पातञ्जलयोगसूत्राणि
/ 3
←

Patanjalayogasutrani Tamil PDF & Online Reader (பாதஞ்ஜலயோக³ஸூத்ராணி)

Patanjalayogasutrani (पातञ्जलयोगसूत्राणि) by Patanjali (पतञ्जलिः) — Tamil Text & PDF Download

📜 Last Proofread: 27 Aug 2026
📥 Download Tamil PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 27 Aug 2026
📥 Download PDF ♡ Save
🌐 Language & Script தமிழ்
↔️ Text Alignment Center
पातञ्जलयोगसूत्राणि सस्वर ॥ महर्षि पतञ्जलि प्रणीतं योगदर्शनम् ॥ ॥ प्रथमोऽध्यायः ॥ ॥ समा॑धि-पा॒दः ॥ अ॒थ योगानु॑शास॒नम् ॥ १.१॥ योगश्चित्तवृत्ति॑निरो॒धः ॥ १.२॥ त॒दा द्र॒ष्टुः स्व॒रू॒पेऽ॑वस्था॒नम् ॥ १.३॥ वृत्तिसारूप्यमि॑तर॒त्र ॥ १.४॥ वृ॒त्त॒यः पञ्चतय्यः क्लि॑ष्टाऽक्लि॒ष्टाः ॥ १.५॥ प्र॒मा॒णवि॒प॒र्ययवि॒क॒ल्पनि॒द्रास्मृ॒तयः॑ ॥ १.६॥ प्र॒त्यक्षा॒नु॒माना॒ग॒माः प्र॑माणा॒नि ॥ १.७॥ वि॒प॒र्य॒यो मि॑थ्याज्ञा॒नमतद्रूप॑प्रति॒ष्ठम् ॥ १.८॥ श॒ब्दज्ञा॒ना॒नुपा॒ती वस्तुशून्यो॑ विक॒ल्पः ॥ १.९॥ अ॒भा॒वप्रत्ययालम्बना वृ॑त्तिर्नि॒द्रा ॥ १.१०॥ अ॒नु॒भूतविषया॒सम्प्रमोषः॑ स्मृ॒तिः ॥ १.११॥ अ॒भ्या॒सवै॒रा॒ग्या॒भ्यां त॑न्निरो॒धः ॥ १.१२॥ त॒त्र स्थि॒तौ य॑त्नोऽभ्या॒सः ॥ १.१३॥ स॒ तु दी॒र्घकालनै॒रन्तर्यस॒त्कारा॒सेवि॒तो दृ॑ढभू॒मिः ॥ १.१४॥ दृ॒ष्टानुश्रविकवि॒ष॒यवि॒तृष्णस्य व॒शीकारसंज्ञा॑ वैरा॒ग्यम् ॥ १.१५॥ त॒त्प॒रं पु॒रु॒षख्या॒तेर्गुण॑वैतृ॒ष्ण्यम् ॥ १.१६॥ वि॒त॒र्कवि॒चा॒रा॒नन्दा॒स्मि॒तारूपा॒नु॒ग॒मात् स॑म्प्रज्ञा॒तः ॥ १.१७॥ (स्मितास्वरूपानुगमात्, स्मितानुगमात्) वि॒रा॒मप्रत्यया॒भ्या॒सपू॒र्वः सं॒स्कारशे॒षोऽ॒न्यः ॥ १.१८॥ भ॒वप्र॒त्य॒यो विदेहप्रकृति॑लया॒नाम् ॥ १.१९॥ श्र॒द्धावी॒र्यस्मृ॒तिस॒मा॒धिप्र॒ज्ञापूर्वक इ॑तरे॒षाम् ॥ १.२०॥ तीव्रसंवेगाना॑मास॒न्नः ॥ १.२१॥ मृ॒दुम॒ध्या॒धिमा॒त्र॒त्वात् ततोऽपि॑ विशे॒षः ॥ १.२२॥ ईश्वरप्रणि॑धाना॒द्वा ॥ १.२३॥ क्ले॒शक॒र्मवि॒पा॒का॒श॒यैर॒प॒रामृष्टः पुरुषविशेष॑ ईश्व॒रः ॥ १.२४॥ त॒त्र नि॒र॒तिश॒यं सर्वज्ञ॑बी॒जम् ॥ १.२५॥ (सर्वज्ञत्वबीजम्) स पू॒र्वेषामपि गुरुः कालेनान॑वच्छे॒दात् ॥ १.२६॥ त॒स्य वा॒चकः प्र॒णवः॑ ॥ १.२७॥ तज्ज॒पस्तदर्थ॑भाव॒नम् ॥ १.२८॥ त॒तः प्र॒त्यक्चे॒त॒ना॒धिग॒मोऽ॒प्यन्तराया॑भाव॒श्च ॥ १.२९॥ व्या॒धिस्त्या॒नसं॒शयप्र॒मा॒दा॒लस्या॒वि॒र॒ति- भ्रा॒न्तिदर्शना॒ल॒ब्धभू॒मिकत्वा॒न॒व॒स्थि॒त॒त्वानि चि॒त्तवि॒क्षे॒पास्तेऽ॑न्तरा॒याः ॥ १.३०॥ दुः॒खदौ॒र्मनस्या॒ङ्ग॒मेजयत्वश्वा॒सप्र॒श्वा॒सा विक्षेपस॑हभु॒वः ॥ १.३१॥ तत्प्र॒ति॒षे॒धा॒र्थमेकत॑त्त्वाभ्या॒सः ॥ १.३२॥ मै॒त्रीक॒रु॒णामु॒दि॒तो॒पे॒क्षा॒णां सु॒खदुः॒खपुण्यापुण्यवि॑षया॒णां भा॒वनातश्चित्त॑प्रसा॒दनम् ॥ १.३३॥ प्र॒च्छर्दनवि॒धा॒र॒णा॒भ्यां वा॑ प्राण॒स्य ॥ १.३४॥ वि॒ष॒य॒व॒ती वा प्र॒वृ॒त्तिरु॒त्प॒न्ना म॒न॒सः स्थि॑तिनि॒ब॒न्धि॒नी ॥ १.३५॥ विशोका वा॑ ज्योतिष्म॒ती ॥ १.३६॥ वीतरागविषयं॑ वा चि॒त्तम् ॥ १.३७॥ स्व॒प्ननि॒द्राज्ञानाल॑म्बनं॒ वा ॥ १.३८॥ यथाभिमत॑ध्याना॒द्वा ॥ १.३९॥ प॒र॒माणु प॒र॒मम॒ह॒त्त्वान्तोऽस्य व॑शीका॒रः ॥ १.४०॥ क्षी॒णवृ॒त्तेर॒भिजातस्येव॑ म॒णेर्ग्र॒ही॒तृग्र॒ह॒णग्रा॒ह्येषु तत्स्थतद॒ञ्ज॒न॒ता स॑माप॒त्तिः ॥ १.४१॥ तत्र श॒ब्दा॒र्थज्ञा॒नवि॒क॒ल्पैः स॒ङ्की॒र्णा स॒वि॒त॒र्का स॑माप॒त्तिः ॥ १.४२॥ स्मृ॒ति॒प॒रि॒शु॒द्धौ स्व॒रू॒पशू॒न्येवा॒र्थमा॒त्रनि॒र्भा॒सा नि॑र्वित॒र्का ॥ १.४३॥ ए॒तयैव स॒वि॒चा॒रा नि॒र्वि॒चा॒रा च सूक्ष्मविषया॑ व्याख्या॒ता ॥ १.४४॥ सू॒क्ष्मवि॒ष॒य॒त्वं चालिङ्गपर्य॑वसा॒नम् ॥ १.४५॥ ता एव सबीजः॑ समा॒धिः ॥ १.४६॥ नि॒र्वि॒चारवै॒शा॒र॒द्येऽध्यात्म॑प्रसा॒दः ॥ १.४७॥ ऋ॒त॒म्भ॒रा त॑त्र प्र॒ज्ञा ॥ १.४८॥ श्रु॒ता॒नुमानप्र॒ज्ञा॒भ्याम॒न्यवि॒ष॒या विशे॑षार्थ॒त्वात् ॥ १.४९॥ त॒ज्जः॒ सं॒स्कारोऽन्यसंस्कारप्र॑तिब॒न्धी ॥ १.५०॥ त॒स्या॒पि नि॒रो॒धे स॒र्वनि॒रो॒धान्निर्बी॑जः समा॒धिः ॥ १.५१॥ ॥ इति पतञ्जलि-विरचिते योग-सूत्रे प्रथमः समा॑धि-पा॒दः ॥ ॥ द्वितीयोऽध्यायः ॥ ॥ साध॑न-पा॒दः ॥ त॒पः॒स्वा॒ध्यायेश्वरप्रणिधानानि क्रि॑यायो॒गः ॥ २.१॥ स॒मा॒धिभा॒वनार्थः क्ले॒शत॒नू॒क॒र॒णा॒र्थश्च ॥ २.२॥ अ॒वि॒द्या॒स्मि॒तारा॒गद्वे॒षा॒भि॒नि॒वे॒शाः क्ले॒शाः ॥ २.३॥ अ॒वि॒द्या क्षे॒त्रमु॑त्तरे॒षां प्र॒सु॒प्तत॒नुवि॒च्छि॒न्नो॑दारा॒णाम् ॥ २.४॥ अ॒नि॒त्या॒शु॒चिदुः॒खा॒ना॒त्मसु नि॒त्यशु॒चिसु॒खात्मख्याति॑र॒वि॒द्या ॥ २.५॥ दृ॒ग्द॒र्शनश॒क्त्योरे॒का॒त्म॒तेवा॑स्मि॒ता ॥ २.६॥ सु॒खा॒नुश॒यी रागः ॥ २.७॥ दुः॒खा॒नुश॒यी द्वेषः ॥ २.८॥ स्व॒र॒सवा॒ही वि॒दु॒षोऽपि त॒था॒रूढोऽ॒भि॒नि॒वेशः ॥ २.९॥ ते प्र॒तिप्र॒स॒वहे॒याः सू॒क्ष्माः ॥ २.१०॥ ध्या॒नहे॒यास्तद्वृत्तयः ॥ २.११॥ क्ले॒शमू॒लः क॒र्मा॒श॒यो दृ॒ष्टादृष्टजन्मवे॑दनी॒यः ॥ २.१२॥ स॑ति मू॒ले त॑द्विपा॒को जात्या॑युर्भो॒गाः ॥ २.१३॥ ते ह्ला॒दप॒रि॒ताप॑फ॒लाः पुण्यापुण्यहे॑तु॒त्वात् ॥ २.१४॥ प॒रि॒णामतापसं॒स्कार॑दुः॒खैर्गु॒णवृ॒त्तिवि॒रो॒धाच्च दुः॒खमेव सर्वं॑ विवे॒किनः ॥ २.१५॥ हे॒यं दुः॒खम॑नाग॒तम् ॥ २.१६॥ द्र॒ष्टृ॒दृश्य॒योः सं॒यो॒गो हे॑यहे॒तुः ॥ २.१७॥ प्र॒का॒शक्रि॒यास्थि॑तिशी॒लं भू॒तेन्द्रियात्म॒कं भो॒गापवर्गा॒र्थं दृ॒श्यम् ॥ २.१८॥ वि॒शे॒षाविशेषलि॒ङ्ग॒मा॒त्रालिङ्गानि गुण॑पर्वा॒णि ॥ २.१९॥ द्र॒ष्टा दृ॑शिमा॒त्रः शु॒द्धोऽपि प्र॒त्यया॑नुप॒श्यः ॥ २.२०॥ त॒द॒र्थ ए॒व दृ॑श्यस्या॒त्मा ॥ २.२१॥ कृ॒ता॒र्थं प्र॑ति न॒ष्टमप्य॒न॒ष्टं तदन्यसाधा॑रण॒त्वात् ॥ २.२२॥ स्वस्वा॒मिश॒क्त्योः स्व॒रू॒पोपलब्धिहेतुः सं॒योगः ॥ २.२३॥ त॒स्य हेतु॑र॒वि॒द्या ॥ २.२४॥ त॒द॒भा॒वात् सं॒यो॒गाभा॒वो हा॒नं तद्दृशेः᳚ कैव॒ल्यम् ॥ २.२५॥ वि॒वे॒कख्यातिर॒वि॒प्ल॒वा हा॑नोपा॒यः ॥ २.२६॥ त॒स्य स॒प्त॒धा प्रान्तभूमिः॑ प्र॒ज्ञा ॥ २.२७॥ योगाङ्गानु॑ष्ठा॒नाद॒शु॒द्धिक्ष॒ये ज्ञा॒नदी॒प्तिरा विवेक॑ख्या॒तेः ॥ २.२८॥ य॒मनि॒य॒मा॒सनप्रा॒णायामप्र॒त्या॒हारधा॒र॒णाध्या॒नस॒मा॒धयोऽष्टा॑वङ्गा॒नि ॥ २.२९॥ अ॒हिं॒सास॒त्या॒स्ते॒यब्र॒ह्म॒चर्या॒प॒रि॒ग्र॒हा य॒माः ॥ २.३०॥ जा॒तिदे॒शका॒लस॒म॒या॒न॒व॒च्छि॒न्नाः सा॒र्वभौ॒मा म॑हाव्र॒तम् ॥ २.३१॥ शौ॒चस॒न्तोषतपःस्वा॒ध्यायेश्वरप्रणिधानानि॑ निय॒माः ॥ २.३२॥ वि॒त॒र्कबा॒ध॒ने प्रतिपक्ष॑भाव॒नम् ॥ २.३३॥ वि॒त॒र्का हिं॒सादयः कृ॒तका॒रि॒ता॒नु॒मो॒दि॒ता लो॒भक्रो॒धमो॒हपू॒र्व॒का मृ॒दुम॒ध्या॒धि॒मा॒त्रा दुः॒खा॒ज्ञा॒ना॒न॒न्तफ॒ला इति प्र॒तिपक्ष॑भाव॒नम् ॥ २.३४॥ अ॒हिं॒साप्र॑तिष्ठा॒यां तत्स॒न्नि॒धौ वै॑रत्या॒गः ॥ २.३५॥ स॒त्यप्र॑तिष्ठा॒यां क्रि॒याफला॑श्रय॒त्वम् ॥ २.३६॥ अ॒स्ते॒यप्र॑तिष्ठा॒यां सर्वरत्नो॑पस्था॒नम् ॥ २.३७॥ ब्र॒ह्म॒च॒र्यप्र॑तिष्ठा॒यां वी॑र्यला॒भः ॥ २.३८॥ अप॒रि॒ग्र॒ह॒स्थै॒र्ये ज॒न्मक॒थ॒न्तासम्बोधः ॥ २.३९॥ शौ॒चात् स्वा॒ङ्गजु॒गु॒प्सा प॒रैर॑संस॒र्गः ॥ २.४०॥ स॒त्त्वशु॒द्धिसौ॒मनस्यै॒काग्र्येन्॒द्रियजया॒त्मदर्शनयोग्य॑त्वानि॒ च ॥ २.४१॥ स॒न्तो॒षादनुत्तमसु॑खला॒भः ॥ २.४२॥ का॒येन्द्रियसिद्धिर॒शु॒द्धिक्ष॒यात् तपसः ॥ २.४३॥ स्वा॒ध्या॒याद् इ॒ष्टदे॒व॒तासम्प्रयोगः ॥ २.४४॥ स॒मा॒धिसि॒द्धिरीश्वरप्र॑णिधा॒नात् ॥ २.४५॥ स्थिरसुख॑म् आस॒नम् ॥ २.४६॥ प्र॒य॒त्नशैथिल्यानन्तस॑माप॒त्ति॒भ्याम् ॥ २.४७॥ ततो द्व॒न्द्वान॑भिघा॒तः ॥ २.४८॥ त॒स्मिन्सति श्वा॒सप्र॒श्वा॒स॒योर्ग॒ति॒वि॒च्छेदः प्रा॑णाया॒मः ॥ २.४९॥ बा॒ह्या॒भ्यन्तरस्त॒म्भवृ॒त्तिर्दे॒शका॒लस॒ङ्ख्याभिः प॒रि॒दृ॒ष्टो दी॑र्घसू॒क्ष्मः ॥ २.५०॥ बा॒ह्या॒भ्यन्तरवि॒ष॒या॒क्षे॒पी चतुर्थः ॥ २.५१॥ त॒तः॒ क्षी॒य॒ते प्रकाशा॑वर॒णम् ॥ २.५२॥ धा॒र॒णासु च योग्यता॑ मन॒सः ॥ २.५३॥ स्ववि॒ष॒या॒स॒म्प्रयो॒गे चि॒त्त॒स्व॒रूपानुकार॑ इ॒वे॒न्द्रि॒या॒णां प्र॑त्याहा॒रः ॥ २.५४॥ त॒तः॒ प॒र॒मा वश्यते॑न्द्रिया॒णाम् ॥ २.५५॥ ॥ इति पतञ्जलि-विरचिते योग-सूत्रे द्वितीयः साध॑न-पा॒दः ॥ ॥ तृतीयोऽध्यायः ॥ ॥ विभू॑ति-पा॒दः ॥ दे॒शबन्धश्चित्तस्य॑ धार॒णा ॥ ३.१॥ त॒त्र प्रत्ययैकतान॑ता ध्या॒नम् ॥ ३.२॥ त॒दे॒वा॒र्थमा॒त्रनि॒र्भा॒सं स्व॒रूपशून्यमिव॑ समा॒धिः ॥ ३.३॥ त्रयमेकत्र॑ संय॒मः ॥ ३.४॥ तज्ज॒यात्प्र॑ज्ञालो॒कः ॥ ३.५॥ तस्य भूमि॑षु वि॒नि॒योगः ॥ ३.६॥ त्र॒यमन्तरङ्गं॑ पूर्वे॒भ्यः ॥ ३.७॥ त॒द॒पि ब॒हि॒र॒ङ्गं नि॑र्बीज॒स्य ॥ ३.८॥ व्यु॒त्थाननि॒रो॒धसं॒स्कार॒योर॒भि॒भ॒वप्रा॑दुर्भा॒वौ नि॒रो॒धक्षणचि॒त्तान्व॒यो निरोधप॑रिणा॒मः ॥ ३.९॥ तस्य प्र॒शान्तवाहिता॑ संस्का॒रात् ॥ ३.१०॥ स॒र्वार्थतै॒काग्र॒त॒योः क्ष॒यो॒द॒यौ चि॒त्तस्य स॒माधिप॑रिणा॒मः ॥ ३.११॥ त॒तः पु॒नः शा॒न्तोदि॒तौ तु॒ल्यप्र॒त्य॒यौ चि॒त्तस्यैकाग्रताप॑रिणा॒मः ॥ ३.१२॥ ए॒तेन भू॒तेन्द्रियेषु ध॒र्मल॒क्ष॒णा॒व॒स्थाप॒रि॒णा॒मा व्या॑ख्या॒ताः ॥ ३.१३॥ शा॒न्तो॒दि॒ता॒व्य॒प॒देश्यधर्मानुपा॑ती ध॒र्मी ॥ ३.१४॥ क्रमान्यत्वं परिणामान्य॑त्वे हे॒तुः ॥ ३.१५॥ प॒रि॒णा॒म॒त्र॒य॒सं॒य॒माद् अतीतानाग॑तज्ञा॒नम् ॥ ३.१६॥ श॒ब्दार्थप्र॒त्य॒या॒नामि॒त॒रेत॒राध्या॒सात् सङ्करस्तत्प्र॒वि॒भागसं॒य॒मात्सर्वभूतरु॑तज्ञा॒नम् ॥ ३.१७॥ सं॒स्कारसा॒क्षात्क॒र॒णात्पूर्वजा॑तिज्ञा॒नम् ॥ ३.१८॥ प्र॒त्ययस्य परचि॑त्तज्ञा॒नम् ॥ ३.१९॥ न॒ च तत्सा॒लम्ब॒नं तस्याविषयी॑भूत॒त्वात् ॥ ३.२०॥ का॒यरू॒पसं॒य॒मात्तद्ग्रा॒ह्यश॒क्तिस्त॒म्भे च॒क्षुःप्र॒का॒शास॒म्प्रयो॒गेऽ॑न्तर्धा॒नम् ॥ ३.२१॥ सो॒पक्र॒मं नि॒रु॒पक्र॒मं च कर्म तत्सं॒य॒माद॒प॒रा॒न्तज्ञा॒नमरि॑ष्टेभ्यो॒ वा ॥ ३.२२॥ मैत्र्यादि॑षु ब॒ला॒नि ॥ ३.२३॥ बलेषु हस्तिब॑लादी॒नि ॥ ३.२४॥ प्र॒वृ॒त्त्यालो॒कन्या॒सात्सूक्ष्मव्यवहितविप्रकृ॑ष्टज्ञा॒नम् ॥ ३.२५॥ भुवनज्ञानं सूर्ये॑ संय॒मात् ॥ ३.२६॥ चन्द्रे ताराव्यू॑हज्ञा॒नम् ॥ ३.२७॥ ध्रुवे तद्ग॑तिज्ञा॒नम् ॥ ३.२८॥ नाभिचक्रे कायव्यू॑हज्ञा॒नम् ॥ ३.२९॥ कण्ठकूपे क्षुत्पिपासा॑निवृ॒त्तिः ॥ ३.३०॥ कू॒र्मना॒ड्यां स्थै॒र्यम् ॥ ३.३१॥ मूर्धज्योतिषि सिद्ध॑दर्श॒नम् ॥ ३.३२॥ प्रा॒तिभा॒द्वा स॒र्वम् ॥ ३.३३॥ हृ॒द॒ये चि॑त्तसं॒वित् ॥ ३.३४॥ स॒त्त्वपु॒रु॒ष॒योर॒त्य॒न्तास॒ङ्कीर्ण॒योः प्र॒त्य॒यावि॒शे॒षो भोगः प॒रा॒र्थ॒त्वात्स्वा॒र्थसं॒य॒मात्पुरु॑षज्ञा॒नम् ॥ ३.३५॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 27 Aug 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine