स्वप्नवासवदत्तम्
/ 9
←

Svapnavasavadattam Telugu PDF & Online Reader (స్వప్నవాసవదత్తమ్)

Svapnavasavadattam (स्वप्नवासवदत्तम्) by भासः — Telugu Text & PDF Download

📜 Last Proofread: 28 Oct 2026
📥 Download Telugu PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 28 Oct 2026
📥 Download PDF ♡ Save
🌐 Language & Script తెలుగు
↔️ Text Alignment Center
॥ श्रीः ॥ ॥ भासनाटकचक्रे स्वप्नवासवदत्तम् ॥ स्वप्नवासवदत्तम् कथापात्राणि । पुरुषपात्राणि उदयनः - वत्सदेशस्य राजा । यौगन्धरायणः - उदयनस्य मुख्यमन्त्री । रुमण्वान् - उदयनस्य द्वितीयः मन्त्री । वसन्तकः - उदयनस्य विदूषकः । ब्रह्मचारी - लावाणक ग्रामस्य छात्रः । (1)काञ्चुकीय - मगधे अन्तः पुरस्य अधिकारी ब्राह्मणः । (2)काञ्चुकीय - उज्जयिन्यामन्तःपुरस्यामधिकारी ब्राह्मणः । स्त्री पात्राणि वासवदत्ता - उदयनस्य प्रथमपत्नी, उज्जयिनीराजस्य प्रद्योतस्य पुत्रीः । आवन्तिका - छद्मवेशधारिणी वासवदत्ता । पद्मावती - मगधराजस्य दर्शकस्य भगिनी, उदयनस्य द्वितीयपत्नी । अङ्गारवती - प्रद्योतस्यराणि, वासवदत्तायाः माता । तापसी - मगजराज्यस्य तपोवने विद्यमाना तपस्विनी । मधुकरिका, पद्मिनिका - पद्मावत्याः सख्यौ । धात्री - पद्मावत्याः उपमाता । वसुन्धरा - वासवदत्ताया धात्री । विजया - वत्सराजस्य प्रतीहारी ॥ । स्वप्नवासवदत्तम् ॥ (नान्द्यन्ते ततः प्रविशति सूत्रधारः ।) सूत्रधारः - उदयनवेन्दुसवर्णावासवदत्ताबलौ बलस्य त्वाम् । पद्मावतीर्णपूर्णौ वसन्तकम्रौ भुजौ पाताम् ॥ 1 ॥ एवमार्यमिश्रान् विज्ञापयामि । अये । किं नु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग । पश्यामि । (नेपथ्ये) उस्सरह उस्सरह अय्या ! उस्सरह । (उत्सरतोत्सरतार्या ! उत्सरत ।) सूत्रधारः - भवतु, विज्ञातम् । भृत्यैर्मगधराजस्य स्निग्धैः कन्यानुगामिभिः । घृष्टमुत्सार्यते सर्वस्तपोवनगतो जनः ॥ 2 ॥ (निष्क्रान्तः) ॥ इति स्थापना ॥ अथ प्रथमोऽङ्कः (प्रविश्य) भटौ - उस्सरह उस्सरह अय्या ! उस्सरह । (उत्सरतोत्सरतार्याः उत्सरत ।) (ततः प्रविशति परिव्राजकवेषो यौगन्धरायणः, आवन्तिकावेषधारिणी वासवदत्ता च ।) यौगन्धरायणः - (कर्णं दत्त्वा) कथमिहाप्युत्सार्यते । कुतः, धीरस्याश्रमसंश्रितस्य वसतस्तुष्टस्य वन्यैः फलैर्मानार्हस्य जनस्य वल्कलवतस्त्रासः समुत्पाद्यते । उत्सिक्तो विनयादपेतपुरुषो भाग्यैश्चलैर्विस्मितः कोऽयं भो! निभृतं तपोवनमिदं ग्रामीकरोत्याज्ञया ॥ 3 ॥ वासवदत्ता - अय्य! को एसो उस्सारेदि । (आर्य! क एष उत्सारयति?) यौगन्धरायणः - भवति! यो धर्मादात्मानमुत्सारयति । वासवदत्ता - अय्य । ण हि एव्वं वत्तुकामा, अहं वि णाम उस्सारइदव्वा होमि त्ति । (आर्य! न ह्येवं वक्तुकामा । अहमपि नामोत्सारयितव्या भवामीति ।) यौगन्धरायणः - भवति! एवमनिज्र्ञातानि दैवतान्यवधूयन्ते । वासवदत्ता - अय्य! तह परिस्समो परिखेदं ण उप्पादेदि, जह अअं परिभवो । (आर्य! तथा परिश्रमः परिखेदं नोत्पादयति, यथायं परिभवः । ) यौगन्धरायणः - भुक्तोज्झित एष विषयोऽत्रभवत्या । नात्र चिन्ता कार्या । कुतः, पूर्वं त्वयाप्यभिमतं गतमेवमासीच्छ्लाध्यं गमिष्यसि पुनर्विजयेन भर्तुः । कालक्रमेण जगतः परिवर्तमाना चक्रारपङ्क्तिरिव गच्छति भाग्यपङ्क्तिः ॥ 4 ॥ भटौ - उस्सरह अय्या ! उस्सरह । (उत्सरतार्याः उत्सरत ।) (ततः प्रविशिति काञ्चुकीयः) काञ्चुकीयः - सम्भषक! न खलु न खलूत्सारणा कार्या । पश्य, परिहरतु भवान् नृपापवादं न परुषमाश्रमवासिषु प्रयोज्यम् । नगरपरिभवान् विमोक्तुमेते वनमभिगम्य मनस्विनो वसन्ति ॥ 5 ॥ 8 भटौ- अय्य! तह (आर्य! तथा ।) (इति निष्क्रान्तौ) उभौ - अय्य! तह (आर्य! तथा ।) (निष्क्रन्तौ) यौगन्धरायणः - हन्त सविज्ञानमस्य दर्शनम् । वत्से ! उपसर्पावस्तावदेनम् । वासवदत्ता - अय्य ! तह । (आर्य ! तथा ।) यौगन्धरायणः - (उपसृत्य) भोः किङ्कृतेयमुत्सारणा । काञ्चुकीयः - भोस्तपस्विन् ! यौगन्धरायणः - (आत्मगतम्) तपस्विन्निति गुणवान् खल्वयमालापः । अपरिचयात्तु न शिल्ष्यते मे मनसि । काञ्चुकीयः - भोः ! श्रूयताम् । एषा खलु गुरुभिरभिहितनामधेयस्यास्माकं महाराजदर्शकस्य भगिनी पद्मावती नाम । सैषा नो महाराजमातरं महादेवीमाश्रमस्थामभिगम्यानुज्ञाता तत्रभवत्या राजगृहमेव यास्यति । तदद्यास्मिन्नाश्रमपदे वासोऽभिप्रेतोऽस्याः । तद् भवन्तः तीर्थोदकानि समिधः कुसुमानि दर्भान् स्वैरं वनादुपनयन्तु तपोधनानि । धर्मप्रिया नृपसुता न हि धर्मपीडामिच्छेत् तपस्विषु कुलव्रतमेतदस्याः ॥ 6 ॥ यौगन्धरायणः - (स्वगतम्) एवम् । एषा सा मगधराजपुत्री पद्मावती नाम, या पुष्पकभद्रादिभिरादेशिकैरादिष्टा स्वामिनो देवी भविष्यतीति । ततः, प्रद्वेषो बहुमानो वा सङ्कल्पादुपजायते । भर्तृदाराभिलाषित्वादस्यां मे महती स्वता ॥ 7 ॥ वासवदत्ता - (स्वगतम्) राअदारिअत्ति सुणिअ भइणिआसिणेहो वि मे एत्थ सम्पज्जइ ॥ (राजदारिकेति श्रुत्वा भगिनिकास्नेहोऽपि मेऽत्र सम्पद्यते ।) (ततः प्रविशति पद्मावती सपरिवारा चेटी च) चेटी - एदु एदु भट्टिदारिआ, इदमस्समपदं, पविसदु ॥ (एत्वेतु भर्तृदारिका, इदमाश्रमपदम्! प्रविशतु ।) (ततः प्रविशत्युपविष्टा तापसी) तापसी - साअदं राअदारिआए ॥ (स्वागतं राजदारिकायाः ।) वासवदत्ता - (स्वगतम्) इअं सा राअदारिआ । अभिजणाणुरूवं खु से रूवं (इयं सा राजदारिका । अभिजनानुरूपं खल्वस्या रूपम् ।) पद्मावती - अय्ये ! वन्दामि । (आर्ये ! वन्दे ।) तापसी - चिरं जीव । पविस । जादे ! पविस । तवोवणाणि णाम अदिहिजणस्स सअगेहम् । (चिरं जीव । प्रविश जाते ! प्रविश । तपोवनानि नामातिथिजनस्य स्वगेहम् ।) पद्मावती - भोदु भोदु । अय्ये ! विस्सत्थम्हि । इमिणा बहुमाणवअणेण अणुग्गहिदम्हि ॥ (भवतु, भवतु । आर्ये ! विश्वस्तास्मि । अनेन बहुमानवचनेनानुगृहीतास्मि ।) वासवदत्ता - (स्वगतम्) ण हि रूवमेव्व, वाआ वि खु से महुरा । (न हि रूपमेव, वागपि खल्वस्या मधुरा ।) तापसी - भद्दे ! इमं दाव भद्दमुहस्स भइणिअं कोच्चि राआ ण वरेदि । (भद्रे! इमां तावद् भद्रमुखस्य भगिनिकां कश्चिद् राजा न वरयति ?) चेटी - अत्थि राआ पज्जोदो णाम उज्जइणीए । सो दारअस्स कारणादो दूदसम्पादं करेदि । (अस्ति राजा प्रद्योतो नामोज्जयिन्याः । स दारकस्य कारणाद् दूतसम्पातं करोति ।) वासवदत्ता - (आत्मगतम्) भोदु भोदु । एसा अ अत्तणीआ दाणिं संवुत्ता । (भवतु भवतु । एषा चात्मीयेदानीं संवृत्ता ।)9 तापसी - अरिहा खु इअमाइदी इमस्स बहुमाणस्स । उभआणि राअउलाणि महत्तराणि त्ति सुणीअदि । (अर्हा खल्वियमाकृतिरस्य बहुमानस्य । उभे राजकुले महत्तरे इति श्रूयते ।) पद्मावती - अय्य! किं दिट्ठो मुणिजणो उत्ताणमणुग्गहीदुं ? अभिप्पेदप्पदाणेण तवस्सिजणो उवणिमन्तीअदु दाव को किमेत्थ इच्छदि त्ति । (आर्य! किं दृष्टो मुनिजन आत्मानमनुग्रहीतुम्? अभिप्रेतप्रदानेन तपस्विजन उपनिमन्त्र्यतां तावत् कः किमत्रेच्छतीति?) काञ्चुकीयः - यदभिप्रेतं भवत्या । भो भो आश्रमवासिनस्तपस्विनः । श्रृण्वन्तु श्रृण्वन्तु भवन्तः । इहात्रभवती मगधराजपुत्री अनेन विस्रम्भेणोत्पादितविस्रम्भा धर्मार्थमर्थेनोपनिमन्त्रयते । कस्यार्थः कलशेन को मृगयते वासो यथानिश्चितं दीक्षां पारितवान् किमिच्छति पुनर्देयं गुरोर्यद् भवेत् । आत्मानुग्रहमिच्छतीह नृपजा धर्माभिरामप्रिया यद् यस्यास्ति समीप्सितं वदतु तत् कस्याद्य किं दीयताम् ॥ 8 ॥ यौगन्धरायणः - हन्त! दृष्ट उपायः (प्रकाशम्) भोः अहमर्थी । पद्मावती - दिट्ठिआ सहलं मे तवोवणाभिगमणम् । (दिष्टया सफलं मे तपोवनाभिगमनम् ।) तापसी - सन्तुट्ठतपस्सिजणमिदमस्समपदम् । आअन्तुएण इमिणा होदव्वम् । (सन्तुष्टतपस्विजनमिदमाश्रमपदम् । आगन्तुकेनानेन भवितव्यम् ।) काञ्चुकीयः - भोः किं क्रियताम् । यौगन्धरायणः - इयं मे स्वसा । प्रोषितभर्तृकामिमामिच्छाम्यत्रभवत्या कञ्चित् कालं परिपाल्यमानाम् । कुतः, कार्यं नैवार्थैर्नापि भोगैर्न वस्त्रैर्नाहं काषायं वृत्तिहेतोः प्रपन्नः । धीरा कन्येयं दृष्टधर्मप्रचारा शक्ता चारित्रं रक्षितुं मे भगिन्याः ॥ 9 ॥ वासवदत्ता - (आत्मगतम्) हम् । इह मं णिक्खिविदुकामो अय्ययोगेन्धराअणो । होदु, अविआरिअ कमं ण करिस्सदि । (हम् । इह मां निक्षेप्तुकाम आर्ययौगन्धरायणः । भवतु, अविचार्य क्रमं न करिष्यति ।) काञ्चुकीय - भवति! महतो खल्वस्य व्यपाश्रयणा । कथं प्रतिजानीमः कुतः, सुखमर्थो भवेद्दातुं सुखं प्राणाः सुखं तपः । सुखमन्यद् भवेत् सर्वं दुःखं न्यासस्य रक्षणम् ॥ 10 ॥ पद्मावती - अस्य! पढममुग्घोसिअ को कि इच्छदित्ति अजुतं दाणिं विआरिदुम् । जमेसो भणादि, तमणुचिट्ठदु अय्यो । (आर्य ! प्रथममुद्धोष्य कः किमिच्छतीत्ययुक्तमिदानीं विचारयितुम् । यदेष भणति तदनुतिष्ठत्वार्यः । काञ्चुकीयः - अनुरूपमेतद्भवत्याभिहितम् । चेटी - चिरं जीवदु भट्टिदारिआ एवं सच्चवादिणी । (चिरं जीवतु भर्र्तृदारिकैवं सत्यवादिनी ।) तापसी - चिरं जीवदु भद्दे! (चिरं जीवतु भद्रे !) काञ्चुकीयः - भवति! तथा । (उपागम्य) भो ! अभ्युपगतमत्रभवतो भगिन्याः परिपालनमत्रभवत्या । यौगन्धरायणः - अनुगृहीतोऽस्मि तत्रभवत्या । वत्से ! उपसर्पात्रभवतीम् । वासवदत्ता - (आत्मगतम्) का गई । एसा गच्छामि मन्दभाआ । (का गतिः । एषा गच्छामि मन्दभागा ।) पद्मावती - भोदु, भोदु । अत्तणीआ दाणिं संवुत्ता । (भवतु, भवतु । आत्मीयेदानीं संवृत्ता ।) तापसी - जा ईदिसी से आइदी, इयं वि राअदारिअत्ति तक्केमि । (या ईदृश्यस्या आकृतिः, इयमपि राजदारिकेति तर्कयामि ।) चेटी - सुट्ठु अय्या भणादि । अहं वि अणुहूदसुहत्ति पेवखामि । (सुष्ठु आर्या भणति । अहमप्यनुभूतसुखेति प्रेक्षे)10 योगन्धरायणः - (आत्मगतम्) हन्त भोः ! अर्धमवसितं भारस्य । यथा मन्त्रिभिः सह समर्थितं, तथा परिणमति । ततः प्रतिष्ठिते स्वामिनि तत्रभवतीमुपनयतो मे इहात्रभवती मगधराजपुत्री विश्वासस्थानं भविष्यति । कुतः, पद्मावती नरपतेर्महिषी भवित्री दृष्टा विपत्तिरथ यैः प्रथमं प्रदिष्टा । तत्प्रत्ययात् कृतमिदं न हि सिद्धवाक्यान्युत्क्रम्य गच्छति विधिः सुपरीक्षितानि ॥ 11 ॥ (ततः प्रविशति ब्रह्मचारी) ब्रह्मचारी - (ऊध्र्वमवलोक्य) स्थितो मध्याह्नः । दृढमस्मि परिश्रान्तः । अथ कस्मिन् प्रदेशे विश्रमयिष्ये । (परिक्रम्य) भवतु, दृष्टम् ।
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 28 Oct 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine