प्रमाणपद्धतिः
/ 8
←

Pramanapaddhati Telugu PDF & Online Reader (ప్రమాణపద్ధతిః)

Pramanapaddhati (प्रमाणपद्धतिः) by Jayatirtha (जयतीर्थः) — Telugu Text & PDF Download

📜 Last Proofread: 29 Aug 2026
📥 Download Telugu PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 29 Aug 2026
📥 Download PDF ♡ Save
🌐 Language & Script తెలుగు
↔️ Text Alignment Center
॥ प्रमाणपद्धतिः ॥ (श्रीजयतीर्थविरचिता) ॥ प्रत्यक्षपरिच्छेदः ॥ यद्यपि भगवत्पादैरेव प्रमाणलक्षणादिकमभिहितम् । तथाऽपि गम्भीरया वाचा विक्षिप्य वर्णितं न मन्दैः शक्यते सुखेन बोद्धुमिति तदर्थमिदं प्रकरणमारभ्यते । ॥ लक्षणस्वरूपम् ॥ यो धर्मो लक्ष्ये व्याप्त्या वर्तते, न वर्तते च अन्यत्र, स धर्मो लक्षणमित्युच्यते । यथा गोः सास्नादिमत्वम् । तद्धि गोषु सर्वत्र अस्ति, नास्ति च अगोषु । ॥ अलक्षणस्वरूपम् ॥ अन्यथाभूतं तु अलक्षणम् । तत् त्रिविधम् । असम्भवि, यल्लक्ष्ये सर्वथा न वर्तते । यथा गोरेकशफत्वम् । अव्यापकं, यल्लक्ष्यैकदेशे वर्तमानमपि तदेकदेशान्तरे न वर्तते । यथा गोः शबलत्वम् । अतिव्यापकं, यल्लक्ष्यादन्यत्रापि वर्तते । यथा विषाणित्वम् । ॥ लक्षणज्ञानप्रयोजनम् ॥ सजातीयविजातीयव्यावृत्ततया लक्ष्यावधारणं लक्षणज्ञानस्य प्रयोजनम् । अस्मिन्ग्रामे देवदत्तगृहमिति वार्तां श्रुतवतो हि तद्ग्रामस्थेषु सर्वेष्वपि गृशेषु देवदत्तगृहबुद्धिः प्रसक्ता । ततो यत्र पताका तत्देवदत्तगृहमिति तल्लक्षणज्ञाने सति, इदमेव, नान्यदित्यवधारणं जायते । शब्दव्यवहारो वा लक्षणज्ञानस्य प्रयोजनम् । ॥ लक्ष्यस्वरूपम् ॥ सास्नादिमान् गौरिति लक्षणज्ञाने सति, यं यं सास्नादिमन्तं पिण्डं पश्यति, तं तं गोशब्दवाच्यं प्रत्येति । यावदन्यतो व्यावर्तनीयं, यावति चैकः शब्दो व्युत्पादनीयः, तदुच्यते लक्ष्यमिति । ॥ प्रमाणस्य सामान्यलक्षणम् ॥ तत्र आदौ तावत्प्रमाणसामान्यलक्षणमुच्यते । यथार्थं प्रमाणम् । प्रमाणमिति लक्ष्यनिर्देशः । यथार्थमिति लक्षणोक्तिः । एवमुत्तरत्रापि ज्ञातव्यम् । अत्र यथाशब्दोऽनतिक्रमे वर्तते । अर्थशब्दश्चार्थ्यते इति व्युत्पत्तया ज्ञेयवाची । ज्ञेयमनतिक्रम्य वर्तमानं, यथावस्थितमेव ज्ञेयं यद्विषयीकरोति, नान्यथा, तत्प्रमाणमित्यर्थः । ज्ञेयविषयीकारित्वं च साक्षाद्वा, साक्षाज्ज्ञेयविषयीकारिसाधनत्वेन वा विवक्षितमिति न अनुप्रमाणेष्वव्याप्तिः । ज्ञेयविषयीकारित्वेनैव प्रमातृप्रमेययोर्व्यवच्छेदः । तयोः साक्षाज्ज्ञेयविषयीकारित्वाभावात् । साक्षाज्ज्ञेयविषयीकारिकारणत्वेऽपि तत्साधनत्वाभावाच्च । प्रमावान्प्रमाता । प्रमाविषयः प्रमेयम् । यथार्थज्ञानं प्रमा । यथार्थग्रहणेन संशयविपर्ययतत्साधनानां निरासः । अनवधारणज्ञानं संशयः । अनवधारणग्रहणं सम्यज्जञानविपर्ययव्युदासार्थम् । घटादिनिवृत्त्यर्थं ज्ञानमिति । तस्य निर्णायकाभावसहकृताः साधारणधर्माऽसाधारणधर्मविप्रतिपत्तयुपलब्ध्यनुपलब्धयः पञ्च कारणानीति केचिदाहुः । तद्यथा स्थाणुपुरुषयोः साधारणमूर्ध्वतालक्षणं धर्मं पुरोवर्तिन्युपलभ्य स्थाणुपुरुषो स्मृत्वा, विशेषजिज्ञासायां स्थाणुत्वनिश्चायकं वक्रकोटरादिकं, पुरुषत्वनिश्चायकं शिरःपाण्यादिकं चानुपलभमानस्य डोलायमानं संशयज्ञानमुत्पद्यते, किमयं स्थाणुर्वा, पुरुशो वा इति । शब्दे चाकाशविशेषगुणत्वमसाधारणधर्ममुपलभमानस्य निर्णायकमजानतः संशयो भवति, किं शब्दो नित्योऽनित्यो वेति । इन्द्रियेषु वैशेषिकसाङ्ख्ययोर्भौतिकत्वाभौतिकत्वविप्रतिपत्तिं पश्यतो निश्चायकमजानतः सन्देहो भवति, किमिन्द्रियाणि भौतिकान्युताऽभौतिकानीति । कूपखननानन्तरं जलोपलब्धौ सत्यां, निश्चायकाभावे संशयो जायते, किं प्राक्सदेवोदकं कूपखननेनाभिव्यक्तमुपलभ्यते, उतासत्तेनोत्पन्नमिति । अस्मिन्वटे पिशाचः अस्तीति वार्थां श्रुतवतो वटसमीपं गतस्य, तत्र पिशाचानुपलब्धौ सत्यां निर्णायकाभावे संशयो भवति, किं विद्यमान एव पिशाचोऽन्तर्धानशक्त्यानोपलभ्यते, किंवाऽविद्यमान एवेति । उपलब्ध्यनुपलब्ध्योः साधारणधर्म एवान्तर्भावात्त्रीण्येव कारणानीत्यपरे । उपलब्धिर्हि सतामेव घटादीनां प्रदीपारोपणेन दृष्टा । असतां च कुलालादिव्यापारानन्तरमिति । तथाऽनुपलब्धिः सतामीश्वरादीनामसतां च शशविषणादीनां दृष्टेति । वयं तु ब्रूमः । असाधारणधर्मविप्रतिपत्त्योरपि साधारणधर्म एवान्तर्भावः । असाधारणो हि धर्मो न स्वरूपेण संशयहेतुः । विशेषस्मरणकारणत्वाभावात् । किन्तु व्यावृत्तिमुखेनैव । तथा च नित्यव्यावृत्तत्वमनित्यस्य, अनित्यव्यावृत्तत्वं च नित्यस्य धर्म इति साधारण एव । न चैकेनैव साधारणधर्मेण भाव्यमिति नियमोऽस्ति । तथा तथा प्रतिपन्नत्वं तस्य तस्य धर्म इति विप्रतिपत्तिरपि साधारणीति । विपरीतनिश्चयो विपर्ययः । विपरीतेति सम्यङ्निश्चयव्युदासः । निश्चयः इति संशयज्ञानस्य । स च प्रत्यक्षानुमानागमाभासेभ्यो जायते । यथा शुक्तिकायामिदं रजतमित्यादि । ॥ अयथार्थज्ञानविषये प्राभाकरादिमतखण्डनम् ॥ अयथार्थज्ञानमेव नास्तीति प्राभाकरादयः । तन्न । अनुभवसिद्धत्वात् । एतावन्तं कालमहं शुक्तिकामेव रजतत्वेन प्रतिपन्नोऽस्मीत्युत्तरकाले परामर्शाच्च । प्रतीतं च रजतं देशान्तरे सदेवेति वैशेषिकादयः । ज्ञानस्वरूपमेवेति विज्ञानवादिनः । तत्रैव तात्कालिकमुत्पन्नं सदिति भास्करः । न सन्नासन्न सदसत् । किन्त्वनिर्वचनीयमेवेति मायावादिनः । असदेव रजतं प्रत्यभादित्युत्तरकालीनानुभवाच्छुतिरेव अत्यन्तासद्रजतात्मना प्रतिभातीत्याचार्याः । अनध्यवसायः स्वप्नश्चायथार्थज्ञानान्तरमस्तीति वैशेषिकाः । किं सङ्ज्ञकोऽयं वृक्ष इत्यनध्यवसायः । स तु कोटीनामतिबाहुल्यादनिर्दिष्टकोटिकः संशय एव । वटादिव्यावृत्तिं पश्यतोऽपि पनसे यत्किं सङ्ज्ञकोऽयं वृक्ष इत्युत्पद्यते, तज्जञानमेव न भवति । किन्तु सङ्ज्ञाविषयं जिज्ञासामात्रम् । स्वप्नेऽपि गजादिदर्शनं चेद्यथार्थमेव । मानसवासनाजन्यत्वाद्रजादीनाम् । तेषु यद्बाह्यत्वज्ञानं स विपर्यय एव । बाह्यालीप्रदेशे, पुरुषेणानेन भवितव्यमित्यूहापरनामकं सम्भावनाज्ञानमप्यन्यतरकोटिप्रापकप्राचुर्यनिमित्तोऽन्यतरकोटिप्रधानः संशय एव । ॥ तर्कस्य द्वैतसिद्धान्तरीत्या अनुमानस्वरूपत्वम् ॥ तर्कोऽनुमानमेवेति वक्ष्यामः । स्मृतावतिव्यापकं प्रमाणलक्षणमिति चेन्न । तस्या अपि प्रमाणत्वेन लोकवेदयोः संव्यवहारात् । ॥ प्रमाणलक्षणम्, ॥ अनुभूतिः प्रमाणम् । स्मृतिव्यतिरिक्तं ज्ञानमनुभूतिरिति प्राभाकराणां लक्षणम् । संशयविपर्ययव्यापकत्वात् स्मृतौ वेदादिषु च यथार्थज्ञानसाधनेष्वव्यापकत्वाच्चायुक्तम् । ॥ प्रमाणलक्षणविषये भाट्टमतखण्डनम् ॥ ज्ञातताप्राकट्यापरपर्यायवाच्यस्य प्रमेयाश्रितस्य प्रकाशविशेषस्य साधनं क्रियाज्ञानं प्रमाणमिति भाट्टानां लक्षणमप्ययुक्तम् । ज्ञानव्यतिरिक्तायां ज्ञाततायां प्रमाणाभावेनासम्भावितत्वात् । अतीतादिविषयज्ञानानामाश्रयाभावेन तज्जनकत्वायोजाच्च वेदादिष्वव्याप्तेश्च । अनधिगततथाभूतार्थज्ञानं प्रमाणमिति तेशामेव लक्षणान्तरमप्ययुक्तं स्मृतौ वेदादिषु चाव्याप्तेः । ॥ प्रमाणलक्षणविषये नैय्यायिकमतखण्डनम् ॥ सम्यगनुभवसाधनं प्रमाणमिति नैयायिकादयः । तदप्यसत् । यथार्थज्ञानेऽव्याप्तेः । प्रमाव्याप्तं प्रमाणमित्युदयनः । तदपि सर्वस्यापि प्रमेयस्येश्वरप्रमाव्याप्तत्वेनातिव्यापकत्वादयुक्तम् । साधनाश्रययोरन्यतरत्वे सति प्रमाव्याप्तत्वं विवक्षितमिति चेन्न । आश्रयग्रहणवैयर्थ्यात् । ईश्वरस्यापि प्रामाण्यसिध्यर्थं तदिति चेन्न । कर्तरि प्रमाणशब्दस्याननुशासनात् । यथार्थज्ञानेष्वव्याप्तेश्च । तस्माद्याथार्थ्यमेव प्रमाणलक्षणं युक्तम् । ॥ प्रमाणस्य द्वैविध्यम् ॥ द्विविधं प्रमाणं, केवलमनुप्रमाणं चेति । तत्र यथार्थज्ञानं केवलप्रमाणम् । यथार्थमिति संशयादिव्युदासः । ज्ञानमिति प्रत्यक्षस्य । लिङ्गज्ञानं वाक्यज्ञानं च लिङ्गिनि वाक्यार्थे चानुप्रमाणमपि लिङ्गे वाक्ये च केवलप्रमाणमिति नातिव्याप्तिः । इदं च साक्षाज्ज्ञेयविषयीकारित्वात्केवलमित्युच्यते । ॥ केवलज्ञानविभागः ॥ तच्च चतुर्विधम् । ईश्वरज्ञानं, लक्ष्मीज्ञानं, योगिज्ञानं, अयोगिज्ञानं चेति । तत्र सर्वार्थविषयकमीश्वरज्ञनम् । नियमेन यथार्थम् । तत्स्वरूपमनादिनित्यम् । स्वतन्त्रम् । निरतिशयस्पष्टं च । ईश्वरे त्वसार्वत्रिकमन्यत्रानालोचनेऽपि सर्वविषयं लक्ष्मीज्ञानम् । तदपि नियमेन यथार्थम् । तत्स्वरूपमनादि नित्यं च । ईश्वरैकाधीनम् । तदपेक्षया स्पष्टत्वे न्यूनम् । स्पष्टत्वं चापरोक्षत्ववज्जञानगत एव विशेषो न विषयौपाधिकः । ॥ योगिज्ञानविभागः ॥ योगप्रभावलब्धातिशयं योगज्ञानम् । तत्त्रिविधम् । ऋजुयोगिज्ञानं, तात्त्विकयोगिज्ञानमतात्तविकयोगिज्ञानं चेति । ऋजवो नाम ब्रह्मत्वयोग्या जीवाः । ईश्वरादन्यत्र आलोचने सर्वविषयं तज्जञानम् । ईश्वरेत्वसार्वत्रिकमेव । तद् द्विविधम् । स्वरूपं, मनोवृत्तिरूपं च इति । तत्र स्वरूपमनादिनित्यम् । योगप्रभावादामुक्तेः व्यक्त्यतिशयोपेतम् । मुक्तावेकप्रकारम् । वृत्तिज्ञानं तु प्रवाहतोऽनादि । योगानुगृहीतप्रत्यक्षादिजन्यम् । मुक्तौ तु नास्त्येव । द्वयमपि नियमेन यथार्थम् । ईश्वरे त्वन्यजीवेभ्योऽधिकविषयम् । तदतिरिक्तास्तत्तवाभिमानिनो देवाः तात्विकाः । अनादित्वे सतीश्वरादन्यत्रालोचनेऽप्यसर्वविषयं तज्जञानम् । तदपि स्वरूपं, बाह्यं चेति द्विविधम् । तस्यानादित्वं पूर्ववत् । स्वरूपं यथार्थमेव । बाह्यं कदाचिदयथार्थमपि । तद्व्यतिरिक्ता देवादयो योगिनोऽतात्विकाः । सादित्वे सतीश्वरादन्यत्राल्पाज्ञानयुक्तं तज्जञानम् । तदपि पूर्ववद्द्विविधम् । तत्र स्वरूपस्य सादित्वं व्यक्त्यपेक्षया । अन्यस्य प्रवाहोत्पत्त्यपेक्षया । याथार्थनियमादि पूर्ववत् । ॥ अयोगिज्ञानविभागः ॥ तद्व्यतिरिक्ता जीवा अयोगिनः । ईश्वरादन्यत्राज्ञानप्रचुरं तज्जञानम् । तदपि पूर्ववत्द्विविधम् । उत्पत्तिविनाशवच्च । अयोगिनोऽपि त्रिविधाः । मुक्तियोग्या नित्यसंसारिणस्तमोयोग्याश्चेति । तत्र मुक्तियोग्यानां स्वरूपज्ञानं यथार्थमेव । नित्यसंसारिणां तु मिश्रम् । अन्येषामयथार्थमेव । बाह्यं तु त्रयाणामप्युभयविधमिति । ॥ यथार्थज्ञानविषये वैशेषिकमतखण्डनम् ॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 29 Aug 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine