कर्मनिर्णयः
(श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम्)
ॐ ॥ य इज्यते विधीशानशक्रपूर्वैस्सदा मखैः ।
रमाप्रणयिने तस्मै सर्वयज्ञभुजे नमः ॥
महानाम्नीनामुपसर्गानुपसृजत्ययं वै लोकः प्रथमा महानाम्न्यन्तरिक्षलोको द्वितीयासौ लोकस्तृतीया सर्वेभ्यो वा एष लोकेभ्यस्सन्निर्मितो यत्षोशी तद्यन्महानाम्नीनामुपसर्गानुपसृजति सर्वेभ्यः एवैनं तल्लोकेभ्यस्सन्निर्मिमीते सर्वेभ्यो लोकेभ्यस्सन्निर्मितेन षोशिना राध्नोति य एवं वेद । (ऐतरेयब्राह्मणम् २.१६.४)
महानाम्नीनाम् ऋचाम् उपसर्गा ये उपसर्जनभूतास्तान् उपसृजति संयोजयति । महन्नाम यास्वृक्षु विद्यते ता महानाम्न्यः । परस्य ब्रह्मणो यन्नामेन्द्रादिकं तन्महार्थत्वान्महत् । महद्धि तत्परं ब्रह्म । अशेषगुणपूर्तेः ।
तत्रैक आहुरगुणं ब्रह्मेति । न तद्युक्तम्, श्रुतियुक्तिविरोधात् ।
तथाहि श्रुतिः -
‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै.उ.२.१,ब्रह्मवल्लि.२)। ‘विज्ञानमानन्दं ब्रह्म’(बृह. ३,९.३५) । ‘यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः । तस्मादेतद् ब्रह्म नामरूपमन्नं च जायते ॥’(मुण्डक.उ.१.१.९)
‘दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः ॥’(मुण्डक.उ.३.२(२.१.२)) ।
‘एतावानस्य महिमाऽतो ज्यायांश्च पुरुषः ।’(ऋ.सं.१०.९०.३),
‘यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा ।’(ऋ.सं.१०.८२.३),
‘पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥’,
‘सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः ।’(छां.उ.३.१४.२,४),
‘विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि ।’(ऋ.सं.१.१५४.१),
‘परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति ।’(ऋ.सं.७.९९.१),
‘न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप ।’(ऋ.सं.७.९९.२) इत्यादिका ।
युक्तिश्च । बुद्धिपूर्वं सर्वकर्तृत्वात् सर्वज्ञत्वादयो गुणा युक्ताः ।‘कर्तृत्वात् सगुणं ब्रह्म पुरुषं पुरुषर्षभम्’(भाग.३.३२.१३) इति च भागवते ॥
न च-
‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च’(श्वे.उ.६.११)
इत्यादिविरोधः । सत्वादिगुणाभावोक्तेस्तत्र । अन्यथा ‘एको देवस्सर्वभूतेषु गूढः’ इत्यादीनामपि गुणत्वात् स्वोक्तिविरोधः ॥
न च निर्विशेषं नाम किञ्चिदस्ति । निर्विशेषत्वोक्तेरेव व्याहतत्वात् । निर्विशेषत्वेन विशिष्टं (तन्न) न वेत्युक्ते, यद्यविशिष्टं तर्हि न विशेषनिराकरणं विशेषवत्त्वमेव भवति । यदि तेन विशिष्टं स एव विशेष इति व्याहतिः ।
न च निर्विशेषत्वे किञ्चिन्मानम् । अशेषविशेषवचनानुभवयुक्तिविरोधश्च ।
न च मिथ्याविशेषवत् । व्याहतेः । मिथ्याविशेष इत्युक्ते ह्यसद्विशेष इत्येव भवति । तथा चाविशेष (विशेष)विशिष्टपक्षोक्तदोष एव ॥
न चानिर्वचनीयविशेष इति भवति । अनिर्वचनीयासिद्धेः । न हि तत्र प्रत्यक्षमस्ति । मिथ्याशब्दस्त्वभाववाच्येव । तदन्यत्र प्रमाणाभावात् । न चान्यत् प्रमाणम् । प्रतिज्ञाव्याहतेः । नहि सदन्तरादसतश्चान्यत् सदसद्विलक्षणं प्रसिद्धम् । असन्न भवतीत्युक्ते ‘द्वौ नञौ प्रकृतमर्थं सातिशयं गमयतः’ इति सदेव भवति । असदन्तरं वा विशेषविवक्षायाम् ।
किञ्चैतद्वैलक्षण्यं भेदोऽभेदो भेदाभेदो वा? न तावद्भेदः, अनङ्गीकारात् । व्यावहारिकभेदश्चानिर्वाच्यसिद्धौ वक्तव्यः । न चाव्यावहारिकं किञ्चित् । न चाशेषव्यवहारनिवृत्तौ किञ्चिन्मानम् । न च मिथ्यातथ्ययोस्सामान्यं व्यावहारिकत्वं धूमबाष्पयोर्धूमत्ववत् । न चाभेदोऽनङ्गीकारदेव । तथैवोभयम् । अभेदे चानिर्वाच्यब्रह्मणोस्तच्छब्दयोः पर्यायत्वम् ।
न च व्यावर्त्यविशेषेणापर्यायत्वं क्वचित् । व्यावर्त्यविशेषस्तद्व्यावृत्ते ब्रह्मणि विशेेषमापादयति चेद्विशिष्टवाक्यार्थता । न चेन्न ब्रह्मज्ञानार्थिनः(ने) पदान्तरं वाच्यम्, असङ्गतत्वात् । मिथ्याविशेषस्य चासिद्धिरुक्ता । (ततो)अतोऽन्योन्याश्रयताऽनवस्थितिश्चक्रकं वा । भेदाभेदविलक्षणमप्युक्तरीत्यैवापाकृतम् ।
किञ्चासद्विलक्षणमित्यत्राभावान्यविरोधानां मध्ये नञः कोऽर्थः ? यद्यभावः, न, असद्विलक्षणत्वं भावत्वमेव जगतः स्यात् । न च सतोऽन्यस्मादसतो विलक्षणं जगत् । असतोऽन्यत्वादिधर्मानङ्गीकारात् । ब्रह्मणश्च । असतोऽनिर्वचनीयत्वाङ्गीकाराच्च न वैलक्षण्यं ततोऽनिर्वाच्यस्य । तथापि चेद् वैलक्षण्यं नानिर्वाच्यत्वं जगतः(वैलक्षण्यमनिर्वाच्यत्वं न जगतः) । न च विरोधि(धः) । विरोधिनोरन्यतरनिषेधेऽन्यतरव्याप्तत्वानुभवात् । अविद्यमानं न भवतीत्युक्ते विद्यमानमित्येव हि सर्वलोकानुभवः । अतोऽनन्तगुणो भगवान्नारायणो इति सिद्धम् ।
न च सिद्धेऽर्थे वाक्यस्य प्रामाण्याभावादीश्वराद्यसिद्धिः । सिद्धातिरिक्तकार्याभावात् । लिङाद्यर्थस्त्विष्टसाधनत्वमेव । न हि कर्तव्यत्वं नामेष्टसाधनत्वादन्यत्किञ्चित् (अस्ति) । तन्मानाभावात् । शब्दस्तु न तद्वक्तीत्युक्तम् । लिङादेरिष्टसाधनार्थत्वेनैव कृतार्थत्वे तदन्यकार्यकल्पने कल्पनागौरवं (च)।
न च तत्कल्पकं किञ्चित् । विप्रतिपत्तौ चान्यन्मानं वक्तव्यं तद्भावे । न चानुमा । अप्रसिद्धविशेषणत्वात् । न चार्थापत्तिः । अनुपपत्त्यभावात् ।
कार्याभावादेव कार्यान्वयिनि (कार्यान्वयान्वयिनि वा) व्युत्पत्तिरित्यादि दूरतो निरस्तम् । कार्यान्विते व्युत्पत्तिरिति वदतोऽकार्यान्विते व्युत्पत्तिरित्युक्ते किमुत्तरम् ? अध्याहार इत्युक्ते लोप इत्युत्तरम् । (अशेषसिद्धपदार्थ)अशेषसिद्धपदानामर्थलोपाल्लिङ्गाद्यर्थमात्रलोप(ल्लिङ्गाद्यर्थलोप) एव (व)गरीयान् । ‘हससि, हसामि’ इत्यादिसिद्धार्थ एव बालानां व्युत्पत्तेः । प्रथमप्राप्तत्वान्न(प्राप्तत्वाच्च न) तत्त्यागे कारणम् । तथैव व्युत्पत्तिदर्शनाच्च । अतः सिद्धार्थे प्रामाण्यसिद्धेश्च सिद्धं महागुणवत्वं विष्णोः ।
ताश्च विदा मघवन् इत्याद्याः ।
विदा मघवन् विदा गातुमनुशंसिषो दिशः ।
शिक्षा शचीनां पते पूर्वीणां पुरुवसो ॥ १ ॥
हे मघवन् धनवन् यशस्विन् मखपत इति वा ।
‘तं वा एतं मघ(ख)वन्तं सन्तं मघवानित्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः’ , ‘तेभिरिन्द्रं चोदय दातवे मघम्’(ऋ.सं.९.७५.५) , ‘तन्न आयातु मघाय । यशो वा मघम् । मघमनु प्रापत्सि’, ‘आ मामेतु मघम् । मघमनुप्रापत्सि । धनं वाव मघम्’ इत्यादिश्रुतिभ्यः ।
गातुं त्वां स्तोतुम् । विद वेदय इति सामान्यतोऽपेक्षिताशेषवेदनमुक्त्वा तात्कालिकापेक्षितार्थं प्रार्थयति- गातुं विदेति ॥ त्वमेव अनुशं(शा)सिषो दिशः मार्गान् । आत्मनः स्तुतिप्रकारांस्त्वमेवोपदिशेत्यर्थः(रान् स्वयमेवोपदिशेत्यर्थः) । पूर्वीणां भगवत्सम्प्रदायागतानां परमविद्यानामर्थे शिक्ष(क्षा)। शचीनां विद्यानां पते, वाचां पते इति वा । पुरूवसो बहुवित्त बहुज्ञानेति वा । बहुषु वसति बहूनामावास इति वा ॥
आभिष्ट्वमभिष्टिभिः प्रचेतन प्रचेतय ।
इन्द्र द्युम्नाय न इष एवाहि शक्रः ॥ २ ॥
आभिरभिष्टिभिः एवम्भूतैस्त्वत्पर्येषणैस्त्वत्प्रार्थनैः त्वं किञ्चिन्मदादिकं प्रचेतय प्रबोधय । प्रकृष्टचेतन सर्वज्ञ, परमात्मन् । द्युम्नाय ज्ञानाय वित्ताय यशसे वा । इषे अन्नाय (च) नः प्रबोधय । एतादृशो हि शक्रः । शक्र एवेति वा । शक्तिरतिरूपत्वाच्छक्रः ॥ २ ॥
राये वाजाय वज्रिवः शविष्ठ वज्रिन्नृञ्जसे ।
मंहिष्ठ वज्रिन्नृञ्जस आ याहि पिब मत्स्व ॥ ३ ॥
राये वित्ताय वाजाय अन्नाय, वज्रिणम् इन्द्रं वर्तयतीति वज्रिवाः, नियामकत्वेन गच्छतीति वा । शविष्ठ बलवत्तम सुखवत्तमेति वा । ऋञ्जसे प्रेरयसि सर्वान् । ‘मंहिष्ठ वज्रिन्नृञ्जस’ इत्यभ्यासस्तात्पर्यार्थः । मत्स्व मदं कुरु ॥ ३ ॥
विदा रायः सुवीर्यं भुवो वाजानां पतिर्वशाँ अनु ।
मंहिष्ठ वज्रिन्नृञ्जसे यः शविष्ठः शूराणाम् ॥ ४ ॥
विदा वेदय लम्भय रायः सुवीर्यं च । वाजानां प्रजानां पतिः भुवः अभवः । ‘प्रजा वै वाजः’ इति श्रुतेः । वशान् अनु यथावशम् । ‘वश= इच्छायाम्’ इति धातोः यथावशं यथेच्छम् । शूराणां सकाशाद्बलवत्तमः ॥ ४ ॥
यो मंहिष्ठो मघोनां चिकित्वो अभि नो नय ।
इन्द्रो विदे तमु स्तुषे वशी हि शक्रः ॥ ५ ॥
मघोनां यशस्विनां महत्तमः । चिकित्वः ज्ञातः कर्तरिति वा । नः अभितः सर्वतो नय । इन्द्रो विदे समस्तं व्यजानात् । तमेव स्तुषे ॥ ५ ॥
तमूतये हवामहे जेतारमपराजितम् ।
स नः पर्षदति द्विषः क्रतुश्छन्द ऋतं बृहत् ॥ ६ ॥
ऊतये रक्षायै, अभिप्रायसिद्धये वा । स नो द्विषः शत्रूनतिपारयतु, पापानि तमांसि वा । क्रतुः ज्ञानरूपः । छन्दः इच्छारूपः । छन्द्यत्वाच्छादनत्वाद्वा । ऋतम् अशेषशास्त्रावगतम् ॥ ६ ॥
इन्द्रं धनस्य सातये हवामहे जेतारमपराजितम् ।
सनः पर्षदति द्विषः स नः पर्षदति स्रिधः ॥ ७ ॥
सातये लब्धये । स्रिधो विनाशात्(न्) ॥ ७ ॥
पूर्वस्य यत्ते अद्रिवः सुम्न आधेहि नो वसो ।
पूर्तिः शविष्ठ शस्यत ईशे हि शक्रः ॥ ८ ॥
पूर्वस्य अनादेः सतस्ते(अनादेः ते) सकाशात् यत् सुम्नं सुखं तस्मिन् न आधेहि । तव पूर्तिः शस्यते ॥ ८ ॥
नूनं तं नव्यं सन्यसे प्रभो जनस्य वृत्रहन् । समन्येषु ब्रवावहै शूरो यो गोषु गच्छति सखा सुशेवो अद्वयाः ॥ ९ ॥
तन्नव्यं स्तुत्यं ब्रह्म । तत्सम्यक् हृदि न्यसे(सन्यसे) जनस्य उपदेशेन । त्वत्स्वरूपेषु त्वं चाहं च सम्ब्रवावहै । गोषु ज्ञानेषु गच्छति ज्ञानविषयो भवति । सुशेवः सुसुखः समाधिकरहितोऽद्वयः(तः अद्वयः) ॥ ९ ॥
एवाह्येवैवाह्यग्नाँ३ इ । एवाह्येवैवाहीन्द्रँ । एवाह्येवैवाहि विष्णाँ३ उ । एवाह्येवैवाहि पूषन् । एवा ह्येवैवाहि देवाः । एवा हि शक्रो वशी हि शक्रो वशाँ अनु ॥ १० ॥