मध्यमव्यायोगः
/ 3
←

Madhyamavyayoga Sanskrit PDF & Online Reader (मध्यमव्यायोगः)

Madhyamavyayoga (मध्यमव्यायोगः) by भासः — Sanskrit Text & PDF Download

📜 Last Proofread: 29 Aug 2026
📥 Download Sanskrit PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 29 Aug 2026
📥 Download PDF ♡ Save
🌐 Language & Script संस्कृतम्
↔️ Text Alignment Center
॥ श्रीः ॥ भासनाटकचक्रे मध्यमव्यायोगः । (नान्द्यन्ते ततः प्रविशति सूत्रधारः ।) सूत्रधारः — पायात्स वोऽसुरवधूहृदयावसादः पादो हरेः कुवलयामलखड्गनीलः । यः प्रोद्यतस्त्रिभुवन१क्रमणे रराज वैडूर्यसङ्क्रम इवाम्बरसागरस्य ॥ १ ॥ एवमार्यमिश्रान्त्रिज्ञापयामि । अये किंनु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग पश्यामि । (नेपथ्ये) भोस्तात ! कोनु खल्वेषः । सूत्रधारः — भवतु, विज्ञातम् । भोः शब्दोच्चारणादस्य ब्राह्मणोऽयं न संशयः । त्रास्यते निर्विशङ्केन केनचित्पापचेतसा ॥ २ ॥ (पुनर्नेपथ्ये) भोस्तात ! कोनुखल्वेषः । सूत्रधारः — हन्त दृढं विज्ञातम् । एष खलु पाण्डवमध्यमस्यात्मजो हिडिम्बारणिसम्भूतो राक्षसाभिरकृतवैरं ब्राह्मणजनं वित्रासयति । भोः कष्टम्२ । अत्रहि भ्रा१न्तैः सुतैः परिवृतस्तरुणैः सदारैः वृद्धो द्विजो निशिचरानुचरः स२एषः । व्याघ्रानु३सारचकितो वृषभः सधेनुः सन्त्रस्तवत्सक इवाकुलतामुपैति ॥ ३ ॥ (निष्क्रान्ताः ।) स्थापना । (ततः प्रविशति तत्रयकलत्रपरिवृतो ब्राह्मणः पृष्ठतो घटोत्कचश्च ।) ब्राह्मणः — भोः कोनु खल्वेषः । तरुणरविकरप्रकीर्णकेशो भ्रुकुटिपुटोज्ज्वलपिङ्गलायताक्षः । सतडिदिव घनः सकण्ठसूत्रो युगनिधने प्रतिमाकृतिर्हरस्य ॥ ४ ॥ प्रथमः — भोस्तात ! कोनु खल्वेषः । ग्रहयुगलनिभाक्षः पीनविस्तीर्णवक्षाः कनककपिलकेशः पीतकौशेयवासाः । तिमिरनिवहवर्णः पाण्डरोद्वृत्तदंष्ट्रो नव इव जलगर्भो लीयमानेन्दुलेखः ॥ ५ ॥ द्वितीयः — क एष भोः ! कलभदशनदंष्ट्रो लाङ्गलाकारनासः करिवरकरबाहुर्नीलजीमूतवर्णः । हुतहुतवहदीप्तो यः स्थितो भाति भीम- स्त्रिपुरपुरनिहन्तुः शङ्करस्येव रोषः ॥ ६ ॥ तृतीयः — भोरतात ! कोनुखल्वयमस्मान्पीडयति । वज्रपातोऽचले१न्द्राणां श्येनः सर्वपतत्रिणाम् । मृगेन्द्रो मृगसङ्घानां मृत्युः पुरुषविग्रहः ॥ ७ ॥ ब्राह्मणी — अय्य को एसो अम्हाअं सन्दावेइ । आर्य ! क एषोऽस्मान् सन्तापयति । घटोत्कचः — भो ब्राह्मण ! तिष्ठ तिष्ठ । किं यासि मद्भयविनाशितधैर्यसारो वित्रस्तदारसुतरक्षणहीनशक्ते ! । तार्क्ष्याग्र्यपक्षपवनोद्धतरोषवह्नि- तीव्रः कलत्रसहितो भुजगो यथार्तः ॥ ८ ॥ भो ब्राह्मण ! न गन्तव्यं न गन्तव्यम् । वृद्धः — ब्राह्मणि ! न भेतव्यम् । पुत्रकाः न भेतव्यम् । सविमर्शा ह्यस्य वाणी । घटोत्कचः — भोः ! कष्टम् । जानामि सर्वत्र सदा च नाम द्विजोत्तमाः पूज्यतमाः पृथिव्याम् । अकार्यमेतश्च मयाद्य कार्यं मातुर्नियोगादपनीय२शङ्काम् ॥ ९ ॥ वृद्धः — ब्राह्मणि ! किं न स्मरसि तत्रभवता जलक्लिन्नेन मुनिनोक्तं-अनपेतराक्षसमिदं वनमप्रमादेन गन्तव्यमिति । तदेवोत्पन्नं भयम् । ब्राह्मणी — किं दाणि अय्यो मज्झत्थवण्णो विअ दिस्सदि । किमिदानीमार्यो मध्यस्थवर्ण इव दृश्यते । वृद्धः — किं करिष्यामि मन्दभाग्यः । ब्राह्मणी — णं विक्कोसामो । ननु विक्रोशामः । प्रथमः — भवति कस्य वयं विक्रोशामः । इदं हि शून्यं तिमिरोत्करप्रभैर्नगप्रकारैरवरुद्धदिक्पथम् । खगैर्मृगैश्चापि समाकुलान्तरं वनं निवासाभिमतं मनस्विनाम् ॥ १० ॥ वृद्धः — ब्राह्मणि ! न भेतव्यं, न भेतव्यम् । मनस्विजननिवासयोग्यमिति श्रुत्वा विगत इव मे सन्त्रासः । शङ्के नातिदू१रेण पाण्डवाश्रमेण भवितव्यम् । पाण्डवास्तु, युद्धप्रियाश्च शरणागतवत्सलाच दीनेषु पक्षपतिताः कृतसाहसाश्च । एवंविधप्रतिभयाकृतिचेष्टितानां दण्डं यथार्हमिह धारयितुं समर्थाः ॥ ११ ॥ प्रथमः — भोस्तात ! न तत्र पाण्डवा इति मन्ये । वृद्धः — कथं त्वं जानीषे । प्रथमः — श्रुतं मया तस्मादागच्छता केनचिद्ब्राह्मणे३न शतकुम्भं नाम यज्ञमनुभवितुं महर्षेर्धौम्यस्याश्रमं गता इति । वृद्धः — हन्त हताः स्मः । थमः — तात ! न तु सर्व एव । आश्रमपरिपालनार्थमिह स्थापितः किल मध्यमः । वृद्धः — यद्येवं सन्निहिताः सर्वे पाण्डवाः । प्रथमः — स चाप्यस्यां वेलायां व्यायामपरिचयार्थं विप्रकृष्टदेशस्थ इति श्रूयते । वृद्धः — हन्त निराशाः स्मः । भवतु पुत्र व्यपा२श्रयिष्ये तावदेनम् । प्रथमः — अलमलं परिश्रमेण । वृद्धः — पुत्र ! निर्वेदप्रत्यार्थिनी खलु प्रार्थना । भवतु पश्यामस्तावत् । भो भोः पुरुष ! अस्त्यस्माकं मोक्षः । घटोत्कचः — मोक्षोऽस्ति समयतः । वृद्धः — कः समयः । घटोत्कचः — अस्ति मे तत्रभवती जननी । तयाहमाज्ञप्तः । पुत्र ! ममोपवासनिसर्गार्थमस्मिन्वनप्रदेशे कश्चिन्मानुषः प्रतिगृह्या१नेतव्य इति । ततो मयासादितो भवान् । पन्या चारित्रशालिन्या द्विपुत्रो मोक्षमिच्छसि । बलाबलं परिज्ञाय पुत्रमेकं विसर्जय ॥ १२ ॥ वृद्ध : — हं भो राक्षसापसद ! किमहमब्राह्मणः । ब्रा२ह्मणः श्रुतवान्वृद्धः पुत्रं शीलगुणान्वितम् । पुरुषादस्य दत्वाहं कथं निर्वृतिमाप्नुयाम् ॥ १३ ॥ घटोत्कचः — यद्यर्थितो द्विजश्रेष्ठ ! पुत्रमेकं न मुञ्चसि । सकुटुम्बः क्षणेनैव विनाशमुपयास्यसि ॥ १४ ॥ वृद्धः — एष एव मे निश्चयः । कृतकृत्यं शरीरं मे परिणामेन जर्जरम् । राक्षसाग्नौ सुतापेक्षी होण्यामि विधिसंस्कृतम् ॥ १५ ॥ ब्राह्मणी — अय्य! मा मा एवम् । पदिमत्तधम्मिणी पदिव्वदत्ति णाम । गहीदफळेण एदिणा सरीरेण अय्यं कुळं च रक्खिदुमिच्छामि !आर्य, मा मैवम् । पतिमात्रधर्मिणी पतिव्रतेति नाम । गृहीतफलेनैतेन शरीरेणार्यं कुलं च रक्षितुमिच्छामि । घटोत्कचः — भवति ! न खलु स्त्रीजनोऽभिमतस्तत्रभवत्या ? । वृद्धः — अनुगमिष्यामि भवन्तम् । घटोत्कचः — आः वृद्धस्त्वमपसर । प्रथमः — भोस्तात ! ब्रवीमि खलु तावत्किञ्चित् । वृद्धः — ब्रूहि ब्रूहि शीघ्रम् । प्रथमः — मम प्राणैर्गुरुप्राणानिच्छामि परिरक्षितुम् । रक्षणार्थं कुलस्यास्य मोक्तुमर्हति मां भवान् ॥ १६ ॥ द्वितीयः — आर्य ! मा मैवम् । ज्येष्ठः श्रेष्ठः कुले लोके पितॄणां च सुसम्प्रियः । ततोऽहमेव यास्यामि गुरुवृत्तिमनुस्मरन् ॥ १७ ॥ तृतीयः — आर्यौ ! मा मैवम् । ज्येष्ठो भ्राता पितृसमः कथितो ब्रह्मवादिभिः । ततोऽहं कर्तुमस्म्यर्हो गुरूणां प्राणरक्षणम् ॥ १८ ॥ प्रथमः — वत्स ! मा मैवम् । आपदं हि पिता प्राप्तो ज्येष्ठपुत्रेण ता२र्यते । ततोऽहमेव यास्यामि गुरूणां प्राणरक्षणात् ॥ १९ ॥ वृद्धः — ज्येष्ठमिष्टतमं न शक्नोमि परित्यक्तुम् । ब्राह्मणी — जह अय्यो ज्येष्ठमिच्छदि तह अहं पि कणिट्ठमिच्छामि । यथार्यो ज्येष्ठमिच्छति तथाहमपि कनिष्ठमिच्छामि । द्वितीयः — पित्रोरनिष्टः कस्येदानीं प्रियः । घटोत्कचः — अहं प्रीतोऽस्मि । शीघ्रमागच्छ । द्वितीयः — धन्योऽस्मि यद् गुरुप्राणाः स्वैः प्राणैः परिरक्षिताः । बन्धुस्नेहाद्धि महतः का३यस्नेहस्तु दुर्लभः ॥ २० ॥ घटोत्कचः — अहो स्वजनवात्सल्यमस्य ब्राह्मणबटोः । द्वितीयः — भोस्तात ! अभिवादये । वृद्धः — एह्येहि पुत्र विनिमाय गुरुप्राणान् स्वैः प्राणैर्गुरुवत्सल । अकृतात्मदुरावापं ब्रह्मलोकमवाप्नुहि ॥ २१ ॥ द्वितीयः — अनुगृहीतोऽस्मि । अम्ब ! अभिवादये । ब्राह्मणी - जाद ! चिरं जीव । जात ! चिरं जीव । द्वितीयः — अनुगृहीतोऽस्मि । आर्य ! अभिवादये । प्रथमः — एह्येहि वत्स । परिष्वजस्य गाढं मां परिष्वक्तः शुभैर्गुणैः । कीर्त्या तव परिष्वक्ता भविष्यति वसुन्धरा ॥ २२ ॥ द्वितीयः — अनुगृहीतोऽस्मि । तृतीयः — आर्य ! अभिवादये । द्वितीयः — स्वस्ति । तृतीयः — अनुगृहीतोऽस्मि । द्वितीयः — भोः पुरुष ! किञ्चिद्ब्रवीमि । घटोत्कचः — ब्रूहि ब्रूहि शीघ्रम् । द्वितीयः — एतस्मिन्वनान्तरे जलाशय इव दृश्यते । तत्र मे प्रकल्पितपरलोकस्य पिपासाप्रतीकारं करिष्यामि । घटोत्कचः — दृढव्यवसायिन् ! गम्यताम् । अतिक्रामति मातुराहारकालः । शीघ्रमागच्छ । द्वितीयः — भोस्तात ! एष गच्छामि ।(निष्क्रान्तः ।) वृद्धः — हा हा परिमुषिताः स्मो भोः ! परिमुषिताः स्मः । यस्त्रिशृङ्गो मम त्वासीन्मनोज्ञो वंशपर्वतः । स मध्यशृङ्गभङ्गेन मनस्तपति मे भृशम् ॥ २३ ॥ हा पुत्रक ! कथं गत एव । तरुण ! तरुणानुरूपकान्ते ! नियमपराध्ययनप्रसक्तबुद्धे ! । कथमिव गजराजदन्तभग्न- स्तरुरिव यास्यसि पुष्पितो विनाशम् ॥ २४ ॥ घटोत्कचः — चिरायते खलु ब्राह्मणबटुः । अतिक्रामति मातुराहारकालः । किंनु खलु करिष्ये । भवतु दृष्टम् । भो ब्राह्मण ! आहूयतां तव पुत्रः । वृद्धः — आः अतिराक्षसं खलु ते वचनम् । घटोत्कचः — कथं रुष्यति । मर्षयतु भवान्मर्षयतु । अयं मे प्रकृतिदोषः । अथ किंनामा तव पुत्रः । वृद्धः — एतदपि न शक्यं श्रोतुम् । घटोत्कचः — युक्तं भोः ! । ब्राह्मणकुमार ! किंनामा ते भ्राता । प्रथमः — तपस्वी मध्यमः । घटोत्कचः — मध्यम इति सदृशमस्य । अहमेवाह्वयामि । भो मध्यम ! मध्यम ! शीघ्रमागच्छ । (ततः प्रविति भीमसेनः ।) भीमः कस्यायं स्वरः । खगशतविरुते विरौति तारं द्रुमगहने दृढसङ्कटे वनेऽस्मिन् । जनयति च मनोज्वरं स्वरोऽयं बहुसदृशो हि धनञ्जयस्वरस्य१ ॥ २५ ॥ धनञ्जयस्य शब्दः । घटोत्कचः — चिरायते खलु ब्राह्मणबटुः । अतिक्रामति मातुराहार कालः । किं नु खलु करिष्ये । भवतु दृष्टम् । उच्चैः शब्दापयामि । भो मध्यम ! शीघ्रमागच्छ ।
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 29 Aug 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine