॥ श्रीः ॥
भासनाटकचक्रे
कर्णभारम् ।
(नान्द्यन्ते ततः प्रविशति सूत्रधारः ।)
सूत्रधारः —
नरमृगपतिवर्ष्मालोकनभ्रान्तनारी-
नरदनुजसु१पर्वत्रातपाताललोकः ।
करजकुलिशपालीभिन्नदैत्येन्द्रवक्षाः
सुररिपुबलहन्ता श्रीधरोऽस्तु श्रिये वः ॥ १ ॥
एवमार्यमिश्रान्विज्ञापयामि । (परिक्रम्य, कर्णं दत्वा ।) अये किं नु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि ।
(नेपथ्ये)
भो भो ! निवेद्यतां निवेद्यतां महाराजायाङ्गेश्वराय ।
सूत्रधारः —
भवतु विज्ञातम् ।
सङ्ग्रामे तुमुले जाते कर्णाय कलिताञ्जलिः ।
निवेदयति सम्भ्रान्तो भृत्यो दुर्योधनाज्ञया ॥ २ ॥
(निष्क्रान्तः ।)
प्रस्तावना ।
(ततः प्रविशति भटः ।)
भटः —
भो भोः ! निवेद्यतां निवेद्यतां महाराजायाङ्गेश्वराय युद्धकाल उपस्थित इति ।
करितुरगरथस्थैः पार्थकेतोः पुरस्तात्
मुदितनृपतिसिंहैः सिंहनादः कृतोऽद्य ।
त्वरितमरिनिनादैर्दुस्स१हालोकवीरः
समरम२धिगतार्थः प्रस्थितो नागकेतुः ॥ ३ ॥
(परिक्रम्य विलोक्य) अये अयमगङ्गराजः समरपरिच्छदपरिवृतः शल्यराजेन सह स्वभवनान्निष्क्रम्येत एवाभिवर्तते । भोः ! किं नु खलु युद्धोत्सवप्रमुखस्य दृष्टपराक्रमस्याभूतपूर्वो हृदयपरितापः । एष हि
अत्युग्रदीप्तिविशदः समरेऽग्रगण्यः
शौर्ये च सम्प्रति सशोकमुपैति धीमान् ।
प्राप्ते निदाघसमये घनराशिरुद्धः
सूर्यः स्वभावरुचिमानिव भाति कर्णः ॥ ४ ॥
यावदपसर्पामि ।(निष्क्रान्तः ।)
(ततः प्रविशति यथानिर्दिष्टः कर्णः शल्यश्च ।)
कर्णः —
मा तावन्मम शरमार्गलक्षभूताः
सं३प्राप्ताः क्षितिपतयः सजीवशेषाः ।
कर्तव्यं रणशिरसि प्रियं कुरूणां
द्रष्टव्यो यदि स भवेद्धनञ्जयो मे ॥ ५ ॥
शल्यराज ! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः ।
शल्यः —
बाढम् ।(चोदयति ।)
कर्णः —
अहो नु खलु
अन्योन्यशस्त्रविनिपातनिकृत्तगात्र-
यौधाश्ववारणरथेषु महाहवेषु ।
क्रुद्धान्तकप्रतिमविक्रमिणो ममापि
वैधुर्यमापतति चेतसि युद्धकाले ॥ ६ ॥
भोः कष्टम् ।
पूर्वं कुन्त्यां समुत्पन्नो राधेय इति विश्रुतः ।
युधिष्ठिरादयस्ते मे यवीयांसस्तु पाण्डवाः ॥ ७ ॥
अयं स कालः क्रमलब्धशोभनो
गुणप्रकर्षो दिवसोऽयमागतः ।
निर१र्थमस्त्रं च मयाहि शिक्षितं
पुनश्च मातुर्वचनेन वारितः ॥ ८ ॥
भोः शल्यराज श्रूयतां ममास्त्रस्य वृत्तान्तः ।
शल्यः —
ममाप्यस्ति कौतूहमेनं वृत्तान्तं श्रोतुम् ।
कर्णः —
पूर्वमेवाहं जामदग्न्यस्य सकाशं गतवानस्मि ।
शल्यः —
ततस्ततः ।
कर्णः —
ततः,
विद्युल्लताकपिलतुङ्गजटाकलाप-
मुद्यत्प्रभावलयिनं परशुं दधानम् ।
क्षत्रान्तकं मुनिवरं भृगुवंशकेतुं
गत्वा प्रणम्य निकटे निभृतः स्थितोऽस्मि ॥ ९ ॥
शल्यः —
ततस्ततः ।
कर्णः —
ततो जमदग्निनो२ ममाशीर्वचनं दत्वा पृष्टोऽस्मि । को भवान् किमर्थमिहागत इति ।
शल्यः —
ततस्ततः ।
कर्णः —
ततः भगवन् अखिलान्यस्त्राण्युपशिक्षितुमिच्छामीत्युक्तवानस्मि ।
शल्यः —
ततस्ततः ।
कर्णः —
ततः उक्तोऽहं भगवता ब्राह्मणेषूपदेशं करिष्यामि न क्षत्रियाणामिति ।
शल्यः —
अस्ति खलु भगवतः क्षत्रियवंश्यैः पूर्ववैरम् । ततस्ततः ।
कर्णः —
ततो नाहं क्षत्रिय इत्यस्त्रोपदेशं ग्रहीतुमारब्धं१ मया ।
शल्यः —
ततस्ततः ।
कर्णः —
ततः कतिपयकालातिक्रमे कदाचित्फलमूलसमित्कुशकुसुमाहरणाय गतवता गुरुणा सहानुगतोऽस्मि ।
शल्यः —
ततस्ततः ।
कर्णः —
ततः स गुरुर्वनभ्रमणपरिश्रमान्मदङ्के निद्रावशमुपगतः ।
शल्यः —
ततस्ततः ।
कर्णः —
ततः
कृत्ते वज्रमुखेन नाम कृमिणा दैवान्ममोरुद्वये
निद्राच्छेदभयादसह्यत गुरोधैर्यात्तदा वेदना ।
उत्थाय क्षतजाप्लुतः स सहसा रोषानलोद्दीपितो
बुध्वा मां च शशाप कालविफलान्यस्त्राणि ते सन्त्विति ॥ १० ॥
शल्यः —
अहो कष्टमभिहितं तत्रभवता ।
कर्णः —
परीक्षामहे तावदस्त्रस्य वृत्तान्तम् ।(तथा कृत्वा) एतान्यस्त्राणि निर्वीर्याणीव लक्ष्यन्ते । अपि च ।
इमे हि दैन्येन निमीलितेक्षणा
मुहुः स्खलन्तो विवशास्तुरङ्गमाः ।
गजाश्च सप्तच्छददानगन्धिनो
निवेदयन्तीव रणे निवर्तनम् ॥ ११ ॥
शङ्खदुन्दुभयश्च निःशब्दाः ।
शल्यः —
भोः कष्टं किं नु खल्विदम् ।
कर्णः —
शल्यराज ! अलमलं विषादेन ।
हतोऽपि लभते स्वर्गं जित्वा तु लभते यशः ।
उभे बहुमते लोके नास्ति निष्फलता रणे ॥ १२ ॥
अपि च
इमे हि युद्धेष्वनिवर्तिताशा
हयाः सुपर्णेन समानवेगाः ।
श्रीमत्सु काम्बोजकुलेषु जाताः
रक्षन्तु१मां यद्यपि रक्षितव्यम् ॥ १३ ॥
अक्षयोऽस्तु गोब्राह्मणानाम् अक्षयोऽस्तु पतित्रतानाम् । अक्षयोऽस्तु रणेष्वपराङ्मुखानां यौधपुरुषाणाम् । अक्षयोऽस्तु मम प्राप्तकालस्य । एष भोः प्रसन्नोऽस्मि ।
समरमुखमसह्यं पाण्डवानां प्रविश्य
प्रथितगुणगणाढयं धर्मराजं च बद्ध्वा ।
मम शरवरवेगैरर्जुनं पातयित्वा
वनमिव हतासिंहं सुप्रवेशं करोमि ॥ १४ ॥
शल्यराज ! यावद्रथमारोहावः ।
शल्यः —
बाढम् ।
(उभौ रथारोहणं नाटयतः ।)
कर्णः —
शल्यराज ! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः ।
(नेपथ्ये)
भो कण्ण ! महत्तरं भिक्खं याचेमि । भोः कर्ण ! महत्तरां भिक्षां याचे ।
कर्णः —
(आकर्ण्य) अये वीर्यवान् शब्दः ।
श्रीमानेष न केवलं द्विजवरो यस्मात्प्रभावो महा-
नाकर्ण्य स्वरमस्य धीरनिन१दं चित्रार्पिताङ्गा इव ।
उत्कर्णस्तिभिताञ्चिताक्षवलितग्रीवार्पिताग्रानना-
स्तिष्ठन्त्यस्ववशाङ्गयष्टि सहसा यान्तो ममैते हयाः ॥ १५ ॥
आहूयतां स विप्रः । न न । अहमेवाह्वयाभि । भगवन्नित इतः ।
(ततः प्रविशति ब्राह्मणरूपेण शक्रः ।)
शक्रः —
भो मेघाः ! सूर्येणैव निवर्त्य गच्छन्तु भवन्तः ।(कर्णमुपगम्य) भो कण्ण ! महत्तरं भिक्खं याचेमि । भोः कर्ण ! महत्तरां भिक्षां याचे ।
कर्णः —
दृढं प्रीतोऽस्मि भगवन् !
यातः कृतार्थगणनामहमद्य लोके
राजेन्द्रमौलिमणिरञ्जितपादपद्मः ।
विप्रेन्द्रपादरजसा तु पवित्रमौलिः
कर्णो भवन्तमहमेष नमस्करोमि ॥ १६ ॥
शक्रः —
(आत्मगतम्) किं नु खलु मया वक्तव्यं, यदि दीर्घायुभवेति वक्ष्ये दीर्घायुर्भविष्यति । यदि न वक्ष्ये मूढ इति मां परिभवति । तस्मादुभयं परिहृत्य किं नु खलु वक्ष्यामि । भवतु दृष्टम् । (प्रकाशम्)धीरमधुरम् ।
भो कण्ण ! सुय्ये विअ, चन्दे विअ, हिमवन्ते विअ, सागळे विअ, चिट्ठदु दे जसो । भोः कर्ण ! सूर्य इव, चन्द्र इव, हिमवान् इव, सागर इव तिष्ठतु ते यशः ।
कर्णः —
भगवन् ! किं न वक्तव्यं दीर्घायुर्भवेति । अथवा एतदेव शोभनम् । कुतः -
धर्मो हि यत्नैः पुरुषेण साध्यो भुजङ्गजिह्वाचपला नृपश्रियः ।
तस्मात्प्रजापालनमात्रबुध्या हतेषु देहेषु गुणा धरन्ते ॥ १७ ॥
भगवन्, किमिच्छसि । किमहं ददामि ।
शक्रः —
महत्तरं भिक्खं याचेमि । महत्तरां भिक्षां याचे ।
कर्णः —
महत्तरां भिक्षां भवते प्रदास्ये । श्रूयन्तां मद्विभवाः ।
गुणवदमृतकल्पक्षीरधाराभिवर्षि द्विजवर ! रुचितं ते तृप्तवत्सानुया१त्रम् । तरुणमधिकमर्थिप्रार्थनीयं पवित्रं विहितकनकशृङ्गं गोसहस्रं ददामि ॥ १८ ॥
शक्रः —
गोसहस्सं त्ति । मुहुत्तअं खिरं पिबामि । णेच्छामि कण्ण ! णेच्छामि । गोसहस्रमिति । मुहूर्तकं क्षीरं पिबामि । नेच्छामि कर्ण ! नेच्छामि ।
कर्णः —
किं नेच्छति भवान् । इदमपि श्रूयताम् ।
रवितुरगसमानं साधनं राजलक्ष्म्याः सकलनृपतिमान्यं मान्यकाम्बोजजातम् । सुगुणमनिलवेगं युद्धदृष्टापदानं सपदि बहु सहस्रं वाजिनां ते ददामि ॥ १९ ॥
शक्रः —
अस्स त्ति । मुहुत्तअमाळुहामि । णेच्छामि कण्ण ! णेच्छामि । अश्व इति । मुहूर्तकमारोहामि । नेच्छामि कर्णं ! नेच्छामि ।
कर्णः —
किं नेच्छति भगवान् । अन्यदपि श्रूयताम् ।
मदसरितकपोलं षट्पदैः सेव्यमानं
गिरिवरनिचयाभं मेघगम्भीरघोषम् ।
सितनखदशनानां वारणानामनेकं
रिपुसमरविमर्दं वृन्दमेतद्ददामि ॥ २० ॥
शक्रः —
गअ अत्ति । मुहुत्तअमाळुहामि । णेच्छामि कण्ण !णेच्छामि । गज इति । मुहूर्तकमारोहामि । नेच्छामि कर्ण ! नेच्छामि ।
कर्णः —
किं नेच्छति भवान् । अन्यदपि श्रूयताम् । अपर्याप्तं कनकं ददामि ।
शक्रः —
गहिअ गच्छामि ।(किञ्चिद्गत्वा) णेच्छामि कण्ण ! णेच्छामि । गृहीत्वा गच्छामि । नेच्छामि कर्ण ! नेच्छामि ।
कर्णः —
तेन हि जित्वा पृथिवीं ददामि ।
शक्रः —
पुहुवीए किं करिस्सम् । पृथिव्या किं करिष्यामि ।
कर्णः —
तेन ह्यग्निष्टोमफलं ददामि ।
शक्रः —
अग्गिट्टोमफळेण किं कय्यम् । अग्निष्टोमफलेन किं कार्यम् ।
कर्णः —
तेन हि मच्छरो ददामि ।
शक्रः —
अविहा अविहा । अविहा अविहा ।
कर्णः —
न भेतव्यं न भेतव्यम् । प्रसीदतु भवान् । अन्यदपि श्रूयताम् ।
अङ्गैः सहैव जनितं मम देहरक्षा
देवासुरैरपि न भेद्यमिदं सहास्त्रैः ।
देयं तथापि कवचं सह कुण्डलाभ्यां
प्रीत्या मया भग१वते रुचितं यदि स्यात् ॥ २१ ॥
शक्रः —
(सहर्षम् ।) देदु, देदु । ददातु ददातु ।
कर्णः —
(आत्मगतम्) एष एवास्य कामः । किं नु खल्वनेककपटबुद्धेः कृष्णस्योपायः । सोऽपि भवतु । धिगयुक्तमनुशोचितुम् । नास्ति संशयः । (प्रकाशम्) गृह्यताम् ।
शल्यः —
अङ्गराज ! न दातव्यं न दातव्यम् ।
कर्णः —
शल्यराज ! अलमलं वारयितुम् । पश्य
शिक्षा क्षयं गच्छति कालपर्ययात्
सुबद्धमूला निपतन्ति पादपाः ।
जलं जलस्थानगतं च शुष्यति
हुतं च दत्तं च तथैव तिष्ठति ॥ २२ ॥