पञ्चतन्त्रम्
/ 5
←

Pancatantram Tamil PDF & Online Reader (பஞ்சதந்த்ரம்)

Pancatantram (पञ्चतन्त्रम्) by विष्णुशर्मा — Tamil Text & PDF Download

📜 Last Proofread: 28 Oct 2026
📥 Download Tamil PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 28 Oct 2026
📥 Download PDF ♡ Save
🌐 Language & Script தமிழ்
↔️ Text Alignment Center
॥ श्रीगणेशाय नमः ॥ ॥ पञ्चतन्त्रम् ॥ ॥ कथामुखम् ॥ ॥ कथामुखम् ॥ ॐ नमः श्रीशारदागणपतिगुरुभ्यः । महाकविभ्यो नमः । ब्रह्मा रुद्रः कुमारो हरिवरुणयमा वह्निरिन्द्रः कुबेरः चन्द्रादित्यौ सरस्वत्यदधियुगनगा वायुरुर्वीभुजङ्गाः । सिढा नद्यो श्विनौ श्रीर् दितिर् अदितिसुता मातरश् चण्डिकाद्या वेदास्तीर्थानि यक्षा गणवसुमुनयः पन्तु नित्यं ग्रहाश्च ॥ मनवे वाचस्पतये शुक्राय पराशराय ससुताय । चाणक्याय च विदुषे नमोऽस्तु नयशास्त्रकर्तृभ्यः ॥ ०.१ ॥ सकलार्थशास्त्रसारं जगति समालोक्य विष्णुशर्मेदम् । तन्त्रैः पञ्चभिरैतच्चकार सुममोहरं शास्त्रम् ॥ ०.२ ॥ तद्यथाऽनुश्रूयते । अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तत्र सकलार्थिसार्थकल्पद्रुमः प्रवरमुकुटमणिमरीचिमञ्जरीचर्चितचरणयुगलः सकलकलापारङ्गतेऽमरशक्तिर्नाम राजा बभूव । तस्य त्रयः पुत्राः परमदुर्मेधसो वहुशक्तिरुग्रशक्तिरनन्तशक्तिश्चेति नामानो बभूवुः । अथ राजा ताञ्शास्त्रविमुखान् आलोक्य सचिवान् आहूय प्रोवाच । भोः, ज्ञातम् एतद् भवद्भिर्यन्ममैते त्रयोऽपि पुत्राः शास्त्रविमुखा विवेकहीनाश्च । तदेतान् पश्यतो मे महदपि राज्यं न सौख्यम् आवहति । अथवा साध्विदम् उच्यते - अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम् । यतस्तौ स्वल्पदुःखाय यावज्जीवं जडो दहेत् ॥ ०.३ ॥ वरं गर्भस्रावो वरमृतुषु नैवाभिगमनं वरं जातः प्रोतो वरमपि च कन्यैव जनिता । वरं वन्ध्या भार्या वरमपि च गर्भेषु वसतिर् न चाविद्वान् रूपद्रविणगुणयुक्तोऽपि तनयः ॥ ०.४ ॥ किं तया क्रियते धेन्वा या न सूते न दुग्धदा । कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान् ॥ ०.५ ॥ तदेतेषां यथा बुद्धिप्रबोधनं भवति तथा कोऽप्युपायोऽनुष्ठीयताम् । अत्र च मद्दत्तां वृत्तिं भुञ्जानानां पण्डितानां पञ्चशती तिष्ठति । ततो यथा मम मनोरथाः सिद्धिं यान्ति तथानुष्ठीयतामिति । तत्रैकः प्रोवाच - 'देव! द्वादशभिर्वर्षैर्व्याकरणं श्रूयते । ततो धर्मशास्त्राणि मन्वादीनि अर्थशास्त्राणि चाणक्यादीनि कामशास्त्राणि वात्स्यायनादीनि । एवञ्च ततो धर्मार्थकामशास्त्राणि ज्ञायन्ते । ततः प्रतिबोधनं भवति ।' अथ तन्मध्यतः सुमतिर्नाम सचिवः प्राह । अशाश्वतो यं जीवितव्यविषयः । प्रभूतकालज्ञेयानि शब्दशास्त्राणि । तत् सङ्क्षेपमात्रं शास्त्रं किञ्चितेतेषां प्रबोधनार्थं चिन्त्यतामिति । उक्तं च यतः अनन्तपारं किल शब्दशास्त्रम् स्वल्पं तथायुर्वहवश्च विघ्नाः । सारं ततो ग्राह्यमपास्य फल्गु हंसैर्ययथा क्षीरमिवाम्बुमध्यात् ॥ ०.६ ॥ तदत्रास्ति विष्णुशर्मा नाम ब्राह्मणः सकलशास्त्रपारङ्गमः छात्रसंसदि लब्धकीर्तिः । तस्मै समर्पयतु एतान् । स नूनं द्राक् प्रबुद्धान् करिष्यति इति । स राजा तदाकर्ण्य विष्णुशर्माणमाहूय प्रोवाच । भोः भगवन् मदनुग्रहार्थमेतान् अर्थशास्त्रं प्रति द्राग् यथानंयषड्दर्शनान् विदधासि तथा कुरु । तदाहं त्वां शासनशतेन योजयिष्यामि । अथ विष्णुशर्मा तं राजानमाह देव श्रूयतां मे तथ्यवचनम् । नाहं विद्याविक्रयं शासनशतेनापि करोमि । पुनरेतान् तव पुत्रान् मासषट्केन यदि नीतिशास्त्रज्ञान् न करोमि ततः स्वनामत्यागं करोमि । अथासौ राजा तां ब्राह्मणस्यासम्भाव्यां प्रतिज्ञां श्रुत्वा ससचिवः प्रहृष्टो विस्मन्वितस्तस्मै सादरं तान् कुमारान् समर्प्य परां निर्व्यतिम् आजगाम । विष्णुशर्मणापि तान् आदाय तदर्थं मित्रभॆदमित्रप्राप्तिकाकोलूकीयलब्धप्रणाशापरीक्षितकारकाणि चेति पञ्चतन्त्राणि रचयित्वा पाठिताः ते राजपुत्राः । तेपि तानधीत्य मासषट्केन यथोक्ताः संवृत्ताः । ततः प्रभृत्येतत् पञ्चतन्त्रं नाम नीतिशास्त्रं बालबोधनार्थं भूतले प्रवृत्तम् । किं बहुना अधीते य इदं नित्यं नीतिशास्त्रं श्रुणोति च । न पराभवमवाप्नोति शक्रादपि कदाचन ॥ ०.७ ॥ इति कथामुखम् । ॥ प्रथमं तन्त्रम् - मित्रभेदः ॥ ॥ मित्रभेदः ॥ ॥ वर्धमानवृत्तान्तः ॥ अथातः प्रारभ्यते मित्रभेदो नाम प्रथमं तन्त्रम् । यस्यायम् आदिमः श्लोकः वर्धमानो महान् स्नेहः सिंहगोवृषयोर्वने । पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः ॥ १.१ ॥ तद् यथानुश्रूयते । अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तत्र धर्मोपार्जितभूरिविभवो वर्धमानको नाम वणिक्पुत्रो बभूव । तस्य कदाचिद् रात्रौ शय्यारूढस्य चिन्ता समुत्पन्ना । तत् प्रभूतेऽपि वित्तेर्थोपायाश्चिन्तनीयाः कर्तव्याश्चेति । यत उक्तं च.. नहि तद्विद्यते किञ्चिद्यदर्थेन न सिध्यति । यत्नेन मतिमांस्तस्मादर्थमेकं प्रसाधयेत् ॥ १.२ ॥ यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमान्लोके यस्यार्थाः स च पण्डितः ॥ १.३ ॥ न सा विद्या न तद्दानं न तच्छिल्पं न सा कला । न तत् स्थैर्यं हि धनिनां याचकैर्यन्न गीयते ॥ १.४ ॥ इह लोके हि धनिनां परोऽपि स्वजनायते । स्वजनोऽपि दरिद्राणां सर्वदा दुर्जनायते ॥ १.५ ॥ अर्थेभ्योऽपि हि वृद्धेभ्यः संवृत्तेभ्येतस्ततस्ततः । प्रवर्तन्ते क्रियाः सर्वाः पर्वतेभ्य इवापगाः ॥ १.६ ॥ पूज्यते यदपूज्योऽपि यदगम्योऽपि गम्यते । वन्द्यते यदवन्द्योऽपि स प्रभावो धनस्य च ॥ १.७ ॥ अशनादिन्द्रियाणीव स्युः कार्याण्यखिलान्यपि । एतस्मात्कारणाद्वित्तं सर्वसाधनमुच्यते ॥ १.८ ॥ अर्थार्थी जीवलोकोऽयं श्मशानमपि सेवते । त्यक्त्वा जनयितारं स्वं निःस्वं यच्छति दूरतः ॥ १.९ ॥ गतवयसामपि पुंसां येषामर्था भवन्ति ते तरुणाः । अर्थे तु ये हीना वृथास्ते यौवनेपि स्युः ॥ १.१० ॥ स चार्थः पुरुषाणां षड्भिरुपायैर्भवति भिक्षया नृपसेवया कृषिकर्मणा विद्योपार्जनेन व्यवहारेण वणिक्कर्मणा वा । सर्वेषाम् अपि तेषां वाणिज्येनातिरस्कृतोऽर्थलाभः स्यात् । उक्तं च यतः कृता भिक्षानेकैर् वितरति नृपो नोचितम् अहो कृषिः क्लिष्टा विद्या गुरुविनयवृत्त्त्याऽतिविषमा । कुसीदाद् दारिद्र्यं परकरगतग्रन्थिशमनान् न मन्ये वाणिज्यात् किम् अपि परमं वर्तनम् इह ॥ पञ्च_१.११ ॥ उपायानां च सर्वेषाम् उपायः पण्यसङ्ग्रहः । धनार्थं शस्यते ह्येकस् तदन्यः संशयात्मकः ॥ पञ्च_१.१२ ॥ तच् च वाणिज्यं सप्तविधम् अर्थागमाय स्यात् । तद् यथा गान्धिकव्यवहारः, निक्षेपप्रवेशः, गोष्ठिककर्म, परिचितग्राहकागमः, मिथ्याक्रयकथनम्, कूटतुलामानम्, देशान्तराद् भाण्डानयनं चेति । उक्तं च पण्यानां गान्धिकं पण्यं किम् अन्यैः काञ्चनादिभिः । यत्रैकेन च यत् क्रीतं तच् छतेन प्रदीयते ॥ पञ्च_१.१३ ॥ निक्षेपे पतिते हर्म्ये श्रेष्ठी स्तौति स्वदेवताम् । निक्षेपी म्रियते तुभ्यं प्रदास्याम्य् उपयाचितम् ॥ पञ्च_१.१४ ॥ गोष्ठिककर्मनियुक्तः श्रेष्ठी चिन्तयति चेतसा हृष्टः । वसुधा वसुसम्पूर्णा मयाद्य लब्धा किम् अन्येन ॥ पञ्च_१.१५ ॥ परिचितम् आगच्छन्तं ग्राहकम् उत्कण्ठ्या विलोकयासौ । हृष्यति तद्धनलब्धो यद्वत् पुत्रेण जातेन ॥ पञ्च_१.१६ ॥ अन्यं च पूर्णापूर्णे माने परिचितजनवञ्चनं तथा नित्यम् । मिथ्याक्रयस्य कथनं प्रकृतिर् इयं स्यात् किरातानाम् ॥ पञ्च_१.१७ ॥ द्विगुणं त्रिगुणं वित्तं भाण्डक्रयविचक्षणाः । प्राप्नुवन्त्य् उद्यमाल् लोका दूरदेशान्तरं गताः ॥ पञ्च_१.१८ ॥ इत्य् एवं सम्प्रधार्य मथुरागामीनि भाण्डानि आदाय शुभायां तिथौ गुरुजनानुज्ञातः सुरथाधिरूढः प्रस्थितः । तस्य च मङ्गलवृषभो सञ्जीवकनन्दकनामानौ गृहोत्पन्नौ धूर्वोढारौ स्थितौ । तयोर् एकः सञ्जीवकाभिधानो यमुनाकच्छम् अवतीर्णः सम्पङ्कपूरम् आसाद्य कलितचरणो युगभङ्गं विधाय निषसाद । अथ तं तद्अवस्थम् आलोक्य वर्धमानः परं विषादम् आगमत् । तद् अर्थं च स्नेहार्द्रहृदयस् त्रिरात्रं प्रयाणभङ्गम् अकरोत् । अथ तं विषण्णम् आलोक्य सार्थिकैर् अभिहितं भोः श्रेष्ठिन्! किम् एवं वृषभस्य कृते सिंहव्याघ्रसमाकुले बह्वपायेस्मिन् वने समस्तसार्थस् त्वया सन्देहे नियोजितः । उक्तं च न स्वल्पस्य कृते भूरि नाशयेन् मतिमान् नरः । एतद् एवात्र पाण्डित्यं यत् स्वल्पाद् भूरिरक्षणम् ॥ पञ्च_१.१९ ॥ अथासौ तद् अवधार्य सञ्जीवकस्य रक्षापुरुषान् निरूप्याशेषसार्थं नीत्वा प्रस्थितः । अथ रक्षापुरुषा अपि बह्व्अपायं तद्वनं विदित्वा सञ्जीवकं परित्यज्य पृष्ठतो गत्वान्येद्युस् तं सार्थवाहं मिथ्याहुः स्वामिन्, मृतोऽसौ सञ्जीवकः । अस्माभिस् तु सार्थवाहस्याभीष्ट इति मत्वा वह्निना संस्कृतः इति । तच् छ्रुत्वा सार्थवाहः कृतज्ञतया स्नेहार्द्रहृदयस् तस्यौर्ध्वदेहिकक्रिया वृषोत्सर्गादिकाः सर्वाश् चकार । सञ्जीवको प्य् आयुःशेषतया यमुनासलिलमिश्रैः शिशिरतरवातैर् आप्यायितशरीरः कथञ्चिद् अप्य् उत्थाय यमुनातटम् उपपेदे । तत्र मरकतसदृशानि बालतृणाग्राणि भक्षयन् कतिपयैर् अहोभिर् हरवृषभ इव पीनः ककुद्मान् बलवांश् च संवृत्तः । प्रत्यहं वल्मीकशिखराग्राणि शृङ्गाभ्यां विदारयन् गर्जमान आस्ते । साधु चेदम् उच्यते अरक्षितं तिष्ठति देवरक्षितं सुरक्षितं देवहतं विनश्यति । जीवत्य् अनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे विनश्यति ॥ पञ्च_१.२० ॥ अथ कदाचित् पिङ्गलको नाम सिंहः सर्वमृगपरिवृतः पिपासाकुल उदकपानार्थं यमुनातटम् अवतीर्णः सञ्जीवकस्य गम्भीरतररावं दूराद् एवाशृणोत् । तच् छ्रुत्वातीव व्याकुलहृदयः ससाध्वसम् आकारं प्रच्छाद्य वटतले चतुर्मण्डलावस्थानेनावस्थितः । चतुर्मण्डलावस्थानं त्व् इदं सिंहः सिंहानुयायिनः काकरवाः किंवृत्ता इति । अथ तस्य करटकदमनकनामानौ द्वौ शृगालौ मन्त्रिपुत्रौ भ्रष्टाधिकारौ सदानुयायिनाव् आस्ताम् । तौ च परस्परं मन्त्रयतः । तत्र दमनकोऽब्रवीत् भद्र करटक, अयं तावद् अस्मत्स्वामी पिङ्गलक उदकग्रहणार्थं यमुनाकच्छम् अवतीर्य स्थितः । स किं निमित्तं पिपासाकुलोऽपि निवृत्त्य व्यूहरचनां विधाय दौर्मनस्येनाभिभूतोऽत्र वटतले स्थितः । करटक आह भद्र किम् आवयोर् अनेन व्यापारेण उक्तं च यतः अव्यापारेषु व्यापारं यो नरः कर्तुम् इच्छति । स एव निधनं याति कीलोत्पाटीव वानरः ॥ १.२१ ॥ ॥ कथा - १ - कीलोत्पाटिवानरकथा ॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 28 Oct 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine