अय्य ! तह । (आर्य ! तथा ।)
यौगन्धरायणः - (उपसृत्य) भोः किङ्कृतेयमुत्सारणा ।
काञ्चुकीयः - भोस्तपस्विन् !
यौगन्धरायणः - (आत्मगतम्) तपस्विन्निति गुणवान् खल्वयमालापः । अपरिचयात्तु न शिल्ष्यते मे मनसि ।
काञ्चुकीयः - भोः ! श्रूयताम् । एषा खलु गुरुभिरभिहितनामधेयस्यास्माकं महाराजदर्शकस्य भगिनी पद्मावती नाम । सैषा नो महाराजमातरं
महादेवीमाश्रमस्थामभिगम्यानुज्ञाता तत्रभवत्या राजगृहमेव यास्यति । तदद्यास्मिन्नाश्रमपदे वासोऽभिप्रेतोऽस्याः । तद् भवन्तः
तीर्थोदकानि समिधः कुसुमानि दर्भान्
स्वैरं वनादुपनयन्तु तपोधनानि ।
धर्मप्रिया नृपसुता न हि धर्मपीडामिच्छेत् तपस्विषु कुलव्रतमेतदस्याः ॥ 6 ॥
यौगन्धरायणः - (स्वगतम्) एवम् । एषा सा मगधराजपुत्री पद्मावती नाम, या पुष्पकभद्रादिभिरादेशिकैरादिष्टा स्वामिनो देवी भविष्यतीति । ततः,
प्रद्वेषो बहुमानो वा सङ्कल्पादुपजायते ।
भर्तृदाराभिलाषित्वादस्यां मे महती स्वता ॥ 7 ॥
वासवदत्ता - (स्वगतम्) राअदारिअत्ति सुणिअ भइणिआसिणेहो वि मे एत्थ सम्पज्जइ ॥ (राजदारिकेति श्रुत्वा भगिनिकास्नेहोऽपि मेऽत्र
सम्पद्यते ।)
(ततः प्रविशति पद्मावती सपरिवारा चेटी च)
चेटी - एदु एदु भट्टिदारिआ, इदमस्समपदं, पविसदु ॥ (एत्वेतु भर्तृदारिका, इदमाश्रमपदम्! प्रविशतु ।)
(ततः प्रविशत्युपविष्टा तापसी)
तापसी - साअदं राअदारिआए ॥ (स्वागतं राजदारिकायाः ।)
वासवदत्ता - (स्वगतम्) इअं सा राअदारिआ । अभिजणाणुरूवं खु से रूवं (इयं सा राजदारिका । अभिजनानुरूपं खल्वस्या रूपम् ।)
पद्मावती - अय्ये ! वन्दामि । (आर्ये ! वन्दे ।)
तापसी - चिरं जीव । पविस । जादे ! पविस । तवोवणाणि णाम अदिहिजणस्स सअगेहम् । (चिरं जीव । प्रविश जाते ! प्रविश ।
तपोवनानि नामातिथिजनस्य स्वगेहम् ।)
पद्मावती - भोदु भोदु । अय्ये ! विस्सत्थम्हि । इमिणा बहुमाणवअणेण अणुग्गहिदम्हि ॥ (भवतु, भवतु । आर्ये ! विश्वस्तास्मि । अनेन
बहुमानवचनेनानुगृहीतास्मि ।)
वासवदत्ता - (स्वगतम्) ण हि रूवमेव्व, वाआ वि खु से महुरा । (न हि रूपमेव, वागपि खल्वस्या मधुरा ।)
तापसी - भद्दे ! इमं दाव भद्दमुहस्स भइणिअं कोच्चि राआ ण वरेदि । (भद्रे! इमां तावद् भद्रमुखस्य भगिनिकां कश्चिद् राजा न वरयति
?)
चेटी - अत्थि राआ पज्जोदो णाम उज्जइणीए । सो दारअस्स कारणादो दूदसम्पादं करेदि । (अस्ति राजा प्रद्योतो नामोज्जयिन्याः । स
दारकस्य कारणाद् दूतसम्पातं करोति ।)
वासवदत्ता - (आत्मगतम्) भोदु भोदु । एसा अ अत्तणीआ दाणिं संवुत्ता । (भवतु भवतु । एषा चात्मीयेदानीं संवृत्ता ।)9
तापसी - अरिहा खु इअमाइदी इमस्स बहुमाणस्स । उभआणि राअउलाणि महत्तराणि त्ति सुणीअदि । (अर्हा खल्वियमाकृतिरस्य
बहुमानस्य । उभे राजकुले महत्तरे इति श्रूयते ।)
पद्मावती - अय्य! किं दिट्ठो मुणिजणो उत्ताणमणुग्गहीदुं ? अभिप्पेदप्पदाणेण तवस्सिजणो उवणिमन्तीअदु दाव को किमेत्थ इच्छदि त्ति ।
(आर्य! किं दृष्टो मुनिजन आत्मानमनुग्रहीतुम्? अभिप्रेतप्रदानेन तपस्विजन उपनिमन्त्र्यतां तावत् कः किमत्रेच्छतीति?)
काञ्चुकीयः - यदभिप्रेतं भवत्या । भो भो आश्रमवासिनस्तपस्विनः । श्रृण्वन्तु श्रृण्वन्तु भवन्तः । इहात्रभवती मगधराजपुत्री अनेन
विस्रम्भेणोत्पादितविस्रम्भा धर्मार्थमर्थेनोपनिमन्त्रयते ।
कस्यार्थः कलशेन को मृगयते वासो यथानिश्चितं
दीक्षां पारितवान् किमिच्छति पुनर्देयं गुरोर्यद् भवेत् ।
आत्मानुग्रहमिच्छतीह नृपजा धर्माभिरामप्रिया
यद् यस्यास्ति समीप्सितं वदतु तत् कस्याद्य किं दीयताम् ॥ 8 ॥
यौगन्धरायणः - हन्त! दृष्ट उपायः (प्रकाशम्) भोः अहमर्थी ।
पद्मावती - दिट्ठिआ सहलं मे तवोवणाभिगमणम् । (दिष्टया सफलं मे तपोवनाभिगमनम् ।)
तापसी - सन्तुट्ठतपस्सिजणमिदमस्समपदम् । आअन्तुएण इमिणा होदव्वम् ।
(सन्तुष्टतपस्विजनमिदमाश्रमपदम् । आगन्तुकेनानेन भवितव्यम् ।)
काञ्चुकीयः - भोः किं क्रियताम् ।
यौगन्धरायणः - इयं मे स्वसा । प्रोषितभर्तृकामिमामिच्छाम्यत्रभवत्या कञ्चित् कालं परिपाल्यमानाम् । कुतः,
कार्यं नैवार्थैर्नापि भोगैर्न वस्त्रैर्नाहं काषायं वृत्तिहेतोः प्रपन्नः ।
धीरा कन्येयं दृष्टधर्मप्रचारा शक्ता चारित्रं रक्षितुं मे भगिन्याः ॥ 9 ॥
वासवदत्ता - (आत्मगतम्) हम् । इह मं णिक्खिविदुकामो अय्ययोगेन्धराअणो । होदु, अविआरिअ कमं ण करिस्सदि । (हम् । इह मां
निक्षेप्तुकाम आर्ययौगन्धरायणः । भवतु, अविचार्य क्रमं न करिष्यति ।)
काञ्चुकीय - भवति! महतो खल्वस्य व्यपाश्रयणा । कथं प्रतिजानीमः कुतः,
सुखमर्थो भवेद्दातुं सुखं प्राणाः सुखं तपः ।
सुखमन्यद् भवेत् सर्वं दुःखं न्यासस्य रक्षणम् ॥ 10 ॥
पद्मावती - अस्य! पढममुग्घोसिअ को कि इच्छदित्ति अजुतं दाणिं विआरिदुम् । जमेसो भणादि, तमणुचिट्ठदु अय्यो । (आर्य !
प्रथममुद्धोष्य कः किमिच्छतीत्ययुक्तमिदानीं विचारयितुम् । यदेष भणति तदनुतिष्ठत्वार्यः ।
काञ्चुकीयः - अनुरूपमेतद्भवत्याभिहितम् ।
चेटी - चिरं जीवदु भट्टिदारिआ एवं सच्चवादिणी । (चिरं जीवतु भर्र्तृदारिकैवं सत्यवादिनी ।)
तापसी - चिरं जीवदु भद्दे! (चिरं जीवतु भद्रे !)
काञ्चुकीयः - भवति! तथा । (उपागम्य) भो ! अभ्युपगतमत्रभवतो भगिन्याः परिपालनमत्रभवत्या ।
यौगन्धरायणः - अनुगृहीतोऽस्मि तत्रभवत्या । वत्से ! उपसर्पात्रभवतीम् ।
वासवदत्ता - (आत्मगतम्) का गई । एसा गच्छामि मन्दभाआ । (का गतिः । एषा गच्छामि मन्दभागा ।)
पद्मावती - भोदु, भोदु । अत्तणीआ दाणिं संवुत्ता । (भवतु, भवतु । आत्मीयेदानीं संवृत्ता ।)
तापसी - जा ईदिसी से आइदी, इयं वि राअदारिअत्ति तक्केमि ।
(या ईदृश्यस्या आकृतिः, इयमपि राजदारिकेति तर्कयामि ।)
चेटी - सुट्ठु अय्या भणादि । अहं वि अणुहूदसुहत्ति पेवखामि । (सुष्ठु आर्या भणति । अहमप्यनुभूतसुखेति प्रेक्षे)10
योगन्धरायणः - (आत्मगतम्) हन्त भोः ! अर्धमवसितं भारस्य । यथा मन्त्रिभिः सह समर्थितं, तथा परिणमति । ततः प्रतिष्ठिते स्वामिनि
तत्रभवतीमुपनयतो मे इहात्रभवती मगधराजपुत्री विश्वासस्थानं भविष्यति । कुतः,
पद्मावती नरपतेर्महिषी भवित्री
दृष्टा विपत्तिरथ यैः प्रथमं प्रदिष्टा ।
तत्प्रत्ययात् कृतमिदं न हि सिद्धवाक्यान्युत्क्रम्य गच्छति विधिः सुपरीक्षितानि ॥ 11 ॥
(ततः प्रविशति ब्रह्मचारी)
ब्रह्मचारी - (ऊध्र्वमवलोक्य) स्थितो मध्याह्नः । दृढमस्मि परिश्रान्तः । अथ कस्मिन् प्रदेशे विश्रमयिष्ये । (परिक्रम्य) भवतु, दृष्टम् ।