॥ श्रीः ॥
भासनाटकचके
दूतवाक्यम् ।
(नान्द्यन्ते ततः प्रविशति सूत्रधारः ।)
सूत्रधारः —
पादः पायादुपेन्द्रस्य सर्वलोकोत्सवः स वः ।
व्याविद्धो नमुचिर्येन तनुताम्रनखेन खे ॥ १ ॥
एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि ।
(नेपथ्य)
भो भोः प्रतिहाराधिकृताः ! महाराजो दुर्योधनः समाज्ञापयति ।
सूत्रधारः —
भवतु, विज्ञातम् ।
उत्पन्ने धार्तराष्ट्राणां विरोधे पाण्डवैः सह ।
मन्त्रशालां रचयति भृत्यो दुर्योधनाज्ञया ॥ २ ॥
(निष्क्रान्तः ।)
स्थापना ।
(ततः प्रविशति काञ्चुकीयः)
काञ्चुकीयः —
भो भोः प्रतिहाराधिकृताः ! महाराजो दुर्योधनः समाज्ञापयति--अद्य सर्वपार्थिवैः सह मन्त्रयितुमिच्छामि । तदाहूयतां सर्वे राजान इति ।(परिक्रम्यावलोक्य) अये अयं महाराजो दुर्योधन इत एवाभिवर्तते । य एषः,
श्यामो युवा सितदुकूलकृतोत्तरीयः
सच्च्छत्रचामरवरो रचिताङ्गरागः ।
श्रीमान् विभूषणमणिद्युतिरञ्जिताङ्गो
नक्षत्रमध्य इव पर्वगतः शशाङ्कः ॥ ३ ॥
(ततः प्रविशति यथानिर्दिष्टो दुर्योधनः ।)
दुर्योधनः —
उद्भूतरोषमिव मे हृदयं सहर्षं
प्राप्तं रणोत्सवमिमं सहसा विचिन्त्य ।
इच्छामि पाण्डवबले वरणारणाना-
मुत्कृत्तदन्तमुसलानि मुखानि कर्तुम् ॥ ४ ॥
काञ्चुकीयः —
जयतु महाराजः । महाराजशासनात् समानीतं सर्वराजमण्डलम् ।
दुर्योधनः —
सम्यक् कृतम् । प्रविश त्वमवरोधनम् ।
कान्चुकीयः —
यदाज्ञापयति महाराजः ।(निष्क्रान्तः ।)
दुर्योधनः —
आर्यौ वैकर्णवर्षदेवौ! उच्यताम्--अस्ति ममैकादशाक्षौहिणीबलसमुदयः । अस्य कः सेनापतिर्भवितुमर्हति । किं किमाहतुर्भवन्ती -- महान खल्वयमर्थः । मन्त्रयित्वा वक्तव्यमिति । सदृशमेतत् । तदागम्यतां मन्त्रशालामेव प्रविशामः । आचार्य अभिवादये । प्रविशतु भवान् मन्त्रशालाम् । पितामह ! अभिवादये । प्रविशतु भवान् मन्त्रशालाम् । मातुल ! अभिवादये । प्रविशतु भवान् मन्त्रशालाम् । आर्यौ वैकर्णवर्षदेवौ! प्रविशतां भवन्तौ । भो भोः सर्वक्षत्रियाः ! स्वैरं प्रविशन्तु भवन्तः । वयस्य ! कर्ण ! प्रविशामस्तावत् ।
(प्रविश्य)
आचार्य ! एतत् कूर्मासनम्, आस्यताम् । पितामह ! एतत् सिंहासनम्, आस्यताम् । मातुल ! एतच्चर्मासनम्, आस्यताम् । आर्यौवैकर्णवर्षदेवौ! आसातां भवन्तौ । भो भोः सर्वक्षत्रियाः ! स्वैरमासतां भवन्तः । किमिति किमिति महाराजो नास्त इति । अहो सेवाधर्मः । नन्वयमहमासे । वयस्य कर्ण ! त्वमप्यास्स्व । (उपविश्य) आर्यौ वैकर्णवर्षदेवौ! उच्यताम् अस्ति ममैकादशाक्षौहिणीबलसमुदयः । अस्य कः सेनापतिर्भवितुमर्हतीति कः सेनापतिर्भवितुमर्हतीति । किमाहतुर्भवन्तौ -- अत्रभवान् गान्धारराजो वक्ष्यतीति । भवतु, मातुलेनाभिधीयताम् । किमाह मातुलः - अत्रभवति गाङ्गेये स्थिते कोऽन्यः सेनापतिर्भवितुमर्हतीति । सम्यगाह मातुलः । भवतु भवतु, पितामह एव भवतु । वयमप्येतदभिलषामः ।
सेनानिनादपटहस्वनशङ्खनादैश्चण्डानिलाहतमहोदधिनादकल्पैः ।
गाङ्गेयमूर्ध्नि पतितैरभिषेकतोयैः
सार्धं पतन्तु हृदयानि नराधिपानाम् ॥ ५ ॥
(प्रविश्य)
काञ्चुकीयः —
जयतु महाराजः । एष खलु पाण्डवस्कन्धावाराद् दौत्येनागतः पुरुषोत्तमो नारायणः ।
दुर्योधनः —
मा तावद् भो बादरायण ! । किं किं कंसभृत्यो दामोदरस्तव पुरुषोत्तमः । स गोपालकस्तव पुरुषोत्तमः । बार्हद्रथापहृतविषयकीर्तिभोगस्तव पुरुषोत्तमः । अहो पार्थिवासन्नमाश्रितस्य भृत्यजनस्य समुदाचारः । सगर्वं खल्वस्य वचनम् । आ अपध्वंस ।
काञ्चुकीयः —
प्रसीदतु महाराजः । सम्भ्रमेण समुदाचारो विस्मृतः ।(पादयोः पतति ।)
दुर्योधनः —
सम्भ्रम इति । आ मनुष्याणामस्त्येव सम्भ्रमः । उत्तिष्ठोत्तिष्ठ ।
कान्न्चुकीयः —
अनुगृहीतोऽस्मि ।
दुर्योधनः —
इदानीं प्रसन्नोऽस्मि । क एष दूतः प्राप्तः ।
काञ्चुकीयः —
दूतः प्राप्तः केशवः ।
दुर्योधनः —
केशव इति । एवमेष्टव्यम् । अयमेव समुदाचारः । भो भो राजानः ! दौत्येनागतस्य केशवस्य किं युक्तम् । किमाहुर्भवन्तःअर्घ्यप्रदानेन पूजयितव्यः केशव इति । न मे रोचते । ग्रहणमस्यात्र हितं पश्यामि ।
ग्रहणमुपगते तु वासुभद्रे
हृतनयना इव पाण्डवा भवेयुः ।
गतिमतिरहितेषु पाण्डवेषु
क्षितिरखिलापि भवेन्ममासपत्ना ॥ ६ ॥
अपिच योऽत्र केशवस्य प्रत्युत्थाम्यति, स मया द्वादशसुवर्णभारेण दण्ड्यः । तदप्रमत्ता भवन्तु भवन्तः । कोनुखलु ममाप्रत्युत्थानम्योपायः । हन्त दृष्ट उपायः । बादरायण ! आनीयतां स चित्रपटो ननु, यत्र द्रौपदीकेशाम्बरावकर्षणमालिखितम् । (अपवार्य) तस्मिन् दृष्टिविन्यासं कुर्वन् नोत्थास्यामि केशवस्य ।
काञ्चुकीयः —
यदाज्ञापयति महाराजः ।
दुर्योधनः —
ममाग्रतः प्रसारय ।
काञ्चुकीयः —
यदाज्ञापयति महाराजः ।(प्रसारयति ।)
दुर्योधनः —
अहो दर्शनीयोऽयं चित्रपटः । एष दुःशासनो द्रौपदीं केशहस्ते गृहीतवान् । एषा खलु द्रौपदी,
दुःशासनपरामृष्टा सम्भ्रमोत्फुल्ललोचना ।
राहुवक्त्रान्तरगता चन्द्रलेखेव शोभते ॥ ७ ॥
एष दुरात्मा भीमः सर्वराजसमक्षमवमानितां द्रौपदीं दृष्ट्वा प्रवृद्धामर्षः सभास्तम्भं तुलयति । एष युधिष्ठिरः,
सत्यधर्मघृणायुक्तो द्यूतविभ्रष्टचेतनः ।
करोत्यपाङ्गविक्षेपैः शान्तामर्षं वृकोदरम् ॥ ८ ॥
एष इदानीमर्जुनः,
रोषाकुलाक्षः स्फुरिताधरोष्ठ-
स्तृणाय मत्वा रिपुमण्डलं तत् ।
उत्सादयिष्यन्निव सर्वराज्ञः
शनैः समाकर्षति गाण्डिवज्याम् ॥ ९ ॥
एष युधिष्ठिरोऽर्जुनं निवारयति । एतौ नकुलसहदेवौ,
कृतपरिकरबन्धी चर्मनिस्त्रिंशहस्ती
परुषितमुखरागी स्पष्टदष्टाधरोष्ठौ ।
विगतमरणशङ्कौ सत्वरं भ्रातरं मे
हरिमिव मृगपोती तेजसाभिप्रयातौ ॥ १० ॥
एप युधिष्ठिरः कुमारावुपेत्य निवारयति -
नीचोऽहमेव विपरीतमतिः कथं वा
रोषं परित्यजतमद्य नयानयज्ञौ ।
द्यूताधिकारमवमानममृष्यमाणाः
सत्वाधिकेषु वचनीयपराक्रमाः स्युः ॥ ११ ॥
इति । एष गान्धारराजः,
अक्षान् क्षिपन् सकितवं प्रहसन् सगर्वं
सङ्कोचयन्निव मुदं द्विषतां स्वकीर्त्त्या ।
स्वैरासनो द्रुपदराजसुतां रुदन्तीं
काक्षेण पश्यति लिखत्यभिखां नयज्ञः ॥ १२ ॥
एतावाचार्यपितामहौ तां दृष्ट्वा लज्जायमानौ पटान्तान्तर्हितमुखौस्थितौ । अहो अस्य वर्णाढ्यता । अहो भावोपपन्नता । अहो युक्तलेखता । सुव्यक्तमालिखितोऽयं चित्रपटः । प्रीतोऽस्मि । कोऽत्र ।
काञ्चुकीयः —
जयतु महाराजः ।
दुर्योधनः —
बादरायण ! आनीयतां स विहगवाहनमात्रविस्मितो दूतः ।
काञ्चुकीयः —
यदाज्ञापयति महाराजः ।(निष्क्रान्तः)
दुर्योधनः —
वयस्य कर्ण !
प्राप्तः किलाद्य वचनादिह पाण्डवानां
दौत्येन भृत्य इव कृष्णमतिः स कृष्णः ।
श्रोतुं सखे ! त्वमपि सज्जय कर्ण ! कर्णौ
नारीमृदूनि वचनानि युधिष्ठिरस्य ॥ १३ ॥
(ततः प्रविशति वासुदेवः काञ्चुकीयश्च ।)
वासुदेवः —
अद्य खलु धर्मराजवचनाद् धनञ्जयाकृत्रिममित्रतया चाहवदर्पमनुक्तप्राहिणं सुयोधनं प्रति मयाप्यनुचितदौत्यसमयोऽ नुष्ठितः । अथच,
कृष्णा पराभवभुवा रिपुवाहिनीभ-
कुम्भस्थलीदलनतीक्ष्णगदाधरस्य ।
भीमस्य कोपशिखिना युधि पार्थपत्त्रि-
चण्डानिलैश्च कुरुवंशवनं विनष्टम् ॥ १४ ॥
इदं सुयोधनशिबिरम् । इह हि,
आवासाः पार्थिवानां सुरपुरसदृशाः स्वच्छन्दविहिता
विस्तीर्णाः शस्त्रशाला बहुविधकरणैः शस्त्रैरुपचिताः ।
हेषन्ते मन्दुरास्थास्तुरगवरघटा बृंहन्ति करिण
ऐश्वर्यं स्फीतमेतत् स्वजनपरिभवादासन्नविलयम् ॥ १५ ॥
भोः!
दुष्टवादी गुणद्वेषी शठः स्वजननिर्दयः ।
सुयोधनो हि मां दृष्ट्वा नैव कार्यं करिष्यति ॥ १६ ॥
भो बादरायण ! किं प्रवेष्टव्यम् ।
काञ्चुकीयः —
अथकिमथकिम् । प्रवेष्टुमर्हति पद्मनाभः ।
वासुदेवः —
(प्रविश्य) कथं कथं मां दृष्ट्रा सम्भ्रान्ताः सर्वक्षत्रियाः । अलमलं सम्भ्रमेण । स्वैरमासतां भवन्तः ।
दुर्योधनः —
कथं कथं केशवं दृष्ट्वा सम्भ्रान्ताः सर्वक्षत्रियाः । अलमलं सम्भ्रमेण । स्मरणीयः पूर्वमाश्रावितो दण्डः । नन्वहमाज्ञप्ता ।
वासुदेवः —
भोः सुयोधन ! किमास्से ।
दुर्योधनः —
(आसनात् पतित्वा आत्मगतम्) सुव्यक्तं प्राप्त एव केशवः ।
उत्साहेन मतिं कृत्वाप्यासीनोऽस्मि समाहितः ।
केशवस्य प्रभावेन चलितोऽस्म्यासनादहम् ॥ १७ ॥
( प्रकाशम् ) —
भो दूत ! एतदासनमास्यताम् ।
वासुदेवः —
आचार्य ! आस्यताम् । गाङ्गेयप्रमुखा राजानः ! स्वैरमासतां भवन्तः । वयमप्युपविशामः ।(उपविश्य) अहो दर्शनीयोऽयं चित्रपटः । मा तावत् । द्रौपदीकेशधर्षणमत्रालिखितम् । अहोतुखलु,
सुयोधनोऽयं स्वजनावमानं पराक्रमं पश्यति बालिशत्वात् ।
को नाम लोके स्वयमात्मदोषमुद्धाटयेन्नष्टघृणः सभासु ॥ १८ ॥
आः अपनीयतामेष चित्रपटः ।
दुर्योधनः —
बादरायण ! अपनीयतां किल चित्रपटः ।
काञ्चुकीयः —
यदाज्ञापयति महाराजः ।(अपनयति ।)
दुर्योधनः —
भो दूत !
धर्मात्मजो वायुसुतश्च भीमो भ्रातार्जुनो मे त्रिदशेन्द्रसूनुः ।
यमौ च तावश्विसुतौ विनीतौ सर्वे सभृत्याः कुशलोपपन्नाः ॥ १९ ॥
वासुदेवः —
सदृशमेतद् गान्धारीपुत्रस्य । अथकिमथकिम् । कुशलिन सर्वे । भवतो राज्ये शरीरे बाह्याभ्यन्तरे च कुशलमनामयं च पृष्ट्वा विज्ञापयन्ति युधिष्ठिरादयः पाण्डवाः--
अनुभूतं महद् दुःखं सम्पूर्णः समयः स च ।
अस्माकमपि धर्म्यं यद् दायाद्यं तद् विभज्यताम् ॥ २० ॥
इति ।
दुर्योधनः —
कथं कथं दायाद्यमिति ।