न्यायसूत्राणि
/ 5
←

Nyayasutrani Telugu PDF & Online Reader (న్యాయసూత్రాణి)

Nyayasutrani (न्यायसूत्राणि) by Gautama (गौतमः) — Telugu Text & PDF Download

📜 Last Proofread: 08 Aug 2026
📥 Download Telugu PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 08 Aug 2026
📥 Download PDF ♡ Save
🌐 Language & Script తెలుగు
↔️ Text Alignment Center
(अथ प्रथमः अध्यायः) [अनुबन्धचतुष्टयप्रकरणम्] १.१.१ प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानाम्तत्त्वज्ञानात्निःश्रेयसाधिगमः {पदार्थोद्देशसूत्रम्} १.१.२ दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरा पायातपवर्गः {पदार्थोद्देशसूत्रम्} [प्रमाणप्रकरणम्] १.१.३ प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि {प्रमाणौद्देशसूत्रम्} १.१.४ इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् {प्रत्यक्षलक्षणम्} १.१.५ अथ तत्पूर्वकं त्रिविधमनुमानं पूर्ववत्शेषवत्सामान्यतोदृष्टं च {अनुमानलक्षणम्} १.१.६ प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानम् {उपमानलक्षणम्} १.१.७ आप्तोपदेशः शब्दः {शब्दलक्षणम्} १.१.८ सः द्विविधः दृष्टादृष्टार्थत्वात् {शब्दभेदः} [प्रमेयप्रकरणम्] १.१.९ आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः तु प्रमेयम् {प्रमेयौद्देशसूत्रम्} १.१.१० इच्छाद्वेषप्रयत्नसुखदुःखज्ञानानि आत्मनः लिङ्गमिति {आत्मलक्षणम्} १.१.११ चेष्टेन्द्रियार्थाश्रयः शरीरम् {शरीरलक्षणम्} १.१.१२ घ्राणरसनचक्षुस्त्वक्श्रोत्राणि इन्द्रियाणि भूतेभ्यः {इन्द्रियलक्षणम्} १.१.१३ पृथिवी आपः तेजः वायुः आकाशमिति भूतानि {भूतलक्षणम्} १.१.१४ गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणाः तदर्थाः {अर्थ(विषय)लक्षणम्} १.१.१५ बुद्धिः उपलब्धिः ज्ञानमिति अनर्थान्तरम् {बुद्धिलक्षणम्} १.१.१६ युगपत्ज्ञानानुत्पत्तिः मनसः लिङ्गम् {मनोलक्षणम्} १.१.१७ प्रवृत्तिः वाग्बुद्धिशरीरारम्भः {प्रवृत्तिलक्षणम्} १.१.१८ प्रवर्त्तनालक्षणाः दोषाः {दोषलक्षणम्} १.१.१९ पुनरुत्पत्तिः प्रेत्यभावः {प्रेत्यभावलक्षणम्} १.१.२० प्रवृत्तिदोषजनितः अर्थः फलम् {फललक्षणम्} १.१.२१ बाधनालक्षणं दुःखम् {दुःखलक्षणम्} १.१.२२ तदत्यन्तविमोक्षः अपवर्गः {अपवर्गलक्षणम्} [न्यायपूर्वाङ्गलक्षणप्रकरणम्] १.१.२३ समानानेकधर्मोपपत्तेः विप्रतिपत्तेः उपलब्ध्यनुपलब्ध्यव्यवस्थातः च विशेषापेक्षः विमर्शः संशयः {संशयलक्षणम्} १.१.२४ यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम् {प्रयोजनलक्षणम्} १.१.२५ लौकिकपरीक्षकाणां यस्मिनर्थे बुद्धिसाम्यं सः दृष्टान्तः {दृष्टान्तलक्षणम्} [न्यायाश्रयसिद्धान्तलक्षणप्रकरणम्] १.१.२६ तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः {अभ्युपगमसिद्धान्तलक्षणम्} १.१.२७ सः चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् {तन्त्रभेदौद्देशसूत्रम्} १.१.२८ सर्वतन्त्राविरुद्धः तन्त्रे अधिकृतः अर्थः सर्वतन्त्रसिद्धान्तः {सर्वतन्त्रसिद्धान्तलक्षणम्} १.१.२९ समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः {प्रतितन्त्रसिद्धान्तलक्षणम्} १.१.३० यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः {अधिकरणसिद्धान्तलक्षणम्} १.१.३१ अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः {अभ्युपगमसिद्धान्तलक्षणम्} [न्यायप्रकरणम्] १.१.३२ प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि अवयवाः {अवयवौद्देशसूत्रम्} १.१.३३ साध्यनिर्देशः प्रतिज्ञा {प्रतिज्ञालक्षणम्} १.१.३४ उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः {हेतुलक्षणम्} १.१.३५ तथा वैधर्म्यात् {हेतुलक्षणम्} १.१.३६ साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्तः उदाहरणम् {उदाहरणलक्षणम्} १.१.३७ तद्विपर्ययात्वा विपरीतम् {उदाहरणलक्षणम्} १.१.३८ उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः {उपनयलक्षणम्} १.१.३९ हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम् {निगमनलक्षणम्} [न्यायोत्तराङ्गप्रकरणम्] १.१.४० अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थमुहः तर्कः {तर्कलक्षणम्} १.१.४१ विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः {निर्णयलक्षणम्} (इति न्यायसूत्रे प्रथमाध्यायस्य प्रथममाह्निकम्) (अथ द्वितीयमाह्निकम्) [कथालक्षणप्रकरणम्] १.२.१ प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः वादः {वादलक्षणम्} १.२.२ यथोक्तोपपन्नः छलजातिनिग्रहस्थानसाधनोपालम्भः जल्पः {जल्पलक्षणम्} १.२.३ सः प्रतिपक्षस्थापनाहीनः वितण्डा {वितण्डालक्षणम्} [हेत्वाभासप्रकरणम्] १.२.४ सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीताः हेत्वाभासाः {हेत्वाभासौद्देशसूत्रम्} १.२.५ अनैकान्तिकः सव्यभिचारः {सव्यभिचारलक्षणम्} १.२.६ सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः {विरुद्धलक्षणम्} १.२.७ यस्मात्प्रकरणचिन्ता सः निर्णयार्थमपदिष्टः प्रकरणसमः {प्रकरणसमलक्षणम्} १.२.८ साध्याविशिष्टः साध्यत्वात्साध्यसमः {साध्यसमलक्षणम्} १.२.९ कालात्ययापदिष्टः कालातीतः {कालातीतलक्षणम्} [छलप्रकरणम्] १.२.१० वचनविघातः अर्थविकल्पोपपत्त्या छलम् {छललक्षणम्} १.२.११ तत्त्रिविधम् वाक्छलं सामान्यच्छलमुपचारच्छलं च इति {छलभेदौद्देशसूत्रम्} १.२.१२ अविशेषाभिहिते अर्थे वक्तुः अभिप्रायातर्थान्तरकल्पना वाक्छलम् {वाक्छललक्षणम्} १.२.१३ सम्भवतः अर्थस्य अतिसामान्ययोगातसम्भूतार्थकल्पना सामान्यच्छलम् {सामान्यच्छललक्षणम्} १.२.१४ धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम् {उपचारच्छललक्षणम्} १.२.१५ वाक्छलमेव उपचारच्छलं ततविशेषात् {उपचारच्छलपूर्वपक्षलक्षणम्} १.२.१६ न ततर्थान्तरभावात् {उपचारच्छललक्षणम्} १.२.१७ अविशेषे वा किञ्चित्साधर्म्यातेकच्छलप्रसङ्गः {उपचारच्छललक्षणम्} [लिङ्गदोषसामान्यप्रकरणम्] १.२.१८ साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः {जातिलक्षणम्} १.२.१९ विप्रतिपत्तिः अप्रतिपत्तिः च निग्रहस्थानम् {निग्रहस्थानलक्षणम्} १.२.२० तद्विकल्पात्जातिनिग्रहस्थानबहुत्वम् {निग्रहस्थानबहुत्वसूत्रम्} (इति न्यायसूत्रे प्रथमाध्यायस्य द्वितीयमाह्निकम्) (समाप्तः च अयं प्रथमः अध्यायः) (अथ द्वितीयः अध्यायः) (प्रथममाह्निकम्) [संशयपरीक्षाप्रकरणम्] २.१.१ समानानेकधर्माध्यवसायातन्यतरधर्माध्यवसायात्वा न संशयः {संशय} २.१.२ विप्रत्तिपत्त्यव्यवस्थाध्यवसायात्च {संशय} २.१.३ विप्रत्तिपत्तौ च सम्प्रत्तिपत्तेः {संशय} २.१.४ अव्यवस्था आत्मनि व्यवस्थितत्वात्च अव्यवस्थायाः {संशय} २.१.५ तथा अत्यन्तसंशयः तद्धर्मसातत्योपपत्तेः {संशय} २.१.६ यथोक्ताध्यवसायातेव तद्विशेषापेक्षात्संशये न असंशयः न अत्यन्तसंशयः वा {संशय} २.१.७ यत्र संशयः तत्र एवमुत्तरोत्तरप्रसङ्गः {संशय} [प्रमाणसामान्यपरीक्षाप्रकरणम्] २.१.८ प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेः {पूर्वपक्षसूत्रम्} २.१.९ पूर्वं हि प्रमाणसिद्धौ न इन्द्रियार्थसन्निकर्षात्प्रत्यक्षोत्पत्तिः {पूर्वपक्षसूत्रम्} २.१.१० पश्चात्सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः {पूर्वपक्षसूत्रम्} २.१.११ युगपत्सिद्धौ प्रत्यर्थनियतत्वात्क्रमवृत्तित्वाभावः बुद्धीनाम् {पूर्वपक्षसूत्रम्} २.१.१२ त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः {पूर्वपक्षसूत्रम्} २.१.१३ सर्वप्रमाणप्रतिषेधात्च प्रतिषेधानुपपत्तिः {पूर्वपक्षसूत्रम्} २.१.१४ तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः {पूर्वपक्षसूत्रम्} २.१.१५ त्रैकाल्याप्रतिषेधः च शब्दातातोद्यसिद्धिवत्तत्सिद्धेः {पूर्वपक्षसूत्रम्} २.१.१६ प्रमेया च तुलाप्रामाण्यवत् {पूर्वपक्षसूत्रम्} २.१.१७ प्रमाणतः सिद्धेः प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्गः {पूर्वपक्षसूत्रम्} २.१.१८ तद्विनिवृत्तेः वा प्रमाणसिद्धिवत्प्रमेयसिद्धिः {पूर्वपक्षसूत्रम्} २.१.१९ न, प्रदीपप्रकाशसिद्धिवत्तत्सिद्धेः {सिद्धान्तलक्षणम्} २.१.२० क्वचित्निवृत्तिदर्शनातनिवृत्तिदर्शनात्च क्वचितनेकान्तः {सिद्धान्तलक्षणम्} [प्रत्यक्षपरीक्षाप्रकरणाम्] २.१.२१ प्रत्यक्षलक्षणानुपपत्तिः असमग्रवचनात् {प्रत्यक्षलक्षण} {प्रत्यक्षलक्षणपरीक्षा} २.१.२२ न आत्ममनसोः सन्निकर्षाभावे प्रत्यक्षोत्पत्तिः (दो) २.१.२३ दिग्देशकालाकाशेषु अपि एवं प्रसङ्गः (दो) २.१.२४ ज्ञानलिङ्गत्वातात्मनः न अनवरोधः {प्रत्यक्षलक्षणसिद्धान्तसूत्रम्} २.१.२५ तदयौगपद्यलिङ्गत्वात्च न मनसः {प्रत्यक्षलक्षणसिद्धान्तसूत्र} २.१.२६ प्रत्यक्षनिमित्तत्वात्च इन्द्रियार्थयोः सन्निकर्षस्य स्वशब्देन वचनम् {प्रत्यक्षलक्षणसिद्धान्तसूत्र} २.१.२७ सुप्तव्यासक्तमनसां च इन्द्रियार्थयोः सन्निकर्षनिमित्तत्वात् {प्रत्यक्षलक्षणसिद्धान्तसूत्र} २.१.२८ तैः च अपदेशः ज्ञानविशेषाणाम् {प्रत्यक्षलक्षणसिद्धान्तसूत्र} २.१.२९ व्याहतत्वातहेतुः {प्रत्यक्षलक्षणसिद्धान्तसूत्र} २.१.३० न अर्थविशेषप्राबल्यात् {प्रत्यक्षलक्षणसिद्धान्तसूत्र} [विषयपरीक्षाप्रकरणाम्] २.१.३१ प्रत्यक्षमनुमानमेकदेशग्रहणातुपलब्धेः {पूर्वपक्षसूत्र} २.१.३२ न, प्रत्यक्षेण यावत्तावतपि उपलम्भात् {सिद्धान्तसूत्र} २.१.३३ न चैकदेशोपलब्धिरवयविसद्भावात् {सिद्धान्तसूत्र} [प्रसङ्गोपात्ता अवयविपरीक्षा] २.१.३४ साध्यत्वातवयविनि सन्देहः {पूर्वपक्षसूत्र} २.१.३५ सर्वाग्रहणमवयव्यसिद्धेः {सिद्धान्तसूत्र} २.१.३६ धारणाकर्षणोपपत्तेः च {सिद्धान्तसूत्र} २.१.३७ सेनावनवत्ग्रहणमिति चेत्न अतीन्द्रियत्वातणूनाम् {सिद्धान्तसूत्र} [अनुमानपरीक्षाप्रकरणम्]
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 08 Aug 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine