कादम्बरी
/ 11
←

Kadambari Tamil PDF & Online Reader (காத³ம்ப³ரீ)

Kadambari (कादम्बरी) by बाणभट्टः — Tamil Text & PDF Download

📜 Last Proofread: 28 Oct 2026
📥 Download Tamil PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 28 Oct 2026
📥 Download PDF ♡ Save
🌐 Language & Script தமிழ்
↔️ Text Alignment Center
॥ श्रीगणेशाय नमः ॥ ॥ कादम्बरी ॥ ॥ मङ्गलाचरणम् ॥ रजोजुषे जन्मनि सत्त्ववृत्तये स्थितौ प्रजानां प्रलये तमःस्पृशे । अजाय सर्गस्थितिनाशहेतवे त्रयीमयाय त्रिगुणात्मने नमः ॥ १ ॥ जयन्ति बाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः । सुरासुराधीशशिखान्तशायिनो भवच्छिदस्त्र्यम्बकपादपांसवः ॥ २ ॥ समाप्तविद्येन मया महौजसः कृतप्रणामस्य सुरासुराधिपैः । नमामि धूर्जटेरङ्घ्रिपङ्कजं जगद्धिताय स्मरतूर्णनाशनम् ॥ ३ ॥ जयन्ति बाणाधिपमौलिलालिताः सुरासुराधीशशिखाविभूषणाः । भवच्छिदस्त्र्यम्बकपादरेणवः ॥ ४ ॥ नमामि भर्वोश्चरणाम्बुजद्वयं सशेखरैर्मौलिभिरन्ध्रितांशुभिः । विमुक्तिहेतुं भवसिन्धुतारकं जगत्प्रसिद्धं परमामृतालयम् ॥ ५ ॥ स्फुरत्कलालापविलासमञ्जुलं मनोहरं सज्जनचित्तरञ्जनम् । सरस्वतीहृद्यपदं सदा भजे गिरां गुरुं काव्यविधानकोविदम् ॥ ६ ॥ अकारणाविष्कृतवैरदारुणादसज्जनात्कस्य भयं न जायते । विषं महाहेरिव यस्य दुर्वचः सुदुःसहं सन्निहितं सदा मुखे ॥ ७ ॥ सतां हि सङ्गेन भवन्ति साधवो गुणाश्च वृद्धिं समुपागताः सदा । अहो स्वभावः खलु कोऽपि धीमतां यतो हि पापानि पलायितानि वै ॥ ८ ॥ महास्वेता तु तच्छ्रुत्वा सुचिरंविचार्य "गच्छ, स्वयमेवाहमागत्य यथार्हमाचरिष्यामिऽ इत्युक्त्वा केयूरकं प्राहिणोत् । गते च केयूरके चन्द्रापीडमुवाच-"राजपुत्र! रमणीयो हेमकूटः, चित्रा च चित्ररथराजधानी, बहुकुतूहलः किम्पुरुषविषयः, पेशलो गंन्धर्वलोकः, सरलहृदया महानुभावा च कादम्बरी, यदा नातिखेदकरमिव गमनं कलयसि, नावसीदति वा गुरुप्रयोजनम्, अदृष्टचरविषयकुतूहलिवा चेतः, मद्वचनमनुरुध्यते वा भवान् सुखदायि वा आश्चर्यदर्शनम्, अर्हामि वा प्रणयमि२> , ममप्रत्याख्यानयोग्यं वा जनं मन्यसे, समारूढो वा परिचयलेशः, अनुग्राह्यो वायं जनः, ततो नार्हसि निष्फलां कर्तुमभ्यर्थनाभिमाम् । मयैव सह गत्वा हेमकूटमतिरमणीयतानिधानम्, तत्र दृष्ट्वा च मन्निर्विशेषां कादम्बरीम्,अपनीय तस्याः कुमति मनोमोहविलसितम्, एकमहो विश्रम्य