श्रीमन्महाभारततात्पर्यनिर्णयः
(श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम्)
॥ अथ प्रथमोऽध्यायः ॥
नारायणाय परिपूर्णगुणार्णवाय विश्वोदयस्थितिलयोन्नियति प्रदाय ।
ज्ञानप्रदाय विबुधासुरसौख्यदुःखसत्कारणाय वितताय नमो नमस्ते ॥ १ ॥
आसीदुदारगुणवारिधिरप्रमेयो नारायणः परतमः परमात् स एकः ।
संशान्तसंविदखिलं जठरे निधाय लक्ष्मीभुजान्तरगतः स्वरतोऽपि चाग्रे ॥ २ ॥
तस्योदरस्थजगतः सदमन्दसान्द्रस्वानन्दतुष्टवपुषोऽपि रमारमस्य ।
भूत्यै निजाश्रितजनस्य हि सृज्यसृष्टावीक्षा बभूव परनामनिमेषकान्ते ॥ ३ ॥
दृष्ट्वा स चेतनगणान् जठरे शयानान् आनन्दमात्रवपुषः सृतिविप्रमुक्तान् ।
ध्यानं गतान् सृतिगतांश्च सुषुप्तिसंस्थान् ब्रह्मादिकान् कलिपरान् मनुजांस्तथैक्षत् ॥ ४ ॥
स्रक्ष्ये हि चेतनगणान् सुखदुःखमध्यसम्प्राप्तये तनुभृतां विहृतिं ममेच्छन् ।
सोऽयं विहार इह मे तनुभृत् स्वभावसम्भूतये भवति भूतिकृदेव भूत्याः ॥ ५ ॥
इत्थं विचिन्त्य परमः स तु वासुदेवनामा बभूव निजमुक्तिपदप्रदाता ।
तस्याज्ञयैव नियताऽथ रमाऽपि रूपं बभ्रे द्वितीयमपि यत् प्रवदन्ति मायाम् ॥ ६ ॥
सङ्कर्षणश्च स बभूव पुनः सुनित्यः संहारकारणवपुस्तदनुज्ञयैव ।
देवी जयेत्यनु बभूव स सृष्टिहेतोः प्रद्युम्नतामुपगतः कृतितां च देवी ॥ ७ ॥
स्थित्यै पुनः स भगवाननिरुद्धनामा देवी च शान्तिरभवच्छरदां सहस्रम् ।
स्थित्वा स्वमूर्तिभिरमूभिरचिन्त्यशक्तिः प्रद्युम्नरूपक इमांश्चरमात्मनेऽदात् ॥ ८ ॥
निर्देहकान् स भगवाननिरुद्धनामा जीवान् स्वकर्मसहितान् उदरे निवेश्य ।
चक्रेऽथ देहसहितान् क्रमशः स्वयम्भुप्राणात्मशेषगरुडेशमुखान् समग्रान् ॥ ९ ॥
पञ्चात्मकः स भगवान् द्विषडात्मकोऽभूत् पञ्चद्वयी शतसहस्रपरोऽमितश्च ।
एकः समोऽप्यखिलदोषसमुज्झितोऽपि सर्वत्र पूर्णगुणकोऽपि बहूपमोऽभूत् ॥ १० ॥
निर्दोषपूर्णगुणविग्रह आत्मतन्त्रो निश्चेतनात्मकशरीरगुणैश्च हीनः ।
आनन्दमात्रकरपादमुखोदरादिः सर्वत्र च स्वगतभेदविवर्जितात्मा ॥ ११ ॥
कालाच्च देशगुणतोऽस्य न चाऽदिरन्तो वृद्धिक्षयौ न तु परस्य सदातनस्य ।
नैतादृशः क्व च बभूव न चैव भाव्यो नास्त्युत्तरः किमु परात् परमस्य विष्णोः ॥ १२ ॥
सर्वज्ञ ईश्वरतमः स च सर्वशक्तिः पूर्णाव्ययात्मबलचित्सुखवीर्यसारः ।
यस्याऽज्ञया रहितमिन्दिरया समेतं ब्रह्मेशपूर्वकमिदं न तु कस्य चेशम् ॥ १३ ॥
आभासकोऽस्य पवनः पवनस्य रुद्रः शेषात्मको गरुड एव च शक्रकामौ ।
वीन्द्रेशयोस्तदपरे त्वनयोश्च तेषामृष्यादयः क्रमश ऊनगुणाः शतांशाः ॥ १४ ॥
आभासका त्वथ रमाऽस्य मरुत्स्वरूपाच्छ्रेष्ठाऽप्यजात् तदनु गीः शिवतो वरिष्ठा ।
तस्या उमा विपतिनी च गिरस्तयोऽस्तु शच्यादिकाः क्रमश एव यथा पुमांसः ॥ १५ ॥
ताभ्यश्च ते शतगुणैर्दशतो वरिष्ठाः पञ्चोत्तरैरपि यथाक्रमतः श्रुतिस्थाः ।
शब्दो बहुत्ववचनः शतमित्यतश्च श्रुत्यन्तरेषु बहुधोक्तिविरुद्धता न ॥ १६ ॥
तेषां स्वरूपमिदमेव यतोऽथ मुक्तावप्येवमेव सततोच्चविनीचरूपाः ।
शब्दः शतं दशसहस्रमिति स्म यस्मात् तस्मान्न हीनवचनोऽथ ततोऽग्र्यरूपाः ॥ १७ ॥
एवं नरोत्तमपरास्तु विमुक्तियोग्या अन्ये च संसृतिपरा असुरास्तमोगाः ।
एवं सदैव नियमः क्वचिदन्यथा न यावन्न पूर्तिरुत संसृतिगाः समस्ताः ॥ १८ ॥
पूर्तिश्च नैव नियमाद् भविता हि यस्मात् तस्मात् समाप्तिमपि यान्ति न जीवसङ्घाः ।
आनन्त्यमेव गणशोऽस्ति यतो हि तेषामित्थं ततः सकलकालगता प्रवृत्तिः ॥ १९ ॥
एतैः सुरादिभिरतिप्रतिभादियुक्तैर्युक्तैः सहैव सततं प्रविचिन्तयद्भिः ।
पूर्तेरचिन्त्यमहिमः परमः परात्मा नारायणोऽस्य गुणविस्तृतिरन्यगा क्व ॥ २० ॥
साम्यं न चास्य परमस्य च केन चाऽप्यं मुक्तेन च क्वचिदतस्त्वभिदा कुतोऽस्य ।
प्राप्येत चेतनगणैः सततास्वतन्त्रैः नित्यस्वतन्त्रवपुषः परमात् परस्य ॥ २१ ॥
अर्थोऽयमेव निखिलैरपि वेदवाक्यै रामायणैः सहितभारतपञ्चरात्रैः ।
अन्यैश्च शास्त्रवचनैः सहतत्त्वसूत्रैः निर्णीयते सहृदयं हरिणा सदैव ॥ २२ ॥
नारायणस्य न समः पुरुषोत्तमोऽहं
जीवाक्षरे ह्यतिगतोऽस्मि ततो ‘ऽन्यदार्तम्’ (बृ.उ. ५.५.१) ।
‘मुक्तोऽपसृप्य’ (ब्र.सू. १.३.२) इह नास्ति कुतश्च कश्चित्
‘नानेव’ (क.उ. २.१.११) धर्मपृथगात्मदृगेत्यधो हि ॥ २३ ॥
‘आभास एव’ (ब्र.सू. २.३.५०) पृथगीशत एष जीवो
मुक्तस्य नास्ति जगतो विषये तु शक्तिः ।
मात्रापरोऽसि न तु तेऽश्नुवते महित्वं
‘षाड्गुण्यविग्रह’ ‘सुपूर्णगुणैकदेहः’॥ २४ ॥
‘माहात्म्यदेह’ ‘सृतिमुक्तिगते’ ‘शिवश्च
ब्रह्मा च तद्गुणगतौ न कथञ्चनेशौ’ ।
‘न श्रीः कुतस्तदपरे’‘ऽस्य सुखस्य मात्राम्
अश्नन्ति मुक्तसुगणाश्च शतावरेण’ ॥ २५ ॥
‘आभासकाभासपरावभासरूपाण्यजस्राणि च चेतनानाम् ।
विष्णोः सदैवाति वशात् कदापि गच्छन्ति केशादिगणा न मुक्तौ’ ॥ २६ ॥
‘यस्मिन् परेऽन्येऽप्यजजीवकोशा’
‘नाहं परायुर्न मरीचिमुख्याः’ ।
‘जानन्ति यद्गुणगणान् न रमादयोऽपि
नित्यस्वतन्त्र उत कोऽस्ति तदन्य ईशः’ ॥ २७ ॥
‘नैवैक एव पुरुषः पुरुषोत्तमोऽसौ
एकः कुतः स पुरुषो’ ‘यत एव जात्या ।
अर्थात् श्रुतेश्च गुणतो निजरूपतश्च
नित्यान्य एव कथमस्मि स इत्यपि स्यात्’ ॥ २८ ॥
‘सर्वोत्तमो हरिरिदं तु तदाज्ञयैव
चेत्तुं क्षमं स तु हरिः परमस्वतन्त्रः ।
पूर्णाव्ययागणितनित्यगुणार्णवोऽसौ’
इत्येव वेदवचनानि परोक्तयश्च ॥ २९ ॥
‘ऋगादयश्च चत्वारः पञ्चरात्रं च भारतम् ।
मूलरामायणं ब्रह्मसूत्रं मानं स्वतः स्मृतम् ’॥ ३० ॥
अविरुद्धं च यत्त्वस्य प्रमाणं तच्च नान्यथा ।
एतद्विरुद्धं यत्तु स्यान्न तन्मानं कथञ्चन ॥ ३१ ॥
वैष्णवानि पुराणानि पञ्चरात्रात्मकत्वतः ।
प्रमाणान्येव मन्वाद्याः स्मृतयोऽप्यनुकूलतः ॥ ३२ ॥
एतेषु विष्णोराधिक्यमुच्यतेऽन्यस्य न क्वचित् ।
अतस्तदेव मन्तव्यं नान्यथा तु कथञ्चन ॥ ३३ ॥
मोहार्थान्यन्यशास्त्राणि कृतान्येवाऽज्ञया हरेः ।
अतस्तेषूक्तमग्राह्यम् असुराणां तमोगतेः ॥ ३४ ॥
यस्मात् कृतानि तानीह विष्णुनोक्तैः शिवादिभिः ।
एषां यन्न विरोधि स्यात् तत्रोक्तं तन्न वार्यते ॥ ३५ ॥
विष्ण्वाधिक्यविरोधीनि यानि वेदवचांस्यपि ।
तानि योज्यान्यानुकूल्याद् विष्ण्वाधिक्यस्य सर्वशः ॥ ३६ ॥
अवतारेषु यत् किञ्चिद् दर्शयेन्नरवद्धरिः ।
तच्चासुराणां मोहाय दोषा विष्णोर्नहि क्वचित् ॥ ३७ ॥
अज्ञत्वं पारवश्यं वा (छे)वेधभेदादिकं तथा ।
तथा प्राकृतदेहत्वं देहत्यागादिकं तथा ॥ ३८ ॥
अनीशत्वं च दुःखित्वं साम्यमन्यैश्च हीनताम् ।
प्रदर्शयति मोहाय दैत्यादीनां हरिः स्वयम् ॥ ३९ ॥
न तस्य कश्चिद् दोषोऽस्ति पूर्णाखिलगुणो ह्यसौ ।
सर्वदेहस्थरूपेषु प्रादुर्भावेषु चेश्वरः ॥ ४० ॥
ब्रह्माद्यभेदः साम्यं वा कुतस्तस्य महात्मनः ।
यदेवं वाचकं शास्त्रं तद्धि शास्त्रं परं मतम् ॥ ४१ ॥
निर्णयायैव यत् प्रोक्तं ब्रह्मसूत्रं तु विष्णुना ।
व्यासरूपेण तद् ग्राह्यं तत्रोक्ताः सर्वनिर्णयाः ॥ ४२ ॥
यथार्थवचनानां च मोहार्थानां च संशयम् ।
अपनेतुं हि भगवान् ब्रह्मसूत्रमचीक्लृपत् ॥ ४३ ॥
तस्मात् सूत्रार्थमागृह्य कर्तव्यः सर्वनिर्णयः ।
सर्वदोषविहीनत्वं गुणैः सर्वैरुदीर्णता ॥ ४४ ॥
अभेदः सर्वरूपेषु जीवभेदः सदैव च ।
विष्णोरुक्तानि सूत्रेषु सर्ववेदेड्यता तथा ॥ ४५ ॥
तारतम्यं च मुक्तानां विमुक्तिर्विद्यया तथा ।
तस्मादेतद्विरुद्धं यन्मोहाय तदुदाहृतम् ॥ ४६ ॥
तस्माद् ‘ये ये गुणा विष्णोर्ग्राह्यास्ते सर्व एव तु’।
इत्याद्युक्तं भगवता भविष्यत्पर्वणि स्फुटम् ॥ ४७ ॥
‘एष मोहं सृजाम्याशु यो जनान् मोहयिष्यति ।
त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय ॥ ४८ ॥
अतत्थ्यानि वितत्थ्यानि दर्शयस्व महाभुज ।
प्रकाशं कुरु चाऽत्मानम् अप्रकाशं च मां कुरु’ ॥ ४९ ॥
इति वाराहवचनं ब्रह्माण्डोक्तं तथाऽपरम् ।
‘अमोहाय गुणा विष्णोराकारश्चिच्छरीरता ॥ ५० ॥
निर्दोषत्वं तारतम्यं मुक्तानामपि चोच्यते ।
एतद्विरुद्धं यत् सर्वं तन्मोहायेति निर्णयः’ ॥ ५१ ॥
स्कान्देऽप्युक्तं शिवेनैव षण्मुखायैव सादरम् ।
शिवशास्त्रेऽपि तद् ग्राह्यं भगवच्छास्त्रयोगि यत् ॥ ५२ ॥
‘परमो विष्णुरेवैकस्तज्ज्ञानं मोक्षसाधनम् ।
शास्त्राणां निर्णयस्त्वेष तदन्यन्मोहनाय हि ॥ ५३ ॥
ज्ञानं विना तु या मुक्तिः साम्यं च मम विष्णुना ।
तीर्थाऽदिमात्रतो ज्ञानं ममाऽधिक्यं च विष्णुतः ॥ ५४ ॥
अभेदश्चास्मदादीनां मुक्तानां हरिणा तथा ।
इत्यादि सर्वं मोहाय कथ्यते पुत्र नान्यथा’ ॥ ५५ ॥
उक्तं (पा)पद्मपुराणे च शैव एव शिवेन तु ।
यदुक्तं हरिणा पूर्वमुमायै प्राह तद्धरः ॥ ५६ ॥
‘त्वामाराध्य तथा शम्भो ग्रहीष्यामि वरं सदा ।
द्वापराऽदौ युगे भूत्वा कलया मानुषाऽदिषु ॥ ५७ ॥
स्वाऽगमैः कल्पितैस्त्वं च जनान् मद्विमुखान् कुरु ।
मां च गोपाय येन स्यात् सृष्टिरेषोत्तराधरा’(पद्म पु. ६.७१.१०६-१०७) ॥ ५८ ॥
न च वैष्णवशास्त्रेषु वेदेष्वपि हरेः परः ।
क्वचिदुक्तोऽन्यशास्त्रेषु परमो विष्णुरीरितः ॥ ५९ ॥
निर्दोषत्वाच्च वेदानां वेदोक्तं ग्राह्यमेव हि ।
वेदेषु च परो विष्णुः सर्वस्मादुच्यते सदा ॥ ६० ॥
‘अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः ।
विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत्’(ऋग्वेद ७.४०.५) ॥ ६१ ॥
‘स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम्’ ।
‘यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्’ ॥ ६२ ॥
‘एको नारायण आसीन्न ब्रह्मा न च शङ्करः’ ।
‘वासुदेवो वा इदमग्र आसीन्न ब्रह्मा न च शङ्करः’ ॥ ६३ ॥
‘यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।
तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’(मु. उ.५.३(३.१.३)) ॥ ६४ ॥
‘यो वेद निहितं गुहायां परमे व्योमन् ।
सोऽश्नुते सर्वान् कामान्त्सह ब्रह्मणा विपश्चिता’(तै. उ.२.१) ॥ ६५ ॥
‘प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम्’ ।
‘सत्यमेनमनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः’(ऋग्वेद २.१५.१, ४.१७.५) ॥ ६६ ॥