॥ काव्यप्रकाशः ॥ ॥ मम्मटभट्टविरचितः ॥
॥ प्रथमः उल्लासः ॥
मम्मटभट्टविरचितः '''काव्यप्रकाशः''' प्रथमोल्लासः ग्रन्थारम्भे विघ्नविघाताय समुचितेष्टदेवतां ग्रन्थकृत् परामृशति - '''नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम् ।''' '''नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति । । 1 । ।''' नियतिशक्त्या नियतरूपा सुखदुःखमोहस्वभावा परमाण्वाद्युपादानकर्मादिसहकारिकारणपरतन्त्रा षड्रसा न च हृद्यैव तैः, तादृशी ब्रह्यणो निर्मितिर्निर्माणम् । एतद्विलक्षणा तु कविवाङ्निर्मितिः । अत एव जयति । जयत्यर्थेन च नमस्कार आक्षिप्यते, इति तां प्रत्यस्मि प्रणत इति लभ्यते । । इहाभिधेयं सप्रयोजनमित्याह - '''काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।''' '''सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे । । 2 । ।''' कालिदासानादीनामिव यशः श्रीहर्षादेर्धावकादीनामिव धनं राजादिगतोचिताचारपरिज्ञानम् आदित्यादेर्मयूरादीनामिवानर्थनिवारणं सकलप्रयोजनमौलिभूतं समनन्तरमेव रसास्वादनसमुद्भूतं विगलिदवेद्यान्तरमानन्दं प्रभुसम्मितशब्दप्रधानवेदादिशास्त्रेभ्यः सुहृत्सम्मितार्थतात्पर्यवत्पुराणादीतिहासेभ्यश्व शब्दार्थयोर्गुणभावेन रसाङ्गभूतव्यापारप्रवणतया विलक्षणं यत् काव्यं लोकोत्तरवर्णनानिपुणकविकर्म तत् कान्तेव सरसतापादनेनाभिमुखीकृत्य रामादिवद्वर्तितव्यं न रावणादिवदित्युपदेशं च यथायोगं कवेः सहृदयस्य च करोतीति सर्वथा तत्र यतनीयम् । । एवमस्य प्रयोजनमुक्त्वा कारणमाह - '''शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् ।''' '''काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे । । 3 । ।''' शक्तिः कवित्वबीजरूपः संस्कारविशेषः, यां विना काव्यं न प्रसरेत्, प्रसृतं वा उपहसनीयं स्यात् । लोकस्य स्थावरजङ्गमात्मकलोकवृत्तस्य । शास्त्राणां छन्दोव्याकरणाभिधानकोशकलाचतुर्वर्गगजतुरगखड्गादिलक्षणग्रन्थानाम् । काव्यानां च महाकविसम्बन्धिनाम् । आदिग्रहणादितिहासानां च विमर्शनाद्व्युत्पत्तिः । काव्यं कर्तुं विचारयितुं च ये जानन्ति तदुपदेशेन करणे योजने च पौनःपुन्येन प्रवृत्तिरिति त्रयः समुदिताः, न तु व्यस्तास्तस्य काव्यस्योद्भवे निर्माणे समुल्लासे च हेतुर्न तु हेतवः । । एवमस्य कारणमुक्त्वा स्वरूपमाह - '''तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापि ।''' दोषगुणालङ्काराः वक्ष्यन्ते । क्वापीत्यनेनैतदाह यत् सर्वत्र सालङ्कारौ, क्वचित्तु स्फुटालङ्कारविरहेऽपि न काव्यत्वहानिः । यथा यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपास्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः । सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते । । 1 । । अत्र स्फुटो न कश्विदलङ्कारः । रसस्य च प्राधान्यान्नालङ्कारता । तद्भेदान् क्रमेणाह - '''इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद्ध्वनिर्बुधैः कथितः । । 4 । ।''' इदमिति काव्यम् । बुधैर्वैयाकरणैः प्रधानभूतस्फोटरूपव्यङ्ग्यव्यञ्जकस्य शब्दस्य ध्वनिरिति व्यवहारः कृतः, ततस्तन्मतानुसारिभिरन्यैरपि न्यग्भावितवाच्यव्यङ्ग्यव्यञ्जनक्षमस्य शब्दार्थयुगलस्य । यथा - निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् । । 2 । । अत्र तदन्तिकमेव रन्तुं गतासीति प्राधान्येनाधमपदेन व्यज्यते । । '''अतादृशि गुणीभूतव्यङ्ग्यं व्यङ्ग्ये तु मध्यमम् ।''' अतादृशि वाच्यादनतिशायिनि । यथाग्रामतरुणं तरुण्या नववञ्जुलमज्जरीसनाथकरम् । पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया । । 3 । । अत्र बञ्जुललतागृहे दत्तसङ्केता नागतेति व्यङ्ग्यं गुणीभूतं तदपेक्षया वाच्यस्यैव चमत्कारित्वात् । । '''शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम् । । 5 । ।''' चित्रमिति गुणालङ्कारयुक्तम् । अव्यङ्ग्यमिति स्फुटप्रतीयमानार्थरहितम् । अवरम् अधमम् । यथा स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटामूर्छन्मोहमहर्षिहर्षविहितस्नानाह्निकाह्नाय वः । भिद्यादुद्यदुदारदर्दुरदरीदीर्घादरिद्रद्रुमद्रोहोद्रेकमहोर्मिमेदुरमदा मन्दाकिनी मन्दताम् । । 4 । । विनिर्गतं मानदमात्ममन्दिराद्भवत्युपश्रुत्य यदृच्छयापि यम् । ससम्भ्रमेन्द्रद्रुतपातितार्गला निमीलिताक्षीव भियामरावती । । 5 । । इति काव्यप्रकाशे काव्यस्य प्रयोजनकारणस्वरूपविशेषनिर्णयो नाम प्रथम उल्लासः । ।
॥ द्वितीयः उल्लासः ॥
'''। । अथ द्वितीय उल्लासः । ।''' क्रमेण शब्दार्थयोः स्वरूपमाह-- (सूत्र 5) अत्रेति काव्ये । एषां स्वरुपं वक्ष्यते । । (सूत्र 6) वाच्यलक्ष्यव्यङ्ग्याः । । (सूत्र 7) । । 6 । । आकाङ्क्षायोग्यतासंनिधिवशाद्वक्ष्यमाणस्वरूपाणां पदार्थानां समन्वये तात्पर्यार्थो विशेषवपुरपदार्थोऽपि वाक्यार्थः समुल्लसतीत्यभिहिनान्वयवादिनां मतम् । । वाच्य एव वाक्यार्थ इत्यन्विताभिधानवादिनः । । (सूत्र 8) तत्र वाच्यस्य यथा" माए घरोवअरणमज्ज हु णत्थि त्ति साहिअं तुमए । ता भण किं करणिज्जमेमेअ ण वासरो ठाइ । । 6 । । ( मातर्गृहोपकरणमद्य खलु नास्तीति साधितं त्वया । तद्भण किं करणीयमेवमेव न वासरः स्थायी ) अत्र स्वैरविहारार्थिनीति व्यज्यते । लक्ष्यस्य यथा साहेन्ती सहि सुहअं खणे खणे दूम्मिआसि मज्झकए । सद्बावणेहकरणिज्जसरिसअं दाव विरइअं तुमए । । 7 । । (साधयन्ति सखि सुभगं क्षणे क्षणे दुनासि मत्कृते सद्भावस्नेहकरणीय सदृशकं तावद्विरचितं त्वया ॥) अत्र मत्प्रियं रमयन्त्या त्वया शत्रुत्वमाचरितमिति लक्ष्यम्, तेन च कामुकविषयं सापराधत्वप्रकाशनं व्यङ्ग्यम् । व्यङ्ग्यस्य यथा उअ णिच्चलणिप्पन्दा भिसिणीपत्तम्मि रेहइ बलाआ । णिम्मलमरगअभाअणपरिठ्ठिआ सङ्खसुत्ति व्व । । 8 । । (पश्य निश्चलनिष्पन्दा बिसिनीपत्रे राजते बलाका । निर्मलमरतकभाजनपरिस्थिता शङ्खशुक्तिरिव ॥ ) अत्र निष्पन्दत्वेन, आश्वस्तत्वम्, तेन च जनरहितत्वम्, अतः सङ्केतस्थानमेतदिति कयाचित् कश्चित्प्रत्युच्यते । अथवा मिथ्या वदसि न त्वमत्रागतोऽभूरिति व्यज्यते । । वाचकादीनां क्रमेण स्वरूपमाह (सूत्र 9) । । 7 । । इहागृहीतसङ्केतस्य शब्दस्यार्थप्रतीतेरभावात्सङ्केतसहाय एव शब्दोऽर्थविशेषं प्रतिपादयतीति यस्य यत्राव्यवधानेन सङ्केतो गृह्यते स तस्य वाचकः । (सूत्र 10) यद्यप्यर्थक्रियाकारितया प्रवृत्तिनिवृत्तियोग्या व्यक्तिरेव, तथाप्यानन्त्याद्व्यभिचाराच्च तत्र सङ्केतः कर्तुं न युज्यते, इति गौः शुक्लश्चलोडित्थः इत्यादीनां विषयविभागो न प्राप्नोतीति च तदुपाधावेव सङ्केतः । उपाधिश्च द्विविधः - वस्तुधर्मो वक्तृयदृच्छासंनिवेशितश्च । वस्तुधर्मोऽपि द्विविधः -सिद्धः साध्यश्च । सिद्धोऽपि द्विविधः-पदार्थस्य प्राणप्रदो विशेषाधानहेतुश्च । तत्राद्यो जातिः उक्तं हि वाक्यपदीये "" न हि गौः स्वरूपेण गौर्नाप्यगौः, गोत्वाभिसम्बन्धात्तु गौः"" इति । द्वितीयो गुणः । शुक्लादिना हि लब्धसत्ताकं वस्तु विशिष्यते । साध्यः पूर्वापरीभूतावयवः क्रियारूपः । डित्थादिशब्दानामन्त्यबु -द्धिनिर्ग्राह्यं संहृतक्रमं स्वरूपं वक्त्रा यदृच्छया डित्थादिष्वर्थेषूपाधित्वेन संनिवेश्यत इति सोऽयं सञ्ज्ञारूपो यदृच्छात्मक इति । ""गौःशुक्लश्वलो डित्थ इत्यादौ चतुष्टयी शब्दानां प्रवृत्तिः"" इति महाभाष्यकारः । परमाण्वादीनां तु गुणमध्यपाठात् पारिभाषिकं गुणत्वम् । गुणक्रियायदृच्छानां वस्तुत एकरूपाणामप्याश्रयभेदाद्भेद इव लक्ष्यते । यथैकस्य मुखस्य खड्गमुकुरतैलाद्यालम्बनभेदात् । हिमपयःशङ्खाद्याश्रयेषु परमार्थतो भिन्नेषु शुक्लादिषु यद्वशेन शुक्लः शुक्ल इत्याद्यभिन्नाभिधानप्रत्ययोत्पत्तिस्तत् शुक्लत्वादि सामान्यम् । गुडतण्डुलादिपाकादिष्वेवमेव पाकत्वादि । बालवृद्धशुकाद्युदीरितेषु डित्थादिशब्देषु च प्रतिक्षणं भिद्यमानेषु डित्थाद्यर्थेषु वा डित्थत्वाद्यस्तीति सर्वेषां शब्दानां जातिरेव प्रवृत्तिनिमित्तमित्यन्ये । तद्वान् अपोहो वा शब्दार्थः कैश्विदुक्त इति ग्रन्थगौरवभयात् प्रकृतानुपयोगाच्च न दर्शितम् । । (सू 11) स इति साक्षात्सङ्केतितः । अस्येति शब्दस्य । । (सू 12) 9 । । "कर्मणि कुशलः" इत्यादौ दर्भग्रहणाद्ययोगात् "गङ्गायां घोषः" इत्यादौ च गङ्गादीनां घोषाद्याधारत्वासम्भवोत् मुख्यार्थस्य बाधे विवेचकत्वादौ सामीप्ये च सम्बन्धे रूढितः प्रसिद्धेः, तथा गङ्गातटे घोष इत्यादेः प्रयोगात् येषां न तथा प्रतिपत्तिः, तेषां पावनत्वादीनां धर्माणां तथाप्रतिपादनात्मनः प्रयोजनत्वाच्च मुख्येन अमुख्योऽर्थो लक्ष्यते यत् स आरोपितः शब्दव्यापारः सान्तरार्थनिष्ठो लक्षणा । (सू 13) 10 । । "कुन्ताः प्रविशन्ति" "यष्टयः प्रविशन्ति" इत्यादौ कुन्तादिभिरात्मनः प्रवेशसिद्ध्यर्थं स्वसंयोगिनः पुरुषा आक्षिप्यन्ते । तत उपादानेनेयं लक्षणा । ""गौरनुबन्ध्यः"" इत्यादौ श्रुतिचोदितमनुबन्धनं कथं मे स्यादिति जात्या व्यक्तिराक्षिप्यते न तु शब्देनोच्यते ""विशेष्यं नाभिधा गच्छेत् क्षीणशक्तिर्विशेपणे"" इति न्यायादित्युपादानलक्षणा तु नोदाहर्तव्या । न ह्यत्र प्रयोजनमस्ति न वा रुढिरियम् । व्यक्त्यविनाभावित्वात्तु जात्या व्यक्तिराक्षिप्यते । यथा क्रियतामित्यत्र कर्ता । कुर्वित्यत्र कर्म । प्रविश पिण्डमित्यादौ गृहं भक्षयेत्यादि च । "पीनो देवदत्तो दिवा न भुङ्क्ते" इत्यत्र च रात्रिभोजनं न लक्ष्यते श्रुतार्थापत्तेरर्थापत्तेर्वा तस्य विषयत्वात् । "गङ्गायां घोषः" इत्यत्र तटस्य घोषाधिकरणत्वसिद्धये गङ्गाशब्दः स्वार्थमर्पयति, इत्येवमादौ लक्षणेनैषा लक्षणा । उभयरुपा चेयं शुद्धा । उपचारेणामिश्रितत्वात् । अनयोर्लक्ष्यस्य लक्षकस्य च न भेदरूपं ताटस्थयम् । तटादीनां गङ्गादिशब्दैः प्रतिपादने तत्वप्रतिपत्तौ हि प्रतिपिपादयिषितप्रयोजनसम्प्रत्ययः । गङ्गासम्बन्धमात्रप्रातीतौ तु गङ्गातटे घोष इति मुख्यशब्दाभिधानाल्लक्षणायाः को भेदः । । (सू 14)