॥ श्रीगणेशाय नमः ॥
॥ पञ्चतन्त्रम् ॥
॥ कथामुखम् ॥
॥ कथामुखम् ॥
ॐ नमः श्रीशारदागणपतिगुरुभ्यः । महाकविभ्यो नमः ।
ब्रह्मा रुद्रः कुमारो हरिवरुणयमा वह्निरिन्द्रः कुबेरः
चन्द्रादित्यौ सरस्वत्यदधियुगनगा वायुरुर्वीभुजङ्गाः ।
सिढा नद्यो श्विनौ श्रीर् दितिर् अदितिसुता मातरश् चण्डिकाद्या
वेदास्तीर्थानि यक्षा गणवसुमुनयः पन्तु नित्यं ग्रहाश्च ॥
मनवे वाचस्पतये शुक्राय पराशराय ससुताय ।
चाणक्याय च विदुषे नमोऽस्तु नयशास्त्रकर्तृभ्यः ॥ ०.१ ॥
सकलार्थशास्त्रसारं जगति समालोक्य विष्णुशर्मेदम् ।
तन्त्रैः पञ्चभिरैतच्चकार सुममोहरं शास्त्रम् ॥ ०.२ ॥
तद्यथाऽनुश्रूयते । अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तत्र सकलार्थिसार्थकल्पद्रुमः प्रवरमुकुटमणिमरीचिमञ्जरीचर्चितचरणयुगलः सकलकलापारङ्गतेऽमरशक्तिर्नाम राजा बभूव । तस्य त्रयः पुत्राः परमदुर्मेधसो वहुशक्तिरुग्रशक्तिरनन्तशक्तिश्चेति नामानो बभूवुः ।
अथ राजा ताञ्शास्त्रविमुखान् आलोक्य सचिवान् आहूय प्रोवाच । भोः, ज्ञातम् एतद् भवद्भिर्यन्ममैते त्रयोऽपि पुत्राः शास्त्रविमुखा विवेकहीनाश्च । तदेतान् पश्यतो मे महदपि राज्यं न सौख्यम् आवहति । अथवा साध्विदम् उच्यते -
अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम् ।
यतस्तौ स्वल्पदुःखाय यावज्जीवं जडो दहेत् ॥ ०.३ ॥
वरं गर्भस्रावो वरमृतुषु नैवाभिगमनं
वरं जातः प्रोतो वरमपि च कन्यैव जनिता ।
वरं वन्ध्या भार्या वरमपि च गर्भेषु वसतिर्
न चाविद्वान् रूपद्रविणगुणयुक्तोऽपि तनयः ॥ ०.४ ॥
किं तया क्रियते धेन्वा या न सूते न दुग्धदा ।
कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान् ॥ ०.५ ॥
तदेतेषां यथा बुद्धिप्रबोधनं भवति तथा कोऽप्युपायोऽनुष्ठीयताम् । अत्र च मद्दत्तां वृत्तिं भुञ्जानानां पण्डितानां पञ्चशती तिष्ठति ।
ततो यथा मम मनोरथाः सिद्धिं यान्ति तथानुष्ठीयतामिति ।
तत्रैकः प्रोवाच - 'देव! द्वादशभिर्वर्षैर्व्याकरणं श्रूयते । ततो धर्मशास्त्राणि मन्वादीनि अर्थशास्त्राणि चाणक्यादीनि कामशास्त्राणि वात्स्यायनादीनि । एवञ्च ततो धर्मार्थकामशास्त्राणि ज्ञायन्ते । ततः प्रतिबोधनं भवति ।'
अथ तन्मध्यतः सुमतिर्नाम सचिवः प्राह । अशाश्वतो यं जीवितव्यविषयः । प्रभूतकालज्ञेयानि शब्दशास्त्राणि । तत् सङ्क्षेपमात्रं शास्त्रं किञ्चितेतेषां प्रबोधनार्थं चिन्त्यतामिति । उक्तं च यतः
अनन्तपारं किल शब्दशास्त्रम्
स्वल्पं तथायुर्वहवश्च विघ्नाः ।
सारं ततो ग्राह्यमपास्य फल्गु
हंसैर्ययथा क्षीरमिवाम्बुमध्यात् ॥ ०.६ ॥
तदत्रास्ति विष्णुशर्मा नाम ब्राह्मणः सकलशास्त्रपारङ्गमः छात्रसंसदि लब्धकीर्तिः । तस्मै समर्पयतु एतान् । स नूनं द्राक् प्रबुद्धान् करिष्यति इति ।
स राजा तदाकर्ण्य विष्णुशर्माणमाहूय प्रोवाच । भोः भगवन् मदनुग्रहार्थमेतान् अर्थशास्त्रं प्रति द्राग् यथानंयषड्दर्शनान् विदधासि तथा कुरु । तदाहं त्वां शासनशतेन योजयिष्यामि ।
अथ विष्णुशर्मा तं राजानमाह देव श्रूयतां मे तथ्यवचनम् । नाहं विद्याविक्रयं शासनशतेनापि करोमि । पुनरेतान् तव पुत्रान् मासषट्केन यदि नीतिशास्त्रज्ञान् न करोमि ततः स्वनामत्यागं करोमि ।
अथासौ राजा तां ब्राह्मणस्यासम्भाव्यां प्रतिज्ञां श्रुत्वा ससचिवः प्रहृष्टो विस्मन्वितस्तस्मै सादरं तान् कुमारान् समर्प्य परां निर्व्यतिम् आजगाम । विष्णुशर्मणापि तान् आदाय तदर्थं मित्रभॆदमित्रप्राप्तिकाकोलूकीयलब्धप्रणाशापरीक्षितकारकाणि चेति पञ्चतन्त्राणि रचयित्वा पाठिताः ते राजपुत्राः । तेपि तानधीत्य मासषट्केन यथोक्ताः संवृत्ताः । ततः प्रभृत्येतत् पञ्चतन्त्रं नाम नीतिशास्त्रं बालबोधनार्थं भूतले प्रवृत्तम् । किं बहुना
अधीते य इदं नित्यं नीतिशास्त्रं श्रुणोति च ।
न पराभवमवाप्नोति शक्रादपि कदाचन ॥ ०.७ ॥
इति कथामुखम् ।
॥ प्रथमं तन्त्रम् - मित्रभेदः ॥
॥ मित्रभेदः ॥
॥ वर्धमानवृत्तान्तः ॥
अथातः प्रारभ्यते मित्रभेदो नाम प्रथमं तन्त्रम् । यस्यायम् आदिमः श्लोकः
वर्धमानो महान् स्नेहः सिंहगोवृषयोर्वने ।
पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः ॥ १.१ ॥
तद् यथानुश्रूयते । अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तत्र धर्मोपार्जितभूरिविभवो वर्धमानको नाम वणिक्पुत्रो बभूव । तस्य कदाचिद् रात्रौ शय्यारूढस्य चिन्ता समुत्पन्ना । तत् प्रभूतेऽपि वित्तेर्थोपायाश्चिन्तनीयाः कर्तव्याश्चेति । यत उक्तं च..
नहि तद्विद्यते किञ्चिद्यदर्थेन न सिध्यति ।
यत्नेन मतिमांस्तस्मादर्थमेकं प्रसाधयेत् ॥ १.२ ॥
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।
यस्यार्थाः स पुमान्लोके यस्यार्थाः स च पण्डितः ॥ १.३ ॥
न सा विद्या न तद्दानं न तच्छिल्पं न सा कला ।
न तत् स्थैर्यं हि धनिनां याचकैर्यन्न गीयते ॥ १.४ ॥
इह लोके हि धनिनां परोऽपि स्वजनायते ।
स्वजनोऽपि दरिद्राणां सर्वदा दुर्जनायते ॥ १.५ ॥
अर्थेभ्योऽपि हि वृद्धेभ्यः संवृत्तेभ्येतस्ततस्ततः ।
प्रवर्तन्ते क्रियाः सर्वाः पर्वतेभ्य इवापगाः ॥ १.६ ॥
पूज्यते यदपूज्योऽपि यदगम्योऽपि गम्यते ।
वन्द्यते यदवन्द्योऽपि स प्रभावो धनस्य च ॥ १.७ ॥
अशनादिन्द्रियाणीव स्युः कार्याण्यखिलान्यपि ।
एतस्मात्कारणाद्वित्तं सर्वसाधनमुच्यते ॥ १.८ ॥
अर्थार्थी जीवलोकोऽयं श्मशानमपि सेवते ।
त्यक्त्वा जनयितारं स्वं निःस्वं यच्छति दूरतः ॥ १.९ ॥
गतवयसामपि पुंसां येषामर्था भवन्ति ते तरुणाः ।
अर्थे तु ये हीना वृथास्ते यौवनेपि स्युः ॥ १.१० ॥
स चार्थः पुरुषाणां षड्भिरुपायैर्भवति भिक्षया नृपसेवया कृषिकर्मणा विद्योपार्जनेन व्यवहारेण वणिक्कर्मणा वा । सर्वेषाम् अपि तेषां वाणिज्येनातिरस्कृतोऽर्थलाभः स्यात् । उक्तं च यतः
कृता भिक्षानेकैर् वितरति नृपो नोचितम् अहो
कृषिः क्लिष्टा विद्या गुरुविनयवृत्त्त्याऽतिविषमा ।
कुसीदाद् दारिद्र्यं परकरगतग्रन्थिशमनान्
न मन्ये वाणिज्यात् किम् अपि परमं वर्तनम् इह ॥ पञ्च_१.११ ॥
उपायानां च सर्वेषाम् उपायः पण्यसङ्ग्रहः ।
धनार्थं शस्यते ह्येकस् तदन्यः संशयात्मकः ॥ पञ्च_१.१२ ॥
तच् च वाणिज्यं सप्तविधम् अर्थागमाय स्यात् । तद् यथा गान्धिकव्यवहारः, निक्षेपप्रवेशः, गोष्ठिककर्म, परिचितग्राहकागमः, मिथ्याक्रयकथनम्, कूटतुलामानम्, देशान्तराद् भाण्डानयनं चेति । उक्तं च
पण्यानां गान्धिकं पण्यं किम् अन्यैः काञ्चनादिभिः ।
यत्रैकेन च यत् क्रीतं तच् छतेन प्रदीयते ॥ पञ्च_१.१३ ॥
निक्षेपे पतिते हर्म्ये श्रेष्ठी स्तौति स्वदेवताम् ।
निक्षेपी म्रियते तुभ्यं प्रदास्याम्य् उपयाचितम् ॥ पञ्च_१.१४ ॥
गोष्ठिककर्मनियुक्तः श्रेष्ठी चिन्तयति चेतसा हृष्टः ।
वसुधा वसुसम्पूर्णा मयाद्य लब्धा किम् अन्येन ॥ पञ्च_१.१५ ॥
परिचितम् आगच्छन्तं ग्राहकम् उत्कण्ठ्या विलोकयासौ ।
हृष्यति तद्धनलब्धो यद्वत् पुत्रेण जातेन ॥ पञ्च_१.१६ ॥
अन्यं च
पूर्णापूर्णे माने परिचितजनवञ्चनं तथा नित्यम् ।
मिथ्याक्रयस्य कथनं प्रकृतिर् इयं स्यात् किरातानाम् ॥ पञ्च_१.१७ ॥
द्विगुणं त्रिगुणं वित्तं भाण्डक्रयविचक्षणाः ।
प्राप्नुवन्त्य् उद्यमाल् लोका दूरदेशान्तरं गताः ॥ पञ्च_१.१८ ॥
इत्य् एवं सम्प्रधार्य मथुरागामीनि भाण्डानि आदाय शुभायां तिथौ गुरुजनानुज्ञातः सुरथाधिरूढः प्रस्थितः । तस्य च मङ्गलवृषभो सञ्जीवकनन्दकनामानौ गृहोत्पन्नौ धूर्वोढारौ स्थितौ । तयोर् एकः सञ्जीवकाभिधानो यमुनाकच्छम्
अवतीर्णः सम्पङ्कपूरम् आसाद्य कलितचरणो युगभङ्गं विधाय निषसाद ।
अथ तं तद्अवस्थम् आलोक्य वर्धमानः परं विषादम् आगमत् । तद् अर्थं च स्नेहार्द्रहृदयस् त्रिरात्रं प्रयाणभङ्गम् अकरोत् । अथ तं विषण्णम् आलोक्य सार्थिकैर् अभिहितं भोः श्रेष्ठिन्! किम् एवं वृषभस्य कृते सिंहव्याघ्रसमाकुले बह्वपायेस्मिन् वने समस्तसार्थस् त्वया सन्देहे नियोजितः । उक्तं च
न स्वल्पस्य कृते भूरि नाशयेन् मतिमान् नरः ।
एतद् एवात्र पाण्डित्यं यत् स्वल्पाद् भूरिरक्षणम् ॥ पञ्च_१.१९ ॥
अथासौ तद् अवधार्य सञ्जीवकस्य रक्षापुरुषान् निरूप्याशेषसार्थं नीत्वा प्रस्थितः । अथ रक्षापुरुषा अपि बह्व्अपायं तद्वनं विदित्वा सञ्जीवकं परित्यज्य पृष्ठतो गत्वान्येद्युस् तं सार्थवाहं मिथ्याहुः स्वामिन्, मृतोऽसौ सञ्जीवकः । अस्माभिस् तु सार्थवाहस्याभीष्ट इति मत्वा वह्निना संस्कृतः इति ।
तच् छ्रुत्वा सार्थवाहः कृतज्ञतया स्नेहार्द्रहृदयस् तस्यौर्ध्वदेहिकक्रिया वृषोत्सर्गादिकाः सर्वाश् चकार । सञ्जीवको प्य् आयुःशेषतया यमुनासलिलमिश्रैः शिशिरतरवातैर् आप्यायितशरीरः कथञ्चिद् अप्य् उत्थाय यमुनातटम् उपपेदे । तत्र मरकतसदृशानि बालतृणाग्राणि भक्षयन् कतिपयैर् अहोभिर् हरवृषभ इव पीनः ककुद्मान् बलवांश् च संवृत्तः । प्रत्यहं वल्मीकशिखराग्राणि शृङ्गाभ्यां विदारयन् गर्जमान आस्ते । साधु चेदम् उच्यते
अरक्षितं तिष्ठति देवरक्षितं
सुरक्षितं देवहतं विनश्यति ।
जीवत्य् अनाथोऽपि वने विसर्जितः
कृतप्रयत्नोऽपि गृहे विनश्यति ॥ पञ्च_१.२० ॥
अथ कदाचित् पिङ्गलको नाम सिंहः सर्वमृगपरिवृतः पिपासाकुल उदकपानार्थं यमुनातटम् अवतीर्णः सञ्जीवकस्य गम्भीरतररावं दूराद् एवाशृणोत् । तच् छ्रुत्वातीव व्याकुलहृदयः ससाध्वसम् आकारं प्रच्छाद्य वटतले चतुर्मण्डलावस्थानेनावस्थितः । चतुर्मण्डलावस्थानं त्व् इदं सिंहः सिंहानुयायिनः काकरवाः किंवृत्ता इति ।
अथ तस्य करटकदमनकनामानौ द्वौ शृगालौ मन्त्रिपुत्रौ भ्रष्टाधिकारौ सदानुयायिनाव् आस्ताम् । तौ च परस्परं मन्त्रयतः । तत्र दमनकोऽब्रवीत् भद्र करटक, अयं तावद् अस्मत्स्वामी पिङ्गलक उदकग्रहणार्थं यमुनाकच्छम् अवतीर्य स्थितः । स किं निमित्तं पिपासाकुलोऽपि निवृत्त्य व्यूहरचनां विधाय दौर्मनस्येनाभिभूतोऽत्र वटतले स्थितः ।
करटक आह भद्र किम् आवयोर् अनेन व्यापारेण उक्तं च यतः
अव्यापारेषु व्यापारं यो नरः कर्तुम् इच्छति ।
स एव निधनं याति कीलोत्पाटीव वानरः ॥ १.२१ ॥
॥ कथा - १ - कीलोत्पाटिवानरकथा ॥