दयाशतकम्
श्रीमते निगमान्तमहादेशिकाय नमः ।
श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
श्रीः ।
प्रपद्ये तं गिरिं प्रायः श्रीनिवासानुकम्पया ।
इक्षुसारस्रवन्त्येव यन्मूर्त्या शर्करायितम् ॥ १॥
विगाहे तीर्थबहुलां शीतलां गुरुसन्ततिम् ।
श्रीनिवासदयाम्भोधिपरीवाहपरम्पराम् ॥ २॥
कृतिनः कमलावासकारुण्यैकान्तिनो भजे ।
धत्ते यत्सूक्तिरूपेण त्रिवेदी सर्वयोग्यताम् ॥ ३॥
पराशरमुखान्वन्दे भगीरथनये स्थितान् ।
कमलाकान्तकारुण्यगङ्गाप्लावितमद्विधान् ॥ ४॥
अशेषविघ्नशमनमनीकेश्वरमाश्रये ।
श्रीमतः करुणाम्भोधौ शिक्षास्रोत इवोत्थितम् ॥ ५॥
समस्तजननीं वन्दे चैतन्यस्तन्यदायिनीम् ।
श्रेयसीं श्रीनिवासस्य करुणामिव रूपिणीम् ॥ ६॥
वन्दे वृषगिरीशस्य महिषीं विश्वधारिणीम् ।
तत्कृपाप्रतिघातानां क्षमया वारणं यया ॥ ७॥
निशामयतु मां नीला यद्भोगपटलैर्ध्रुवम् ।
भावितं श्रीनिवासस्य भक्तदोषेष्वदर्शनम् ॥ ८॥
कमप्यनवधिं वन्दे करुणावरुणालयम् ।
वृषशैलतटस्थानां स्वयं व्यक्तिमुपागतम् ॥ ९॥
अकिञ्चननिधिं सूतिमपवर्गत्रिवर्गयोः ।
अञ्जनाद्रीश्वरदयामभिष्टौमि निरञ्जनाम् ॥ १०॥
अनुचरशक्त्यादिगुणामग्रेसरबोधविरचितालोकाम् ।
स्वाधीनवृषगिरीशां स्वयं प्रभूतां प्रमाणयामि दयाम् ॥ ११॥
अपि निखिललोकसुचरितमुष्टिन्धयदुरितमूर्च्छनाजुष्टम् ।
सञ्जीवयतु दये मामञ्जनगिरिनाथरञ्जनी भवती ॥ १२॥
भगवति दये भवत्या वृषगिरिनाथे समाप्लुते तुङ्गे ।
अप्रतिघमज्जनानां हस्तालम्बो मदागसां मृग्यः ॥ १३॥
कृपणजनकल्पलतिकां कृतापराधस्य निष्क्रियामाद्याम् ।
वृषगिरिनाथदये त्वां विदन्ति संसारतारिणीं विबुधाः ॥ १४॥
वृषगिरिगृहमेधिगुणा बोधबलैश्वर्यवीर्यशक्तिमुखाः ।
दोषा भवेयुरेते यदि नाम दये त्वया विनाभूताः ॥ १५॥
आसृष्टि सन्ततानामपराधानां निरोधिनीं जगतः ।
पद्मासहायकरुणे प्रतिसञ्चरकेलिमाचरसि ॥ १६॥
अचिदविशिष्टान्प्रलये जन्तूनवलोक्य जातनिर्वेदा ।
करणकलेवरयोगं वितरसि वृषशैलनाथकरुणे त्वम् ॥ १७॥
अनुगुणदशार्पितेन श्रीधरकरुणे समाहितस्नेहा ।
शमयसि तमः प्रजानां शास्त्रमयेन स्थिरप्रदीपेन ॥ १८॥
रुढा वृषाचलपतेः पादे मुखकान्तिपत्रलच्छाया ।
करुणे सुखयसि विनतान्कटाक्षविटपैः करापचेयफलैः ॥ १९॥
नयने वृषाचलेन्दोस्तारामैत्रीं दधानया करुणे ।
दृष्टस्त्वयैव जनिमानपवर्गमकृष्टपच्यमनुभवति ॥ २०॥
समयोपनतैस्तव प्रवाहैरनुकम्पे कृतसम्प्लवा धरित्री ।
शरणागतसस्यमालिनीयं वृषशैलेशकृषीवलं धिनोति ॥ २१॥
कलशोदधिसम्पदो भवत्याः करुणे सन्मतिमन्थसंस्कृतायाः ।
अमृतांशमवैमि दिव्यदेहं मृतसञ्जीवनमञ्जनाचलेन्दोः ॥ २२॥
जलधेरिव शीतता दये त्वं वृषशैलाधिपतेस्स्वभावभूता ।
प्रलयारभटीनटीं तदीक्षां प्रसभं ग्राहयसि प्रसत्तिलास्यम् ॥ २३॥
प्रणतप्रतिकूलमूलघाती प्रतिघः कोऽपि वृषाचलेश्वरस्य ।
कलमे यवसापचायनीत्या करुणे किङ्करतां तवोपयाति ॥ २४॥
अबहिष्कृतनिग्रहान्विदन्तः कमलाकान्तगुणान्स्वतन्त्रतादीन् ।
अविकल्पमनुग्रहं दुहानां भवतीमेव दये भजन्ति सन्तः ॥ २५॥
कमलानिलयस्त्वया दयालुः करुणे निष्करुणा निरूपणे त्वम् ।
अत एव हि तावकाश्रितानां दुरितानां भवति त्वदेव भीतिः ॥ २६॥
अतिलङ्घितशासनेष्वभीक्ष्णं वृषशैलाधिपतिर्विजृम्भितोष्मा ।
पुनरेव दये क्षमानिदानैर्भवतीमाद्रियते भवत्यधीनैः ॥ २७॥
करुणे दुरितेषु मामकेषु प्रतिकारान्तरदुर्जयेषु खिन्नः ।
कवचायितया त्वयैव शार्ङ्गी विजयस्थानमुपाश्रितो वृषाद्रिम् ॥ २८॥
मयि तिष्ठति दुष्कृतां प्रधाने मितदोषानितरान्विचिन्वती त्वम् ।
अपराधगणैरपूर्णकुक्षिः कमलाकान्तदये कथं भवित्री ॥ २९॥
अहमस्म्यपराधचक्रवर्ती करुणे त्वं च गुणेषु सार्वभौमी ।
विदुषी स्थितिमीदृशीं स्वयं मां वृषशैलेश्वरपादसात्कुरु त्वम् ॥ ३०॥
अशिथिलकरणेऽस्मिन्नक्षतश्वासवृत्तौ
वपुषि गमनयोग्ये वासमासादयेयम् ।
वृषगिरिकटकेषु व्यञ्जयत्सु प्रतीतै-
र्मधुमथनदये त्वां वारिधाराविशेषैः ॥ ३१॥
अविदितनिजयोगक्षेममात्मानभिज्ञं
गुणलवरहितं मां गोप्तुकामा दये त्वम् ।
परवति चतुरैस्ते विभ्रमैः श्रीनिवासे
बहुमतिमनपायां विन्दसि श्रीधरण्योः ॥ ३२॥
फलवितरणदक्षं पक्षपातानभिज्ञं
प्रगुणमनुविधेयं प्राप्य पद्मासहायम् ।
महति गुणसमाजे मानपूर्वं दये त्वं
प्रतिवदसि यथार्हं पाप्मनां मामकानाम् ॥ ३३॥
अनुभवितुमघौघं नालमागामिकालः
प्रशमयितुमशेषं निष्क्रियाभिर्न शक्यम् ।
स्वयमिति हि दये त्वं स्वीकृतश्रीनिवासा
शिथिलितभवभीतिः श्रेयसे जायसे नः ॥ ३४॥
अवतरणविशेषैरात्मलीलापदेशै-
रवमतिमनुकम्पे मन्दचित्तेषु विन्दन् ।
वृषभशिखरिनाथस्त्वन्निदेशेन नूनं
भजति शरणभाजां भाविनो जन्मभेदान् ॥ ३५॥
परहितमनुकम्पे भावयन्त्यां भवत्यां
स्थिरमनुपधि हार्दं श्रीनिवासो दधानः ।
ललितरुचिषु लक्ष्मीभूमिनीलासु नूनं
प्रथयति बहुमानं त्वत्प्रतिच्छन्दबुद्ध्या ॥ ३६॥
वृषगिरिसविधेषु व्याजतो वासभाजां
दुरितकलुषितानां दूयमाना दये त्वम् ।
करणविलयकाले कान्दिशीकस्मृतीनां
स्मरयसि बहुलीलं माधवं सावधाना ॥ ३७॥
दिशि दिशि गतिविद्भिर्देशिकैर्नीयमाना
स्थिरतरमनुकम्पे स्त्यानलग्रा गुणैस्त्वम् ।
परिगतवृषशैलं पारमारोपयन्ती
भवजलधिगतानां पोतपात्री भवित्री ॥ ३८॥
परिमितफलसङ्गात्प्राणिनः किम्पचाना
निगमविपणिमध्ये नित्यमुक्तानुषक्तम् ।
प्रसदनमनुकम्पे प्राप्तवत्या भवत्या
वृषगिरिहरिनीलं व्यञ्जितं निर्विशन्ति ॥ ३९॥
त्वयि बहुमतिहीनः श्रीनिवासानुकम्पे
जगति गतिमिहान्यां देवि संमन्यते यः ।
स खलु विबुधसिन्धौ सन्निकर्षे वहन्त्यां
शमयति मृगतृष्णावीचिकाभिः पिपासाम् ॥ ४०॥
आज्ञां ख्यातिं धनमनुचरानाधिराज्यादिकं वा
काले दृष्ट्वा कमलवसतेरप्यकिञ्चित्कराणि ।
पद्माकान्तं प्रणिहितवतीं पालनेऽनन्यसाध्ये
साराभिज्ञा जगति कृतिनस्संश्रयन्ते दये त्वाम् ॥ ४१॥
प्राजापत्यप्रभृतिविभवं प्रेक्ष्य पर्यायदुःखं
जन्माकाङ्क्षन्वृषगिरिवने जग्मुषां तस्थुषां वा ।
आशासानाः कतिचन विभोस्त्वत्परिष्वङ्गधन्यै-
रङ्गीकारं क्षणमपि दये हार्दतुङ्गैरपाङ्गैः ॥ ४२॥
नाभीपद्मस्फुरणसुभगा नव्यनीलोत्पलाभा
क्रीडाशैलं कमपि करुणे वृण्वती वेङ्कटाख्यम् ।
शीता नित्यं प्रसदनवती श्रद्धधानावगाह्या
दिव्या काचिज्जयति महती दीर्घिका तावकीना ॥ ४३॥
यस्मिन्दृष्टे तदितरसुखैर्गम्यते गोष्पदत्वं
सत्यं ज्ञानं त्रिभिरवधिभिर्मुक्तमानन्दसिन्धुम् ।
त्वत्स्वीकारात्तमिह कृतिनस्सूरिवृन्दानुभाव्यं
नित्यापूर्वं निधिमिव दये निर्विशन्त्यञ्जनाद्रौ ॥ ४४॥
सारं लब्ध्वा कमपि महतः श्रीनिवासाम्बुराशेः
काले काले घनरसवती कालिकेवानुकम्पे ।
व्यक्तोन्मेषा मृगपतिगिरौ विश्वमाप्याययन्ती
शीलोपज्ञं क्षरति भवती शीतलं सद्गुणौघम् ॥ ४५॥
भीमे नित्यं भवजलनिधौ मज्जतां मानवाना-
मालम्बार्थं वृषगिरिपतिस्त्वन्निदेशात्प्रयुंक्ते ।
प्रज्ञासारं प्रकृतिमहता मूलभागेन जुष्टं
शाखाभेदैस्सुभगमनघं शाश्वतं शास्त्रपाणिम् ॥ ४६॥
विद्वत्सेवाकतकनिकषैर्वीतपङ्काशयानां
पद्माकान्तः प्रणयति दये दर्पणं ते स्वशास्त्रम् ।
लीलादक्षां त्वदनवसरे लालयन्विप्रलिप्सां
मायाशास्त्राण्यपि शमयितुं त्वत्प्रपन्नप्रतीपान् ॥ ४७॥
दैवात्प्राप्ते वृषगिरितटं देहिनि त्वन्निदानात्
स्वामिन्पाहीत्यवशवचने विन्दति स्वापमन्त्यम् ।
देवः श्रीमान् दिशति करुणे दृष्टिमिच्छंस्त्वदीया-
मुद्घातेन श्रुतिपरिषदामुत्तरेणाभिमुख्यम् ॥ ४८॥
श्रेयःसूतिं सकृदपि दये सम्मतां यस्सखीं ते
शीतोदारामलभत जनः श्रीनिवासस्य दृष्टिम् ।
देवादीनामयमनृणतां देहवत्त्वेऽपि विन्दन्
बन्धान्मुक्तो बलिभिरनघैः पूर्यते तत्प्रयुक्तैः ॥ ४९॥
दिव्यापाङ्गं दिशसि करुणे येषु सद्देशिकात्मा
क्षिप्रं प्राप्ता वृषगिरिपतिं क्षत्रबन्ध्वादयस्ते ।
विश्वाचार्या विधिशिवमुखास्स्वाधिकारोपरुद्धा
मन्ये माता जड इव सुते वत्सला मादृशे त्वम् ॥ ५०॥
अतिकृपणोऽपि जन्तुरधिगम्य दये भवती-
मशिथिलधर्मसेतुपदवीं रुचिरामचिरात् ।
अमितमहोर्मिजालमतिलङ्घ्य भवाम्बुनिधिं
भवति वृषाचलेशपदपत्तननित्यधनी ॥ ५१॥
अभिमुखभावसम्पदभिसम्भविनां भविनां
क्वचिदुपलक्षिता क्वचिदभङ्गुरगूढगतिः ।
विमलरसावहा वृषगिरीशदये भवती
सपदि सरस्वतीव शमयत्यघमप्रतिघम् ॥ ५२॥
अपि करुणे जनस्य तरुणेन्दुविभूषणता-
मपि कमलासनत्वमपि धाम वृषाद्रिपतेः ।
तरतमतावशेन तनुते ननु ते विततिः
परहितवर्ष्मणा परिपचेलिमकेलिमती ॥ ५३॥
धृतभुवना दये त्रिविधगत्यनुकूलतरा
वृषगिरिनाथपादपरिरम्भवती भवती ।
अविदितवैभवाऽपि सुरसिन्धुरिवातनुते
सकृदवगाहमानमपतापमपापमपि ॥ ५४॥
निगमसमाश्रिता निखिललोकसमृद्धिकरी
भजदघकूलमुद्रुजगतिः परितप्तहिता ।
प्रकटितहंसमत्स्यकमठाद्यवतारशता
विबुधसरिच्छ्रियं वृषगिरीशदये वहसि ॥ ५५॥
जगति मितम्पचा त्वदितरा तु दये तरला
फलनियमोज्झिता भवति सन्तपनाय पुनः ।
त्वमिह निरङ्कुशप्रशकनादिविभूतिमती
वितरसि देहिनां निरवधिं वृषशैलनिधिम् ॥ ५६॥
सकरुणलौकिकप्रभुपरिग्रहनिग्रहयो-
र्नियतिमुपाधिचक्रपरिवृत्तिपरम्परया ।
वृषभमहीधरेशकरुणे वितरङ्गयतां
श्रुतिमितसम्पदि त्वयि कथं भविता विशयः ॥ ५७॥
वृषगिरिकृष्णमेघजनितां जनितापहरां
त्वदभिमतिं सुवृत्तिमुपजीव्य निवृत्ततृषः ।
बहुषु जलाशयेषु बहुमानमपोह्य दये
न जहति सत्पथं जगति चातकवत्कृतिनः ॥ ५८॥
त्वदुदयतूलिकाभिरमुना वृषशैलजुषा
स्थिरचरशिल्पिनैव परिकल्पितचित्रधियः ।
यतिपतियामुनप्रभृतयः प्रथयन्ति दये
जगति हितं न नस्त्वयि भरन्यसनादधिकम् ॥ ५९॥
मृदुहृदये दये मृदितकामहिते महिते
धृतविबुधे बुधेषु विततात्मधुरे मधुरे ।
वृषगिरिसार्वभौमदयिते मयि ते महतीं
भवुकनिधे निधेहि भवमूलहरां लहरीम् ॥ ६०॥