मीमांसासूत्राणि
/ 15
←

Mimamsasutrani Kannada PDF & Online Reader (ಮೀಮಾಂಸಾಸೂತ್ರಾಣಿ)

Mimamsasutrani (मीमांसासूत्राणि) by जैमिनिः — Kannada Text & PDF Download

📜 Last Proofread: 05 Sep 2026
📥 Download Kannada PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 05 Sep 2026
📥 Download PDF ♡ Save
🌐 Language & Script ಕನ್ನಡ
↔️ Text Alignment Center
॥ मीमांसासूत्राणि ॥ ॥ महर्षिजैमिनिप्रणीतानि ॥ अध्याय १ अथातो धर्मजिज्ञासा -१,१.१ चोदनालक्षणोऽर्थो धर्मः -१,१.२ तस्य निमित्तपरीष्टिः -१,१.३ सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम् अनिमित्तं विद्यमानोपलम्भनत्वात् -१,१.४ औत्पत्तिकस् तु शब्दस्यार्थेन सम्बन्धस् तस्य ज्ञानम् उपदेशोऽव्यतिरेकश् चार्थेऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात् -१,१.५ कर्मैके तत्र दर्शनात् -१,१.६ अस्थानात् -१,१.७ करोति शब्दात् -१,१.८ सत्त्वान्तरे च यौगपद्यात् -१,१.९ प्रकृति विकृत्योश् च -१,१.१० वृद्धिश् च कर्तृभूम्नास्य -१,१.११ समं तु तत्र दर्शनम् -१,१.१२ सतः परमदर्शनं विषयानागमात् -१,१.१३ प्रयोगस्य परम् -१,१.१४ आदित्त्यवद्यौगपद्यम् -१,१.१५ वर्णान्तरम् अविकारः -१,१.१६ नादवृद्धिपरा -१,१.१७ नित्यस् तु स्याद् दर्शनस्य परार्थत्वात् -१,१.१८ सर्वत्र यौगपद्यात् -१,१.१९ सङ्ख्याभावात् -१,१.२० अनपेक्षत्वात् -१,१.२१ प्रख्याभावाच् च योगस्य -१,१.२२ लिङ्गदर्शनाच् च -१,१.२३ उत्त्पत्तौ वावचनाः स्युर् अर्थस्यातन्निमित्तत्वात् -१,१.२४ तद्भूतानां क्रियार्थेन सामाम्नायोऽर्थस्य तन्निमित्तत्त्वात् -१,१.२५ लोके सन्नियमात् प्रयोगसन्निकर्षः स्यात् -१,१.२६ वेदांश् चैके सन्निकर्षं पुरुषाख्याः -१,१.२७ अनित्यदर्शनाच् च -१,१.२८ उक्तं तु शब्दपूर्वत्वम् -१,१.२९ आख्या प्रवचनात् -१,१.३० परन्तु श्रुतिसामान्यमात्रम् -१,१.३१ कृते वा विनियोगः स्यात् कर्मणः सम्बन्धात् -१,१.३२ आम्नायस्य क्रियार्थत्वाद् आनर्थक्यम् अतदर्थानां तस्माद् अनित्यम् उच्यते -१,२.१ शास्त्रदृष्टाविरोधाच् च -१,२.२ तथाफलाभावात् -१,२.३ अन्यानर्थक्यात् -१,२.४ अभागिप्रतिषेधाच् च -१,२.५ अनित्यसंयोगात् -१,२.६ विधिना त्व् एकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः -१,२.७ तुल्यं च साम्प्रदायिकम् -१,२.८ आप्ता चानुपपत्तिः प्रयोगे हि विरोधः स्याच् छब्दार्थस् त्व् अप्रयोगभूतस् तस्माद् उपपद्येत -१,२.९ गुणवादस् तु -१,२.१० रूपात् प्रायात् -१,२.११ दूरभूयस्त्वात् -१,२.१२ अपराधात् कर्तुश् च पुत्रदर्शनम् -१,२.१३ आकालिकेप्सा -१,२.१४ विद्याप्रशंसा -१,२.१५ सर्वत्वम् आधिकारिकम् -१,२.१६ फलस्य कर्मनिष्पत्तेस् तेषां लोकवत्परिमाणतः फलविशेषः स्यात् -१,२.१७ अन्त्ययोर् यथोक्तम् -१,२.१८ विधिर् वा स्याद् अपूर्वत्वाद् वादमात्रम ह्य् अनर्थकम् -१,२.१९ लोकवद् इति चेत् -१,२.२० न पूर्वत्वात् -१,२.२१ उक्तं तु वाक्यशेषत्वम् -१,२.२२ विधिश् चानर्थकः क्वचित् तस्मात् स्तुतिः प्रतीयेत तत्सामान्याद् इतरेषु तथात्वम् -१,२.२३ प्रकरणे सम्भवन्नपकर्षो न कल्प्येत विध्यानर्थक्यं हि तं प्रति -१,२.२४ विधौ च वाक्यभेदः स्यात् -१,२.२५ हेतुर् वा स्याद् अर्थवत्वोपपत्तिभ्याम् -१,२.२६ स्थितिस् तु शब्दपूर्वत्वादचोदनाच तस्य -१,२.२७ व्यर्थे स्तुतिर् अन्याय्येति चेत् -१,२.२८ अर्थस् तु विधिशेषत्वाद् यथा लोके -१,२.२९ यदि च हेतुर् अवतिष्ठेत निर्देशात् सामान्याद् इति चेद् अवस्था विधीनां स्यात् -१,२.३० तदर्थशास्त्रात् -१,२.३१ वाक्यनियमात् -१,२.३२ बुद्धिशास्त्रात् -१,२.३३ अविद्यमानवचनात् -१,२.३४ अचेतनेऽर्थबन्धनात् -१,२.३५ अर्थविप्रतिषेधात् -१,२.३६ स्वाध्यायवद्वचनात् -१,२.३७ अविज्ञेयात् -१,२.३८ अनित्यसंयोगान् मन्त्रार्थानर्थक्यम् -१,२.३९ अविशिष्टस् तु वाक्यार्थः -१,२.४० गुणार्थेन पुनः श्रुतिः -१,२.४१ परिसङ्ख्या -१,२.४२ अर्थवादो वा -१,२.४३ अविरुद्धं परम् -१,२.४४ सम्प्रैषे कर्मगर्हानुपालम्भः संस्कारत्त्वात् -१,२.४५ अभिधानेऽर्थवादः -१,२.४६ गुणाद् अप्रतिषेधः स्यात् -१,२.४७ विद्यावचनम् असंयोगात् -१,२.४८ सतः परमविज्ञानम् -१,२.४९ उक्तश् चानित्यसंयोगः -१,२.५० लिङ्गोपदेशश् च तदर्थवत् -१,२.५१ ऊहः -१,२.५२ विधिशब्दाश् च -१,२.५३ धर्मस्य शब्दमूलत्वाद् अशब्दम् अनपेक्षं स्यात् -१,३.१ अपि वा कर्तृसामान्यात् प्रमाणम् अनुमानं स्यात् -१,३.२ विरोधे त्व् अनपेक्ष्यं स्याद् असति ह्य् अनुमानम् -१,३.३ हेतुदर्शनाच् च -१,३.४ शिष्टाकोपेऽविरुद्धम् इति चेत् -१,३.५ न शास्त्रपरिमाणत्वात् -१,३.६ अपि वा कारणग्रहणे प्रयुक्तानि प्रतीयेरन् -१,३.७ तेष्व् अदर्शनाद् विरोधस्य समा विप्रतिपत्तिः स्यात् -१,३.८ शास्त्रस्था वा तन्निमित्तत्वात् -१,३.९ चोदितं तु प्रतीयेताविरोधात् प्रमाणेन -१,३.१० प्रयोगशास्त्रम् इति चेत् -१,३.११ नासन्नियमात् -१,३.१२ अवाक्यशेषाच् च -१,३.१३ सर्वत्र च प्रयोगात् सन्निधानशास्त्राच् च -१,३.१४ अनुमानव्यवस्थानात् तत्संयुक्तं प्रमाणं स्यात् -१,३.१५ अपि वा सर्व धर्मः स्यात् तन्न्यायत्वाद् विधानस्य -१,३.१६ दर्शनाद् विनियोगः स्यात् -१,३.१७ लिङ्गाभावाच् च नित्यस्य -१,३.१८ आख्या हि देशसंयोगात् -१,३.१९ न स्याद् देशान्तरेष्व् इति चेत् -१,३.२० स्याद्योगाख्या हि माथुरवत् -१,३.२१ कर्मधर्मो वा प्रवणवत् -१,३.२२ तुल्यं तु कर्तृधर्मेण -१,३.२३ प्रयोगोत्पत्यशास्त्रत्वाच् छब्देषु न व्यवस्था स्यात् -१,३.२४ शब्दे प्रयत्ननिष्पत्तेर् अपराधस्य भागित्वम् -१,३.२५ अन्यायश् चानेकशब्दत्त्वम् -१,३.२६ तत्र तत्त्वम् अभियोगविशेषात् स्यात् -१,३.२७ तदशक्तिश् चानुरूपत्वात् -१,३.२८ एक देशत्वाच् च विभाक्तिव्यत्यये स्यात् -१,३.२९ प्रयोगचोदनाभावाद् अर्थैकत्वम् अविभागात् -१,३.३० अद्रव्यशब्दत्वात् -१,३.३१ अन्यदर्शनाच् च -१,३.३२ आकृतिस् तु क्रियार्थत्वात् -१,३.३३ न क्रिया स्याद् इति चेदर्थान्तरे विधानं न द्रव्यम् इति चेत् -१,३.३४ तदर्थत्वात् प्रयोगस्याविभागः -१,३.३५ उक्तं समाम्नायैदम् अर्थ्यं तस्मात् सर्वं तदर्थं स्यात् -१,४.१ अपि वा नामधेयं स्याद् यदुत्पत्तावपूर्वम् अविधायकत्वात् -१,४.२ यस्मिन् गुणोपदेशः प्रधानतोऽभिसम्बन्धः -१,४.३ तत्प्रख्यञ् चान्यशास्त्रम् -१,४.४ तद्व्यपदेशं च -१,४.५ नामधेये गुणश्रुतेः स्याद् विधानम् इति चेत् -१,४.६ तुल्यत्वात् क्रिययोर् न -१,४.७ ऐकशब्द्ये परार्थवत् -१,४.८ तद्गुणास् तु विधायेर् अन्नविभागाद् विधानार्थे न चेद् अन्येन शिष्टाः -१,४.९ बर्हिराज्ययोर् असंस्कारे शब्दलाभाद् अतच्छब्दः -१,४.१० प्रोक्षणीष्व् अर्थसंयोगात् -१,४.११ तथानिर्मन्थ्ये -१,४.१२ वैश्वदेवे विकल्प इति चेत् -१,४.१३ न वा प्रकरणात् प्रत्यक्षविधानाच् च न हि प्रकरणं द्रव्यस्य -१,४.१४ मिथश् चानर्थसम्बन्धः -१,४.१५ परार्थत्वाद् गुणानाम् -१,४.१६ पूर्ववन्तोऽविधानार्थास् तत्सामर्थ्यं समाम्नाये -१,४.१७ गुणस्य तु विधानार्थे तद्गुणाः प्रयोगे स्युर् अनर्थका न हि तं प्रत्यर्थवत्तास्ति -१,४.१८ तच्छेषो नोपपद्यते -१,४.१९ अविभागाद् विधानार्थे स्तुत्यर्थेनोपपद्येरन् -१,४.२० कारणं स्याद् इति चेत् -१,४.२१ आनर्थक्याद् अकारणं कर्तुर् हि कारणानि गुणार्थो हि विधीयते -१,४.२२ तत्सिद्धिः -१,४.२३ जातिः -१,४.२४ सारूप्यात् -१,४.२५ प्रशंसा -१,४.२६ भूमा -१,४.२७ लिङ्गसमवायात् -१,४.२८ सन्दिग्धेषु वाक्यशेषात् -१,४.२९ अर्थाद् वा कल्पनैकदेशत्वात् -१,४.३० अध्याय २ भावार्थाः कर्मशब्दास् तेभ्यः क्रिया प्रतीयेतैष ह्य् अर्थो विधीयते -२,१.१ सर्वेषां भावोऽर्थ इति चेत् -२,१.२ येषाम् उत्पत्तौ स्वे प्रयोगे रूपोपलब्धिस् तानि नामानि तस्मात् तेभ्यः पराकाङ्क्षा भूतत्वात् स्वे प्रयोगै -२,१.३ येषां तूत्पत्ताव् अर्थे स्वे प्रयोगो न विद्यते तान्य् आख्यातानि तस्मात् तेभ्यः प्रतीयेताश्रितत्वात् प्रयोगस्य -२,१.४ चोदना पुनर् आरम्भः -२,१.५ तानि द्वैधं गुणप्रधानभूतानि -२,१.६ यैर् द्रव्यं न चिकीर्ष्यते तानि प्रधानभूतानि द्रव्यस्य गुणभूतत्वात् -२,१.७ यैस् तु द्रव्यं चिकीर्ष्यते गुणस् तत्र प्रतीयेत तस्य द्रव्यप्रधानत्वात् -२,१.८ धर्ममात्रे तु कर्म स्याद् अनिर्वृत्तेः प्रयाजवत् -२,१.९ तुल्यश्रुतित्वाद् वेतरैः सधर्मः स्यात् -२,१.१० द्रव्योपदेश इति चेत् -२,१.११ न तदर्थत्वाल् लोकवत् तस्य च शेषभूतत्वात् -२,१.१२ स्तुतशस्त्रयोस् तु संस्कारो याज्यावद् देवताभिधानत्वात् -२,१.१३ अर्थेन त्व् अपकृष्येत देवतानाम् अचोदनार्थस्य गुणभूतत्वात् -२,१.१४ वशावद् वा गुणार्थं स्यात् -२,१.१५ न श्रुतिसमवायित्वात् -२,१.१६ व्यपदेशभेदाच् च -२,१.१७ गुणश् चानर्थकः स्यात् -२,१.१८ तथा याज्यापुरोरुचोः -२,१.१९ वशायाम् अर्थसमवायात् -२,१.२० यच् चेति वार्थवत्त्वात् स्यात् -२,१.२१ न त्वाम्नातेषु -२,१.२२ दृश्यते -२,१.२३ अपि वा श्रुतिसंयोगात् प्रकरणे स्तौतिशंसती क्रियोत्पात्तिं विदध्याताम् -२,१.२४ शब्दपृथक्त्वाच् च -२,१.२५ अनर्थकं च तद्वचनम् -२,१.२६ अन्यश् चार्थः प्रतीयते -२,१.२७ अभिधानं च कर्मवत् -२,१.२८ फलनिर्वृत्तिश् च -२,१.२९ विधिमन्त्रयोर् ऐकार्थ्यम् ऐकशब्द्यात् -२,१.३० अपि वा प्रयोगसामर्थ्यान् मन्त्रोऽभिधानवाची स्यात् -२,१.३१ तच्चोदकेषु मन्त्राख्या -२,१.३२ शेषे ब्राह्मणशब्दः -२,१.३३ अनाम्नातेष्व् अमन्त्रत्वमाम्नातेषु हि विभागः -२,१.३४ तेषाम् ऋग्यत्रार्थवशेन पादव्यवस्था -२,१.३५ गीतिषु स माख्या -२,१.३६ शेषे यजुः शब्दाः -२,१.३७ निगदो वा चतुर्थं स्याद् धर्मविशेषात् -२,१.३८ व्यपदेशाच् च -२,१.३९ यजूंषि वा तद्रूपत्वात् -२,१.४० वचनाद् धर्मविशेषः -२,१.४१ अर्थाच् च -२,१.४२ गुणार्थो व्यपदेशः -२,१.४३ सर्वेषाम् इति चेत् -२,१.४४ न, ऋग्व्यपदेशात् -२,१.४५ अर्थैकत्वाद् एकं वाक्यं साकाङ्क्षं चेद् विभागे स्यात् -२,१.४६ समेषु वाक्यभेदः स्यात् -२,१.४७ अनुषङ्गो वाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वात् -२,१.४८ व्यवायान् नानुषज्येत -२,१.४९ शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् -२,२.१ एकस्यैवं पुनः श्रुतिर् अविशेषाद् अनर्थकं हि स्यात् -२,२.२ प्रकरणं तु पौर्णमास्यां रूपावचनात् -२,२.३ विशेषदर्शनाच् च सर्वेषां समेषु ह्य् अप्रवृत्तिः स्यात् -२,२.४ गुणस् तु श्रुतिसंयोगात् -२,२.५ चोदना वा गुणानां
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 05 Sep 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine