दूतवाक्यम्
/ 3
←

Dutavakyam Kannada PDF & Online Reader (ದೂತವಾಕ್ಯಮ್)

Dutavakyam (दूतवाक्यम्) by भासः — Kannada Text & PDF Download

📜 Last Proofread: 11 Sep 2026
📥 Download Kannada PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 11 Sep 2026
📥 Download PDF ♡ Save
🌐 Language & Script ಕನ್ನಡ
↔️ Text Alignment Center
॥ श्रीः ॥ भासनाटकचके दूतवाक्यम् । (नान्द्यन्ते ततः प्रविशति सूत्रधारः ।) सूत्रधारः — पादः पायादुपेन्द्रस्य सर्वलोकोत्सवः स वः । व्याविद्धो नमुचिर्येन तनुताम्रनखेन खे ॥ १ ॥ एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि । (नेपथ्य) भो भोः प्रतिहाराधिकृताः ! महाराजो दुर्योधनः समाज्ञापयति । सूत्रधारः — भवतु, विज्ञातम् । उत्पन्ने धार्तराष्ट्राणां विरोधे पाण्डवैः सह । मन्त्रशालां रचयति भृत्यो दुर्योधनाज्ञया ॥ २ ॥ (निष्क्रान्तः ।) स्थापना । (ततः प्रविशति काञ्चुकीयः) काञ्चुकीयः — भो भोः प्रतिहाराधिकृताः ! महाराजो दुर्योधनः समाज्ञापयति--अद्य सर्वपार्थिवैः सह मन्त्रयितुमिच्छामि । तदाहूयतां सर्वे राजान इति ।(परिक्रम्यावलोक्य) अये अयं महाराजो दुर्योधन इत एवाभिवर्तते । य एषः, श्यामो युवा सितदुकूलकृतोत्तरीयः सच्च्छत्रचामरवरो रचिताङ्गरागः । श्रीमान् विभूषणमणिद्युतिरञ्जिताङ्गो नक्षत्रमध्य इव पर्वगतः शशाङ्कः ॥ ३ ॥ (ततः प्रविशति यथानिर्दिष्टो दुर्योधनः ।) दुर्योधनः — उद्भूतरोषमिव मे हृदयं सहर्षं प्राप्तं रणोत्सवमिमं सहसा विचिन्त्य । इच्छामि पाण्डवबले वरणारणाना- मुत्कृत्तदन्तमुसलानि मुखानि कर्तुम् ॥ ४ ॥ काञ्चुकीयः — जयतु महाराजः । महाराजशासनात् समानीतं सर्वराजमण्डलम् । दुर्योधनः — सम्यक् कृतम् । प्रविश त्वमवरोधनम् । कान्चुकीयः — यदाज्ञापयति महाराजः ।(निष्क्रान्तः ।) दुर्योधनः — आर्यौ वैकर्णवर्षदेवौ! उच्यताम्--अस्ति ममैकादशाक्षौहिणीबलसमुदयः । अस्य कः सेनापतिर्भवितुमर्हति । किं किमाहतुर्भवन्ती -- महान खल्वयमर्थः । मन्त्रयित्वा वक्तव्यमिति । सदृशमेतत् । तदागम्यतां मन्त्रशालामेव प्रविशामः । आचार्य अभिवादये । प्रविशतु भवान् मन्त्रशालाम् । पितामह ! अभिवादये । प्रविशतु भवान् मन्त्रशालाम् । मातुल ! अभिवादये । प्रविशतु भवान् मन्त्रशालाम् । आर्यौ वैकर्णवर्षदेवौ! प्रविशतां भवन्तौ । भो भोः सर्वक्षत्रियाः ! स्वैरं प्रविशन्तु भवन्तः । वयस्य ! कर्ण ! प्रविशामस्तावत् । (प्रविश्य) आचार्य ! एतत् कूर्मासनम्, आस्यताम् । पितामह ! एतत् सिंहासनम्, आस्यताम् । मातुल ! एतच्चर्मासनम्, आस्यताम् । आर्यौवैकर्णवर्षदेवौ! आसातां भवन्तौ । भो भोः सर्वक्षत्रियाः ! स्वैरमासतां भवन्तः । किमिति किमिति महाराजो नास्त इति । अहो सेवाधर्मः । नन्वयमहमासे । वयस्य कर्ण ! त्वमप्यास्स्व । (उपविश्य) आर्यौ वैकर्णवर्षदेवौ! उच्यताम् अस्ति ममैकादशाक्षौहिणीबलसमुदयः । अस्य कः सेनापतिर्भवितुमर्हतीति कः सेनापतिर्भवितुमर्हतीति । किमाहतुर्भवन्तौ -- अत्रभवान् गान्धारराजो वक्ष्यतीति । भवतु, मातुलेनाभिधीयताम् । किमाह मातुलः - अत्रभवति गाङ्गेये स्थिते कोऽन्यः सेनापतिर्भवितुमर्हतीति । सम्यगाह मातुलः । भवतु भवतु, पितामह एव भवतु । वयमप्येतदभिलषामः । सेनानिनादपटहस्वनशङ्खनादैश्चण्डानिलाहतमहोदधिनादकल्पैः । गाङ्गेयमूर्ध्नि पतितैरभिषेकतोयैः सार्धं पतन्तु हृदयानि नराधिपानाम् ॥ ५ ॥ (प्रविश्य) काञ्चुकीयः — जयतु महाराजः । एष खलु पाण्डवस्कन्धावाराद् दौत्येनागतः पुरुषोत्तमो नारायणः । दुर्योधनः — मा तावद् भो बादरायण ! । किं किं कंसभृत्यो दामोदरस्तव पुरुषोत्तमः । स गोपालकस्तव पुरुषोत्तमः । बार्हद्रथापहृतविषयकीर्तिभोगस्तव पुरुषोत्तमः । अहो पार्थिवासन्नमाश्रितस्य भृत्यजनस्य समुदाचारः । सगर्वं खल्वस्य वचनम् । आ अपध्वंस । काञ्चुकीयः — प्रसीदतु महाराजः । सम्भ्रमेण समुदाचारो विस्मृतः ।(पादयोः पतति ।) दुर्योधनः — सम्भ्रम इति । आ मनुष्याणामस्त्येव सम्भ्रमः । उत्तिष्ठोत्तिष्ठ । कान्न्चुकीयः — अनुगृहीतोऽस्मि । दुर्योधनः — इदानीं प्रसन्नोऽस्मि । क एष दूतः प्राप्तः । काञ्चुकीयः — दूतः प्राप्तः केशवः । दुर्योधनः — केशव इति । एवमेष्टव्यम् । अयमेव समुदाचारः । भो भो राजानः ! दौत्येनागतस्य केशवस्य किं युक्तम् । किमाहुर्भवन्तःअर्घ्यप्रदानेन पूजयितव्यः केशव इति । न मे रोचते । ग्रहणमस्यात्र हितं पश्यामि । ग्रहणमुपगते तु वासुभद्रे हृतनयना इव पाण्डवा भवेयुः । गतिमतिरहितेषु पाण्डवेषु क्षितिरखिलापि भवेन्ममासपत्ना ॥ ६ ॥ अपिच योऽत्र केशवस्य प्रत्युत्थाम्यति, स मया द्वादशसुवर्णभारेण दण्ड्यः । तदप्रमत्ता भवन्तु भवन्तः । कोनुखलु ममाप्रत्युत्थानम्योपायः । हन्त दृष्ट उपायः । बादरायण ! आनीयतां स चित्रपटो ननु, यत्र द्रौपदीकेशाम्बरावकर्षणमालिखितम् । (अपवार्य) तस्मिन् दृष्टिविन्यासं कुर्वन् नोत्थास्यामि केशवस्य । काञ्चुकीयः — यदाज्ञापयति महाराजः । दुर्योधनः — ममाग्रतः प्रसारय । काञ्चुकीयः — यदाज्ञापयति महाराजः ।(प्रसारयति ।) दुर्योधनः — अहो दर्शनीयोऽयं चित्रपटः । एष दुःशासनो द्रौपदीं केशहस्ते गृहीतवान् । एषा खलु द्रौपदी, दुःशासनपरामृष्टा सम्भ्रमोत्फुल्ललोचना । राहुवक्त्रान्तरगता चन्द्रलेखेव शोभते ॥ ७ ॥ एष दुरात्मा भीमः सर्वराजसमक्षमवमानितां द्रौपदीं दृष्ट्वा प्रवृद्धामर्षः सभास्तम्भं तुलयति । एष युधिष्ठिरः, सत्यधर्मघृणायुक्तो द्यूतविभ्रष्टचेतनः । करोत्यपाङ्गविक्षेपैः शान्तामर्षं वृकोदरम् ॥ ८ ॥ एष इदानीमर्जुनः, रोषाकुलाक्षः स्फुरिताधरोष्ठ- स्तृणाय मत्वा रिपुमण्डलं तत् । उत्सादयिष्यन्निव सर्वराज्ञः शनैः समाकर्षति गाण्डिवज्याम् ॥ ९ ॥ एष युधिष्ठिरोऽर्जुनं निवारयति । एतौ नकुलसहदेवौ, कृतपरिकरबन्धी चर्मनिस्त्रिंशहस्ती परुषितमुखरागी स्पष्टदष्टाधरोष्ठौ । विगतमरणशङ्कौ सत्वरं भ्रातरं मे हरिमिव मृगपोती तेजसाभिप्रयातौ ॥ १० ॥ एप युधिष्ठिरः कुमारावुपेत्य निवारयति - नीचोऽहमेव विपरीतमतिः कथं वा रोषं परित्यजतमद्य नयानयज्ञौ । द्यूताधिकारमवमानममृष्यमाणाः सत्वाधिकेषु वचनीयपराक्रमाः स्युः ॥ ११ ॥ इति । एष गान्धारराजः, अक्षान् क्षिपन् सकितवं प्रहसन् सगर्वं सङ्कोचयन्निव मुदं द्विषतां स्वकीर्त्त्या । स्वैरासनो द्रुपदराजसुतां रुदन्तीं काक्षेण पश्यति लिखत्यभिखां नयज्ञः ॥ १२ ॥ एतावाचार्यपितामहौ तां दृष्ट्वा लज्जायमानौ पटान्तान्तर्हितमुखौस्थितौ । अहो अस्य वर्णाढ्यता । अहो भावोपपन्नता । अहो युक्तलेखता । सुव्यक्तमालिखितोऽयं चित्रपटः । प्रीतोऽस्मि । कोऽत्र । काञ्चुकीयः — जयतु महाराजः । दुर्योधनः — बादरायण ! आनीयतां स विहगवाहनमात्रविस्मितो दूतः । काञ्चुकीयः — यदाज्ञापयति महाराजः ।(निष्क्रान्तः) दुर्योधनः — वयस्य कर्ण ! प्राप्तः किलाद्य वचनादिह पाण्डवानां दौत्येन भृत्य इव कृष्णमतिः स कृष्णः । श्रोतुं सखे ! त्वमपि सज्जय कर्ण ! कर्णौ नारीमृदूनि वचनानि युधिष्ठिरस्य ॥ १३ ॥ (ततः प्रविशति वासुदेवः काञ्चुकीयश्च ।) वासुदेवः — अद्य खलु धर्मराजवचनाद् धनञ्जयाकृत्रिममित्रतया चाहवदर्पमनुक्तप्राहिणं सुयोधनं प्रति मयाप्यनुचितदौत्यसमयोऽ नुष्ठितः । अथच, कृष्णा पराभवभुवा रिपुवाहिनीभ- कुम्भस्थलीदलनतीक्ष्णगदाधरस्य । भीमस्य कोपशिखिना युधि पार्थपत्त्रि- चण्डानिलैश्च कुरुवंशवनं विनष्टम् ॥ १४ ॥ इदं सुयोधनशिबिरम् । इह हि, आवासाः पार्थिवानां सुरपुरसदृशाः स्वच्छन्दविहिता विस्तीर्णाः शस्त्रशाला बहुविधकरणैः शस्त्रैरुपचिताः । हेषन्ते मन्दुरास्थास्तुरगवरघटा बृंहन्ति करिण ऐश्वर्यं स्फीतमेतत् स्वजनपरिभवादासन्नविलयम् ॥ १५ ॥ भोः! दुष्टवादी गुणद्वेषी शठः स्वजननिर्दयः । सुयोधनो हि मां दृष्ट्वा नैव कार्यं करिष्यति ॥ १६ ॥ भो बादरायण ! किं प्रवेष्टव्यम् । काञ्चुकीयः — अथकिमथकिम् । प्रवेष्टुमर्हति पद्मनाभः । वासुदेवः — (प्रविश्य) कथं कथं मां दृष्ट्रा सम्भ्रान्ताः सर्वक्षत्रियाः । अलमलं सम्भ्रमेण । स्वैरमासतां भवन्तः । दुर्योधनः — कथं कथं केशवं दृष्ट्वा सम्भ्रान्ताः सर्वक्षत्रियाः । अलमलं सम्भ्रमेण । स्मरणीयः पूर्वमाश्रावितो दण्डः । नन्वहमाज्ञप्ता । वासुदेवः — भोः सुयोधन ! किमास्से । दुर्योधनः — (आसनात् पतित्वा आत्मगतम्) सुव्यक्तं प्राप्त एव केशवः । उत्साहेन मतिं कृत्वाप्यासीनोऽस्मि समाहितः । केशवस्य प्रभावेन चलितोऽस्म्यासनादहम् ॥ १७ ॥ ( प्रकाशम् ) — भो दूत ! एतदासनमास्यताम् । वासुदेवः — आचार्य ! आस्यताम् । गाङ्गेयप्रमुखा राजानः ! स्वैरमासतां भवन्तः । वयमप्युपविशामः ।(उपविश्य) अहो दर्शनीयोऽयं चित्रपटः । मा तावत् । द्रौपदीकेशधर्षणमत्रालिखितम् । अहोतुखलु, सुयोधनोऽयं स्वजनावमानं पराक्रमं पश्यति बालिशत्वात् । को नाम लोके स्वयमात्मदोषमुद्धाटयेन्नष्टघृणः सभासु ॥ १८ ॥ आः अपनीयतामेष चित्रपटः । दुर्योधनः — बादरायण ! अपनीयतां किल चित्रपटः । काञ्चुकीयः — यदाज्ञापयति महाराजः ।(अपनयति ।) दुर्योधनः — भो दूत ! धर्मात्मजो वायुसुतश्च भीमो भ्रातार्जुनो मे त्रिदशेन्द्रसूनुः । यमौ च तावश्विसुतौ विनीतौ सर्वे सभृत्याः कुशलोपपन्नाः ॥ १९ ॥ वासुदेवः — सदृशमेतद् गान्धारीपुत्रस्य । अथकिमथकिम् । कुशलिन सर्वे । भवतो राज्ये शरीरे बाह्याभ्यन्तरे च कुशलमनामयं च पृष्ट्वा विज्ञापयन्ति युधिष्ठिरादयः पाण्डवाः-- अनुभूतं महद् दुःखं सम्पूर्णः समयः स च । अस्माकमपि धर्म्यं यद् दायाद्यं तद् विभज्यताम् ॥ २० ॥ इति । दुर्योधनः — कथं कथं दायाद्यमिति ।
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 11 Sep 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine