कौटिलीयम् अर्थशास्त्रम्
/ 73
←

Kautiliyam Arthashastram English (IAST) PDF & Online Reader (kauṭilīyam arthaśāstram)

Kautiliyam Arthashastram (कौटिलीयम् अर्थशास्त्रम्) by Kautilya (Chanakya) (कौटिल्यः (चाणक्यः)) — English (IAST) Text & PDF Download

📜 Last Proofread: 17 Aug 2026
📥 Download English (IAST) PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 17 Aug 2026
📥 Download PDF ♡ Save
🌐 Language & Script English (IAST)
↔️ Text Alignment Center
** कौटिलीय अर्थशास्त्रम् ।** **ओं.नमः.शुक्र.बृहस्पतिभ्याम् ।** ०१.१.०१ ।.पृथिव्या लाभे पालने च यावन्त्यर्थ.शास्त्राणि पूर्व.आचार्यैः प्रस्थापितानि प्रायशस्तानि संहृत्यएकम् इदम् अर्थ.शास्त्रं कृतम् । । ०१.१.०२ । तस्यायं प्रकरण.अधिकरण.समुद्देशः । । ०१.१.०३अ । विद्या.समुद्देशः, वृद्ध.समुद्देशः, इन्द्रिय.जयः, अमात्य.उत्पत्तिः, मन्त्रि.पुरोहित.उत्पत्तिः, उपधाभिः शौच.अशौच.ज्ञानम् अमात्यानाम्, ०१.१.०३ब । गूढ.पुरुष.प्रणिधिः, स्व.विषये कृत्य.अकृत्य.पक्ष.रक्षणम्, पर.विषये कृत्य.अकृत्य.पक्ष.उपग्रहः, ०१.१.०३क । मन्त्र.अधिकारः, दूत.प्रणिधिः, राज.पुत्र.रक्षणम्, अपरुद्ध.वृत्तम्, अपरुद्धे वृत्तिः, राज.प्रणिधिः, निशान्त.प्रणिधिः, आत्म.रक्षितकम्, , इति विनय.अधिकारिकं प्रथमम् अधिकरणम् । । ०१.१.०४अ । जनपद.निवेशः, भूमिच्.छिद्र.अपिधानम्, दुर्ग.विधानम्, दुर्ग.निवेशः, सम्निधातृ.निचय.कर्म, समाहर्तृ.समुदय.प्रस्थापनम्, अक्ष.पटले गाणनिक्य.अधिकारः, ०१.१.०४ब । समुदयस्य युक्त.अपहृतस्य प्रत्यानयनम्, उपयुक्त.परीक्षा, शासन.अधिकारः, कोश.प्रवेश्य.रत्न.परीक्षा, आकर.कर्म.अन्त.प्रवर्तनम्, अक्ष.शालायां सुवर्ण.अध्यक्षः ०१.१.०४क । विशिखायां सौवर्णिक.प्रचारः, कोष्ठ.आगार.अध्यक्षः, पण्य.अध्यक्षः, कुप्य.अध्यक्षः, आयुध.अध्यक्षः, तुला.मान.पौतवम्, ०१.१.०४ड । देश.काल.मानम्, शुल्क.अध्यक्षः, सूत्र.अध्यक्षः, सीत.अध्यक्षः, सुरा.अध्यक्षः, सून.अध्यक्षः, गणिका.अध्यक्षः, ०१.१.०४ए । नाव्.अध्यक्षः, गो.अध्यक्षः, अश्व.अध्यक्षः, हस्त्य्.अध्यक्षः, रथ.अध्यक्षः, पत्त्य्.अध्यक्षः, सेना.पति.प्रचारः, मुद्रा.अध्यक्षः, विवीत.अध्यक्षः, समाहर्तृ.प्रचारः, ०१.१.०४फ़् । गृह.पतिक.वैदेहक.तापस.व्यञ्जनाः प्रणिधयः, नागरिक.प्रणिधिः इत्यध्यक्ष.प्रचारो द्वितीयम् अधिकरणम् । । ०१.१.०५अ । व्यवहार.स्थापना, विवाद.पद.निबन्धः, विवाह.सम्युक्तम्, दाय.विभागः, वास्तुकम्, समयस्य अनपाकर्म, ऋण.अदानम्, औपनिधिकम्, दास.कर्म.कर.कल्पः, ०१.१.०५ब । सम्भूय समुत्थानम्, विक्रीत.क्रीत.अनुशयः, दत्तस्य अनपाकर्म, अस्वामि.विक्रयः, स्व.स्वामि.सम्बन्धः, साहसम्, वाक्.पारुष्यम्, दण्ड.पारुष्यम्, द्यूत.समाह्वयम्, प्रकीर्णकम् इति, धर्म.स्थीयं तृतीयम् अधिकरणम् । । ०१.१.०६अ । कारु.कर.क्षणम्, वैदेहक.रक्षणम्, उपनिपात.प्रतीकारः, गूढ.आजीविनां रक्षा, सिद्ध.व्यञ्जनैर्माणव.प्रकाशनम्, शङ्का.रूप.कर्म.अभिग्रहः, ०१.१.०६ब । आशु.मृतक.परीक्षा, वाक्य.कर्म.अनुयोगः, सर्व.अधिकरण.रक्षणं ०१.१.०६क । एक.अङ्ग.वध.निष्क्रयः, शुद्धश्चित्रश्च दण्ड कल्पः, कन्या.प्रकर्म, अतिचार.दण्डाः इति कण्टक.शोधनं चतुर्थम् अधिकरणम् । । ०१.१.०७ । दाण्डकर्मिकम्, कोश.अभिसंहरणम्, भृत्य.भरणीयम्, अनुजीवि.वृत्तम्, समय.आचारिकम्, राज्य.प्रतिसन्धानम्, एक.ऐश्वर्यम् इति योग.वृत्तं पञ्चमम् अधिकरणम् । । ०१.१.०८ । प्रकृति.सम्पदः, शम.व्यायामिकम् इति मण्डल.योनिः षष्ठम् अधिकरणम् । । ०१.१.०९अ । षाड्गुण्य.समुद्देशः, क्षय.स्थान.वृद्धि.निश्चयः, संश्रय.वृत्तिः, समहीन.ज्यायसां गुण.अभिनिवेशः, हीन.सन्धयः, विगृह्य आसनम्, सन्धाय आसनम्, विगृह्य यानम्, सन्धाय यानम्, ०१.१.०९ब । सम्भूय प्रयाणम्, यातव्य.अमित्रयोरभिग्रह.चिन्ता, क्षय.लोभ.विराग.हेतवः प्रकृतीनाम्, सामवायिक.विपरिमर्शः, ०१.१.०९क । संहित प्रयाणिकम्, परिपणित.अपरिपणित.अपसृताः सन्धयः, द्वैधी.भाविकाः सन्धि.विक्रमाः, यातव्य.वृत्तिः, अनुग्राह्य.मित्र.विशेषाः, ०१.१.०९ड । मित्र.हिरण्य.भूमि.कर्म.सन्धयः, पार्ष्णि.ग्राह.चिन्ता, हीन.शक्ति.पूरणम्, बलवता विगृह्य उपरोध.हेतवः, दण्ड.उपनत.वृत्तम्, ०१.१.०९ए । दण्ड.उपनायि.वृत्तम्, सन्धि.कर्म, समाधि.मोक्षः, मध्यम.चरितम्, उदासीन.चरितम्, मण्डल.चरितम् इति षाड्गुण्यं सप्तमम् अधिकरणम् । । ०१.१.१० । प्रकृति.व्यसन.वर्गः, राज.राज्ययोर्व्यसन.चिन्ता, पुरुष.व्यसन.वर्गः, पीडन.वर्गः, स्तम्भ.वर्गः, कोश.सङ्ग.वर्गः, मित्र.व्यसन.वर्गः इति व्यसन.आधिकारिकम् अष्टमम् अधिकरणम् । । ०१.१.११अ । शक्ति.देश.काल.बल.अबल.ज्ञानम्, यात्रा.कालाः, बल.उपादान.कालाः, सम्नाह.गुणाः, प्रतिबल.कर्म, पश्चात्कोप.चिन्ता, बाह्य.आभ्यन्तर.प्रकृति.कोप.प्रतीकाराः ०१.१.११ब । क्षय.व्यय.लाभ.विपरिमर्शः, बाह्य.आभ्यन्तराश्चऽपदः, दुष्य.शत्रु.सम्युक्ताः, अर्थ.अनर्थ.संशय.युक्ताः, तासाम् उपाय.विकल्पजाः सिद्धयः इत्यभियास्यत्कर्म नवमम् अधिकरणम् । । ०१.१.१२ । स्कन्ध.आवार.निवेशः, स्कन्ध.आवार.प्रयाणम्, बल.व्यसन.अवस्कन्द.काल.रक्षणम्, कूट.युद्ध.विकल्पाः, स्व.सैन्य.उत्साहनम्, स्व.बल.अन्य.बल.व्यायोगः, युद्ध.भूमयः, पत्त्य्.अश्व.रथ.हस्ति.कर्माणि, पक्ष.कक्ष.उरस्यानां बल.अग्रतो व्यूह.विभागः, सार.फल्गु.बल.विभागः, पत्त्य्.अश्व.रथ.हस्ति.युद्धानि, दण्ड.भोग.मण्डल.असंहत.व्यूह.व्यूहनम्, तस्य प्रतिव्यूह.स्थापनम् इति साङ्ग्रामिकं दशमम् अधिकरणम् । । ०१.१.१३ । भेद.उपादानानि, उपांशु.दण्डाः इति सङ्घ.वृत्तम् एकादशम् अधिकरणम् । । ०१.१.१४ । दूत.कर्म, मन्त्र.युद्धम्, सेना.मुख्य.वधः, मण्डल.प्रोत्साहनम्, शस्त्र.अग्नि.रस.प्रणिधयः, वीवध.आसार.प्रसार.वधः, योग.अतिसन्धानम्, दण्ड.अतिसन्धानम्, एक.विजयः इत्याबलीयसं द्वादशम् अधिकरणम् । । ०१.१.१५ । उपजापः, योग.वामनम्, अपसर्प.प्रणिधिः, पर्युपासन.कर्म, अवमर्दः, लब्ध.प्रशमनम् इति दुर्ग.लम्भ.उपायस्त्रयोदशम् अधिकरणम् । । ०१.१.१६ । पर.बल.घात.प्रयोगः, प्रलम्भनम्, स्व.बल.उपघात.प्रतीकारः इत्यौपनिषदिकं चतुर्दशम् अधिकरणम् । । ०१.१.१७ । तन्त्र.युक्तयः इति तन्त्र.युक्तिः पञ्चदशम् अधिकरणम् । । ०१.१.१८ । शास्त्र.समुद्देशः पञ्चदश.अधिकरणानि साशीति.प्रकरण.शतं सपञ्चाशद्.अध्याय.शतं षट्.श्लोक.सहस्राणिइति । । ०१.१.१९अ ब । सुख.ग्रहण.विज्ञेयं तत्त्व.अर्थ.पद.निश्चितम् । ०१.१.१९च्द् । कौटिल्येन कृतं शास्त्रं विमुक्त.ग्रन्थ.विस्तरम् । ।E (छप्.२, षेच्तिओन्.१ः ऍउमेरतिओनोफ़् थे स्चिएञ्चेस्) ((इ) Eस्तब्लिशिन्ग्(थे नेचेस्सित्योफ़्) फिलोसोफ्य्) ०१.२.०१ । आन्वीक्षिकी त्रयी वार्त्ता दण्ड.नीतिश्चैति विद्याः । । ०१.२.०२ । त्रयी वार्त्ता दण्ड नीतिश्चैति मानवाः । । ०१.२.०३ । त्रयी विशेषो ह्यान्वीक्षिकीइति । । ०१.२.०४ । वार्त्ता दण्ड.नीतिश्चैति बार्हस्पत्याः । । ०१.२.०५ । संवरण.मात्रं हि त्रयी लोक.यात्रा.विद इति । । ०१.२.०६ । दण्ड.नीतिरेका विद्याइत्यौशनसाः । । ०१.२.०७ । तस्यां हि सर्व.विद्या.आरम्भाः प्रतिबद्धा इति । । ०१.२.०८ । चतस्र एव विद्या इति कौटिल्यः । । ०१.२.०९ । ताभिर्धर्म.अर्थौ यद्विद्यात्तद्विद्यानां विद्यात्वम् । । ०१.२.१० । साङ्ख्यं योगो लोकायतं चैत्यान्वीक्षिकी । । ०१.२.११ । धर्म.अधर्मौ त्रय्याम् अर्थ.अनर्थौ वार्त्तायां नय.अनयौ दण्ड.नीत्यां बल.अबले च एतासां हेतुभिरन्वीक्षमाणा लोकस्य उपकरोति व्यसनेअभ्युदये च बुद्धिम् अवस्थापयति प्रज्ञा.वाक्य.क्रिया.वैशारद्यं च करोति । । ०१.२.१२अ ब । प्रदीपः सर्व.विद्यानाम् उपायः सर्व.कर्मणाम् । ०१.२.१२च्द् । आश्रयः सर्व.धर्माणां शश्वदान्वीक्षिकी मता । ।E (छप्.३, षेच्तिओन्.१, (ई) Eस्तब्लिशिन्ग्(थे नेचेस्सित्योफ़्) थे वेदिच्लोरे) ०१.३.०१ । साम.ऋग्.यजुर्.वेदास्त्रयस्त्रयी । । ०१.३.०२ । अथर्व.वेद.इतिहास.वेदौ च वेदाः । । ०१.३.०३ । शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो.विचितिर्ज्योतिषम् इति चाङ्गानि । । ०१.३.०४ । एष त्रयी.धर्मश्चतुर्णां वर्णानाम् आश्रमाणां च स्व.धर्म.स्थापनादौपकारिकः । । ०१.३.०५ । स्वधर्मो ब्राह्मणस्य अध्ययनम् अध्यापनं यजनं याजनं दानं प्रतिग्रहश्च । । ०१.३.०६ । क्षत्रियस्याध्ययनं यजनं दानं शस्त्र.आजीवो भूत.रक्षणं च । । ०१.३.०७ । वैश्यस्याध्ययनं यजनं दानं कृषि.पाशुपाल्ये वणिज्या च । । ०१.३.०८ । शूद्रस्य द्विजाति.शुश्रूषा वार्त्ता कारु.कुशीलव.कर्म च । । ०१.३.०९ । गृहस्थस्य स्वधर्म.आजीवस्तुल्यैरसमान.ऋषिभिर्वैवाह्यम् ऋतु.गामित्वं देव.पित्र्.अतिथि.पूजा भृत्येषु त्यागः शेष.भोजनं च । । ०१.३.१० । ब्रह्म.चारिणः स्वाध्यायो अग्नि.कार्य.अभिषेकौ भैक्ष.व्रतित्वम् आचार्ये प्राण.अन्तिकी वृत्तिस्तद्.अभावे गुरु.पुत्रे सब्रह्म.चारिणि वा । । ०१.३.११ । वानप्रस्थस्य ब्रह्मचर्यं भूमौ शय्या जटा.अजिन.धारणम् अग्नि.होत्र.अभिषेकौ देवता.पित्र्.अतिथि.पूजा वन्यश्चऽहारः । । ०१.३.१२ । परिव्राजकस्य जित.इन्द्रियत्वम् अनारम्भो निष्किञ्चनत्वं सङ्ग.त्यागो भैक्षव्रतम् अनेकत्रारण्ये च वासो बाह्य.आभ्यन्तरं च शौचम् । । ०१.३.१३ । सर्वेषाम् अहिंसा सत्यं शौचम् अनसूय आनृशंस्यं क्षमा च । । ०१.३.१४ । स्वधर्मः स्वर्गायऽनन्त्याय च । । ०१.३.१५ । तस्यातिक्रमे लोकः सङ्करादुच्छिद्येत । । ०१.३.१६अ ब । तस्मात्स्वधर्मं भूतानां राजा न व्यभिचारयेत् । ०१.३.१६च्द् । स्वधर्मं सन्दधानो हि प्रेत्य चैह च नन्दति । । ०१.३.१७अ ब । व्यवस्थित.आर्य.मर्यादः कृत.वर्ण.आश्रम.स्थितिः । ०१.३.१७च्द् । त्रय्याअभिरक्षितो लोकः प्रसीदति न सीदति । ।E
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 17 Aug 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine