महाभारततात्पर्यनिर्णयः
/ 75
←

Mahabharatatatparyanirnaya English (IAST) PDF & Online Reader (mahābhāratatātparyanirṇayaḥ)

Mahabharatatatparyanirnaya (महाभारततात्पर्यनिर्णयः) by Madhvacharya (मध्वाचार्यः) — English (IAST) Text & PDF Download

📜 Last Proofread: 27 Sep 2026
📥 Download English (IAST) PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 27 Sep 2026
📥 Download PDF ♡ Save
🌐 Language & Script English (IAST)
↔️ Text Alignment Center
श्रीमन्महाभारततात्पर्यनिर्णयः (श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम्) ॥ अथ प्रथमोऽध्यायः ॥ नारायणाय परिपूर्णगुणार्णवाय विश्वोदयस्थितिलयोन्नियति प्रदाय । ज्ञानप्रदाय विबुधासुरसौख्यदुःखसत्कारणाय वितताय नमो नमस्ते ॥ १ ॥ आसीदुदारगुणवारिधिरप्रमेयो नारायणः परतमः परमात् स एकः । संशान्तसंविदखिलं जठरे निधाय लक्ष्मीभुजान्तरगतः स्वरतोऽपि चाग्रे ॥ २ ॥ तस्योदरस्थजगतः सदमन्दसान्द्रस्वानन्दतुष्टवपुषोऽपि रमारमस्य । भूत्यै निजाश्रितजनस्य हि सृज्यसृष्टावीक्षा बभूव परनामनिमेषकान्ते ॥ ३ ॥ दृष्ट्वा स चेतनगणान् जठरे शयानान् आनन्दमात्रवपुषः सृतिविप्रमुक्तान् । ध्यानं गतान् सृतिगतांश्च सुषुप्तिसंस्थान् ब्रह्मादिकान् कलिपरान् मनुजांस्तथैक्षत् ॥ ४ ॥ स्रक्ष्ये हि चेतनगणान् सुखदुःखमध्यसम्प्राप्तये तनुभृतां विहृतिं ममेच्छन् । सोऽयं विहार इह मे तनुभृत् स्वभावसम्भूतये भवति भूतिकृदेव भूत्याः ॥ ५ ॥ इत्थं विचिन्त्य परमः स तु वासुदेवनामा बभूव निजमुक्तिपदप्रदाता । तस्याज्ञयैव नियताऽथ रमाऽपि रूपं बभ्रे द्वितीयमपि यत् प्रवदन्ति मायाम् ॥ ६ ॥ सङ्कर्षणश्च स बभूव पुनः सुनित्यः संहारकारणवपुस्तदनुज्ञयैव । देवी जयेत्यनु बभूव स सृष्टिहेतोः प्रद्युम्नतामुपगतः कृतितां च देवी ॥ ७ ॥ स्थित्यै पुनः स भगवाननिरुद्धनामा देवी च शान्तिरभवच्छरदां सहस्रम् । स्थित्वा स्वमूर्तिभिरमूभिरचिन्त्यशक्तिः प्रद्युम्नरूपक इमांश्चरमात्मनेऽदात् ॥ ८ ॥ निर्देहकान् स भगवाननिरुद्धनामा जीवान् स्वकर्मसहितान् उदरे निवेश्य । चक्रेऽथ देहसहितान् क्रमशः स्वयम्भुप्राणात्मशेषगरुडेशमुखान् समग्रान् ॥ ९ ॥ पञ्चात्मकः स भगवान् द्विषडात्मकोऽभूत् पञ्चद्वयी शतसहस्रपरोऽमितश्च । एकः समोऽप्यखिलदोषसमुज्झितोऽपि सर्वत्र पूर्णगुणकोऽपि बहूपमोऽभूत् ॥ १० ॥ निर्दोषपूर्णगुणविग्रह आत्मतन्त्रो निश्चेतनात्मकशरीरगुणैश्च हीनः । आनन्दमात्रकरपादमुखोदरादिः सर्वत्र च स्वगतभेदविवर्जितात्मा ॥ ११ ॥ कालाच्च देशगुणतोऽस्य न चाऽदिरन्तो वृद्धिक्षयौ न तु परस्य सदातनस्य । नैतादृशः क्व च बभूव न चैव भाव्यो नास्त्युत्तरः किमु परात् परमस्य विष्णोः ॥ १२ ॥ सर्वज्ञ ईश्वरतमः स च सर्वशक्तिः पूर्णाव्ययात्मबलचित्सुखवीर्यसारः । यस्याऽज्ञया रहितमिन्दिरया समेतं ब्रह्मेशपूर्वकमिदं न तु कस्य चेशम् ॥ १३ ॥ आभासकोऽस्य पवनः पवनस्य रुद्रः शेषात्मको गरुड एव च शक्रकामौ । वीन्द्रेशयोस्तदपरे त्वनयोश्च तेषामृष्यादयः क्रमश ऊनगुणाः शतांशाः ॥ १४ ॥ आभासका त्वथ रमाऽस्य मरुत्स्वरूपाच्छ्रेष्ठाऽप्यजात् तदनु गीः शिवतो वरिष्ठा । तस्या उमा विपतिनी च गिरस्तयोऽस्तु शच्यादिकाः क्रमश एव यथा पुमांसः ॥ १५ ॥ ताभ्यश्च ते शतगुणैर्दशतो वरिष्ठाः पञ्चोत्तरैरपि यथाक्रमतः श्रुतिस्थाः । शब्दो बहुत्ववचनः शतमित्यतश्च श्रुत्यन्तरेषु बहुधोक्तिविरुद्धता न ॥ १६ ॥ तेषां स्वरूपमिदमेव यतोऽथ मुक्तावप्येवमेव सततोच्चविनीचरूपाः । शब्दः शतं दशसहस्रमिति स्म यस्मात् तस्मान्न हीनवचनोऽथ ततोऽग्र्यरूपाः ॥ १७ ॥ एवं नरोत्तमपरास्तु विमुक्तियोग्या अन्ये च संसृतिपरा असुरास्तमोगाः । एवं सदैव नियमः क्वचिदन्यथा न यावन्न पूर्तिरुत संसृतिगाः समस्ताः ॥ १८ ॥ पूर्तिश्च नैव नियमाद् भविता हि यस्मात् तस्मात् समाप्तिमपि यान्ति न जीवसङ्घाः । आनन्त्यमेव गणशोऽस्ति यतो हि तेषामित्थं ततः सकलकालगता प्रवृत्तिः ॥ १९ ॥ एतैः सुरादिभिरतिप्रतिभादियुक्तैर्युक्तैः सहैव सततं प्रविचिन्तयद्भिः । पूर्तेरचिन्त्यमहिमः परमः परात्मा नारायणोऽस्य गुणविस्तृतिरन्यगा क्व ॥ २० ॥ साम्यं न चास्य परमस्य च केन चाऽप्यं मुक्तेन च क्वचिदतस्त्वभिदा कुतोऽस्य । प्राप्येत चेतनगणैः सततास्वतन्त्रैः नित्यस्वतन्त्रवपुषः परमात् परस्य ॥ २१ ॥ अर्थोऽयमेव निखिलैरपि वेदवाक्यै रामायणैः सहितभारतपञ्चरात्रैः । अन्यैश्च शास्त्रवचनैः सहतत्त्वसूत्रैः निर्णीयते सहृदयं हरिणा सदैव ॥ २२ ॥ नारायणस्य न समः पुरुषोत्तमोऽहं जीवाक्षरे ह्यतिगतोऽस्मि ततो ‘ऽन्यदार्तम्’ (बृ.उ. ५.५.१) । ‘मुक्तोऽपसृप्य’ (ब्र.सू. १.३.२) इह नास्ति कुतश्च कश्चित् ‘नानेव’ (क.उ. २.१.११) धर्मपृथगात्मदृगेत्यधो हि ॥ २३ ॥ ‘आभास एव’ (ब्र.सू. २.३.५०) पृथगीशत एष जीवो मुक्तस्य नास्ति जगतो विषये तु शक्तिः । मात्रापरोऽसि न तु तेऽश्नुवते महित्वं ‘षाड्गुण्यविग्रह’ ‘सुपूर्णगुणैकदेहः’॥ २४ ॥ ‘माहात्म्यदेह’ ‘सृतिमुक्तिगते’ ‘शिवश्च ब्रह्मा च तद्गुणगतौ न कथञ्चनेशौ’ । ‘न श्रीः कुतस्तदपरे’‘ऽस्य सुखस्य मात्राम् अश्नन्ति मुक्तसुगणाश्च शतावरेण’ ॥ २५ ॥ ‘आभासकाभासपरावभासरूपाण्यजस्राणि च चेतनानाम् । विष्णोः सदैवाति वशात् कदापि गच्छन्ति केशादिगणा न मुक्तौ’ ॥ २६ ॥ ‘यस्मिन् परेऽन्येऽप्यजजीवकोशा’ ‘नाहं परायुर्न मरीचिमुख्याः’ । ‘जानन्ति यद्गुणगणान् न रमादयोऽपि नित्यस्वतन्त्र उत कोऽस्ति तदन्य ईशः’ ॥ २७ ॥ ‘नैवैक एव पुरुषः पुरुषोत्तमोऽसौ एकः कुतः स पुरुषो’ ‘यत एव जात्या । अर्थात् श्रुतेश्च गुणतो निजरूपतश्च नित्यान्य एव कथमस्मि स इत्यपि स्यात्’ ॥ २८ ॥ ‘सर्वोत्तमो हरिरिदं तु तदाज्ञयैव चेत्तुं क्षमं स तु हरिः परमस्वतन्त्रः । पूर्णाव्ययागणितनित्यगुणार्णवोऽसौ’ इत्येव वेदवचनानि परोक्तयश्च ॥ २९ ॥ ‘ऋगादयश्च चत्वारः पञ्चरात्रं च भारतम् । मूलरामायणं ब्रह्मसूत्रं मानं स्वतः स्मृतम् ’॥ ३० ॥ अविरुद्धं च यत्त्वस्य प्रमाणं तच्च नान्यथा । एतद्विरुद्धं यत्तु स्यान्न तन्मानं कथञ्चन ॥ ३१ ॥ वैष्णवानि पुराणानि पञ्चरात्रात्मकत्वतः । प्रमाणान्येव मन्वाद्याः स्मृतयोऽप्यनुकूलतः ॥ ३२ ॥ एतेषु विष्णोराधिक्यमुच्यतेऽन्यस्य न क्वचित् । अतस्तदेव मन्तव्यं नान्यथा तु कथञ्चन ॥ ३३ ॥ मोहार्थान्यन्यशास्त्राणि कृतान्येवाऽज्ञया हरेः । अतस्तेषूक्तमग्राह्यम् असुराणां तमोगतेः ॥ ३४ ॥ यस्मात् कृतानि तानीह विष्णुनोक्तैः शिवादिभिः । एषां यन्न विरोधि स्यात् तत्रोक्तं तन्न वार्यते ॥ ३५ ॥ विष्ण्वाधिक्यविरोधीनि यानि वेदवचांस्यपि । तानि योज्यान्यानुकूल्याद् विष्ण्वाधिक्यस्य सर्वशः ॥ ३६ ॥ अवतारेषु यत् किञ्चिद् दर्शयेन्नरवद्धरिः । तच्चासुराणां मोहाय दोषा विष्णोर्नहि क्वचित् ॥ ३७ ॥ अज्ञत्वं पारवश्यं वा (छे)वेधभेदादिकं तथा । तथा प्राकृतदेहत्वं देहत्यागादिकं तथा ॥ ३८ ॥ अनीशत्वं च दुःखित्वं साम्यमन्यैश्च हीनताम् । प्रदर्शयति मोहाय दैत्यादीनां हरिः स्वयम् ॥ ३९ ॥ न तस्य कश्चिद् दोषोऽस्ति पूर्णाखिलगुणो ह्यसौ । सर्वदेहस्थरूपेषु प्रादुर्भावेषु चेश्वरः ॥ ४० ॥ ब्रह्माद्यभेदः साम्यं वा कुतस्तस्य महात्मनः । यदेवं वाचकं शास्त्रं तद्धि शास्त्रं परं मतम् ॥ ४१ ॥ निर्णयायैव यत् प्रोक्तं ब्रह्मसूत्रं तु विष्णुना । व्यासरूपेण तद् ग्राह्यं तत्रोक्ताः सर्वनिर्णयाः ॥ ४२ ॥ यथार्थवचनानां च मोहार्थानां च संशयम् । अपनेतुं हि भगवान् ब्रह्मसूत्रमचीक्लृपत् ॥ ४३ ॥ तस्मात् सूत्रार्थमागृह्य कर्तव्यः सर्वनिर्णयः । सर्वदोषविहीनत्वं गुणैः सर्वैरुदीर्णता ॥ ४४ ॥ अभेदः सर्वरूपेषु जीवभेदः सदैव च । विष्णोरुक्तानि सूत्रेषु सर्ववेदेड्यता तथा ॥ ४५ ॥ तारतम्यं च मुक्तानां विमुक्तिर्विद्यया तथा । तस्मादेतद्विरुद्धं यन्मोहाय तदुदाहृतम् ॥ ४६ ॥ तस्माद् ‘ये ये गुणा विष्णोर्ग्राह्यास्ते सर्व एव तु’। इत्याद्युक्तं भगवता भविष्यत्पर्वणि स्फुटम् ॥ ४७ ॥ ‘एष मोहं सृजाम्याशु यो जनान् मोहयिष्यति । त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय ॥ ४८ ॥ अतत्थ्यानि वितत्थ्यानि दर्शयस्व महाभुज । प्रकाशं कुरु चाऽत्मानम् अप्रकाशं च मां कुरु’ ॥ ४९ ॥ इति वाराहवचनं ब्रह्माण्डोक्तं तथाऽपरम् । ‘अमोहाय गुणा विष्णोराकारश्चिच्छरीरता ॥ ५० ॥ निर्दोषत्वं तारतम्यं मुक्तानामपि चोच्यते । एतद्विरुद्धं यत् सर्वं तन्मोहायेति निर्णयः’ ॥ ५१ ॥ स्कान्देऽप्युक्तं शिवेनैव षण्मुखायैव सादरम् । शिवशास्त्रेऽपि तद् ग्राह्यं भगवच्छास्त्रयोगि यत् ॥ ५२ ॥ ‘परमो विष्णुरेवैकस्तज्ज्ञानं मोक्षसाधनम् । शास्त्राणां निर्णयस्त्वेष तदन्यन्मोहनाय हि ॥ ५३ ॥ ज्ञानं विना तु या मुक्तिः साम्यं च मम विष्णुना । तीर्थाऽदिमात्रतो ज्ञानं ममाऽधिक्यं च विष्णुतः ॥ ५४ ॥ अभेदश्चास्मदादीनां मुक्तानां हरिणा तथा । इत्यादि सर्वं मोहाय कथ्यते पुत्र नान्यथा’ ॥ ५५ ॥ उक्तं (पा)पद्मपुराणे च शैव एव शिवेन तु । यदुक्तं हरिणा पूर्वमुमायै प्राह तद्धरः ॥ ५६ ॥ ‘त्वामाराध्य तथा शम्भो ग्रहीष्यामि वरं सदा । द्वापराऽदौ युगे भूत्वा कलया मानुषाऽदिषु ॥ ५७ ॥ स्वाऽगमैः कल्पितैस्त्वं च जनान् मद्विमुखान् कुरु । मां च गोपाय येन स्यात् सृष्टिरेषोत्तराधरा’(पद्म पु. ६.७१.१०६-१०७) ॥ ५८ ॥ न च वैष्णवशास्त्रेषु वेदेष्वपि हरेः परः । क्वचिदुक्तोऽन्यशास्त्रेषु परमो विष्णुरीरितः ॥ ५९ ॥ निर्दोषत्वाच्च वेदानां वेदोक्तं ग्राह्यमेव हि । वेदेषु च परो विष्णुः सर्वस्मादुच्यते सदा ॥ ६० ॥ ‘अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः । विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत्’(ऋग्वेद ७.४०.५) ॥ ६१ ॥ ‘स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम्’ । ‘यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्’ ॥ ६२ ॥ ‘एको नारायण आसीन्न ब्रह्मा न च शङ्करः’ । ‘वासुदेवो वा इदमग्र आसीन्न ब्रह्मा न च शङ्करः’ ॥ ६३ ॥ ‘यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’(मु. उ.५.३(३.१.३)) ॥ ६४ ॥ ‘यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान्त्सह ब्रह्मणा विपश्चिता’(तै. उ.२.१) ॥ ६५ ॥ ‘प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम्’ । ‘सत्यमेनमनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः’(ऋग्वेद २.१५.१, ४.१७.५) ॥ ६६ ॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 27 Sep 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine