॥ श्रीगणेशाय नमः ॥
॥ कादम्बरी ॥
॥ मङ्गलाचरणम् ॥
रजोजुषे जन्मनि सत्त्ववृत्तये स्थितौ प्रजानां प्रलये तमःस्पृशे ।
अजाय सर्गस्थितिनाशहेतवे त्रयीमयाय त्रिगुणात्मने नमः ॥ १ ॥
जयन्ति बाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः ।
सुरासुराधीशशिखान्तशायिनो भवच्छिदस्त्र्यम्बकपादपांसवः ॥ २ ॥
समाप्तविद्येन मया महौजसः कृतप्रणामस्य सुरासुराधिपैः ।
नमामि धूर्जटेरङ्घ्रिपङ्कजं जगद्धिताय स्मरतूर्णनाशनम् ॥ ३ ॥
जयन्ति बाणाधिपमौलिलालिताः सुरासुराधीशशिखाविभूषणाः ।
भवच्छिदस्त्र्यम्बकपादरेणवः ॥ ४ ॥
नमामि भर्वोश्चरणाम्बुजद्वयं सशेखरैर्मौलिभिरन्ध्रितांशुभिः ।
विमुक्तिहेतुं भवसिन्धुतारकं जगत्प्रसिद्धं परमामृतालयम् ॥ ५ ॥
स्फुरत्कलालापविलासमञ्जुलं मनोहरं सज्जनचित्तरञ्जनम् ।
सरस्वतीहृद्यपदं सदा भजे गिरां गुरुं काव्यविधानकोविदम् ॥ ६ ॥
अकारणाविष्कृतवैरदारुणादसज्जनात्कस्य भयं न जायते ।
विषं महाहेरिव यस्य दुर्वचः सुदुःसहं सन्निहितं सदा मुखे ॥ ७ ॥
सतां हि सङ्गेन भवन्ति साधवो गुणाश्च वृद्धिं समुपागताः सदा ।
अहो स्वभावः खलु कोऽपि धीमतां यतो हि पापानि पलायितानि वै ॥ ८ ॥
महास्वेता तु तच्छ्रुत्वा सुचिरंविचार्य "गच्छ, स्वयमेवाहमागत्य यथार्हमाचरिष्यामिऽ इत्युक्त्वा केयूरकं प्राहिणोत् ।
गते च केयूरके चन्द्रापीडमुवाच-"राजपुत्र! रमणीयो हेमकूटः, चित्रा च चित्ररथराजधानी, बहुकुतूहलः किम्पुरुषविषयः, पेशलो गंन्धर्वलोकः, सरलहृदया महानुभावा च कादम्बरी, यदा नातिखेदकरमिव गमनं कलयसि, नावसीदति वा गुरुप्रयोजनम्, अदृष्टचरविषयकुतूहलिवा चेतः, मद्वचनमनुरुध्यते वा भवान् सुखदायि वा आश्चर्यदर्शनम्, अर्हामि वा प्रणयमि२> , ममप्रत्याख्यानयोग्यं वा जनं मन्यसे, समारूढो वा परिचयलेशः, अनुग्राह्यो वायं जनः, ततो नार्हसि निष्फलां कर्तुमभ्यर्थनाभिमाम् ।
मयैव सह गत्वा हेमकूटमतिरमणीयतानिधानम्, तत्र दृष्ट्वा च मन्निर्विशेषां कादम्बरीम्,अपनीय तस्याः कुमति मनोमोहविलसितम्, एकमहो विश्रम्य श्वोभूते प्रत्यागमिप्यसि ।
मम हि निष्कारणबान्धवं भवन्तमालोक्यैव दुःखान्धकारभाराक्रान्तेन महतः कालादुच्छ्वसितमिव चेतसा, श्रावयित्वा स्ववृत्तान्तमिमं सह्यतामिव गतः शोकः ।
दुःखितमपि जनं रमयन्ति सज्जनसमागमाः ।
परसुखोपपादनपराधीनश्च भवादृशां गुणोदयः इत्युक्तवतीञ्चैनां चन्द्रापीडो ऽव्रवीत्-"भगवति! दर्शनात्प्रभृति परवानयं जनः कर्त्तव्येषु यथेष्टमशङ्किततया नियुज्यताम् इत्यभिधाय तया सहैवोदचलत् ।
क्रमेण च गत्वा हेमकूटमासाद्य गन्धर्वराजकुलम्, समतीत्य काञ्चनतोरणानि सप्तकक्षान्तराणि कन्यान्तःपुरद्वारमवाप ।
महाश्वेतादर्शनप्रधावितेन दूरादेव कृतप्रणामेन कनकवेत्रलताहस्तेन प्रतीहारजनेनोपदिशअयमानमार्गः प्रविश्य असङ्ख्ययनारीशतसहस्रसम्बाधम् , स्त्रीमयमपरमिव जीवलोकम्, इयत्तां ग्रहीतुमेकत्र त्रैलोक्यस्त्रैणमिव सङ्गृहीतम् , अपुरुषमिव सर्गान्तरम्, अङ्गनाद्वीपमिवापूर्वमुत्पन्नम्, पञ्चममिव नारीयुगावतारम्, अपरामव पुरुषद्वेषिप्रजापतिनिर्माणम्, अनेककलपकल्पनार्थमुत्पाद्य स्थापितमिवाङ्गनाकोषम् , अतिविस्तारिणा युवतिजनलावण्यप्रभापूरेण प्लावितदिगन्तरेण सिञ्चतेवामृतरसविसरेण दिवसमार्द्रीकुर्वतेव भुवनान्तरालं बहुल -प्रभावर्षिणा मरकतमणिमयेन सर्वतः परिगततया तेजोमयमिव, चन्द्रमण्डलसहस्रैरिव निर्मितसंस्थानम्, ज्योत्स्नयेव घटितसन्निवेशम्, आभरणप्रभाभिरिवनिष्पादितदिगन्तरम्, विभ्रमैरिव कृतसर्वोपकरणम्, यौवनविलासैरिवोत्पादितावयवम्, रतिविलसितैरिव रचित -सञ्चयम्, मन्मथाचरितैरिव कल्पितावकाशम्, अनुरागेणेवानुलिप्तसकलप्रदेशं शृङ्गारमयमिव, सौन्दर्यमयमिव, सुरताधिदैवतमयमिव, कुसुमशरमयमिव, कुतूहलमयमिव, आश्चर्यमयमिव, सौकुमार्यमयमिव , कुमारः कुमारीपुराभ्यन्तरं ददर्श ।
अतिबहलतया च तस्य कन्यकाजनस्य समन्तादाननद्यतिभिरिन्दुबिम्बवृष्टिमिव पतन्तीम्, अपाङ्गविक्षेपैश्चलितकुवलयवनमयीमिव क्रियमाणामवनीम्, अनिभृत -भ्रूलताविभ्रमैः कामकार्मुकविलास शतानीव प्रचलितानि, शरसिजकलापान्धकारैर्बहुलपक्ष -प्रदोषसार्थानिव सम्बध्नतः, स्मितप्रभाभिरुत्फुल्लकुसुमधवलानिव वसन्तदिवसान् सञ्चरतः, श्वसितानिलपरिमलैर्मलयमारुतानिव परिभ्रमतः, कपोलमण्डलोकैर्माणिक्यदर्पणसहस्राणीव स्फुरितानि करतलरागेण रक्तकमलवनवर्षिणमिव जीवलोकम्, कररुहकिरणस्फुरणेन कुसुमायुधशरसहस्रैरिव सञ्च्छादितानि दिगन्तराणि , आभरणकिरणेन्द्रायुधजालकैरुड्डीयमानानीव भवनमयूरवृन्दानि, यौवनविकारैरुपाद्यमानानीव मन्मथसहस्राण्यद्राक्षीत् ।
उचितव्यापारव्यपदेशेन कुमारिकाणां सखीहस्तावलम्बेषु पाणिग्रहणानि, वेणुवाद्येषु चुम्बनव्यतिकरान्, वीणासु कररुहव्यापारान्, कन्दुकक्रीडासु करतलप्रहारान् भवन- लतासेककलसकण्ठेषु भुजलतापरिष्वङ्गान्, लीलादोलासु नितम्बस्तन -प्रेङ्खितानि, ताम्बूलवीटिकावखण्डनेषु दशनोपचारान्, बकुलविटपेषु मधुगण्डूषप्रचारान् , अशोकतरुताडनेषु चरणाभिघातान्, उपहारकुसुमस्खलनेषु सीत्कारान् अतिरिक्तं सुरतमिवाभ्यस्यन्तीनामपश्यत् ।
यत्र च कन्यकाजनस्य कपोलतलालोक एव मुखप्रक्षालनम्, लोचनान्येव कर्णोत्पलानि, हसितच्छवय एवाङ्गरागाः, निश्वासाः एवाधिवासगन्धप्रयुक्तयः, अधरद्युतिरेव कुङ्कुमानुलोपनम् आलापा एव तन्त्रीनिनादाः, भुजलता एव चम्पकमालाः , करतलान्येव लीलाकमलानि, स्तना एवं दर्पणाः, निजदेहप्रभैवांशुकाषगुण्ठनम्, जननस्थलान्येव विलासमणिशिलातलानि कोमलाङ्गुलिराग एव चरणालक्तकरसः, नखमणिमरीचय एव कुट्टिमोपहारकुसुमप्रकराः ।
यत्र चालक्तकरसो ऽपि चरणातिभारः, बकुलमालिकामेखलाकलनमपि गमनविघ्नकरम्, अङ्गरागगौरवमप्यधिकश्वासनिमित्तम्, अंशुकभारो ऽपि ग्लानिकारणम्, मङ्गलप्रतिसरवलयविधृतिरपि करतलविधुतिहेतुः, अवतंसकुसुमधारणमपि श्रमः, कर्णपूरकमलमधुकरपक्षपवनो ऽप्यायासकरः ।
तथा च यत्र सखीदर्शनेष्व कृतहस्तावलम्बनमुत्थानमतिसाहसम् , प्रसाधनेषु हारभारसहिष्णुता स्तनकार्कश्यप्रभावः, कुसुमावचयेषु द्वितीयकुसुम -ग्रहणमप्ययुवतिजनोचितम्, कन्यकाविज्ञानेषु माल्यग्रथनम् असुकुमारजनव्यापारः, देवताप्रणामेषु मध्यभागभङ्गो नातिविस्मयकरः ।
तस्य चैवंविधस्य किञ्चिदभ्यन्तरमतिक्रम्य इतश्चेतश्च परिभ्रमतः कादम्बरीप्रत्यासन्रस्य परिजनस्य तांस्तानतिमनोहरानालापान् ।
तथाहि-"लवलिके! कल्पय केतकीधूलिभिर्लवलीलतालवालमण्डलानि ।
सागरिके! गन्धोदककनतदीर्घिकासु विकिररत्नबालुकाम् ।
मृणालिके! कृत्रिमकमलिनीषु कुङ्कुमरेणुमुष्टिभिश्छुरय यन्त्रचक्रवाकमिथुनानि नानि ।
मकरिके! कर्पूरपल्लवरसेनाधिवासय गन्धपात्राणि ।
रजनिके! तमालवीथिकान्धकारेषु निघेहि मणिप्रदीपान् ।
कुमुदिके! स्थगय शकुनिकुलरक्षणाय मुक्ताजालैर्दाडिमीफलानानिपुणिके! लिख मणिशालभञ्जिकास्तनेषु कुङ्कुमरसपत्रभङ्गान् ।
उत्पलिके! परामृश कनकसम्मार्जनीभिः कदलीगृहमरकतवेदिकाम् ।
केसरिके सिञ्च मदिरारसेन बकुलकुसुममालागृहाणि ।
मालतिके! पाटलय सिन्दूरेणुना कामदेवगृहदन्तबलभिकाम् ।
नलिनिके! पायय कमलमधुरसं भवनकलहंसान् ।
कदलिके! नय धारागृहं गृहमयूरान् ।
कमलिनिके! प्रयच्छ चक्रवाकशावकेभ्यो मृणालक्षीररसम् ।
चूतलतिके देहि पञ्जरपुंस्कोकिलेभ्यश्चृतकलिकाङ्कुराहारम् ।
पल्लविके! भोजय मरिचाग्रपल्लवदलानि भवनहारीतान् ।
लवङ्गिके! विक्षिप चकोरपञ्जरेषु पिप्पलीतण्डुल -शकलानि ।
मधुकरिके! विरचयकुसुमाभरणकानि ।
मयूरिके! सङ्गीतशालायां विसर्जय किन्नरमिथुनानि ।
कन्दलिके! समारोहय क्रीडापर्वतशिखरं जीवञ्जीवमिथुनानि ।
हरिमिके! देहि पञ्जरशुकसारिकाणामुपदेशम् इत्येतानि अन्यानि च परिहासजल्पितान्यश्रौषीत् ।
तथाहि-"चामरिके! मिथ्यामुग्धतां प्रकटयन्ती कमभिसन्धातुमिच्छमि? अयि यौवनविलासैरुमत्तीकृते! विज्ञातासि, या त्वं स्तनकलसभारावनम्यमानमूर्त्तिर्मणिस्तम्भमयूरानालम्बसे ।
परिहासकाङ्क्षिणि! रत्नभित्तिपतितमात्मप्रतिबिम्बमालपसि ।
पवनहृतोत्तरीयांशुके! हारप्रभायासितकरतला सङ्कलयसि ।
मणिकुट्टिमेषूपहारकमलस्खलनभीते! निजमुखप्रतिबिम्बकानि परिहरसि ।
निजसौकुमार्य्यखर्वितबिसप्रसूनसौभाग्ये! जालवातायनपतितपद्मरागालोकं प्रति बालातपशङ्कया करतलमातपत्रीकरोषि ।
खेदस्रस्त -हस्तगलितचामरे ! नखमुणिमय्यूखकलापमाधुनोषिऽ इत्येतान्यन्यानि च शृण्लन्नेव कादम्बरीभवनसमोपम् उपययौ ।
पुलिनायमानमुपवनलतागलितकुसुमरेणुपटलैः, दुर्द्दिनायमाननिभृतपरभृतनखक्षताङ्ग -सहकारफलरसवर्षैः, नीहारायमाणमलिनविप्रकीर्णैर्वकुलसेकसीधुधाराधूलिभिः, काञ्चनद्वीपायमानं चम्पकदलोपहारैः , नीलाशोक -वनायमानं कुसुमप्रकरपतितमधुकरबृन्दान्धकारैः, तथा च सञ्जरतः स्त्रीजनस्य रागसागरायमाणं चरणालक्तकरसविसरैः, अमृतोत्पत्तिदिवसायमानमङ्गरागामोदैः, चन्द्रलोकायमानन्दन्तपत्रप्रभामण्डलैः, प्रियङ्गुवनाय मानं कृष्णागुरुपत्रभङ्गैः , लोहितायमानं कर्णपूराशोकपल्लवैः , धवलायमानं चन्दनरसविलेपनैः, हरितायमानं शिरीषकुसुमाभरणैः, अथ सेवार्थमागतेनोभयत ऊर्ध्वस्थितेन स्त्रीजनेन प्राकारेणेव लावण्यमयेन कृतदीर्घरथ्यामुखाकारं मार्गमद्राक्षीत् ।
ते चान्तर्निपतन्तम् आभरणकिरणालोकं सम्पिण्डितं नदीवेणिकाजलप्रवाहमिव वहन्तमपश्यत् ।
तन्मध्ये च प्रतिस्रोत इव गत्वा प्रतीहारीमण्डलाधिष्ठितपुरोभागं श्रीमण्डपं ददर्श ।