कर्णभारम्
/ 2
←

Karnabharam Tamil PDF & Online Reader (கர்ணபா⁴ரம்)

Karnabharam (कर्णभारम्) by भासः — Tamil Text & PDF Download

📜 Last Proofread: 13 Sep 2026
📥 Download Tamil PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 13 Sep 2026
📥 Download PDF ♡ Save
🌐 Language & Script தமிழ்
↔️ Text Alignment Center
॥ श्रीः ॥ भासनाटकचक्रे कर्णभारम् । (नान्द्यन्ते ततः प्रविशति सूत्रधारः ।) सूत्रधारः — नरमृगपतिवर्ष्मालोकनभ्रान्तनारी- नरदनुजसु१पर्वत्रातपाताललोकः । करजकुलिशपालीभिन्नदैत्येन्द्रवक्षाः सुररिपुबलहन्ता श्रीधरोऽस्तु श्रिये वः ॥ १ ॥ एवमार्यमिश्रान्विज्ञापयामि । (परिक्रम्य, कर्णं दत्वा ।) अये किं नु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि । (नेपथ्ये) भो भो ! निवेद्यतां निवेद्यतां महाराजायाङ्गेश्वराय । सूत्रधारः — भवतु विज्ञातम् । सङ्ग्रामे तुमुले जाते कर्णाय कलिताञ्जलिः । निवेदयति सम्भ्रान्तो भृत्यो दुर्योधनाज्ञया ॥ २ ॥ (निष्क्रान्तः ।) प्रस्तावना । (ततः प्रविशति भटः ।) भटः — भो भोः ! निवेद्यतां निवेद्यतां महाराजायाङ्गेश्वराय युद्धकाल उपस्थित इति । करितुरगरथस्थैः पार्थकेतोः पुरस्तात् मुदितनृपतिसिंहैः सिंहनादः कृतोऽद्य । त्वरितमरिनिनादैर्दुस्स१हालोकवीरः समरम२धिगतार्थः प्रस्थितो नागकेतुः ॥ ३ ॥ (परिक्रम्य विलोक्य) अये अयमगङ्गराजः समरपरिच्छदपरिवृतः शल्यराजेन सह स्वभवनान्निष्क्रम्येत एवाभिवर्तते । भोः ! किं नु खलु युद्धोत्सवप्रमुखस्य दृष्टपराक्रमस्याभूतपूर्वो हृदयपरितापः । एष हि अत्युग्रदीप्तिविशदः समरेऽग्रगण्यः शौर्ये च सम्प्रति सशोकमुपैति धीमान् । प्राप्ते निदाघसमये घनराशिरुद्धः सूर्यः स्वभावरुचिमानिव भाति कर्णः ॥ ४ ॥ यावदपसर्पामि ।(निष्क्रान्तः ।) (ततः प्रविशति यथानिर्दिष्टः कर्णः शल्यश्च ।) कर्णः — मा तावन्मम शरमार्गलक्षभूताः सं३प्राप्ताः क्षितिपतयः सजीवशेषाः । कर्तव्यं रणशिरसि प्रियं कुरूणां द्रष्टव्यो यदि स भवेद्धनञ्जयो मे ॥ ५ ॥ शल्यराज ! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः । शल्यः — बाढम् ।(चोदयति ।) कर्णः — अहो नु खलु अन्योन्यशस्त्रविनिपातनिकृत्तगात्र- यौधाश्ववारणरथेषु महाहवेषु । क्रुद्धान्तकप्रतिमविक्रमिणो ममापि वैधुर्यमापतति चेतसि युद्धकाले ॥ ६ ॥ भोः कष्टम् । पूर्वं कुन्त्यां समुत्पन्नो राधेय इति विश्रुतः । युधिष्ठिरादयस्ते मे यवीयांसस्तु पाण्डवाः ॥ ७ ॥ अयं स कालः क्रमलब्धशोभनो गुणप्रकर्षो दिवसोऽयमागतः । निर१र्थमस्त्रं च मयाहि शिक्षितं पुनश्च मातुर्वचनेन वारितः ॥ ८ ॥ भोः शल्यराज श्रूयतां ममास्त्रस्य वृत्तान्तः । शल्यः — ममाप्यस्ति कौतूहमेनं वृत्तान्तं श्रोतुम् । कर्णः — पूर्वमेवाहं जामदग्न्यस्य सकाशं गतवानस्मि । शल्यः — ततस्ततः । कर्णः — ततः, विद्युल्लताकपिलतुङ्गजटाकलाप- मुद्यत्प्रभावलयिनं परशुं दधानम् । क्षत्रान्तकं मुनिवरं भृगुवंशकेतुं गत्वा प्रणम्य निकटे निभृतः स्थितोऽस्मि ॥ ९ ॥ शल्यः — ततस्ततः । कर्णः — ततो जमदग्निनो२ ममाशीर्वचनं दत्वा पृष्टोऽस्मि । को भवान् किमर्थमिहागत इति । शल्यः — ततस्ततः । कर्णः — ततः भगवन् अखिलान्यस्त्राण्युपशिक्षितुमिच्छामीत्युक्तवानस्मि । शल्यः — ततस्ततः । कर्णः — ततः उक्तोऽहं भगवता ब्राह्मणेषूपदेशं करिष्यामि न क्षत्रियाणामिति । शल्यः — अस्ति खलु भगवतः क्षत्रियवंश्यैः पूर्ववैरम् । ततस्ततः । कर्णः — ततो नाहं क्षत्रिय इत्यस्त्रोपदेशं ग्रहीतुमारब्धं१ मया । शल्यः — ततस्ततः । कर्णः — ततः कतिपयकालातिक्रमे कदाचित्फलमूलसमित्कुशकुसुमाहरणाय गतवता गुरुणा सहानुगतोऽस्मि । शल्यः — ततस्ततः । कर्णः — ततः स गुरुर्वनभ्रमणपरिश्रमान्मदङ्के निद्रावशमुपगतः । शल्यः — ततस्ततः । कर्णः — ततः कृत्ते वज्रमुखेन नाम कृमिणा दैवान्ममोरुद्वये निद्राच्छेदभयादसह्यत गुरोधैर्यात्तदा वेदना । उत्थाय क्षतजाप्लुतः स सहसा रोषानलोद्दीपितो बुध्वा मां च शशाप कालविफलान्यस्त्राणि ते सन्त्विति ॥ १० ॥ शल्यः — अहो कष्टमभिहितं तत्रभवता । कर्णः — परीक्षामहे तावदस्त्रस्य वृत्तान्तम् ।(तथा कृत्वा) एतान्यस्त्राणि निर्वीर्याणीव लक्ष्यन्ते । अपि च । इमे हि दैन्येन निमीलितेक्षणा मुहुः स्खलन्तो विवशास्तुरङ्गमाः । गजाश्च सप्तच्छददानगन्धिनो निवेदयन्तीव रणे निवर्तनम् ॥ ११ ॥ शङ्खदुन्दुभयश्च निःशब्दाः । शल्यः — भोः कष्टं किं नु खल्विदम् । कर्णः — शल्यराज ! अलमलं विषादेन । हतोऽपि लभते स्वर्गं जित्वा तु लभते यशः । उभे बहुमते लोके नास्ति निष्फलता रणे ॥ १२ ॥ अपि च इमे हि युद्धेष्वनिवर्तिताशा हयाः सुपर्णेन समानवेगाः । श्रीमत्सु काम्बोजकुलेषु जाताः रक्षन्तु१मां यद्यपि रक्षितव्यम् ॥ १३ ॥ अक्षयोऽस्तु गोब्राह्मणानाम् अक्षयोऽस्तु पतित्रतानाम् । अक्षयोऽस्तु रणेष्वपराङ्मुखानां यौधपुरुषाणाम् । अक्षयोऽस्तु मम प्राप्तकालस्य । एष भोः प्रसन्नोऽस्मि । समरमुखमसह्यं पाण्डवानां प्रविश्य प्रथितगुणगणाढयं धर्मराजं च बद्ध्वा । मम शरवरवेगैरर्जुनं पातयित्वा वनमिव हतासिंहं सुप्रवेशं करोमि ॥ १४ ॥ शल्यराज ! यावद्रथमारोहावः । शल्यः — बाढम् । (उभौ रथारोहणं नाटयतः ।) कर्णः — शल्यराज ! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः । (नेपथ्ये) भो कण्ण ! महत्तरं भिक्खं याचेमि । भोः कर्ण ! महत्तरां भिक्षां याचे । कर्णः — (आकर्ण्य) अये वीर्यवान् शब्दः । श्रीमानेष न केवलं द्विजवरो यस्मात्प्रभावो महा- नाकर्ण्य स्वरमस्य धीरनिन१दं चित्रार्पिताङ्गा इव । उत्कर्णस्तिभिताञ्चिताक्षवलितग्रीवार्पिताग्रानना- स्तिष्ठन्त्यस्ववशाङ्गयष्टि सहसा यान्तो ममैते हयाः ॥ १५ ॥ आहूयतां स विप्रः । न न । अहमेवाह्वयाभि । भगवन्नित इतः । (ततः प्रविशति ब्राह्मणरूपेण शक्रः ।) शक्रः — भो मेघाः ! सूर्येणैव निवर्त्य गच्छन्तु भवन्तः ।(कर्णमुपगम्य) भो कण्ण ! महत्तरं भिक्खं याचेमि । भोः कर्ण ! महत्तरां भिक्षां याचे । कर्णः — दृढं प्रीतोऽस्मि भगवन् ! यातः कृतार्थगणनामहमद्य लोके राजेन्द्रमौलिमणिरञ्जितपादपद्मः । विप्रेन्द्रपादरजसा तु पवित्रमौलिः कर्णो भवन्तमहमेष नमस्करोमि ॥ १६ ॥ शक्रः — (आत्मगतम्) किं नु खलु मया वक्तव्यं, यदि दीर्घायुभवेति वक्ष्ये दीर्घायुर्भविष्यति । यदि न वक्ष्ये मूढ इति मां परिभवति । तस्मादुभयं परिहृत्य किं नु खलु वक्ष्यामि । भवतु दृष्टम् । (प्रकाशम्)धीरमधुरम् । भो कण्ण ! सुय्ये विअ, चन्दे विअ, हिमवन्ते विअ, सागळे विअ, चिट्ठदु दे जसो । भोः कर्ण ! सूर्य इव, चन्द्र इव, हिमवान् इव, सागर इव तिष्ठतु ते यशः । कर्णः — भगवन् ! किं न वक्तव्यं दीर्घायुर्भवेति । अथवा एतदेव शोभनम् । कुतः - धर्मो हि यत्नैः पुरुषेण साध्यो भुजङ्गजिह्वाचपला नृपश्रियः । तस्मात्प्रजापालनमात्रबुध्या हतेषु देहेषु गुणा धरन्ते ॥ १७ ॥ भगवन्, किमिच्छसि । किमहं ददामि । शक्रः — महत्तरं भिक्खं याचेमि । महत्तरां भिक्षां याचे । कर्णः — महत्तरां भिक्षां भवते प्रदास्ये । श्रूयन्तां मद्विभवाः । गुणवदमृतकल्पक्षीरधाराभिवर्षि द्विजवर ! रुचितं ते तृप्तवत्सानुया१त्रम् । तरुणमधिकमर्थिप्रार्थनीयं पवित्रं विहितकनकशृङ्गं गोसहस्रं ददामि ॥ १८ ॥ शक्रः — गोसहस्सं त्ति । मुहुत्तअं खिरं पिबामि । णेच्छामि कण्ण ! णेच्छामि । गोसहस्रमिति । मुहूर्तकं क्षीरं पिबामि । नेच्छामि कर्ण ! नेच्छामि । कर्णः — किं नेच्छति भवान् । इदमपि श्रूयताम् । रवितुरगसमानं साधनं राजलक्ष्म्याः सकलनृपतिमान्यं मान्यकाम्बोजजातम् । सुगुणमनिलवेगं युद्धदृष्टापदानं सपदि बहु सहस्रं वाजिनां ते ददामि ॥ १९ ॥ शक्रः — अस्स त्ति । मुहुत्तअमाळुहामि । णेच्छामि कण्ण ! णेच्छामि । अश्व इति । मुहूर्तकमारोहामि । नेच्छामि कर्णं ! नेच्छामि । कर्णः — किं नेच्छति भगवान् । अन्यदपि श्रूयताम् । मदसरितकपोलं षट्पदैः सेव्यमानं गिरिवरनिचयाभं मेघगम्भीरघोषम् । सितनखदशनानां वारणानामनेकं रिपुसमरविमर्दं वृन्दमेतद्ददामि ॥ २० ॥ शक्रः — गअ अत्ति । मुहुत्तअमाळुहामि । णेच्छामि कण्ण !णेच्छामि । गज इति । मुहूर्तकमारोहामि । नेच्छामि कर्ण ! नेच्छामि । कर्णः — किं नेच्छति भवान् । अन्यदपि श्रूयताम् । अपर्याप्तं कनकं ददामि । शक्रः — गहिअ गच्छामि ।(किञ्चिद्गत्वा) णेच्छामि कण्ण ! णेच्छामि । गृहीत्वा गच्छामि । नेच्छामि कर्ण ! नेच्छामि । कर्णः — तेन हि जित्वा पृथिवीं ददामि । शक्रः — पुहुवीए किं करिस्सम् । पृथिव्या किं करिष्यामि । कर्णः — तेन ह्यग्निष्टोमफलं ददामि । शक्रः — अग्गिट्टोमफळेण किं कय्यम् । अग्निष्टोमफलेन किं कार्यम् । कर्णः — तेन हि मच्छरो ददामि । शक्रः — अविहा अविहा । अविहा अविहा । कर्णः — न भेतव्यं न भेतव्यम् । प्रसीदतु भवान् । अन्यदपि श्रूयताम् । अङ्गैः सहैव जनितं मम देहरक्षा देवासुरैरपि न भेद्यमिदं सहास्त्रैः । देयं तथापि कवचं सह कुण्डलाभ्यां प्रीत्या मया भग१वते रुचितं यदि स्यात् ॥ २१ ॥ शक्रः — (सहर्षम् ।) देदु, देदु । ददातु ददातु । कर्णः — (आत्मगतम्) एष एवास्य कामः । किं नु खल्वनेककपटबुद्धेः कृष्णस्योपायः । सोऽपि भवतु । धिगयुक्तमनुशोचितुम् । नास्ति संशयः । (प्रकाशम्) गृह्यताम् । शल्यः — अङ्गराज ! न दातव्यं न दातव्यम् । कर्णः — शल्यराज ! अलमलं वारयितुम् । पश्य शिक्षा क्षयं गच्छति कालपर्ययात् सुबद्धमूला निपतन्ति पादपाः । जलं जलस्थानगतं च शुष्यति हुतं च दत्तं च तथैव तिष्ठति ॥ २२ ॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 13 Sep 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine