** कौटिलीय अर्थशास्त्रम् ।**
**ओं.नमः.शुक्र.बृहस्पतिभ्याम् ।**
०१.१.०१ ।.पृथिव्या लाभे पालने च यावन्त्यर्थ.शास्त्राणि पूर्व.आचार्यैः प्रस्थापितानि प्रायशस्तानि संहृत्यएकम् इदम् अर्थ.शास्त्रं कृतम् । ।
०१.१.०२ । तस्यायं प्रकरण.अधिकरण.समुद्देशः । ।
०१.१.०३अ । विद्या.समुद्देशः, वृद्ध.समुद्देशः, इन्द्रिय.जयः, अमात्य.उत्पत्तिः, मन्त्रि.पुरोहित.उत्पत्तिः, उपधाभिः शौच.अशौच.ज्ञानम् अमात्यानाम्,
०१.१.०३ब । गूढ.पुरुष.प्रणिधिः, स्व.विषये कृत्य.अकृत्य.पक्ष.रक्षणम्, पर.विषये कृत्य.अकृत्य.पक्ष.उपग्रहः,
०१.१.०३क । मन्त्र.अधिकारः, दूत.प्रणिधिः, राज.पुत्र.रक्षणम्, अपरुद्ध.वृत्तम्, अपरुद्धे वृत्तिः, राज.प्रणिधिः, निशान्त.प्रणिधिः, आत्म.रक्षितकम्, , इति विनय.अधिकारिकं प्रथमम् अधिकरणम् । ।
०१.१.०४अ । जनपद.निवेशः, भूमिच्.छिद्र.अपिधानम्, दुर्ग.विधानम्, दुर्ग.निवेशः, सम्निधातृ.निचय.कर्म, समाहर्तृ.समुदय.प्रस्थापनम्, अक्ष.पटले गाणनिक्य.अधिकारः,
०१.१.०४ब । समुदयस्य युक्त.अपहृतस्य प्रत्यानयनम्, उपयुक्त.परीक्षा, शासन.अधिकारः, कोश.प्रवेश्य.रत्न.परीक्षा, आकर.कर्म.अन्त.प्रवर्तनम्, अक्ष.शालायां सुवर्ण.अध्यक्षः
०१.१.०४क । विशिखायां सौवर्णिक.प्रचारः, कोष्ठ.आगार.अध्यक्षः, पण्य.अध्यक्षः, कुप्य.अध्यक्षः, आयुध.अध्यक्षः, तुला.मान.पौतवम्,
०१.१.०४ड । देश.काल.मानम्, शुल्क.अध्यक्षः, सूत्र.अध्यक्षः, सीत.अध्यक्षः, सुरा.अध्यक्षः, सून.अध्यक्षः, गणिका.अध्यक्षः,
०१.१.०४ए । नाव्.अध्यक्षः, गो.अध्यक्षः, अश्व.अध्यक्षः, हस्त्य्.अध्यक्षः, रथ.अध्यक्षः, पत्त्य्.अध्यक्षः, सेना.पति.प्रचारः, मुद्रा.अध्यक्षः, विवीत.अध्यक्षः, समाहर्तृ.प्रचारः,
०१.१.०४फ़् । गृह.पतिक.वैदेहक.तापस.व्यञ्जनाः प्रणिधयः, नागरिक.प्रणिधिः
इत्यध्यक्ष.प्रचारो द्वितीयम् अधिकरणम् । ।
०१.१.०५अ । व्यवहार.स्थापना, विवाद.पद.निबन्धः, विवाह.सम्युक्तम्, दाय.विभागः, वास्तुकम्, समयस्य अनपाकर्म, ऋण.अदानम्, औपनिधिकम्, दास.कर्म.कर.कल्पः,
०१.१.०५ब । सम्भूय समुत्थानम्, विक्रीत.क्रीत.अनुशयः, दत्तस्य अनपाकर्म, अस्वामि.विक्रयः, स्व.स्वामि.सम्बन्धः, साहसम्, वाक्.पारुष्यम्, दण्ड.पारुष्यम्, द्यूत.समाह्वयम्, प्रकीर्णकम् इति, धर्म.स्थीयं तृतीयम् अधिकरणम् । ।
०१.१.०६अ । कारु.कर.क्षणम्, वैदेहक.रक्षणम्, उपनिपात.प्रतीकारः, गूढ.आजीविनां रक्षा, सिद्ध.व्यञ्जनैर्माणव.प्रकाशनम्, शङ्का.रूप.कर्म.अभिग्रहः,
०१.१.०६ब । आशु.मृतक.परीक्षा, वाक्य.कर्म.अनुयोगः, सर्व.अधिकरण.रक्षणं
०१.१.०६क । एक.अङ्ग.वध.निष्क्रयः, शुद्धश्चित्रश्च दण्ड कल्पः, कन्या.प्रकर्म, अतिचार.दण्डाः इति कण्टक.शोधनं चतुर्थम् अधिकरणम् । ।
०१.१.०७ । दाण्डकर्मिकम्, कोश.अभिसंहरणम्, भृत्य.भरणीयम्, अनुजीवि.वृत्तम्, समय.आचारिकम्, राज्य.प्रतिसन्धानम्, एक.ऐश्वर्यम् इति योग.वृत्तं पञ्चमम् अधिकरणम् । ।
०१.१.०८ । प्रकृति.सम्पदः, शम.व्यायामिकम् इति मण्डल.योनिः षष्ठम् अधिकरणम् । ।
०१.१.०९अ । षाड्गुण्य.समुद्देशः, क्षय.स्थान.वृद्धि.निश्चयः, संश्रय.वृत्तिः, समहीन.ज्यायसां गुण.अभिनिवेशः, हीन.सन्धयः, विगृह्य आसनम्, सन्धाय आसनम्, विगृह्य यानम्, सन्धाय यानम्,
०१.१.०९ब । सम्भूय प्रयाणम्, यातव्य.अमित्रयोरभिग्रह.चिन्ता, क्षय.लोभ.विराग.हेतवः प्रकृतीनाम्, सामवायिक.विपरिमर्शः,
०१.१.०९क । संहित प्रयाणिकम्, परिपणित.अपरिपणित.अपसृताः सन्धयः, द्वैधी.भाविकाः सन्धि.विक्रमाः, यातव्य.वृत्तिः, अनुग्राह्य.मित्र.विशेषाः,
०१.१.०९ड । मित्र.हिरण्य.भूमि.कर्म.सन्धयः, पार्ष्णि.ग्राह.चिन्ता, हीन.शक्ति.पूरणम्, बलवता विगृह्य उपरोध.हेतवः, दण्ड.उपनत.वृत्तम्,
०१.१.०९ए । दण्ड.उपनायि.वृत्तम्, सन्धि.कर्म, समाधि.मोक्षः, मध्यम.चरितम्, उदासीन.चरितम्, मण्डल.चरितम् इति षाड्गुण्यं सप्तमम् अधिकरणम् । ।
०१.१.१० । प्रकृति.व्यसन.वर्गः, राज.राज्ययोर्व्यसन.चिन्ता, पुरुष.व्यसन.वर्गः, पीडन.वर्गः, स्तम्भ.वर्गः, कोश.सङ्ग.वर्गः, मित्र.व्यसन.वर्गः इति व्यसन.आधिकारिकम् अष्टमम् अधिकरणम् । ।
०१.१.११अ । शक्ति.देश.काल.बल.अबल.ज्ञानम्, यात्रा.कालाः, बल.उपादान.कालाः, सम्नाह.गुणाः, प्रतिबल.कर्म, पश्चात्कोप.चिन्ता, बाह्य.आभ्यन्तर.प्रकृति.कोप.प्रतीकाराः
०१.१.११ब । क्षय.व्यय.लाभ.विपरिमर्शः, बाह्य.आभ्यन्तराश्चऽपदः, दुष्य.शत्रु.सम्युक्ताः, अर्थ.अनर्थ.संशय.युक्ताः, तासाम् उपाय.विकल्पजाः सिद्धयः इत्यभियास्यत्कर्म नवमम् अधिकरणम्
। ।
०१.१.१२ । स्कन्ध.आवार.निवेशः, स्कन्ध.आवार.प्रयाणम्, बल.व्यसन.अवस्कन्द.काल.रक्षणम्, कूट.युद्ध.विकल्पाः, स्व.सैन्य.उत्साहनम्, स्व.बल.अन्य.बल.व्यायोगः, युद्ध.भूमयः, पत्त्य्.अश्व.रथ.हस्ति.कर्माणि, पक्ष.कक्ष.उरस्यानां बल.अग्रतो व्यूह.विभागः, सार.फल्गु.बल.विभागः, पत्त्य्.अश्व.रथ.हस्ति.युद्धानि,
दण्ड.भोग.मण्डल.असंहत.व्यूह.व्यूहनम्, तस्य प्रतिव्यूह.स्थापनम् इति साङ्ग्रामिकं दशमम् अधिकरणम्
। ।
०१.१.१३ । भेद.उपादानानि, उपांशु.दण्डाः इति सङ्घ.वृत्तम् एकादशम् अधिकरणम् । ।
०१.१.१४ । दूत.कर्म, मन्त्र.युद्धम्, सेना.मुख्य.वधः, मण्डल.प्रोत्साहनम्, शस्त्र.अग्नि.रस.प्रणिधयः, वीवध.आसार.प्रसार.वधः, योग.अतिसन्धानम्, दण्ड.अतिसन्धानम्, एक.विजयः इत्याबलीयसं द्वादशम् अधिकरणम् । ।
०१.१.१५ । उपजापः, योग.वामनम्, अपसर्प.प्रणिधिः, पर्युपासन.कर्म, अवमर्दः, लब्ध.प्रशमनम् इति दुर्ग.लम्भ.उपायस्त्रयोदशम् अधिकरणम् । ।
०१.१.१६ । पर.बल.घात.प्रयोगः, प्रलम्भनम्, स्व.बल.उपघात.प्रतीकारः इत्यौपनिषदिकं चतुर्दशम् अधिकरणम् । ।
०१.१.१७ । तन्त्र.युक्तयः इति तन्त्र.युक्तिः पञ्चदशम् अधिकरणम् । ।
०१.१.१८ । शास्त्र.समुद्देशः पञ्चदश.अधिकरणानि साशीति.प्रकरण.शतं सपञ्चाशद्.अध्याय.शतं षट्.श्लोक.सहस्राणिइति । ।
०१.१.१९अ ब । सुख.ग्रहण.विज्ञेयं तत्त्व.अर्थ.पद.निश्चितम् ।
०१.१.१९च्द् । कौटिल्येन कृतं शास्त्रं विमुक्त.ग्रन्थ.विस्तरम् । ।E
(छप्.२, षेच्तिओन्.१ः ऍउमेरतिओनोफ़् थे स्चिएञ्चेस्)
((इ) Eस्तब्लिशिन्ग्(थे नेचेस्सित्योफ़्) फिलोसोफ्य्)
०१.२.०१ । आन्वीक्षिकी त्रयी वार्त्ता दण्ड.नीतिश्चैति विद्याः । ।
०१.२.०२ । त्रयी वार्त्ता दण्ड नीतिश्चैति मानवाः । ।
०१.२.०३ । त्रयी विशेषो ह्यान्वीक्षिकीइति । ।
०१.२.०४ । वार्त्ता दण्ड.नीतिश्चैति बार्हस्पत्याः । ।
०१.२.०५ । संवरण.मात्रं हि त्रयी लोक.यात्रा.विद इति । ।
०१.२.०६ । दण्ड.नीतिरेका विद्याइत्यौशनसाः । ।
०१.२.०७ । तस्यां हि सर्व.विद्या.आरम्भाः प्रतिबद्धा इति । ।
०१.२.०८ । चतस्र एव विद्या इति कौटिल्यः । ।
०१.२.०९ । ताभिर्धर्म.अर्थौ यद्विद्यात्तद्विद्यानां विद्यात्वम् । ।
०१.२.१० । साङ्ख्यं योगो लोकायतं चैत्यान्वीक्षिकी । ।
०१.२.११ । धर्म.अधर्मौ त्रय्याम् अर्थ.अनर्थौ वार्त्तायां नय.अनयौ दण्ड.नीत्यां बल.अबले च एतासां हेतुभिरन्वीक्षमाणा लोकस्य उपकरोति व्यसनेअभ्युदये च बुद्धिम् अवस्थापयति प्रज्ञा.वाक्य.क्रिया.वैशारद्यं च करोति । ।
०१.२.१२अ ब । प्रदीपः सर्व.विद्यानाम् उपायः सर्व.कर्मणाम् ।
०१.२.१२च्द् । आश्रयः सर्व.धर्माणां शश्वदान्वीक्षिकी मता । ।E
(छप्.३, षेच्तिओन्.१, (ई) Eस्तब्लिशिन्ग्(थे नेचेस्सित्योफ़्) थे वेदिच्लोरे)
०१.३.०१ । साम.ऋग्.यजुर्.वेदास्त्रयस्त्रयी । ।
०१.३.०२ । अथर्व.वेद.इतिहास.वेदौ च वेदाः । ।
०१.३.०३ । शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो.विचितिर्ज्योतिषम् इति चाङ्गानि । ।
०१.३.०४ । एष त्रयी.धर्मश्चतुर्णां वर्णानाम् आश्रमाणां च स्व.धर्म.स्थापनादौपकारिकः । ।
०१.३.०५ । स्वधर्मो ब्राह्मणस्य अध्ययनम् अध्यापनं यजनं याजनं दानं प्रतिग्रहश्च । ।
०१.३.०६ । क्षत्रियस्याध्ययनं यजनं दानं शस्त्र.आजीवो भूत.रक्षणं च । ।
०१.३.०७ । वैश्यस्याध्ययनं यजनं दानं कृषि.पाशुपाल्ये वणिज्या च । ।
०१.३.०८ । शूद्रस्य द्विजाति.शुश्रूषा वार्त्ता कारु.कुशीलव.कर्म च । ।
०१.३.०९ । गृहस्थस्य स्वधर्म.आजीवस्तुल्यैरसमान.ऋषिभिर्वैवाह्यम् ऋतु.गामित्वं देव.पित्र्.अतिथि.पूजा भृत्येषु त्यागः शेष.भोजनं च । ।
०१.३.१० । ब्रह्म.चारिणः स्वाध्यायो अग्नि.कार्य.अभिषेकौ भैक्ष.व्रतित्वम् आचार्ये प्राण.अन्तिकी वृत्तिस्तद्.अभावे गुरु.पुत्रे सब्रह्म.चारिणि वा । ।
०१.३.११ । वानप्रस्थस्य ब्रह्मचर्यं भूमौ शय्या जटा.अजिन.धारणम् अग्नि.होत्र.अभिषेकौ देवता.पित्र्.अतिथि.पूजा वन्यश्चऽहारः । ।
०१.३.१२ । परिव्राजकस्य जित.इन्द्रियत्वम् अनारम्भो निष्किञ्चनत्वं सङ्ग.त्यागो भैक्षव्रतम् अनेकत्रारण्ये च वासो बाह्य.आभ्यन्तरं च शौचम् । ।
०१.३.१३ । सर्वेषाम् अहिंसा सत्यं शौचम् अनसूय आनृशंस्यं क्षमा च । ।
०१.३.१४ । स्वधर्मः स्वर्गायऽनन्त्याय च । ।
०१.३.१५ । तस्यातिक्रमे लोकः सङ्करादुच्छिद्येत । ।
०१.३.१६अ ब । तस्मात्स्वधर्मं भूतानां राजा न व्यभिचारयेत् ।
०१.३.१६च्द् । स्वधर्मं सन्दधानो हि प्रेत्य चैह च नन्दति । ।
०१.३.१७अ ब । व्यवस्थित.आर्य.मर्यादः कृत.वर्ण.आश्रम.स्थितिः ।
०१.३.१७च्द् । त्रय्याअभिरक्षितो लोकः प्रसीदति न सीदति । ।E