॥ श्रीः ॥
भासनाटकचक्रे
मध्यमव्यायोगः ।
(नान्द्यन्ते ततः प्रविशति सूत्रधारः ।)
सूत्रधारः —
पायात्स वोऽसुरवधूहृदयावसादः
पादो हरेः कुवलयामलखड्गनीलः ।
यः प्रोद्यतस्त्रिभुवन१क्रमणे रराज
वैडूर्यसङ्क्रम इवाम्बरसागरस्य ॥ १ ॥
एवमार्यमिश्रान्त्रिज्ञापयामि । अये किंनु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग पश्यामि ।
(नेपथ्ये)
भोस्तात ! कोनु खल्वेषः ।
सूत्रधारः —
भवतु, विज्ञातम् ।
भोः शब्दोच्चारणादस्य ब्राह्मणोऽयं न संशयः ।
त्रास्यते निर्विशङ्केन केनचित्पापचेतसा ॥ २ ॥
(पुनर्नेपथ्ये)
भोस्तात ! कोनुखल्वेषः ।
सूत्रधारः —
हन्त दृढं विज्ञातम् । एष खलु पाण्डवमध्यमस्यात्मजो हिडिम्बारणिसम्भूतो राक्षसाभिरकृतवैरं ब्राह्मणजनं वित्रासयति । भोः कष्टम्२ । अत्रहि
भ्रा१न्तैः सुतैः परिवृतस्तरुणैः सदारैः
वृद्धो द्विजो निशिचरानुचरः स२एषः ।
व्याघ्रानु३सारचकितो वृषभः सधेनुः
सन्त्रस्तवत्सक इवाकुलतामुपैति ॥ ३ ॥
(निष्क्रान्ताः ।)
स्थापना ।
(ततः प्रविशति तत्रयकलत्रपरिवृतो ब्राह्मणः पृष्ठतो घटोत्कचश्च ।)
ब्राह्मणः —
भोः कोनु खल्वेषः ।
तरुणरविकरप्रकीर्णकेशो भ्रुकुटिपुटोज्ज्वलपिङ्गलायताक्षः ।
सतडिदिव घनः सकण्ठसूत्रो युगनिधने प्रतिमाकृतिर्हरस्य ॥ ४ ॥
प्रथमः —
भोस्तात ! कोनु खल्वेषः ।
ग्रहयुगलनिभाक्षः पीनविस्तीर्णवक्षाः
कनककपिलकेशः पीतकौशेयवासाः ।
तिमिरनिवहवर्णः पाण्डरोद्वृत्तदंष्ट्रो
नव इव जलगर्भो लीयमानेन्दुलेखः ॥ ५ ॥
द्वितीयः —
क एष भोः !
कलभदशनदंष्ट्रो लाङ्गलाकारनासः
करिवरकरबाहुर्नीलजीमूतवर्णः ।
हुतहुतवहदीप्तो यः स्थितो भाति भीम-
स्त्रिपुरपुरनिहन्तुः शङ्करस्येव रोषः ॥ ६ ॥
तृतीयः —
भोरतात ! कोनुखल्वयमस्मान्पीडयति ।
वज्रपातोऽचले१न्द्राणां श्येनः सर्वपतत्रिणाम् ।
मृगेन्द्रो मृगसङ्घानां मृत्युः पुरुषविग्रहः ॥ ७ ॥
ब्राह्मणी —
अय्य को एसो अम्हाअं सन्दावेइ । आर्य ! क एषोऽस्मान् सन्तापयति ।
घटोत्कचः —
भो ब्राह्मण ! तिष्ठ तिष्ठ ।
किं यासि मद्भयविनाशितधैर्यसारो
वित्रस्तदारसुतरक्षणहीनशक्ते ! ।
तार्क्ष्याग्र्यपक्षपवनोद्धतरोषवह्नि-
तीव्रः कलत्रसहितो भुजगो यथार्तः ॥ ८ ॥
भो ब्राह्मण ! न गन्तव्यं न गन्तव्यम् ।
वृद्धः —
ब्राह्मणि ! न भेतव्यम् । पुत्रकाः न भेतव्यम् । सविमर्शा ह्यस्य वाणी ।
घटोत्कचः —
भोः ! कष्टम् ।
जानामि सर्वत्र सदा च नाम द्विजोत्तमाः पूज्यतमाः पृथिव्याम् ।
अकार्यमेतश्च मयाद्य कार्यं मातुर्नियोगादपनीय२शङ्काम् ॥ ९ ॥
वृद्धः —
ब्राह्मणि ! किं न स्मरसि तत्रभवता जलक्लिन्नेन मुनिनोक्तं-अनपेतराक्षसमिदं वनमप्रमादेन गन्तव्यमिति । तदेवोत्पन्नं भयम् ।
ब्राह्मणी —
किं दाणि अय्यो मज्झत्थवण्णो विअ दिस्सदि । किमिदानीमार्यो मध्यस्थवर्ण इव दृश्यते ।
वृद्धः —
किं करिष्यामि मन्दभाग्यः ।
ब्राह्मणी —
णं विक्कोसामो । ननु विक्रोशामः ।
प्रथमः —
भवति कस्य वयं विक्रोशामः ।
इदं हि शून्यं तिमिरोत्करप्रभैर्नगप्रकारैरवरुद्धदिक्पथम् ।
खगैर्मृगैश्चापि समाकुलान्तरं वनं निवासाभिमतं मनस्विनाम् ॥ १० ॥
वृद्धः —
ब्राह्मणि ! न भेतव्यं, न भेतव्यम् । मनस्विजननिवासयोग्यमिति श्रुत्वा विगत इव मे सन्त्रासः । शङ्के नातिदू१रेण पाण्डवाश्रमेण भवितव्यम् । पाण्डवास्तु,
युद्धप्रियाश्च शरणागतवत्सलाच
दीनेषु पक्षपतिताः कृतसाहसाश्च ।
एवंविधप्रतिभयाकृतिचेष्टितानां
दण्डं यथार्हमिह धारयितुं समर्थाः ॥ ११ ॥
प्रथमः —
भोस्तात ! न तत्र पाण्डवा इति मन्ये ।
वृद्धः —
कथं त्वं जानीषे ।
प्रथमः —
श्रुतं मया तस्मादागच्छता केनचिद्ब्राह्मणे३न शतकुम्भं नाम यज्ञमनुभवितुं महर्षेर्धौम्यस्याश्रमं गता इति ।
वृद्धः —
हन्त हताः स्मः ।
थमः —
तात ! न तु सर्व एव । आश्रमपरिपालनार्थमिह स्थापितः किल मध्यमः ।
वृद्धः —
यद्येवं सन्निहिताः सर्वे पाण्डवाः ।
प्रथमः —
स चाप्यस्यां वेलायां व्यायामपरिचयार्थं विप्रकृष्टदेशस्थ इति श्रूयते ।
वृद्धः —
हन्त निराशाः स्मः । भवतु पुत्र व्यपा२श्रयिष्ये तावदेनम् ।
प्रथमः —
अलमलं परिश्रमेण ।
वृद्धः —
पुत्र ! निर्वेदप्रत्यार्थिनी खलु प्रार्थना । भवतु पश्यामस्तावत् । भो भोः पुरुष ! अस्त्यस्माकं मोक्षः ।
घटोत्कचः —
मोक्षोऽस्ति समयतः ।
वृद्धः —
कः समयः ।
घटोत्कचः —
अस्ति मे तत्रभवती जननी । तयाहमाज्ञप्तः । पुत्र ! ममोपवासनिसर्गार्थमस्मिन्वनप्रदेशे कश्चिन्मानुषः प्रतिगृह्या१नेतव्य इति । ततो मयासादितो भवान् ।
पन्या चारित्रशालिन्या द्विपुत्रो मोक्षमिच्छसि ।
बलाबलं परिज्ञाय पुत्रमेकं विसर्जय ॥ १२ ॥
वृद्ध : —
हं भो राक्षसापसद ! किमहमब्राह्मणः ।
ब्रा२ह्मणः श्रुतवान्वृद्धः पुत्रं शीलगुणान्वितम् ।
पुरुषादस्य दत्वाहं कथं निर्वृतिमाप्नुयाम् ॥ १३ ॥
घटोत्कचः —
यद्यर्थितो द्विजश्रेष्ठ ! पुत्रमेकं न मुञ्चसि ।
सकुटुम्बः क्षणेनैव विनाशमुपयास्यसि ॥ १४ ॥
वृद्धः —
एष एव मे निश्चयः ।
कृतकृत्यं शरीरं मे परिणामेन जर्जरम् ।
राक्षसाग्नौ सुतापेक्षी होण्यामि विधिसंस्कृतम् ॥ १५ ॥
ब्राह्मणी —
अय्य! मा मा एवम् । पदिमत्तधम्मिणी पदिव्वदत्ति णाम । गहीदफळेण एदिणा सरीरेण अय्यं कुळं च रक्खिदुमिच्छामि !आर्य, मा मैवम् । पतिमात्रधर्मिणी पतिव्रतेति नाम । गृहीतफलेनैतेन शरीरेणार्यं कुलं च रक्षितुमिच्छामि ।
घटोत्कचः —
भवति ! न खलु स्त्रीजनोऽभिमतस्तत्रभवत्या ? ।
वृद्धः —
अनुगमिष्यामि भवन्तम् ।
घटोत्कचः —
आः वृद्धस्त्वमपसर ।
प्रथमः —
भोस्तात ! ब्रवीमि खलु तावत्किञ्चित् ।
वृद्धः —
ब्रूहि ब्रूहि शीघ्रम् ।
प्रथमः —
मम प्राणैर्गुरुप्राणानिच्छामि परिरक्षितुम् ।
रक्षणार्थं कुलस्यास्य मोक्तुमर्हति मां भवान् ॥ १६ ॥
द्वितीयः —
आर्य ! मा मैवम् ।
ज्येष्ठः श्रेष्ठः कुले लोके पितॄणां च सुसम्प्रियः ।
ततोऽहमेव यास्यामि गुरुवृत्तिमनुस्मरन् ॥ १७ ॥
तृतीयः —
आर्यौ ! मा मैवम् ।
ज्येष्ठो भ्राता पितृसमः कथितो ब्रह्मवादिभिः ।
ततोऽहं कर्तुमस्म्यर्हो गुरूणां प्राणरक्षणम् ॥ १८ ॥
प्रथमः —
वत्स ! मा मैवम् ।
आपदं हि पिता प्राप्तो ज्येष्ठपुत्रेण ता२र्यते ।
ततोऽहमेव यास्यामि गुरूणां प्राणरक्षणात् ॥ १९ ॥
वृद्धः —
ज्येष्ठमिष्टतमं न शक्नोमि परित्यक्तुम् ।
ब्राह्मणी —
जह अय्यो ज्येष्ठमिच्छदि तह अहं पि कणिट्ठमिच्छामि । यथार्यो ज्येष्ठमिच्छति तथाहमपि कनिष्ठमिच्छामि ।
द्वितीयः —
पित्रोरनिष्टः कस्येदानीं प्रियः ।
घटोत्कचः —
अहं प्रीतोऽस्मि । शीघ्रमागच्छ ।
द्वितीयः —
धन्योऽस्मि यद् गुरुप्राणाः स्वैः प्राणैः परिरक्षिताः ।
बन्धुस्नेहाद्धि महतः का३यस्नेहस्तु दुर्लभः ॥ २० ॥
घटोत्कचः —
अहो स्वजनवात्सल्यमस्य ब्राह्मणबटोः ।
द्वितीयः —
भोस्तात ! अभिवादये ।
वृद्धः —
एह्येहि पुत्र
विनिमाय गुरुप्राणान् स्वैः प्राणैर्गुरुवत्सल ।
अकृतात्मदुरावापं ब्रह्मलोकमवाप्नुहि ॥ २१ ॥
द्वितीयः —
अनुगृहीतोऽस्मि । अम्ब ! अभिवादये ।
ब्राह्मणी - जाद ! चिरं जीव । जात ! चिरं जीव ।
द्वितीयः —
अनुगृहीतोऽस्मि । आर्य ! अभिवादये ।
प्रथमः —
एह्येहि वत्स ।
परिष्वजस्य गाढं मां परिष्वक्तः शुभैर्गुणैः ।
कीर्त्या तव परिष्वक्ता भविष्यति वसुन्धरा ॥ २२ ॥
द्वितीयः —
अनुगृहीतोऽस्मि ।
तृतीयः —
आर्य ! अभिवादये ।
द्वितीयः —
स्वस्ति ।
तृतीयः —
अनुगृहीतोऽस्मि ।
द्वितीयः —
भोः पुरुष ! किञ्चिद्ब्रवीमि ।
घटोत्कचः —
ब्रूहि ब्रूहि शीघ्रम् ।
द्वितीयः —
एतस्मिन्वनान्तरे जलाशय इव दृश्यते । तत्र मे प्रकल्पितपरलोकस्य पिपासाप्रतीकारं करिष्यामि ।
घटोत्कचः —
दृढव्यवसायिन् ! गम्यताम् । अतिक्रामति मातुराहारकालः । शीघ्रमागच्छ ।
द्वितीयः —
भोस्तात ! एष गच्छामि ।(निष्क्रान्तः ।)
वृद्धः —
हा हा परिमुषिताः स्मो भोः ! परिमुषिताः स्मः ।
यस्त्रिशृङ्गो मम त्वासीन्मनोज्ञो वंशपर्वतः ।
स मध्यशृङ्गभङ्गेन मनस्तपति मे भृशम् ॥ २३ ॥
हा पुत्रक ! कथं गत एव ।
तरुण ! तरुणानुरूपकान्ते !
नियमपराध्ययनप्रसक्तबुद्धे ! ।
कथमिव गजराजदन्तभग्न-
स्तरुरिव यास्यसि पुष्पितो विनाशम् ॥ २४ ॥
घटोत्कचः —
चिरायते खलु ब्राह्मणबटुः । अतिक्रामति मातुराहारकालः । किंनु खलु करिष्ये । भवतु दृष्टम् । भो ब्राह्मण ! आहूयतां तव पुत्रः ।
वृद्धः —
आः अतिराक्षसं खलु ते वचनम् ।
घटोत्कचः —
कथं रुष्यति । मर्षयतु भवान्मर्षयतु । अयं मे प्रकृतिदोषः । अथ किंनामा तव पुत्रः ।
वृद्धः —
एतदपि न शक्यं श्रोतुम् ।
घटोत्कचः —
युक्तं भोः ! । ब्राह्मणकुमार ! किंनामा ते भ्राता ।
प्रथमः —
तपस्वी मध्यमः ।
घटोत्कचः —
मध्यम इति सदृशमस्य । अहमेवाह्वयामि । भो मध्यम ! मध्यम ! शीघ्रमागच्छ ।
(ततः प्रविति भीमसेनः ।)
भीमः कस्यायं स्वरः ।
खगशतविरुते विरौति तारं
द्रुमगहने दृढसङ्कटे वनेऽस्मिन् ।
जनयति च मनोज्वरं स्वरोऽयं
बहुसदृशो हि धनञ्जयस्वरस्य१ ॥ २५ ॥
धनञ्जयस्य शब्दः ।
घटोत्कचः —
चिरायते खलु ब्राह्मणबटुः । अतिक्रामति मातुराहार कालः । किं नु खलु करिष्ये । भवतु दृष्टम् । उच्चैः शब्दापयामि । भो मध्यम ! शीघ्रमागच्छ ।