(अथ प्रथमः अध्यायः)
[अनुबन्धचतुष्टयप्रकरणम्]
१.१.१ प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानाम्तत्त्वज्ञानात्निःश्रेयसाधिगमः
{पदार्थोद्देशसूत्रम्}
१.१.२ दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरा पायातपवर्गः
{पदार्थोद्देशसूत्रम्}
[प्रमाणप्रकरणम्]
१.१.३ प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि
{प्रमाणौद्देशसूत्रम्}
१.१.४ इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्
{प्रत्यक्षलक्षणम्}
१.१.५ अथ तत्पूर्वकं त्रिविधमनुमानं पूर्ववत्शेषवत्सामान्यतोदृष्टं च
{अनुमानलक्षणम्}
१.१.६ प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानम्
{उपमानलक्षणम्}
१.१.७ आप्तोपदेशः शब्दः
{शब्दलक्षणम्}
१.१.८ सः द्विविधः दृष्टादृष्टार्थत्वात्
{शब्दभेदः}
[प्रमेयप्रकरणम्]
१.१.९ आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः तु प्रमेयम्
{प्रमेयौद्देशसूत्रम्}
१.१.१० इच्छाद्वेषप्रयत्नसुखदुःखज्ञानानि आत्मनः लिङ्गमिति
{आत्मलक्षणम्}
१.१.११ चेष्टेन्द्रियार्थाश्रयः शरीरम्
{शरीरलक्षणम्}
१.१.१२ घ्राणरसनचक्षुस्त्वक्श्रोत्राणि इन्द्रियाणि भूतेभ्यः
{इन्द्रियलक्षणम्}
१.१.१३ पृथिवी आपः तेजः वायुः आकाशमिति भूतानि
{भूतलक्षणम्}
१.१.१४ गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणाः तदर्थाः
{अर्थ(विषय)लक्षणम्}
१.१.१५ बुद्धिः उपलब्धिः ज्ञानमिति अनर्थान्तरम्
{बुद्धिलक्षणम्}
१.१.१६ युगपत्ज्ञानानुत्पत्तिः मनसः लिङ्गम्
{मनोलक्षणम्}
१.१.१७ प्रवृत्तिः वाग्बुद्धिशरीरारम्भः
{प्रवृत्तिलक्षणम्}
१.१.१८ प्रवर्त्तनालक्षणाः दोषाः
{दोषलक्षणम्}
१.१.१९ पुनरुत्पत्तिः प्रेत्यभावः
{प्रेत्यभावलक्षणम्}
१.१.२० प्रवृत्तिदोषजनितः अर्थः फलम्
{फललक्षणम्}
१.१.२१ बाधनालक्षणं दुःखम्
{दुःखलक्षणम्}
१.१.२२ तदत्यन्तविमोक्षः अपवर्गः
{अपवर्गलक्षणम्}
[न्यायपूर्वाङ्गलक्षणप्रकरणम्]
१.१.२३ समानानेकधर्मोपपत्तेः विप्रतिपत्तेः उपलब्ध्यनुपलब्ध्यव्यवस्थातः च विशेषापेक्षः विमर्शः संशयः
{संशयलक्षणम्}
१.१.२४ यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम्
{प्रयोजनलक्षणम्}
१.१.२५ लौकिकपरीक्षकाणां यस्मिनर्थे बुद्धिसाम्यं सः दृष्टान्तः
{दृष्टान्तलक्षणम्}
[न्यायाश्रयसिद्धान्तलक्षणप्रकरणम्]
१.१.२६ तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः
{अभ्युपगमसिद्धान्तलक्षणम्}
१.१.२७ सः चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात्
{तन्त्रभेदौद्देशसूत्रम्}
१.१.२८ सर्वतन्त्राविरुद्धः तन्त्रे अधिकृतः अर्थः सर्वतन्त्रसिद्धान्तः
{सर्वतन्त्रसिद्धान्तलक्षणम्}
१.१.२९ समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः
{प्रतितन्त्रसिद्धान्तलक्षणम्}
१.१.३० यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः
{अधिकरणसिद्धान्तलक्षणम्}
१.१.३१ अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः
{अभ्युपगमसिद्धान्तलक्षणम्}
[न्यायप्रकरणम्]
१.१.३२ प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि अवयवाः
{अवयवौद्देशसूत्रम्}
१.१.३३ साध्यनिर्देशः प्रतिज्ञा
{प्रतिज्ञालक्षणम्}
१.१.३४ उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः
{हेतुलक्षणम्}
१.१.३५ तथा वैधर्म्यात्
{हेतुलक्षणम्}
१.१.३६ साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्तः उदाहरणम्
{उदाहरणलक्षणम्}
१.१.३७ तद्विपर्ययात्वा विपरीतम्
{उदाहरणलक्षणम्}
१.१.३८ उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः
{उपनयलक्षणम्}
१.१.३९ हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम्
{निगमनलक्षणम्}
[न्यायोत्तराङ्गप्रकरणम्]
१.१.४० अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थमुहः तर्कः
{तर्कलक्षणम्}
१.१.४१ विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः
{निर्णयलक्षणम्}
(इति न्यायसूत्रे प्रथमाध्यायस्य प्रथममाह्निकम्)
(अथ द्वितीयमाह्निकम्)
[कथालक्षणप्रकरणम्]
१.२.१ प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः वादः
{वादलक्षणम्}
१.२.२ यथोक्तोपपन्नः छलजातिनिग्रहस्थानसाधनोपालम्भः जल्पः
{जल्पलक्षणम्}
१.२.३ सः प्रतिपक्षस्थापनाहीनः वितण्डा
{वितण्डालक्षणम्}
[हेत्वाभासप्रकरणम्]
१.२.४ सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीताः हेत्वाभासाः
{हेत्वाभासौद्देशसूत्रम्}
१.२.५ अनैकान्तिकः सव्यभिचारः
{सव्यभिचारलक्षणम्}
१.२.६ सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः
{विरुद्धलक्षणम्}
१.२.७ यस्मात्प्रकरणचिन्ता सः निर्णयार्थमपदिष्टः प्रकरणसमः
{प्रकरणसमलक्षणम्}
१.२.८ साध्याविशिष्टः साध्यत्वात्साध्यसमः
{साध्यसमलक्षणम्}
१.२.९ कालात्ययापदिष्टः कालातीतः
{कालातीतलक्षणम्}
[छलप्रकरणम्]
१.२.१० वचनविघातः अर्थविकल्पोपपत्त्या छलम्
{छललक्षणम्}
१.२.११ तत्त्रिविधम् वाक्छलं सामान्यच्छलमुपचारच्छलं च इति
{छलभेदौद्देशसूत्रम्}
१.२.१२ अविशेषाभिहिते अर्थे वक्तुः अभिप्रायातर्थान्तरकल्पना वाक्छलम्
{वाक्छललक्षणम्}
१.२.१३ सम्भवतः अर्थस्य अतिसामान्ययोगातसम्भूतार्थकल्पना सामान्यच्छलम्
{सामान्यच्छललक्षणम्}
१.२.१४ धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम्
{उपचारच्छललक्षणम्}
१.२.१५ वाक्छलमेव उपचारच्छलं ततविशेषात्
{उपचारच्छलपूर्वपक्षलक्षणम्}
१.२.१६ न ततर्थान्तरभावात्
{उपचारच्छललक्षणम्}
१.२.१७ अविशेषे वा किञ्चित्साधर्म्यातेकच्छलप्रसङ्गः
{उपचारच्छललक्षणम्}
[लिङ्गदोषसामान्यप्रकरणम्]
१.२.१८ साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः
{जातिलक्षणम्}
१.२.१९ विप्रतिपत्तिः अप्रतिपत्तिः च निग्रहस्थानम्
{निग्रहस्थानलक्षणम्}
१.२.२० तद्विकल्पात्जातिनिग्रहस्थानबहुत्वम्
{निग्रहस्थानबहुत्वसूत्रम्}
(इति न्यायसूत्रे प्रथमाध्यायस्य द्वितीयमाह्निकम्)
(समाप्तः च अयं प्रथमः अध्यायः)
(अथ द्वितीयः अध्यायः)
(प्रथममाह्निकम्)
[संशयपरीक्षाप्रकरणम्]
२.१.१ समानानेकधर्माध्यवसायातन्यतरधर्माध्यवसायात्वा न संशयः
{संशय}
२.१.२ विप्रत्तिपत्त्यव्यवस्थाध्यवसायात्च
{संशय}
२.१.३ विप्रत्तिपत्तौ च सम्प्रत्तिपत्तेः
{संशय}
२.१.४ अव्यवस्था आत्मनि व्यवस्थितत्वात्च अव्यवस्थायाः
{संशय}
२.१.५ तथा अत्यन्तसंशयः तद्धर्मसातत्योपपत्तेः
{संशय}
२.१.६ यथोक्ताध्यवसायातेव तद्विशेषापेक्षात्संशये न असंशयः न अत्यन्तसंशयः वा
{संशय}
२.१.७ यत्र संशयः तत्र एवमुत्तरोत्तरप्रसङ्गः
{संशय}
[प्रमाणसामान्यपरीक्षाप्रकरणम्]
२.१.८ प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेः
{पूर्वपक्षसूत्रम्}
२.१.९ पूर्वं हि प्रमाणसिद्धौ न इन्द्रियार्थसन्निकर्षात्प्रत्यक्षोत्पत्तिः
{पूर्वपक्षसूत्रम्}
२.१.१० पश्चात्सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः
{पूर्वपक्षसूत्रम्}
२.१.११ युगपत्सिद्धौ प्रत्यर्थनियतत्वात्क्रमवृत्तित्वाभावः बुद्धीनाम्
{पूर्वपक्षसूत्रम्}
२.१.१२ त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः
{पूर्वपक्षसूत्रम्}
२.१.१३ सर्वप्रमाणप्रतिषेधात्च प्रतिषेधानुपपत्तिः
{पूर्वपक्षसूत्रम्}
२.१.१४ तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः
{पूर्वपक्षसूत्रम्}
२.१.१५ त्रैकाल्याप्रतिषेधः च शब्दातातोद्यसिद्धिवत्तत्सिद्धेः
{पूर्वपक्षसूत्रम्}
२.१.१६ प्रमेया च तुलाप्रामाण्यवत्
{पूर्वपक्षसूत्रम्}
२.१.१७ प्रमाणतः सिद्धेः प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्गः
{पूर्वपक्षसूत्रम्}
२.१.१८ तद्विनिवृत्तेः वा प्रमाणसिद्धिवत्प्रमेयसिद्धिः
{पूर्वपक्षसूत्रम्}
२.१.१९ न, प्रदीपप्रकाशसिद्धिवत्तत्सिद्धेः
{सिद्धान्तलक्षणम्}
२.१.२० क्वचित्निवृत्तिदर्शनातनिवृत्तिदर्शनात्च क्वचितनेकान्तः
{सिद्धान्तलक्षणम्}
[प्रत्यक्षपरीक्षाप्रकरणाम्]
२.१.२१ प्रत्यक्षलक्षणानुपपत्तिः असमग्रवचनात्
{प्रत्यक्षलक्षण}
{प्रत्यक्षलक्षणपरीक्षा}
२.१.२२ न आत्ममनसोः सन्निकर्षाभावे प्रत्यक्षोत्पत्तिः
(दो)
२.१.२३ दिग्देशकालाकाशेषु अपि एवं प्रसङ्गः
(दो)
२.१.२४ ज्ञानलिङ्गत्वातात्मनः न अनवरोधः
{प्रत्यक्षलक्षणसिद्धान्तसूत्रम्}
२.१.२५ तदयौगपद्यलिङ्गत्वात्च न मनसः
{प्रत्यक्षलक्षणसिद्धान्तसूत्र}
२.१.२६ प्रत्यक्षनिमित्तत्वात्च इन्द्रियार्थयोः सन्निकर्षस्य स्वशब्देन वचनम्
{प्रत्यक्षलक्षणसिद्धान्तसूत्र}
२.१.२७ सुप्तव्यासक्तमनसां च इन्द्रियार्थयोः सन्निकर्षनिमित्तत्वात्
{प्रत्यक्षलक्षणसिद्धान्तसूत्र}
२.१.२८ तैः च अपदेशः ज्ञानविशेषाणाम्
{प्रत्यक्षलक्षणसिद्धान्तसूत्र}
२.१.२९ व्याहतत्वातहेतुः
{प्रत्यक्षलक्षणसिद्धान्तसूत्र}
२.१.३० न अर्थविशेषप्राबल्यात्
{प्रत्यक्षलक्षणसिद्धान्तसूत्र}
[विषयपरीक्षाप्रकरणाम्]
२.१.३१ प्रत्यक्षमनुमानमेकदेशग्रहणातुपलब्धेः
{पूर्वपक्षसूत्र}
२.१.३२ न, प्रत्यक्षेण यावत्तावतपि उपलम्भात्
{सिद्धान्तसूत्र}
२.१.३३ न चैकदेशोपलब्धिरवयविसद्भावात्
{सिद्धान्तसूत्र}
[प्रसङ्गोपात्ता अवयविपरीक्षा]
२.१.३४ साध्यत्वातवयविनि सन्देहः
{पूर्वपक्षसूत्र}
२.१.३५ सर्वाग्रहणमवयव्यसिद्धेः
{सिद्धान्तसूत्र}
२.१.३६ धारणाकर्षणोपपत्तेः च
{सिद्धान्तसूत्र}
२.१.३७ सेनावनवत्ग्रहणमिति चेत्न अतीन्द्रियत्वातणूनाम्
{सिद्धान्तसूत्र}
[अनुमानपरीक्षाप्रकरणम्]