॥ मीमांसासूत्राणि ॥ ॥ महर्षिजैमिनिप्रणीतानि ॥
अध्याय १ अथातो धर्मजिज्ञासा -१,१.१ चोदनालक्षणोऽर्थो धर्मः -१,१.२ तस्य निमित्तपरीष्टिः -१,१.३ सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम् अनिमित्तं विद्यमानोपलम्भनत्वात् -१,१.४ औत्पत्तिकस् तु शब्दस्यार्थेन सम्बन्धस् तस्य ज्ञानम् उपदेशोऽव्यतिरेकश् चार्थेऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात् -१,१.५ कर्मैके तत्र दर्शनात् -१,१.६ अस्थानात् -१,१.७ करोति शब्दात् -१,१.८ सत्त्वान्तरे च यौगपद्यात् -१,१.९ प्रकृति विकृत्योश् च -१,१.१० वृद्धिश् च कर्तृभूम्नास्य -१,१.११ समं तु तत्र दर्शनम् -१,१.१२ सतः परमदर्शनं विषयानागमात् -१,१.१३ प्रयोगस्य परम् -१,१.१४ आदित्त्यवद्यौगपद्यम् -१,१.१५ वर्णान्तरम् अविकारः -१,१.१६ नादवृद्धिपरा -१,१.१७ नित्यस् तु स्याद् दर्शनस्य परार्थत्वात् -१,१.१८ सर्वत्र यौगपद्यात् -१,१.१९ सङ्ख्याभावात् -१,१.२० अनपेक्षत्वात् -१,१.२१ प्रख्याभावाच् च योगस्य -१,१.२२ लिङ्गदर्शनाच् च -१,१.२३ उत्त्पत्तौ वावचनाः स्युर् अर्थस्यातन्निमित्तत्वात् -१,१.२४ तद्भूतानां क्रियार्थेन सामाम्नायोऽर्थस्य तन्निमित्तत्त्वात् -१,१.२५ लोके सन्नियमात् प्रयोगसन्निकर्षः स्यात् -१,१.२६ वेदांश् चैके सन्निकर्षं पुरुषाख्याः -१,१.२७ अनित्यदर्शनाच् च -१,१.२८ उक्तं तु शब्दपूर्वत्वम् -१,१.२९ आख्या प्रवचनात् -१,१.३० परन्तु श्रुतिसामान्यमात्रम् -१,१.३१ कृते वा विनियोगः स्यात् कर्मणः सम्बन्धात् -१,१.३२ आम्नायस्य क्रियार्थत्वाद् आनर्थक्यम् अतदर्थानां तस्माद् अनित्यम् उच्यते -१,२.१ शास्त्रदृष्टाविरोधाच् च -१,२.२ तथाफलाभावात् -१,२.३ अन्यानर्थक्यात् -१,२.४ अभागिप्रतिषेधाच् च -१,२.५ अनित्यसंयोगात् -१,२.६ विधिना त्व् एकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः -१,२.७ तुल्यं च साम्प्रदायिकम् -१,२.८ आप्ता चानुपपत्तिः प्रयोगे हि विरोधः स्याच् छब्दार्थस् त्व् अप्रयोगभूतस् तस्माद् उपपद्येत -१,२.९ गुणवादस् तु -१,२.१० रूपात् प्रायात् -१,२.११ दूरभूयस्त्वात् -१,२.१२ अपराधात् कर्तुश् च पुत्रदर्शनम् -१,२.१३ आकालिकेप्सा -१,२.१४ विद्याप्रशंसा -१,२.१५ सर्वत्वम् आधिकारिकम् -१,२.१६ फलस्य कर्मनिष्पत्तेस् तेषां लोकवत्परिमाणतः फलविशेषः स्यात् -१,२.१७ अन्त्ययोर् यथोक्तम् -१,२.१८ विधिर् वा स्याद् अपूर्वत्वाद् वादमात्रम ह्य् अनर्थकम् -१,२.१९ लोकवद् इति चेत् -१,२.२० न पूर्वत्वात् -१,२.२१ उक्तं तु वाक्यशेषत्वम् -१,२.२२ विधिश् चानर्थकः क्वचित् तस्मात् स्तुतिः प्रतीयेत तत्सामान्याद् इतरेषु तथात्वम् -१,२.२३ प्रकरणे सम्भवन्नपकर्षो न कल्प्येत विध्यानर्थक्यं हि तं प्रति -१,२.२४ विधौ च वाक्यभेदः स्यात् -१,२.२५ हेतुर् वा स्याद् अर्थवत्वोपपत्तिभ्याम् -१,२.२६ स्थितिस् तु शब्दपूर्वत्वादचोदनाच तस्य -१,२.२७ व्यर्थे स्तुतिर् अन्याय्येति चेत् -१,२.२८ अर्थस् तु विधिशेषत्वाद् यथा लोके -१,२.२९ यदि च हेतुर् अवतिष्ठेत निर्देशात् सामान्याद् इति चेद् अवस्था विधीनां स्यात् -१,२.३० तदर्थशास्त्रात् -१,२.३१ वाक्यनियमात् -१,२.३२ बुद्धिशास्त्रात् -१,२.३३ अविद्यमानवचनात् -१,२.३४ अचेतनेऽर्थबन्धनात् -१,२.३५ अर्थविप्रतिषेधात् -१,२.३६ स्वाध्यायवद्वचनात् -१,२.३७ अविज्ञेयात् -१,२.३८ अनित्यसंयोगान् मन्त्रार्थानर्थक्यम् -१,२.३९ अविशिष्टस् तु वाक्यार्थः -१,२.४० गुणार्थेन पुनः श्रुतिः -१,२.४१ परिसङ्ख्या -१,२.४२ अर्थवादो वा -१,२.४३ अविरुद्धं परम् -१,२.४४ सम्प्रैषे कर्मगर्हानुपालम्भः संस्कारत्त्वात् -१,२.४५ अभिधानेऽर्थवादः -१,२.४६ गुणाद् अप्रतिषेधः स्यात् -१,२.४७ विद्यावचनम् असंयोगात् -१,२.४८ सतः परमविज्ञानम् -१,२.४९ उक्तश् चानित्यसंयोगः -१,२.५० लिङ्गोपदेशश् च तदर्थवत् -१,२.५१ ऊहः -१,२.५२ विधिशब्दाश् च -१,२.५३ धर्मस्य शब्दमूलत्वाद् अशब्दम् अनपेक्षं स्यात् -१,३.१ अपि वा कर्तृसामान्यात् प्रमाणम् अनुमानं स्यात् -१,३.२ विरोधे त्व् अनपेक्ष्यं स्याद् असति ह्य् अनुमानम् -१,३.३ हेतुदर्शनाच् च -१,३.४ शिष्टाकोपेऽविरुद्धम् इति चेत् -१,३.५ न शास्त्रपरिमाणत्वात् -१,३.६ अपि वा कारणग्रहणे प्रयुक्तानि प्रतीयेरन् -१,३.७ तेष्व् अदर्शनाद् विरोधस्य समा विप्रतिपत्तिः स्यात् -१,३.८ शास्त्रस्था वा तन्निमित्तत्वात् -१,३.९ चोदितं तु प्रतीयेताविरोधात् प्रमाणेन -१,३.१० प्रयोगशास्त्रम् इति चेत् -१,३.११ नासन्नियमात् -१,३.१२ अवाक्यशेषाच् च -१,३.१३ सर्वत्र च प्रयोगात् सन्निधानशास्त्राच् च -१,३.१४ अनुमानव्यवस्थानात् तत्संयुक्तं प्रमाणं स्यात् -१,३.१५ अपि वा सर्व धर्मः स्यात् तन्न्यायत्वाद् विधानस्य -१,३.१६ दर्शनाद् विनियोगः स्यात् -१,३.१७ लिङ्गाभावाच् च नित्यस्य -१,३.१८ आख्या हि देशसंयोगात् -१,३.१९ न स्याद् देशान्तरेष्व् इति चेत् -१,३.२० स्याद्योगाख्या हि माथुरवत् -१,३.२१ कर्मधर्मो वा प्रवणवत् -१,३.२२ तुल्यं तु कर्तृधर्मेण -१,३.२३ प्रयोगोत्पत्यशास्त्रत्वाच् छब्देषु न व्यवस्था स्यात् -१,३.२४ शब्दे प्रयत्ननिष्पत्तेर् अपराधस्य भागित्वम् -१,३.२५ अन्यायश् चानेकशब्दत्त्वम् -१,३.२६ तत्र तत्त्वम् अभियोगविशेषात् स्यात् -१,३.२७ तदशक्तिश् चानुरूपत्वात् -१,३.२८ एक देशत्वाच् च विभाक्तिव्यत्यये स्यात् -१,३.२९ प्रयोगचोदनाभावाद् अर्थैकत्वम् अविभागात् -१,३.३० अद्रव्यशब्दत्वात् -१,३.३१ अन्यदर्शनाच् च -१,३.३२ आकृतिस् तु क्रियार्थत्वात् -१,३.३३ न क्रिया स्याद् इति चेदर्थान्तरे विधानं न द्रव्यम् इति चेत् -१,३.३४ तदर्थत्वात् प्रयोगस्याविभागः -१,३.३५ उक्तं समाम्नायैदम् अर्थ्यं तस्मात् सर्वं तदर्थं स्यात् -१,४.१ अपि वा नामधेयं स्याद् यदुत्पत्तावपूर्वम् अविधायकत्वात् -१,४.२ यस्मिन् गुणोपदेशः प्रधानतोऽभिसम्बन्धः -१,४.३ तत्प्रख्यञ् चान्यशास्त्रम् -१,४.४ तद्व्यपदेशं च -१,४.५ नामधेये गुणश्रुतेः स्याद् विधानम् इति चेत् -१,४.६ तुल्यत्वात् क्रिययोर् न -१,४.७ ऐकशब्द्ये परार्थवत् -१,४.८ तद्गुणास् तु विधायेर् अन्नविभागाद् विधानार्थे न चेद् अन्येन शिष्टाः -१,४.९ बर्हिराज्ययोर् असंस्कारे शब्दलाभाद् अतच्छब्दः -१,४.१० प्रोक्षणीष्व् अर्थसंयोगात् -१,४.११ तथानिर्मन्थ्ये -१,४.१२ वैश्वदेवे विकल्प इति चेत् -१,४.१३ न वा प्रकरणात् प्रत्यक्षविधानाच् च न हि प्रकरणं द्रव्यस्य -१,४.१४ मिथश् चानर्थसम्बन्धः -१,४.१५ परार्थत्वाद् गुणानाम् -१,४.१६ पूर्ववन्तोऽविधानार्थास् तत्सामर्थ्यं समाम्नाये -१,४.१७ गुणस्य तु विधानार्थे तद्गुणाः प्रयोगे स्युर् अनर्थका न हि तं प्रत्यर्थवत्तास्ति -१,४.१८ तच्छेषो नोपपद्यते -१,४.१९ अविभागाद् विधानार्थे स्तुत्यर्थेनोपपद्येरन् -१,४.२० कारणं स्याद् इति चेत् -१,४.२१ आनर्थक्याद् अकारणं कर्तुर् हि कारणानि गुणार्थो हि विधीयते -१,४.२२ तत्सिद्धिः -१,४.२३ जातिः -१,४.२४ सारूप्यात् -१,४.२५ प्रशंसा -१,४.२६ भूमा -१,४.२७ लिङ्गसमवायात् -१,४.२८ सन्दिग्धेषु वाक्यशेषात् -१,४.२९ अर्थाद् वा कल्पनैकदेशत्वात् -१,४.३० अध्याय २ भावार्थाः कर्मशब्दास् तेभ्यः क्रिया प्रतीयेतैष ह्य् अर्थो विधीयते -२,१.१ सर्वेषां भावोऽर्थ इति चेत् -२,१.२ येषाम् उत्पत्तौ स्वे प्रयोगे रूपोपलब्धिस् तानि नामानि तस्मात् तेभ्यः पराकाङ्क्षा भूतत्वात् स्वे प्रयोगै -२,१.३ येषां तूत्पत्ताव् अर्थे स्वे प्रयोगो न विद्यते तान्य् आख्यातानि तस्मात् तेभ्यः प्रतीयेताश्रितत्वात् प्रयोगस्य -२,१.४ चोदना पुनर् आरम्भः -२,१.५ तानि द्वैधं गुणप्रधानभूतानि -२,१.६ यैर् द्रव्यं न चिकीर्ष्यते तानि प्रधानभूतानि द्रव्यस्य गुणभूतत्वात् -२,१.७ यैस् तु द्रव्यं चिकीर्ष्यते गुणस् तत्र प्रतीयेत तस्य द्रव्यप्रधानत्वात् -२,१.८ धर्ममात्रे तु कर्म स्याद् अनिर्वृत्तेः प्रयाजवत् -२,१.९ तुल्यश्रुतित्वाद् वेतरैः सधर्मः स्यात् -२,१.१० द्रव्योपदेश इति चेत् -२,१.११ न तदर्थत्वाल् लोकवत् तस्य च शेषभूतत्वात् -२,१.१२ स्तुतशस्त्रयोस् तु संस्कारो याज्यावद् देवताभिधानत्वात् -२,१.१३ अर्थेन त्व् अपकृष्येत देवतानाम् अचोदनार्थस्य गुणभूतत्वात् -२,१.१४ वशावद् वा गुणार्थं स्यात् -२,१.१५ न श्रुतिसमवायित्वात् -२,१.१६ व्यपदेशभेदाच् च -२,१.१७ गुणश् चानर्थकः स्यात् -२,१.१८ तथा याज्यापुरोरुचोः -२,१.१९ वशायाम् अर्थसमवायात् -२,१.२० यच् चेति वार्थवत्त्वात् स्यात् -२,१.२१ न त्वाम्नातेषु -२,१.२२ दृश्यते -२,१.२३ अपि वा श्रुतिसंयोगात् प्रकरणे स्तौतिशंसती क्रियोत्पात्तिं विदध्याताम् -२,१.२४ शब्दपृथक्त्वाच् च -२,१.२५ अनर्थकं च तद्वचनम् -२,१.२६ अन्यश् चार्थः प्रतीयते -२,१.२७ अभिधानं च कर्मवत् -२,१.२८ फलनिर्वृत्तिश् च -२,१.२९ विधिमन्त्रयोर् ऐकार्थ्यम् ऐकशब्द्यात् -२,१.३० अपि वा प्रयोगसामर्थ्यान् मन्त्रोऽभिधानवाची स्यात् -२,१.३१ तच्चोदकेषु मन्त्राख्या -२,१.३२ शेषे ब्राह्मणशब्दः -२,१.३३ अनाम्नातेष्व् अमन्त्रत्वमाम्नातेषु हि विभागः -२,१.३४ तेषाम् ऋग्यत्रार्थवशेन पादव्यवस्था -२,१.३५ गीतिषु स माख्या -२,१.३६ शेषे यजुः शब्दाः -२,१.३७ निगदो वा चतुर्थं स्याद् धर्मविशेषात् -२,१.३८ व्यपदेशाच् च -२,१.३९ यजूंषि वा तद्रूपत्वात् -२,१.४० वचनाद् धर्मविशेषः -२,१.४१ अर्थाच् च -२,१.४२ गुणार्थो व्यपदेशः -२,१.४३ सर्वेषाम् इति चेत् -२,१.४४ न, ऋग्व्यपदेशात् -२,१.४५ अर्थैकत्वाद् एकं वाक्यं साकाङ्क्षं चेद् विभागे स्यात् -२,१.४६ समेषु वाक्यभेदः स्यात् -२,१.४७ अनुषङ्गो वाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वात् -२,१.४८ व्यवायान् नानुषज्येत -२,१.४९ शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् -२,२.१ एकस्यैवं पुनः श्रुतिर् अविशेषाद् अनर्थकं हि स्यात् -२,२.२ प्रकरणं तु पौर्णमास्यां रूपावचनात् -२,२.३ विशेषदर्शनाच् च सर्वेषां समेषु ह्य् अप्रवृत्तिः स्यात् -२,२.४ गुणस् तु श्रुतिसंयोगात् -२,२.५ चोदना वा गुणानां