श्वोभूते प्रत्यागमिप्यसि । मम हि निष्कारणबान्धवं भवन्तमालोक्यैव दुःखान्धकारभाराक्रान्तेन महतः कालादुच्छ्वसितमिव चेतसा, श्रावयित्वा स्ववृत्तान्तमिमं सह्यतामिव गतः शोकः । दुःखितमपि जनं रमयन्ति सज्जनसमागमाः । परसुखोपपादनपराधीनश्च भवादृशां गुणोदयः इत्युक्तवतीञ्चैनां चन्द्रापीडो ऽव्रवीत्-"भगवति! दर्शनात्प्रभृति परवानयं जनः कर्त्तव्येषु यथेष्टमशङ्किततया नियुज्यताम् इत्यभिधाय तया सहैवोदचलत् । क्रमेण च गत्वा हेमकूटमासाद्य गन्धर्वराजकुलम्, समतीत्य काञ्चनतोरणानि सप्तकक्षान्तराणि कन्यान्तःपुरद्वारमवाप । महाश्वेतादर्शनप्रधावितेन दूरादेव कृतप्रणामेन कनकवेत्रलताहस्तेन प्रतीहारजनेनोपदिशअयमानमार्गः प्रविश्य असङ्ख्ययनारीशतसहस्रसम्बाधम् , स्त्रीमयमपरमिव जीवलोकम्, इयत्तां ग्रहीतुमेकत्र त्रैलोक्यस्त्रैणमिव सङ्गृहीतम् , अपुरुषमिव सर्गान्तरम्, अङ्गनाद्वीपमिवापूर्वमुत्पन्नम्, पञ्चममिव नारीयुगावतारम्, अपरामव पुरुषद्वेषिप्रजापतिनिर्माणम्, अनेककलपकल्पनार्थमुत्पाद्य स्थापितमिवाङ्गनाकोषम् , अतिविस्तारिणा युवतिजनलावण्यप्रभापूरेण प्लावितदिगन्तरेण सिञ्चतेवामृतरसविसरेण दिवसमार्द्रीकुर्वतेव भुवनान्तरालं बहुल -प्रभावर्षिणा मरकतमणिमयेन सर्वतः परिगततया तेजोमयमिव, चन्द्रमण्डलसहस्रैरिव निर्मितसंस्थानम्, ज्योत्स्नयेव घटितसन्निवेशम्, आभरणप्रभाभिरिवनिष्पादितदिगन्तरम्, विभ्रमैरिव कृतसर्वोपकरणम्, यौवनविलासैरिवोत्पादितावयवम्, रतिविलसितैरिव रचित -सञ्चयम्, मन्मथाचरितैरिव कल्पितावकाशम्, अनुरागेणेवानुलिप्तसकलप्रदेशं शृङ्गारमयमिव, सौन्दर्यमयमिव, सुरताधिदैवतमयमिव, कुसुमशरमयमिव, कुतूहलमयमिव, आश्चर्यमयमिव, सौकुमार्यमयमिव , कुमारः कुमारीपुराभ्यन्तरं ददर्श । अतिबहलतया च तस्य कन्यकाजनस्य समन्तादाननद्यतिभिरिन्दुबिम्बवृष्टिमिव पतन्तीम्, अपाङ्गविक्षेपैश्चलितकुवलयवनमयीमिव क्रियमाणामवनीम्, अनिभृत -भ्रूलताविभ्रमैः कामकार्मुकविलास शतानीव प्रचलितानि, शरसिजकलापान्धकारैर्बहुलपक्ष -प्रदोषसार्थानिव सम्बध्नतः, स्मितप्रभाभिरुत्फुल्लकुसुमधवलानिव वसन्तदिवसान् सञ्चरतः, श्वसितानिलपरिमलैर्मलयमारुतानिव परिभ्रमतः, कपोलमण्डलोकैर्माणिक्यदर्पणसहस्राणीव स्फुरितानि करतलरागेण रक्तकमलवनवर्षिणमिव जीवलोकम्, कररुहकिरणस्फुरणेन कुसुमायुधशरसहस्रैरिव सञ्च्छादितानि दिगन्तराणि , आभरणकिरणेन्द्रायुधजालकैरुड्डीयमानानीव भवनमयूरवृन्दानि, यौवनविकारैरुपाद्यमानानीव मन्मथसहस्राण्यद्राक्षीत् । उचितव्यापारव्यपदेशेन कुमारिकाणां सखीहस्तावलम्बेषु पाणिग्रहणानि, वेणुवाद्येषु चुम्बनव्यतिकरान्, वीणासु कररुहव्यापारान्, कन्दुकक्रीडासु करतलप्रहारान् भवन- लतासेककलसकण्ठेषु भुजलतापरिष्वङ्गान्, लीलादोलासु नितम्बस्तन -प्रेङ्खितानि, ताम्बूलवीटिकावखण्डनेषु दशनोपचारान्, बकुलविटपेषु मधुगण्डूषप्रचारान् , अशोकतरुताडनेषु चरणाभिघातान्, उपहारकुसुमस्खलनेषु सीत्कारान् अतिरिक्तं सुरतमिवाभ्यस्यन्तीनामपश्यत् । यत्र च कन्यकाजनस्य कपोलतलालोक एव मुखप्रक्षालनम्, लोचनान्येव कर्णोत्पलानि, हसितच्छवय एवाङ्गरागाः, निश्वासाः एवाधिवासगन्धप्रयुक्तयः, अधरद्युतिरेव कुङ्कुमानुलोपनम् आलापा एव तन्त्रीनिनादाः, भुजलता एव चम्पकमालाः , करतलान्येव लीलाकमलानि, स्तना एवं दर्पणाः, निजदेहप्रभैवांशुकाषगुण्ठनम्, जननस्थलान्येव विलासमणिशिलातलानि कोमलाङ्गुलिराग एव चरणालक्तकरसः, नखमणिमरीचय एव कुट्टिमोपहारकुसुमप्रकराः । यत्र चालक्तकरसो ऽपि चरणातिभारः, बकुलमालिकामेखलाकलनमपि गमनविघ्नकरम्, अङ्गरागगौरवमप्यधिकश्वासनिमित्तम्, अंशुकभारो ऽपि ग्लानिकारणम्, मङ्गलप्रतिसरवलयविधृतिरपि करतलविधुतिहेतुः, अवतंसकुसुमधारणमपि श्रमः, कर्णपूरकमलमधुकरपक्षपवनो ऽप्यायासकरः । तथा च यत्र सखीदर्शनेष्व कृतहस्तावलम्बनमुत्थानमतिसाहसम् , प्रसाधनेषु हारभारसहिष्णुता स्तनकार्कश्यप्रभावः, कुसुमावचयेषु द्वितीयकुसुम -ग्रहणमप्ययुवतिजनोचितम्, कन्यकाविज्ञानेषु माल्यग्रथनम् असुकुमारजनव्यापारः, देवताप्रणामेषु मध्यभागभङ्गो नातिविस्मयकरः । तस्य चैवंविधस्य किञ्चिदभ्यन्तरमतिक्रम्य इतश्चेतश्च परिभ्रमतः कादम्बरीप्रत्यासन्रस्य परिजनस्य तांस्तानतिमनोहरानालापान् । तथाहि-"लवलिके! कल्पय केतकीधूलिभिर्लवलीलतालवालमण्डलानि । सागरिके! गन्धोदककनतदीर्घिकासु विकिररत्नबालुकाम् । मृणालिके! कृत्रिमकमलिनीषु कुङ्कुमरेणुमुष्टिभिश्छुरय यन्त्रचक्रवाकमिथुनानि नानि । मकरिके! कर्पूरपल्लवरसेनाधिवासय गन्धपात्राणि । रजनिके! तमालवीथिकान्धकारेषु निघेहि मणिप्रदीपान् । कुमुदिके! स्थगय शकुनिकुलरक्षणाय मुक्ताजालैर्दाडिमीफलानानिपुणिके! लिख मणिशालभञ्जिकास्तनेषु कुङ्कुमरसपत्रभङ्गान् । उत्पलिके! परामृश कनकसम्मार्जनीभिः कदलीगृहमरकतवेदिकाम् । केसरिके सिञ्च मदिरारसेन बकुलकुसुममालागृहाणि । मालतिके! पाटलय सिन्दूरेणुना कामदेवगृहदन्तबलभिकाम् । नलिनिके! पायय कमलमधुरसं भवनकलहंसान् । कदलिके! नय धारागृहं गृहमयूरान् । कमलिनिके! प्रयच्छ चक्रवाकशावकेभ्यो मृणालक्षीररसम् । चूतलतिके देहि पञ्जरपुंस्कोकिलेभ्यश्चृतकलिकाङ्कुराहारम् । पल्लविके! भोजय मरिचाग्रपल्लवदलानि भवनहारीतान् । लवङ्गिके! विक्षिप चकोरपञ्जरेषु पिप्पलीतण्डुल -शकलानि । मधुकरिके! विरचयकुसुमाभरणकानि । मयूरिके! सङ्गीतशालायां विसर्जय किन्नरमिथुनानि । कन्दलिके! समारोहय क्रीडापर्वतशिखरं जीवञ्जीवमिथुनानि । हरिमिके! देहि पञ्जरशुकसारिकाणामुपदेशम् इत्येतानि अन्यानि च परिहासजल्पितान्यश्रौषीत् । तथाहि-"चामरिके! मिथ्यामुग्धतां प्रकटयन्ती कमभिसन्धातुमिच्छमि? अयि यौवनविलासैरुमत्तीकृते! विज्ञातासि, या त्वं स्तनकलसभारावनम्यमानमूर्त्तिर्मणिस्तम्भमयूरानालम्बसे । परिहासकाङ्क्षिणि! रत्नभित्तिपतितमात्मप्रतिबिम्बमालपसि । पवनहृतोत्तरीयांशुके! हारप्रभायासितकरतला सङ्कलयसि । मणिकुट्टिमेषूपहारकमलस्खलनभीते! निजमुखप्रतिबिम्बकानि परिहरसि । निजसौकुमार्य्यखर्वितबिसप्रसूनसौभाग्ये! जालवातायनपतितपद्मरागालोकं प्रति बालातपशङ्कया करतलमातपत्रीकरोषि । खेदस्रस्त -हस्तगलितचामरे ! नखमुणिमय्यूखकलापमाधुनोषिऽ इत्येतान्यन्यानि च शृण्लन्नेव कादम्बरीभवनसमोपम् उपययौ । पुलिनायमानमुपवनलतागलितकुसुमरेणुपटलैः, दुर्द्दिनायमाननिभृतपरभृतनखक्षताङ्ग -सहकारफलरसवर्षैः, नीहारायमाणमलिनविप्रकीर्णैर्वकुलसेकसीधुधाराधूलिभिः, काञ्चनद्वीपायमानं चम्पकदलोपहारैः , नीलाशोक -वनायमानं कुसुमप्रकरपतितमधुकरबृन्दान्धकारैः, तथा च सञ्जरतः स्त्रीजनस्य रागसागरायमाणं चरणालक्तकरसविसरैः, अमृतोत्पत्तिदिवसायमानमङ्गरागामोदैः, चन्द्रलोकायमानन्दन्तपत्रप्रभामण्डलैः, प्रियङ्गुवनाय मानं कृष्णागुरुपत्रभङ्गैः , लोहितायमानं कर्णपूराशोकपल्लवैः , धवलायमानं चन्दनरसविलेपनैः, हरितायमानं शिरीषकुसुमाभरणैः, अथ सेवार्थमागतेनोभयत ऊर्ध्वस्थितेन स्त्रीजनेन प्राकारेणेव लावण्यमयेन कृतदीर्घरथ्यामुखाकारं मार्गमद्राक्षीत् । ते चान्तर्निपतन्तम् आभरणकिरणालोकं सम्पिण्डितं नदीवेणिकाजलप्रवाहमिव वहन्तमपश्यत् । तन्मध्ये च प्रतिस्रोत इव गत्वा प्रतीहारीमण्डलाधिष्ठितपुरोभागं श्रीमण्डपं ददर्श ।
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 28 Oct 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine