दयाशतकम्
/ 3
←

Dayashatakam Sanskrit PDF & Online Reader (दयाशतकम्)

Dayashatakam (दयाशतकम्) by Vedanta Desika (वेदान्तदेशिकः) — Sanskrit Text & PDF Download

📜 Last Proofread: 19 Aug 2026
📥 Download Sanskrit PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 19 Aug 2026
📥 Download PDF ♡ Save
🌐 Language & Script संस्कृतम्
↔️ Text Alignment Center
दयाशतकम् श्रीमते निगमान्तमहादेशिकाय नमः । श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ श्रीः । प्रपद्ये तं गिरिं प्रायः श्रीनिवासानुकम्पया । इक्षुसारस्रवन्त्येव यन्मूर्त्या शर्करायितम् ॥ १॥ विगाहे तीर्थबहुलां शीतलां गुरुसन्ततिम् । श्रीनिवासदयाम्भोधिपरीवाहपरम्पराम् ॥ २॥ कृतिनः कमलावासकारुण्यैकान्तिनो भजे । धत्ते यत्सूक्तिरूपेण त्रिवेदी सर्वयोग्यताम् ॥ ३॥ पराशरमुखान्वन्दे भगीरथनये स्थितान् । कमलाकान्तकारुण्यगङ्गाप्लावितमद्विधान् ॥ ४॥ अशेषविघ्नशमनमनीकेश्वरमाश्रये । श्रीमतः करुणाम्भोधौ शिक्षास्रोत इवोत्थितम् ॥ ५॥ समस्तजननीं वन्दे चैतन्यस्तन्यदायिनीम् । श्रेयसीं श्रीनिवासस्य करुणामिव रूपिणीम् ॥ ६॥ वन्दे वृषगिरीशस्य महिषीं विश्वधारिणीम् । तत्कृपाप्रतिघातानां क्षमया वारणं यया ॥ ७॥ निशामयतु मां नीला यद्भोगपटलैर्ध्रुवम् । भावितं श्रीनिवासस्य भक्तदोषेष्वदर्शनम् ॥ ८॥ कमप्यनवधिं वन्दे करुणावरुणालयम् । वृषशैलतटस्थानां स्वयं व्यक्तिमुपागतम् ॥ ९॥ अकिञ्चननिधिं सूतिमपवर्गत्रिवर्गयोः । अञ्जनाद्रीश्वरदयामभिष्टौमि निरञ्जनाम् ॥ १०॥ अनुचरशक्त्यादिगुणामग्रेसरबोधविरचितालोकाम् । स्वाधीनवृषगिरीशां स्वयं प्रभूतां प्रमाणयामि दयाम् ॥ ११॥ अपि निखिललोकसुचरितमुष्टिन्धयदुरितमूर्च्छनाजुष्टम् । सञ्जीवयतु दये मामञ्जनगिरिनाथरञ्जनी भवती ॥ १२॥ भगवति दये भवत्या वृषगिरिनाथे समाप्लुते तुङ्गे । अप्रतिघमज्जनानां हस्तालम्बो मदागसां मृग्यः ॥ १३॥ कृपणजनकल्पलतिकां कृतापराधस्य निष्क्रियामाद्याम् । वृषगिरिनाथदये त्वां विदन्ति संसारतारिणीं विबुधाः ॥ १४॥ वृषगिरिगृहमेधिगुणा बोधबलैश्वर्यवीर्यशक्तिमुखाः । दोषा भवेयुरेते यदि नाम दये त्वया विनाभूताः ॥ १५॥ आसृष्टि सन्ततानामपराधानां निरोधिनीं जगतः । पद्मासहायकरुणे प्रतिसञ्चरकेलिमाचरसि ॥ १६॥ अचिदविशिष्टान्प्रलये जन्तूनवलोक्य जातनिर्वेदा । करणकलेवरयोगं वितरसि वृषशैलनाथकरुणे त्वम् ॥ १७॥ अनुगुणदशार्पितेन श्रीधरकरुणे समाहितस्नेहा । शमयसि तमः प्रजानां शास्त्रमयेन स्थिरप्रदीपेन ॥ १८॥ रुढा वृषाचलपतेः पादे मुखकान्तिपत्रलच्छाया । करुणे सुखयसि विनतान्कटाक्षविटपैः करापचेयफलैः ॥ १९॥ नयने वृषाचलेन्दोस्तारामैत्रीं दधानया करुणे । दृष्टस्त्वयैव जनिमानपवर्गमकृष्टपच्यमनुभवति ॥ २०॥ समयोपनतैस्तव प्रवाहैरनुकम्पे कृतसम्प्लवा धरित्री । शरणागतसस्यमालिनीयं वृषशैलेशकृषीवलं धिनोति ॥ २१॥ कलशोदधिसम्पदो भवत्याः करुणे सन्मतिमन्थसंस्कृतायाः । अमृतांशमवैमि दिव्यदेहं मृतसञ्जीवनमञ्जनाचलेन्दोः ॥ २२॥ जलधेरिव शीतता दये त्वं वृषशैलाधिपतेस्स्वभावभूता । प्रलयारभटीनटीं तदीक्षां प्रसभं ग्राहयसि प्रसत्तिलास्यम् ॥ २३॥ प्रणतप्रतिकूलमूलघाती प्रतिघः कोऽपि वृषाचलेश्वरस्य । कलमे यवसापचायनीत्या करुणे किङ्करतां तवोपयाति ॥ २४॥ अबहिष्कृतनिग्रहान्विदन्तः कमलाकान्तगुणान्स्वतन्त्रतादीन् । अविकल्पमनुग्रहं दुहानां भवतीमेव दये भजन्ति सन्तः ॥ २५॥ कमलानिलयस्त्वया दयालुः करुणे निष्करुणा निरूपणे त्वम् । अत एव हि तावकाश्रितानां दुरितानां भवति त्वदेव भीतिः ॥ २६॥ अतिलङ्घितशासनेष्वभीक्ष्णं वृषशैलाधिपतिर्विजृम्भितोष्मा । पुनरेव दये क्षमानिदानैर्भवतीमाद्रियते भवत्यधीनैः ॥ २७॥ करुणे दुरितेषु मामकेषु प्रतिकारान्तरदुर्जयेषु खिन्नः । कवचायितया त्वयैव शार्ङ्गी विजयस्थानमुपाश्रितो वृषाद्रिम् ॥ २८॥ मयि तिष्ठति दुष्कृतां प्रधाने मितदोषानितरान्विचिन्वती त्वम् । अपराधगणैरपूर्णकुक्षिः कमलाकान्तदये कथं भवित्री ॥ २९॥ अहमस्म्यपराधचक्रवर्ती करुणे त्वं च गुणेषु सार्वभौमी । विदुषी स्थितिमीदृशीं स्वयं मां वृषशैलेश्वरपादसात्कुरु त्वम् ॥ ३०॥ अशिथिलकरणेऽस्मिन्नक्षतश्वासवृत्तौ वपुषि गमनयोग्ये वासमासादयेयम् । वृषगिरिकटकेषु व्यञ्जयत्सु प्रतीतै- र्मधुमथनदये त्वां वारिधाराविशेषैः ॥ ३१॥ अविदितनिजयोगक्षेममात्मानभिज्ञं गुणलवरहितं मां गोप्तुकामा दये त्वम् । परवति चतुरैस्ते विभ्रमैः श्रीनिवासे बहुमतिमनपायां विन्दसि श्रीधरण्योः ॥ ३२॥ फलवितरणदक्षं पक्षपातानभिज्ञं प्रगुणमनुविधेयं प्राप्य पद्मासहायम् । महति गुणसमाजे मानपूर्वं दये त्वं प्रतिवदसि यथार्हं पाप्मनां मामकानाम् ॥ ३३॥ अनुभवितुमघौघं नालमागामिकालः प्रशमयितुमशेषं निष्क्रियाभिर्न शक्यम् । स्वयमिति हि दये त्वं स्वीकृतश्रीनिवासा शिथिलितभवभीतिः श्रेयसे जायसे नः ॥ ३४॥ अवतरणविशेषैरात्मलीलापदेशै- रवमतिमनुकम्पे मन्दचित्तेषु विन्दन् । वृषभशिखरिनाथस्त्वन्निदेशेन नूनं भजति शरणभाजां भाविनो जन्मभेदान् ॥ ३५॥ परहितमनुकम्पे भावयन्त्यां भवत्यां स्थिरमनुपधि हार्दं श्रीनिवासो दधानः । ललितरुचिषु लक्ष्मीभूमिनीलासु नूनं प्रथयति बहुमानं त्वत्प्रतिच्छन्दबुद्ध्या ॥ ३६॥ वृषगिरिसविधेषु व्याजतो वासभाजां दुरितकलुषितानां दूयमाना दये त्वम् । करणविलयकाले कान्दिशीकस्मृतीनां स्मरयसि बहुलीलं माधवं सावधाना ॥ ३७॥ दिशि दिशि गतिविद्भिर्देशिकैर्नीयमाना स्थिरतरमनुकम्पे स्त्यानलग्रा गुणैस्त्वम् । परिगतवृषशैलं पारमारोपयन्ती भवजलधिगतानां पोतपात्री भवित्री ॥ ३८॥ परिमितफलसङ्गात्प्राणिनः किम्पचाना निगमविपणिमध्ये नित्यमुक्तानुषक्तम् । प्रसदनमनुकम्पे प्राप्तवत्या भवत्या वृषगिरिहरिनीलं व्यञ्जितं निर्विशन्ति ॥ ३९॥ त्वयि बहुमतिहीनः श्रीनिवासानुकम्पे जगति गतिमिहान्यां देवि संमन्यते यः । स खलु विबुधसिन्धौ सन्निकर्षे वहन्त्यां शमयति मृगतृष्णावीचिकाभिः पिपासाम् ॥ ४०॥ आज्ञां ख्यातिं धनमनुचरानाधिराज्यादिकं वा काले दृष्ट्वा कमलवसतेरप्यकिञ्चित्कराणि । पद्माकान्तं प्रणिहितवतीं पालनेऽनन्यसाध्ये साराभिज्ञा जगति कृतिनस्संश्रयन्ते दये त्वाम् ॥ ४१॥ प्राजापत्यप्रभृतिविभवं प्रेक्ष्य पर्यायदुःखं जन्माकाङ्क्षन्वृषगिरिवने जग्मुषां तस्थुषां वा । आशासानाः कतिचन विभोस्त्वत्परिष्वङ्गधन्यै- रङ्गीकारं क्षणमपि दये हार्दतुङ्गैरपाङ्गैः ॥ ४२॥ नाभीपद्मस्फुरणसुभगा नव्यनीलोत्पलाभा क्रीडाशैलं कमपि करुणे वृण्वती वेङ्कटाख्यम् । शीता नित्यं प्रसदनवती श्रद्धधानावगाह्या दिव्या काचिज्जयति महती दीर्घिका तावकीना ॥ ४३॥ यस्मिन्दृष्टे तदितरसुखैर्गम्यते गोष्पदत्वं सत्यं ज्ञानं त्रिभिरवधिभिर्मुक्तमानन्दसिन्धुम् । त्वत्स्वीकारात्तमिह कृतिनस्सूरिवृन्दानुभाव्यं नित्यापूर्वं निधिमिव दये निर्विशन्त्यञ्जनाद्रौ ॥ ४४॥ सारं लब्ध्वा कमपि महतः श्रीनिवासाम्बुराशेः काले काले घनरसवती कालिकेवानुकम्पे । व्यक्तोन्मेषा मृगपतिगिरौ विश्वमाप्याययन्ती शीलोपज्ञं क्षरति भवती शीतलं सद्गुणौघम् ॥ ४५॥ भीमे नित्यं भवजलनिधौ मज्जतां मानवाना- मालम्बार्थं वृषगिरिपतिस्त्वन्निदेशात्प्रयुंक्ते । प्रज्ञासारं प्रकृतिमहता मूलभागेन जुष्टं शाखाभेदैस्सुभगमनघं शाश्वतं शास्त्रपाणिम् ॥ ४६॥ विद्वत्सेवाकतकनिकषैर्वीतपङ्काशयानां पद्माकान्तः प्रणयति दये दर्पणं ते स्वशास्त्रम् । लीलादक्षां त्वदनवसरे लालयन्विप्रलिप्सां मायाशास्त्राण्यपि शमयितुं त्वत्प्रपन्नप्रतीपान् ॥ ४७॥ दैवात्प्राप्ते वृषगिरितटं देहिनि त्वन्निदानात् स्वामिन्पाहीत्यवशवचने विन्दति स्वापमन्त्यम् । देवः श्रीमान् दिशति करुणे दृष्टिमिच्छंस्त्वदीया- मुद्घातेन श्रुतिपरिषदामुत्तरेणाभिमुख्यम् ॥ ४८॥ श्रेयःसूतिं सकृदपि दये सम्मतां यस्सखीं ते शीतोदारामलभत जनः श्रीनिवासस्य दृष्टिम् । देवादीनामयमनृणतां देहवत्त्वेऽपि विन्दन् बन्धान्मुक्तो बलिभिरनघैः पूर्यते तत्प्रयुक्तैः ॥ ४९॥ दिव्यापाङ्गं दिशसि करुणे येषु सद्देशिकात्मा क्षिप्रं प्राप्ता वृषगिरिपतिं क्षत्रबन्ध्वादयस्ते । विश्वाचार्या विधिशिवमुखास्स्वाधिकारोपरुद्धा मन्ये माता जड इव सुते वत्सला मादृशे त्वम् ॥ ५०॥ अतिकृपणोऽपि जन्तुरधिगम्य दये भवती- मशिथिलधर्मसेतुपदवीं रुचिरामचिरात् । अमितमहोर्मिजालमतिलङ्घ्य भवाम्बुनिधिं भवति वृषाचलेशपदपत्तननित्यधनी ॥ ५१॥ अभिमुखभावसम्पदभिसम्भविनां भविनां क्वचिदुपलक्षिता क्वचिदभङ्गुरगूढगतिः । विमलरसावहा वृषगिरीशदये भवती सपदि सरस्वतीव शमयत्यघमप्रतिघम् ॥ ५२॥ अपि करुणे जनस्य तरुणेन्दुविभूषणता- मपि कमलासनत्वमपि धाम वृषाद्रिपतेः । तरतमतावशेन तनुते ननु ते विततिः परहितवर्ष्मणा परिपचेलिमकेलिमती ॥ ५३॥ धृतभुवना दये त्रिविधगत्यनुकूलतरा वृषगिरिनाथपादपरिरम्भवती भवती । अविदितवैभवाऽपि सुरसिन्धुरिवातनुते सकृदवगाहमानमपतापमपापमपि ॥ ५४॥ निगमसमाश्रिता निखिललोकसमृद्धिकरी भजदघकूलमुद्रुजगतिः परितप्तहिता । प्रकटितहंसमत्स्यकमठाद्यवतारशता विबुधसरिच्छ्रियं वृषगिरीशदये वहसि ॥ ५५॥ जगति मितम्पचा त्वदितरा तु दये तरला फलनियमोज्झिता भवति सन्तपनाय पुनः । त्वमिह निरङ्कुशप्रशकनादिविभूतिमती वितरसि देहिनां निरवधिं वृषशैलनिधिम् ॥ ५६॥ सकरुणलौकिकप्रभुपरिग्रहनिग्रहयो- र्नियतिमुपाधिचक्रपरिवृत्तिपरम्परया । वृषभमहीधरेशकरुणे वितरङ्गयतां श्रुतिमितसम्पदि त्वयि कथं भविता विशयः ॥ ५७॥ वृषगिरिकृष्णमेघजनितां जनितापहरां त्वदभिमतिं सुवृत्तिमुपजीव्य निवृत्ततृषः । बहुषु जलाशयेषु बहुमानमपोह्य दये न जहति सत्पथं जगति चातकवत्कृतिनः ॥ ५८॥ त्वदुदयतूलिकाभिरमुना वृषशैलजुषा स्थिरचरशिल्पिनैव परिकल्पितचित्रधियः । यतिपतियामुनप्रभृतयः प्रथयन्ति दये जगति हितं न नस्त्वयि भरन्यसनादधिकम् ॥ ५९॥ मृदुहृदये दये मृदितकामहिते महिते धृतविबुधे बुधेषु विततात्मधुरे मधुरे । वृषगिरिसार्वभौमदयिते मयि ते महतीं भवुकनिधे निधेहि भवमूलहरां लहरीम् ॥ ६०॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 19 Aug 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine