॥ प्रमाणपद्धतिः ॥
(श्रीजयतीर्थविरचिता)
॥ प्रत्यक्षपरिच्छेदः ॥
यद्यपि भगवत्पादैरेव प्रमाणलक्षणादिकमभिहितम् । तथाऽपि गम्भीरया वाचा विक्षिप्य वर्णितं न मन्दैः शक्यते सुखेन बोद्धुमिति तदर्थमिदं प्रकरणमारभ्यते ।
॥ लक्षणस्वरूपम् ॥
यो धर्मो लक्ष्ये व्याप्त्या वर्तते, न वर्तते च अन्यत्र, स धर्मो लक्षणमित्युच्यते । यथा गोः सास्नादिमत्वम् । तद्धि गोषु सर्वत्र अस्ति, नास्ति च अगोषु ।
॥ अलक्षणस्वरूपम् ॥
अन्यथाभूतं तु अलक्षणम् । तत् त्रिविधम् । असम्भवि, यल्लक्ष्ये सर्वथा न वर्तते । यथा गोरेकशफत्वम् । अव्यापकं, यल्लक्ष्यैकदेशे वर्तमानमपि तदेकदेशान्तरे न वर्तते । यथा गोः शबलत्वम् । अतिव्यापकं, यल्लक्ष्यादन्यत्रापि वर्तते । यथा विषाणित्वम् ।
॥ लक्षणज्ञानप्रयोजनम् ॥
सजातीयविजातीयव्यावृत्ततया लक्ष्यावधारणं लक्षणज्ञानस्य प्रयोजनम् । अस्मिन्ग्रामे देवदत्तगृहमिति वार्तां श्रुतवतो हि तद्ग्रामस्थेषु सर्वेष्वपि गृशेषु देवदत्तगृहबुद्धिः प्रसक्ता । ततो यत्र पताका तत्देवदत्तगृहमिति तल्लक्षणज्ञाने सति, इदमेव, नान्यदित्यवधारणं जायते । शब्दव्यवहारो वा लक्षणज्ञानस्य प्रयोजनम् ।
॥ लक्ष्यस्वरूपम् ॥
सास्नादिमान् गौरिति लक्षणज्ञाने सति, यं यं सास्नादिमन्तं पिण्डं पश्यति, तं तं गोशब्दवाच्यं प्रत्येति । यावदन्यतो व्यावर्तनीयं, यावति चैकः शब्दो व्युत्पादनीयः, तदुच्यते लक्ष्यमिति ।
॥ प्रमाणस्य सामान्यलक्षणम् ॥
तत्र आदौ तावत्प्रमाणसामान्यलक्षणमुच्यते । यथार्थं प्रमाणम् । प्रमाणमिति लक्ष्यनिर्देशः । यथार्थमिति लक्षणोक्तिः । एवमुत्तरत्रापि ज्ञातव्यम् । अत्र यथाशब्दोऽनतिक्रमे वर्तते । अर्थशब्दश्चार्थ्यते इति व्युत्पत्तया ज्ञेयवाची । ज्ञेयमनतिक्रम्य वर्तमानं, यथावस्थितमेव ज्ञेयं यद्विषयीकरोति, नान्यथा, तत्प्रमाणमित्यर्थः ।
ज्ञेयविषयीकारित्वं च साक्षाद्वा, साक्षाज्ज्ञेयविषयीकारिसाधनत्वेन वा विवक्षितमिति न अनुप्रमाणेष्वव्याप्तिः । ज्ञेयविषयीकारित्वेनैव प्रमातृप्रमेययोर्व्यवच्छेदः । तयोः साक्षाज्ज्ञेयविषयीकारित्वाभावात् । साक्षाज्ज्ञेयविषयीकारिकारणत्वेऽपि तत्साधनत्वाभावाच्च ।
प्रमावान्प्रमाता । प्रमाविषयः प्रमेयम् । यथार्थज्ञानं प्रमा ।
यथार्थग्रहणेन संशयविपर्ययतत्साधनानां निरासः ।
अनवधारणज्ञानं संशयः । अनवधारणग्रहणं सम्यज्जञानविपर्ययव्युदासार्थम् । घटादिनिवृत्त्यर्थं ज्ञानमिति । तस्य निर्णायकाभावसहकृताः साधारणधर्माऽसाधारणधर्मविप्रतिपत्तयुपलब्ध्यनुपलब्धयः पञ्च कारणानीति केचिदाहुः । तद्यथा स्थाणुपुरुषयोः साधारणमूर्ध्वतालक्षणं धर्मं पुरोवर्तिन्युपलभ्य स्थाणुपुरुषो स्मृत्वा, विशेषजिज्ञासायां स्थाणुत्वनिश्चायकं वक्रकोटरादिकं, पुरुषत्वनिश्चायकं शिरःपाण्यादिकं चानुपलभमानस्य डोलायमानं संशयज्ञानमुत्पद्यते, किमयं स्थाणुर्वा, पुरुशो वा इति । शब्दे चाकाशविशेषगुणत्वमसाधारणधर्ममुपलभमानस्य निर्णायकमजानतः संशयो भवति, किं शब्दो नित्योऽनित्यो वेति ।
इन्द्रियेषु वैशेषिकसाङ्ख्ययोर्भौतिकत्वाभौतिकत्वविप्रतिपत्तिं पश्यतो निश्चायकमजानतः सन्देहो भवति, किमिन्द्रियाणि भौतिकान्युताऽभौतिकानीति । कूपखननानन्तरं जलोपलब्धौ सत्यां, निश्चायकाभावे संशयो जायते, किं प्राक्सदेवोदकं कूपखननेनाभिव्यक्तमुपलभ्यते, उतासत्तेनोत्पन्नमिति । अस्मिन्वटे पिशाचः अस्तीति वार्थां श्रुतवतो वटसमीपं गतस्य, तत्र पिशाचानुपलब्धौ सत्यां निर्णायकाभावे संशयो भवति, किं विद्यमान एव पिशाचोऽन्तर्धानशक्त्यानोपलभ्यते, किंवाऽविद्यमान एवेति । उपलब्ध्यनुपलब्ध्योः साधारणधर्म एवान्तर्भावात्त्रीण्येव कारणानीत्यपरे । उपलब्धिर्हि सतामेव घटादीनां प्रदीपारोपणेन दृष्टा । असतां च कुलालादिव्यापारानन्तरमिति । तथाऽनुपलब्धिः सतामीश्वरादीनामसतां च शशविषणादीनां दृष्टेति ।
वयं तु ब्रूमः । असाधारणधर्मविप्रतिपत्त्योरपि साधारणधर्म एवान्तर्भावः । असाधारणो हि धर्मो न स्वरूपेण संशयहेतुः । विशेषस्मरणकारणत्वाभावात् । किन्तु व्यावृत्तिमुखेनैव । तथा च नित्यव्यावृत्तत्वमनित्यस्य, अनित्यव्यावृत्तत्वं च नित्यस्य धर्म इति साधारण एव ।
न चैकेनैव साधारणधर्मेण भाव्यमिति नियमोऽस्ति । तथा तथा प्रतिपन्नत्वं तस्य तस्य धर्म इति विप्रतिपत्तिरपि साधारणीति । विपरीतनिश्चयो विपर्ययः । विपरीतेति सम्यङ्निश्चयव्युदासः । निश्चयः इति संशयज्ञानस्य । स च प्रत्यक्षानुमानागमाभासेभ्यो जायते । यथा शुक्तिकायामिदं रजतमित्यादि ।
॥ अयथार्थज्ञानविषये प्राभाकरादिमतखण्डनम् ॥
अयथार्थज्ञानमेव नास्तीति प्राभाकरादयः । तन्न । अनुभवसिद्धत्वात् । एतावन्तं कालमहं शुक्तिकामेव रजतत्वेन प्रतिपन्नोऽस्मीत्युत्तरकाले परामर्शाच्च । प्रतीतं च रजतं देशान्तरे सदेवेति वैशेषिकादयः । ज्ञानस्वरूपमेवेति विज्ञानवादिनः । तत्रैव तात्कालिकमुत्पन्नं सदिति भास्करः । न सन्नासन्न सदसत् । किन्त्वनिर्वचनीयमेवेति मायावादिनः । असदेव रजतं प्रत्यभादित्युत्तरकालीनानुभवाच्छुतिरेव अत्यन्तासद्रजतात्मना प्रतिभातीत्याचार्याः । अनध्यवसायः स्वप्नश्चायथार्थज्ञानान्तरमस्तीति वैशेषिकाः ।
किं सङ्ज्ञकोऽयं वृक्ष इत्यनध्यवसायः । स तु कोटीनामतिबाहुल्यादनिर्दिष्टकोटिकः संशय एव । वटादिव्यावृत्तिं पश्यतोऽपि पनसे यत्किं सङ्ज्ञकोऽयं वृक्ष इत्युत्पद्यते, तज्जञानमेव न भवति । किन्तु सङ्ज्ञाविषयं जिज्ञासामात्रम् । स्वप्नेऽपि गजादिदर्शनं चेद्यथार्थमेव । मानसवासनाजन्यत्वाद्रजादीनाम् । तेषु यद्बाह्यत्वज्ञानं स विपर्यय एव । बाह्यालीप्रदेशे, पुरुषेणानेन भवितव्यमित्यूहापरनामकं सम्भावनाज्ञानमप्यन्यतरकोटिप्रापकप्राचुर्यनिमित्तोऽन्यतरकोटिप्रधानः संशय एव ।
॥ तर्कस्य द्वैतसिद्धान्तरीत्या अनुमानस्वरूपत्वम् ॥
तर्कोऽनुमानमेवेति वक्ष्यामः । स्मृतावतिव्यापकं प्रमाणलक्षणमिति चेन्न । तस्या अपि प्रमाणत्वेन लोकवेदयोः संव्यवहारात् ।
॥ प्रमाणलक्षणम्, ॥
अनुभूतिः प्रमाणम् । स्मृतिव्यतिरिक्तं ज्ञानमनुभूतिरिति प्राभाकराणां लक्षणम् । संशयविपर्ययव्यापकत्वात् स्मृतौ वेदादिषु च यथार्थज्ञानसाधनेष्वव्यापकत्वाच्चायुक्तम् ।
॥ प्रमाणलक्षणविषये भाट्टमतखण्डनम् ॥
ज्ञातताप्राकट्यापरपर्यायवाच्यस्य प्रमेयाश्रितस्य प्रकाशविशेषस्य साधनं क्रियाज्ञानं प्रमाणमिति भाट्टानां लक्षणमप्ययुक्तम् । ज्ञानव्यतिरिक्तायां ज्ञाततायां प्रमाणाभावेनासम्भावितत्वात् । अतीतादिविषयज्ञानानामाश्रयाभावेन तज्जनकत्वायोजाच्च वेदादिष्वव्याप्तेश्च । अनधिगततथाभूतार्थज्ञानं प्रमाणमिति तेशामेव लक्षणान्तरमप्ययुक्तं स्मृतौ वेदादिषु चाव्याप्तेः ।
॥ प्रमाणलक्षणविषये नैय्यायिकमतखण्डनम् ॥
सम्यगनुभवसाधनं प्रमाणमिति नैयायिकादयः । तदप्यसत् । यथार्थज्ञानेऽव्याप्तेः । प्रमाव्याप्तं प्रमाणमित्युदयनः । तदपि सर्वस्यापि प्रमेयस्येश्वरप्रमाव्याप्तत्वेनातिव्यापकत्वादयुक्तम् ।
साधनाश्रययोरन्यतरत्वे सति प्रमाव्याप्तत्वं विवक्षितमिति चेन्न । आश्रयग्रहणवैयर्थ्यात् । ईश्वरस्यापि प्रामाण्यसिध्यर्थं तदिति चेन्न । कर्तरि प्रमाणशब्दस्याननुशासनात् । यथार्थज्ञानेष्वव्याप्तेश्च । तस्माद्याथार्थ्यमेव प्रमाणलक्षणं युक्तम् ।
॥ प्रमाणस्य द्वैविध्यम् ॥
द्विविधं प्रमाणं, केवलमनुप्रमाणं चेति । तत्र यथार्थज्ञानं केवलप्रमाणम् । यथार्थमिति संशयादिव्युदासः । ज्ञानमिति प्रत्यक्षस्य । लिङ्गज्ञानं वाक्यज्ञानं च लिङ्गिनि वाक्यार्थे चानुप्रमाणमपि लिङ्गे वाक्ये च केवलप्रमाणमिति नातिव्याप्तिः । इदं च साक्षाज्ज्ञेयविषयीकारित्वात्केवलमित्युच्यते ।
॥ केवलज्ञानविभागः ॥
तच्च चतुर्विधम् । ईश्वरज्ञानं, लक्ष्मीज्ञानं, योगिज्ञानं, अयोगिज्ञानं चेति । तत्र सर्वार्थविषयकमीश्वरज्ञनम् । नियमेन यथार्थम् । तत्स्वरूपमनादिनित्यम् । स्वतन्त्रम् । निरतिशयस्पष्टं च । ईश्वरे त्वसार्वत्रिकमन्यत्रानालोचनेऽपि सर्वविषयं लक्ष्मीज्ञानम् । तदपि नियमेन यथार्थम् । तत्स्वरूपमनादि नित्यं च । ईश्वरैकाधीनम् । तदपेक्षया स्पष्टत्वे न्यूनम् । स्पष्टत्वं चापरोक्षत्ववज्जञानगत एव विशेषो न विषयौपाधिकः ।
॥ योगिज्ञानविभागः ॥
योगप्रभावलब्धातिशयं योगज्ञानम् । तत्त्रिविधम् । ऋजुयोगिज्ञानं, तात्त्विकयोगिज्ञानमतात्तविकयोगिज्ञानं चेति । ऋजवो नाम ब्रह्मत्वयोग्या जीवाः । ईश्वरादन्यत्र आलोचने सर्वविषयं तज्जञानम् । ईश्वरेत्वसार्वत्रिकमेव ।
तद् द्विविधम् । स्वरूपं, मनोवृत्तिरूपं च इति । तत्र स्वरूपमनादिनित्यम् । योगप्रभावादामुक्तेः व्यक्त्यतिशयोपेतम् । मुक्तावेकप्रकारम् ।
वृत्तिज्ञानं तु प्रवाहतोऽनादि । योगानुगृहीतप्रत्यक्षादिजन्यम् । मुक्तौ तु नास्त्येव । द्वयमपि नियमेन यथार्थम् । ईश्वरे त्वन्यजीवेभ्योऽधिकविषयम् ।
तदतिरिक्तास्तत्तवाभिमानिनो देवाः तात्विकाः । अनादित्वे सतीश्वरादन्यत्रालोचनेऽप्यसर्वविषयं तज्जञानम् । तदपि स्वरूपं, बाह्यं चेति द्विविधम् । तस्यानादित्वं पूर्ववत् । स्वरूपं यथार्थमेव । बाह्यं कदाचिदयथार्थमपि ।
तद्व्यतिरिक्ता देवादयो योगिनोऽतात्विकाः । सादित्वे सतीश्वरादन्यत्राल्पाज्ञानयुक्तं तज्जञानम् । तदपि पूर्ववद्द्विविधम् । तत्र स्वरूपस्य सादित्वं व्यक्त्यपेक्षया । अन्यस्य प्रवाहोत्पत्त्यपेक्षया । याथार्थनियमादि पूर्ववत् ।
॥ अयोगिज्ञानविभागः ॥
तद्व्यतिरिक्ता जीवा अयोगिनः । ईश्वरादन्यत्राज्ञानप्रचुरं तज्जञानम् । तदपि पूर्ववत्द्विविधम् । उत्पत्तिविनाशवच्च । अयोगिनोऽपि त्रिविधाः । मुक्तियोग्या नित्यसंसारिणस्तमोयोग्याश्चेति । तत्र मुक्तियोग्यानां स्वरूपज्ञानं यथार्थमेव । नित्यसंसारिणां तु मिश्रम् । अन्येषामयथार्थमेव । बाह्यं तु त्रयाणामप्युभयविधमिति ।
॥ यथार्थज्ञानविषये वैशेषिकमतखण्डनम् ॥