कर्मनिर्णयः
/ 4
←

Karmanirnaya Tamil PDF & Online Reader (கர்மநிர்ணய꞉)

Karmanirnaya (कर्मनिर्णयः) by Madhvacharya (मध्वाचार्यः) — Tamil Text & PDF Download

📜 Last Proofread: 17 Sep 2026
📥 Download Tamil PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 17 Sep 2026
📥 Download PDF ♡ Save
🌐 Language & Script தமிழ்
↔️ Text Alignment Center
कर्मनिर्णयः (श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम्) ॐ ॥ य इज्यते विधीशानशक्रपूर्वैस्सदा मखैः । रमाप्रणयिने तस्मै सर्वयज्ञभुजे नमः ॥ महानाम्नीनामुपसर्गानुपसृजत्ययं वै लोकः प्रथमा महानाम्न्यन्तरिक्षलोको द्वितीयासौ लोकस्तृतीया सर्वेभ्यो वा एष लोकेभ्यस्सन्निर्मितो यत्षोशी तद्यन्महानाम्नीनामुपसर्गानुपसृजति सर्वेभ्यः एवैनं तल्लोकेभ्यस्सन्निर्मिमीते सर्वेभ्यो लोकेभ्यस्सन्निर्मितेन षोशिना राध्नोति य एवं वेद । (ऐतरेयब्राह्मणम् २.१६.४) महानाम्नीनाम् ऋचाम् उपसर्गा ये उपसर्जनभूतास्तान् उपसृजति संयोजयति । महन्नाम यास्वृक्षु विद्यते ता महानाम्न्यः । परस्य ब्रह्मणो यन्नामेन्द्रादिकं तन्महार्थत्वान्महत् । महद्धि तत्परं ब्रह्म । अशेषगुणपूर्तेः । तत्रैक आहुरगुणं ब्रह्मेति । न तद्युक्तम्, श्रुतियुक्तिविरोधात् । तथाहि श्रुतिः - ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै.उ.२.१,ब्रह्मवल्लि.२)। ‘विज्ञानमानन्दं ब्रह्म’(बृह. ३,९.३५) । ‘यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः । तस्मादेतद् ब्रह्म नामरूपमन्नं च जायते ॥’(मुण्डक.उ.१.१.९) ‘दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः ॥’(मुण्डक.उ.३.२(२.१.२)) । ‘एतावानस्य महिमाऽतो ज्यायांश्च पुरुषः ।’(ऋ.सं.१०.९०.३), ‘यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा ।’(ऋ.सं.१०.८२.३), ‘पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥’, ‘सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः ।’(छां.उ.३.१४.२,४), ‘विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि ।’(ऋ.सं.१.१५४.१), ‘परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति ।’(ऋ.सं.७.९९.१), ‘न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप ।’(ऋ.सं.७.९९.२) इत्यादिका । युक्तिश्च । बुद्धिपूर्वं सर्वकर्तृत्वात् सर्वज्ञत्वादयो गुणा युक्ताः ।‘कर्तृत्वात् सगुणं ब्रह्म पुरुषं पुरुषर्षभम्’(भाग.३.३२.१३) इति च भागवते ॥ न च- ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च’(श्वे.उ.६.११) इत्यादिविरोधः । सत्वादिगुणाभावोक्तेस्तत्र । अन्यथा ‘एको देवस्सर्वभूतेषु गूढः’ इत्यादीनामपि गुणत्वात् स्वोक्तिविरोधः ॥ न च निर्विशेषं नाम किञ्चिदस्ति । निर्विशेषत्वोक्तेरेव व्याहतत्वात् । निर्विशेषत्वेन विशिष्टं (तन्न) न वेत्युक्ते, यद्यविशिष्टं तर्हि न विशेषनिराकरणं विशेषवत्त्वमेव भवति । यदि तेन विशिष्टं स एव विशेष इति व्याहतिः । न च निर्विशेषत्वे किञ्चिन्मानम् । अशेषविशेषवचनानुभवयुक्तिविरोधश्च । न च मिथ्याविशेषवत् । व्याहतेः । मिथ्याविशेष इत्युक्ते ह्यसद्विशेष इत्येव भवति । तथा चाविशेष (विशेष)विशिष्टपक्षोक्तदोष एव ॥ न चानिर्वचनीयविशेष इति भवति । अनिर्वचनीयासिद्धेः । न हि तत्र प्रत्यक्षमस्ति । मिथ्याशब्दस्त्वभाववाच्येव । तदन्यत्र प्रमाणाभावात् । न चान्यत् प्रमाणम् । प्रतिज्ञाव्याहतेः । नहि सदन्तरादसतश्चान्यत् सदसद्विलक्षणं प्रसिद्धम् । असन्न भवतीत्युक्ते ‘द्वौ नञौ प्रकृतमर्थं सातिशयं गमयतः’ इति सदेव भवति । असदन्तरं वा विशेषविवक्षायाम् । किञ्चैतद्वैलक्षण्यं भेदोऽभेदो भेदाभेदो वा? न तावद्भेदः, अनङ्गीकारात् । व्यावहारिकभेदश्चानिर्वाच्यसिद्धौ वक्तव्यः । न चाव्यावहारिकं किञ्चित् । न चाशेषव्यवहारनिवृत्तौ किञ्चिन्मानम् । न च मिथ्यातथ्ययोस्सामान्यं व्यावहारिकत्वं धूमबाष्पयोर्धूमत्ववत् । न चाभेदोऽनङ्गीकारदेव । तथैवोभयम् । अभेदे चानिर्वाच्यब्रह्मणोस्तच्छब्दयोः पर्यायत्वम् । न च व्यावर्त्यविशेषेणापर्यायत्वं क्वचित् । व्यावर्त्यविशेषस्तद्व्यावृत्ते ब्रह्मणि विशेेषमापादयति चेद्विशिष्टवाक्यार्थता । न चेन्न ब्रह्मज्ञानार्थिनः(ने) पदान्तरं वाच्यम्, असङ्गतत्वात् । मिथ्याविशेषस्य चासिद्धिरुक्ता । (ततो)अतोऽन्योन्याश्रयताऽनवस्थितिश्चक्रकं वा । भेदाभेदविलक्षणमप्युक्तरीत्यैवापाकृतम् । किञ्चासद्विलक्षणमित्यत्राभावान्यविरोधानां मध्ये नञः कोऽर्थः ? यद्यभावः, न, असद्विलक्षणत्वं भावत्वमेव जगतः स्यात् । न च सतोऽन्यस्मादसतो विलक्षणं जगत् । असतोऽन्यत्वादिधर्मानङ्गीकारात् । ब्रह्मणश्च । असतोऽनिर्वचनीयत्वाङ्गीकाराच्च न वैलक्षण्यं ततोऽनिर्वाच्यस्य । तथापि चेद् वैलक्षण्यं नानिर्वाच्यत्वं जगतः(वैलक्षण्यमनिर्वाच्यत्वं न जगतः) । न च विरोधि(धः) । विरोधिनोरन्यतरनिषेधेऽन्यतरव्याप्तत्वानुभवात् । अविद्यमानं न भवतीत्युक्ते विद्यमानमित्येव हि सर्वलोकानुभवः । अतोऽनन्तगुणो भगवान्नारायणो इति सिद्धम् । न च सिद्धेऽर्थे वाक्यस्य प्रामाण्याभावादीश्वराद्यसिद्धिः । सिद्धातिरिक्तकार्याभावात् । लिङाद्यर्थस्त्विष्टसाधनत्वमेव । न हि कर्तव्यत्वं नामेष्टसाधनत्वादन्यत्किञ्चित् (अस्ति) । तन्मानाभावात् । शब्दस्तु न तद्वक्तीत्युक्तम् । लिङादेरिष्टसाधनार्थत्वेनैव कृतार्थत्वे तदन्यकार्यकल्पने कल्पनागौरवं (च)। न च तत्कल्पकं किञ्चित् । विप्रतिपत्तौ चान्यन्मानं वक्तव्यं तद्भावे । न चानुमा । अप्रसिद्धविशेषणत्वात् । न चार्थापत्तिः । अनुपपत्त्यभावात् । कार्याभावादेव कार्यान्वयिनि (कार्यान्वयान्वयिनि वा) व्युत्पत्तिरित्यादि दूरतो निरस्तम् । कार्यान्विते व्युत्पत्तिरिति वदतोऽकार्यान्विते व्युत्पत्तिरित्युक्ते किमुत्तरम् ? अध्याहार इत्युक्ते लोप इत्युत्तरम् । (अशेषसिद्धपदार्थ)अशेषसिद्धपदानामर्थलोपाल्लिङ्गाद्यर्थमात्रलोप(ल्लिङ्गाद्यर्थलोप) एव (व)गरीयान् । ‘हससि, हसामि’ इत्यादिसिद्धार्थ एव बालानां व्युत्पत्तेः । प्रथमप्राप्तत्वान्न(प्राप्तत्वाच्च न) तत्त्यागे कारणम् । तथैव व्युत्पत्तिदर्शनाच्च । अतः सिद्धार्थे प्रामाण्यसिद्धेश्च सिद्धं महागुणवत्वं विष्णोः । ताश्च विदा मघवन् इत्याद्याः । विदा मघवन् विदा गातुमनुशंसिषो दिशः । शिक्षा शचीनां पते पूर्वीणां पुरुवसो ॥ १ ॥ हे मघवन् धनवन् यशस्विन् मखपत इति वा । ‘तं वा एतं मघ(ख)वन्तं सन्तं मघवानित्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः’ , ‘तेभिरिन्द्रं चोदय दातवे मघम्’(ऋ.सं.९.७५.५) , ‘तन्न आयातु मघाय । यशो वा मघम् । मघमनु प्रापत्सि’, ‘आ मामेतु मघम् । मघमनुप्रापत्सि । धनं वाव मघम्’ इत्यादिश्रुतिभ्यः । गातुं त्वां स्तोतुम् । विद वेदय इति सामान्यतोऽपेक्षिताशेषवेदनमुक्त्वा तात्कालिकापेक्षितार्थं प्रार्थयति- गातुं विदेति ॥ त्वमेव अनुशं(शा)सिषो दिशः मार्गान् । आत्मनः स्तुतिप्रकारांस्त्वमेवोपदिशेत्यर्थः(रान् स्वयमेवोपदिशेत्यर्थः) । पूर्वीणां भगवत्सम्प्रदायागतानां परमविद्यानामर्थे शिक्ष(क्षा)। शचीनां विद्यानां पते, वाचां पते इति वा । पुरूवसो बहुवित्त बहुज्ञानेति वा । बहुषु वसति बहूनामावास इति वा ॥ आभिष्ट्वमभिष्टिभिः प्रचेतन प्रचेतय । इन्द्र द्युम्नाय न इष एवाहि शक्रः ॥ २ ॥ आभिरभिष्टिभिः एवम्भूतैस्त्वत्पर्येषणैस्त्वत्प्रार्थनैः त्वं किञ्चिन्मदादिकं प्रचेतय प्रबोधय । प्रकृष्टचेतन सर्वज्ञ, परमात्मन् । द्युम्नाय ज्ञानाय वित्ताय यशसे वा । इषे अन्नाय (च) नः प्रबोधय । एतादृशो हि शक्रः । शक्र एवेति वा । शक्तिरतिरूपत्वाच्छक्रः ॥ २ ॥ राये वाजाय वज्रिवः शविष्ठ वज्रिन्नृञ्जसे । मंहिष्ठ वज्रिन्नृञ्जस आ याहि पिब मत्स्व ॥ ३ ॥ राये वित्ताय वाजाय अन्नाय, वज्रिणम् इन्द्रं वर्तयतीति वज्रिवाः, नियामकत्वेन गच्छतीति वा । शविष्ठ बलवत्तम सुखवत्तमेति वा । ऋञ्जसे प्रेरयसि सर्वान् । ‘मंहिष्ठ वज्रिन्नृञ्जस’ इत्यभ्यासस्तात्पर्यार्थः । मत्स्व मदं कुरु ॥ ३ ॥ विदा रायः सुवीर्यं भुवो वाजानां पतिर्वशाँ अनु । मंहिष्ठ वज्रिन्नृञ्जसे यः शविष्ठः शूराणाम् ॥ ४ ॥ विदा वेदय लम्भय रायः सुवीर्यं च । वाजानां प्रजानां पतिः भुवः अभवः । ‘प्रजा वै वाजः’ इति श्रुतेः । वशान् अनु यथावशम् । ‘वश= इच्छायाम्’ इति धातोः यथावशं यथेच्छम् । शूराणां सकाशाद्बलवत्तमः ॥ ४ ॥ यो मंहिष्ठो मघोनां चिकित्वो अभि नो नय । इन्द्रो विदे तमु स्तुषे वशी हि शक्रः ॥ ५ ॥ मघोनां यशस्विनां महत्तमः । चिकित्वः ज्ञातः कर्तरिति वा । नः अभितः सर्वतो नय । इन्द्रो विदे समस्तं व्यजानात् । तमेव स्तुषे ॥ ५ ॥ तमूतये हवामहे जेतारमपराजितम् । स नः पर्षदति द्विषः क्रतुश्छन्द ऋतं बृहत् ॥ ६ ॥ ऊतये रक्षायै, अभिप्रायसिद्धये वा । स नो द्विषः शत्रूनतिपारयतु, पापानि तमांसि वा । क्रतुः ज्ञानरूपः । छन्दः इच्छारूपः । छन्द्यत्वाच्छादनत्वाद्वा । ऋतम् अशेषशास्त्रावगतम् ॥ ६ ॥ इन्द्रं धनस्य सातये हवामहे जेतारमपराजितम् । सनः पर्षदति द्विषः स नः पर्षदति स्रिधः ॥ ७ ॥ सातये लब्धये । स्रिधो विनाशात्(न्) ॥ ७ ॥ पूर्वस्य यत्ते अद्रिवः सुम्न आधेहि नो वसो । पूर्तिः शविष्ठ शस्यत ईशे हि शक्रः ॥ ८ ॥ पूर्वस्य अनादेः सतस्ते(अनादेः ते) सकाशात् यत् सुम्नं सुखं तस्मिन् न आधेहि । तव पूर्तिः शस्यते ॥ ८ ॥ नूनं तं नव्यं सन्यसे प्रभो जनस्य वृत्रहन् । समन्येषु ब्रवावहै शूरो यो गोषु गच्छति सखा सुशेवो अद्वयाः ॥ ९ ॥ तन्नव्यं स्तुत्यं ब्रह्म । तत्सम्यक् हृदि न्यसे(सन्यसे) जनस्य उपदेशेन । त्वत्स्वरूपेषु त्वं चाहं च सम्ब्रवावहै । गोषु ज्ञानेषु गच्छति ज्ञानविषयो भवति । सुशेवः सुसुखः समाधिकरहितोऽद्वयः(तः अद्वयः) ॥ ९ ॥ एवाह्येवैवाह्यग्नाँ३ इ । एवाह्येवैवाहीन्द्रँ । एवाह्येवैवाहि विष्णाँ३ उ । एवाह्येवैवाहि पूषन् । एवा ह्येवैवाहि देवाः । एवा हि शक्रो वशी हि शक्रो वशाँ अनु ॥ १० ॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 17 Sep 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine