काव्यप्रकाशः
/ 24
←

Kavyaprakasha Tamil PDF & Online Reader (காவ்யப்ரகாஶ꞉)

Kavyaprakasha (काव्यप्रकाशः) by मम्मटभट्टः — Tamil Text & PDF Download

📜 Last Proofread: 07 Aug 2026
📥 Download Tamil PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 07 Aug 2026
📥 Download PDF ♡ Save
🌐 Language & Script தமிழ்
↔️ Text Alignment Center
॥ काव्यप्रकाशः ॥ ॥ मम्मटभट्टविरचितः ॥ ॥ प्रथमः उल्लासः ॥ मम्मटभट्टविरचितः '''काव्यप्रकाशः''' प्रथमोल्लासः ग्रन्थारम्भे विघ्नविघाताय समुचितेष्टदेवतां ग्रन्थकृत् परामृशति - '''नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम् ।''' '''नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति । । 1 । ।''' नियतिशक्त्या नियतरूपा सुखदुःखमोहस्वभावा परमाण्वाद्युपादानकर्मादिसहकारिकारणपरतन्त्रा षड्रसा न च हृद्यैव तैः, तादृशी ब्रह्यणो निर्मितिर्निर्माणम् । एतद्विलक्षणा तु कविवाङ्निर्मितिः । अत एव जयति । जयत्यर्थेन च नमस्कार आक्षिप्यते, इति तां प्रत्यस्मि प्रणत इति लभ्यते । । इहाभिधेयं सप्रयोजनमित्याह - '''काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।''' '''सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे । । 2 । ।''' कालिदासानादीनामिव यशः श्रीहर्षादेर्धावकादीनामिव धनं राजादिगतोचिताचारपरिज्ञानम् आदित्यादेर्मयूरादीनामिवानर्थनिवारणं सकलप्रयोजनमौलिभूतं समनन्तरमेव रसास्वादनसमुद्भूतं विगलिदवेद्यान्तरमानन्दं प्रभुसम्मितशब्दप्रधानवेदादिशास्त्रेभ्यः सुहृत्सम्मितार्थतात्पर्यवत्पुराणादीतिहासेभ्यश्व शब्दार्थयोर्गुणभावेन रसाङ्गभूतव्यापारप्रवणतया विलक्षणं यत् काव्यं लोकोत्तरवर्णनानिपुणकविकर्म तत् कान्तेव सरसतापादनेनाभिमुखीकृत्य रामादिवद्वर्तितव्यं न रावणादिवदित्युपदेशं च यथायोगं कवेः सहृदयस्य च करोतीति सर्वथा तत्र यतनीयम् । । एवमस्य प्रयोजनमुक्त्वा कारणमाह - '''शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् ।''' '''काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे । । 3 । ।''' शक्तिः कवित्वबीजरूपः संस्कारविशेषः, यां विना काव्यं न प्रसरेत्, प्रसृतं वा उपहसनीयं स्यात् । लोकस्य स्थावरजङ्गमात्मकलोकवृत्तस्य । शास्त्राणां छन्दोव्याकरणाभिधानकोशकलाचतुर्वर्गगजतुरगखड्गादिलक्षणग्रन्थानाम् । काव्यानां च महाकविसम्बन्धिनाम् । आदिग्रहणादितिहासानां च विमर्शनाद्व्युत्पत्तिः । काव्यं कर्तुं विचारयितुं च ये जानन्ति तदुपदेशेन करणे योजने च पौनःपुन्येन प्रवृत्तिरिति त्रयः समुदिताः, न तु व्यस्तास्तस्य काव्यस्योद्भवे निर्माणे समुल्लासे च हेतुर्न तु हेतवः । । एवमस्य कारणमुक्त्वा स्वरूपमाह - '''तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापि ।''' दोषगुणालङ्काराः वक्ष्यन्ते । क्वापीत्यनेनैतदाह यत् सर्वत्र सालङ्कारौ, क्वचित्तु स्फुटालङ्कारविरहेऽपि न काव्यत्वहानिः । यथा यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपास्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः । सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते । । 1 । । अत्र स्फुटो न कश्विदलङ्कारः । रसस्य च प्राधान्यान्नालङ्कारता । तद्भेदान् क्रमेणाह - '''इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद्ध्वनिर्बुधैः कथितः । । 4 । ।''' इदमिति काव्यम् । बुधैर्वैयाकरणैः प्रधानभूतस्फोटरूपव्यङ्ग्यव्यञ्जकस्य शब्दस्य ध्वनिरिति व्यवहारः कृतः, ततस्तन्मतानुसारिभिरन्यैरपि न्यग्भावितवाच्यव्यङ्ग्यव्यञ्जनक्षमस्य शब्दार्थयुगलस्य । यथा - निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् । । 2 । । अत्र तदन्तिकमेव रन्तुं गतासीति प्राधान्येनाधमपदेन व्यज्यते । । '''अतादृशि गुणीभूतव्यङ्ग्यं व्यङ्ग्ये तु मध्यमम् ।''' अतादृशि वाच्यादनतिशायिनि । यथाग्रामतरुणं तरुण्या नववञ्जुलमज्जरीसनाथकरम् । पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया । । 3 । । अत्र बञ्जुललतागृहे दत्तसङ्केता नागतेति व्यङ्ग्यं गुणीभूतं तदपेक्षया वाच्यस्यैव चमत्कारित्वात् । । '''शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम् । । 5 । ।''' चित्रमिति गुणालङ्कारयुक्तम् । अव्यङ्ग्यमिति स्फुटप्रतीयमानार्थरहितम् । अवरम् अधमम् । यथा स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटामूर्छन्मोहमहर्षिहर्षविहितस्नानाह्निकाह्नाय वः । भिद्यादुद्यदुदारदर्दुरदरीदीर्घादरिद्रद्रुमद्रोहोद्रेकमहोर्मिमेदुरमदा मन्दाकिनी मन्दताम् । । 4 । । विनिर्गतं मानदमात्ममन्दिराद्भवत्युपश्रुत्य यदृच्छयापि यम् । ससम्भ्रमेन्द्रद्रुतपातितार्गला निमीलिताक्षीव भियामरावती । । 5 । । इति काव्यप्रकाशे काव्यस्य प्रयोजनकारणस्वरूपविशेषनिर्णयो नाम प्रथम उल्लासः । । ॥ द्वितीयः उल्लासः ॥ '''। । अथ द्वितीय उल्लासः । ।''' क्रमेण शब्दार्थयोः स्वरूपमाह-- (सूत्र 5) अत्रेति काव्ये । एषां स्वरुपं वक्ष्यते । । (सूत्र 6) वाच्यलक्ष्यव्यङ्ग्याः । । (सूत्र 7) । । 6 । । आकाङ्क्षायोग्यतासंनिधिवशाद्वक्ष्यमाणस्वरूपाणां पदार्थानां समन्वये तात्पर्यार्थो विशेषवपुरपदार्थोऽपि वाक्यार्थः समुल्लसतीत्यभिहिनान्वयवादिनां मतम् । । वाच्य एव वाक्यार्थ इत्यन्विताभिधानवादिनः । । (सूत्र 8) तत्र वाच्यस्य यथा" माए घरोवअरणमज्ज हु णत्थि त्ति साहिअं तुमए । ता भण किं करणिज्जमेमेअ ण वासरो ठाइ । । 6 । । ( मातर्गृहोपकरणमद्य खलु नास्तीति साधितं त्वया । तद्भण किं करणीयमेवमेव न वासरः स्थायी ) अत्र स्वैरविहारार्थिनीति व्यज्यते । लक्ष्यस्य यथा साहेन्ती सहि सुहअं खणे खणे दूम्मिआसि मज्झकए । सद्बावणेहकरणिज्जसरिसअं दाव विरइअं तुमए । । 7 । । (साधयन्ति सखि सुभगं क्षणे क्षणे दुनासि मत्कृते सद्भावस्नेहकरणीय सदृशकं तावद्विरचितं त्वया ॥) अत्र मत्प्रियं रमयन्त्या त्वया शत्रुत्वमाचरितमिति लक्ष्यम्, तेन च कामुकविषयं सापराधत्वप्रकाशनं व्यङ्ग्यम् । व्यङ्ग्यस्य यथा उअ णिच्चलणिप्पन्दा भिसिणीपत्तम्मि रेहइ बलाआ । णिम्मलमरगअभाअणपरिठ्ठिआ सङ्खसुत्ति व्व । । 8 । । (पश्य निश्चलनिष्पन्दा बिसिनीपत्रे राजते बलाका । निर्मलमरतकभाजनपरिस्थिता शङ्खशुक्तिरिव ॥ ) अत्र निष्पन्दत्वेन, आश्वस्तत्वम्, तेन च जनरहितत्वम्, अतः सङ्केतस्थानमेतदिति कयाचित् कश्चित्प्रत्युच्यते । अथवा मिथ्या वदसि न त्वमत्रागतोऽभूरिति व्यज्यते । । वाचकादीनां क्रमेण स्वरूपमाह (सूत्र 9) । । 7 । । इहागृहीतसङ्केतस्य शब्दस्यार्थप्रतीतेरभावात्सङ्केतसहाय एव शब्दोऽर्थविशेषं प्रतिपादयतीति यस्य यत्राव्यवधानेन सङ्केतो गृह्यते स तस्य वाचकः । (सूत्र 10) यद्यप्यर्थक्रियाकारितया प्रवृत्तिनिवृत्तियोग्या व्यक्तिरेव, तथाप्यानन्त्याद्व्यभिचाराच्च तत्र सङ्केतः कर्तुं न युज्यते, इति गौः शुक्लश्चलोडित्थः इत्यादीनां विषयविभागो न प्राप्नोतीति च तदुपाधावेव सङ्केतः । उपाधिश्च द्विविधः - वस्तुधर्मो वक्तृयदृच्छासंनिवेशितश्च । वस्तुधर्मोऽपि द्विविधः -सिद्धः साध्यश्च । सिद्धोऽपि द्विविधः-पदार्थस्य प्राणप्रदो विशेषाधानहेतुश्च । तत्राद्यो जातिः उक्तं हि वाक्यपदीये "" न हि गौः स्वरूपेण गौर्नाप्यगौः, गोत्वाभिसम्बन्धात्तु गौः"" इति । द्वितीयो गुणः । शुक्लादिना हि लब्धसत्ताकं वस्तु विशिष्यते । साध्यः पूर्वापरीभूतावयवः क्रियारूपः । डित्थादिशब्दानामन्त्यबु -द्धिनिर्ग्राह्यं संहृतक्रमं स्वरूपं वक्त्रा यदृच्छया डित्थादिष्वर्थेषूपाधित्वेन संनिवेश्यत इति सोऽयं सञ्ज्ञारूपो यदृच्छात्मक इति । ""गौःशुक्लश्वलो डित्थ इत्यादौ चतुष्टयी शब्दानां प्रवृत्तिः"" इति महाभाष्यकारः । परमाण्वादीनां तु गुणमध्यपाठात् पारिभाषिकं गुणत्वम् । गुणक्रियायदृच्छानां वस्तुत एकरूपाणामप्याश्रयभेदाद्भेद इव लक्ष्यते । यथैकस्य मुखस्य खड्गमुकुरतैलाद्यालम्बनभेदात् । हिमपयःशङ्खाद्याश्रयेषु परमार्थतो भिन्नेषु शुक्लादिषु यद्वशेन शुक्लः शुक्ल इत्याद्यभिन्नाभिधानप्रत्ययोत्पत्तिस्तत् शुक्लत्वादि सामान्यम् । गुडतण्डुलादिपाकादिष्वेवमेव पाकत्वादि । बालवृद्धशुकाद्युदीरितेषु डित्थादिशब्देषु च प्रतिक्षणं भिद्यमानेषु डित्थाद्यर्थेषु वा डित्थत्वाद्यस्तीति सर्वेषां शब्दानां जातिरेव प्रवृत्तिनिमित्तमित्यन्ये । तद्वान् अपोहो वा शब्दार्थः कैश्विदुक्त इति ग्रन्थगौरवभयात् प्रकृतानुपयोगाच्च न दर्शितम् । । (सू 11) स इति साक्षात्सङ्केतितः । अस्येति शब्दस्य । । (सू 12) 9 । । "कर्मणि कुशलः" इत्यादौ दर्भग्रहणाद्ययोगात् "गङ्गायां घोषः" इत्यादौ च गङ्गादीनां घोषाद्याधारत्वासम्भवोत् मुख्यार्थस्य बाधे विवेचकत्वादौ सामीप्ये च सम्बन्धे रूढितः प्रसिद्धेः, तथा गङ्गातटे घोष इत्यादेः प्रयोगात् येषां न तथा प्रतिपत्तिः, तेषां पावनत्वादीनां धर्माणां तथाप्रतिपादनात्मनः प्रयोजनत्वाच्च मुख्येन अमुख्योऽर्थो लक्ष्यते यत् स आरोपितः शब्दव्यापारः सान्तरार्थनिष्ठो लक्षणा । (सू 13) 10 । । "कुन्ताः प्रविशन्ति" "यष्टयः प्रविशन्ति" इत्यादौ कुन्तादिभिरात्मनः प्रवेशसिद्ध्यर्थं स्वसंयोगिनः पुरुषा आक्षिप्यन्ते । तत उपादानेनेयं लक्षणा । ""गौरनुबन्ध्यः"" इत्यादौ श्रुतिचोदितमनुबन्धनं कथं मे स्यादिति जात्या व्यक्तिराक्षिप्यते न तु शब्देनोच्यते ""विशेष्यं नाभिधा गच्छेत् क्षीणशक्तिर्विशेपणे"" इति न्यायादित्युपादानलक्षणा तु नोदाहर्तव्या । न ह्यत्र प्रयोजनमस्ति न वा रुढिरियम् । व्यक्त्यविनाभावित्वात्तु जात्या व्यक्तिराक्षिप्यते । यथा क्रियतामित्यत्र कर्ता । कुर्वित्यत्र कर्म । प्रविश पिण्डमित्यादौ गृहं भक्षयेत्यादि च । "पीनो देवदत्तो दिवा न भुङ्क्ते" इत्यत्र च रात्रिभोजनं न लक्ष्यते श्रुतार्थापत्तेरर्थापत्तेर्वा तस्य विषयत्वात् । "गङ्गायां घोषः" इत्यत्र तटस्य घोषाधिकरणत्वसिद्धये गङ्गाशब्दः स्वार्थमर्पयति, इत्येवमादौ लक्षणेनैषा लक्षणा । उभयरुपा चेयं शुद्धा । उपचारेणामिश्रितत्वात् । अनयोर्लक्ष्यस्य लक्षकस्य च न भेदरूपं ताटस्थयम् । तटादीनां गङ्गादिशब्दैः प्रतिपादने तत्वप्रतिपत्तौ हि प्रतिपिपादयिषितप्रयोजनसम्प्रत्ययः । गङ्गासम्बन्धमात्रप्रातीतौ तु गङ्गातटे घोष इति मुख्यशब्दाभिधानाल्लक्षणायाः को भेदः । । (सू 14)
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 07 Aug 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine