ब्रह्मसूत्राणि
ॐ
॥ श्री गुरुभ्यो नमः हरिः ॐ ॥
॥ श्री बादरायणाभिधेयश्रीवेदव्यासमहर्षिप्रणीतानि
श्री ब्रह्मसूत्राणि ॥
॥ अथ प्रथमोऽध्यायः ॥
ॐ अथातो ब्रह्मजिज्ञासा ॐ ॥ १.१.१ ॥
ॐ जन्माद्यस्य यतः ॐ ॥ १.१.२ ॥
ॐ शास्त्रयोनित्वात् ॐ ॥ १.१.३ ॥
ॐ तत्तुसमन्वयात् ॐ ॥ १.१.४ ॥
ॐ ईक्षतेर्नाशब्दम् ॐ ॥ १.१.५ ॥
ॐ गौणश्चेन्नात्मशब्दात् ॐ ॥ १.१.६ ॥
ॐ तन्निष्ठस्य मोक्षोपदेशात् ॐ ॥ १.१.७ ॥
ॐ हेयत्वावचनाच्च ॐ ॥ १.१.८ ॥
ॐ स्वाप्ययात् ॐ ॥ १.१.९ ॥
ॐ गतिसामान्यात् ॐ ॥ १.१.१० ॥
ॐ श्रुतत्वाच्च ॐ ॥ १.१.११ ॥
ॐ आनन्दमयोऽभ्यासात् ॐ ॥ १.१.१२ ॥
ॐ विकारशब्दान्नेतिचेन्न प्राचुर्यात् ॐ ॥ १.१.१३ ॥
ॐ तद्धेतुव्यपदेशाच्च ॐ ॥ १.१.१४ ॥
ॐ मान्त्रवर्णिकमेव च गीयते ॐ ॥ १.१.१५ ॥
ॐ नेतरोऽनुपपत्तेः ॐ ॥ १.१.१६ ॥
ॐ भेदव्यपदेशाच्च ॐ ॥ १.१.१७ ॥
ॐ कामाच्च नानुमानापेक्षा ॐ ॥ १.१.१८ ॥
ॐ अस्मिन्नस्य च तद्योगं शास्ति ॐ ॥ १.१.१९ ॥
ॐ अन्तस्तद्धर्मोपदेशात् ॐ ॥ १.१.२० ॥
ॐ भेदव्यपदेशाच्चान्यः ॐ ॥ १.१.२१ ॥
ॐ आकाशस्तल्लिङ्गात् ॐ ॥ १.१.२२ ॥
ॐ अत एव प्राणः ॐ ॥ १.१.२३ ॥
ॐ ज्योतिश्चरणाभिधानात् ॐ ॥ १.१.२४ ॥
ॐ छन्दोऽभिधानान्नेतिचेन्न तथाचेतोऽर्पणनिगदात्तथा
हि दर्शनम् ॐ ॥ १.१.२५ ॥
ॐ भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॐ ॥ १.१.२६ ॥
ॐ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॐ ॥ १.१.२७ ॥
ॐ प्राणस्तथानुगमात् ॐ ॥ १.१.२८ ॥
ॐ नवक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा
ह्यस्मिन् ॐ ॥ १.१.२९ ॥
ॐ शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॐ ॥ १.१.३० ॥
ॐ जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासत्रैविद्यादाश्रितत्वादिह
तद्योगात् ॐ ॥ १.१.३१ ॥
इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु
प्रथमाध्यायस्य प्रथमः पादः समाप्तः
ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ ॥ १.२.१ ॥
ॐ विवक्षितगुणोपपत्तेश्च ॐ ॥ १.२.२ ॥
ॐ अनुपपत्तेस्तु न शारीरः ॐ ॥ १.२.३ ॥
ॐ कर्मकर्तृव्यपदेशाच्च ॐ ॥ १.२.४ ॥
ॐ शब्दविशेषात् ॐ ॥ १.२.५ ॥
ॐ स्मृतेश्च ॐ ॥ १.२.६ ॥
ॐ अर्भकौकस्त्वात् तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं
व्योमवच्च ॐ ॥ १.२.७ ॥
ॐ सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॐ ॥ १.२.८ ॥
ॐ अत्ता चराचरग्रहणात् ॐ ॥ १.२.९ ॥
ॐ प्रकरणाच्च ॐ ॥ १.२.१० ॥
ॐ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॐ ॥ १.२.११ ॥
ॐ विशेषणाच्च ॐ ॥ १.२.१२ ॥
ॐ अन्तर उपपत्तेः ॐ ॥ १.२.१३ ॥
ॐ स्थानादिव्यपदेशाच्च ॐ ॥ १.२.१४ ॥
ॐ सुखविशिष्टाभिधानादेव च ॐ ॥ १.२.१५ ॥
ॐ श्रुतोपनिषत्कगत्यभिधानाच्च ॐ ॥ १.२.१६ ॥
ॐ अनवस्थितेरसम्भवाच्च नेतरः ॐ ॥ १.२.१७ ॥
ॐ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॐ ॥ १.२.१८ ॥
ॐ न च स्मार्तमतद्धर्माभिपालात् ॐ ॥ १.२.१९ ॥
ॐ शरीरश्चोभयेऽपि हि भेदेनैनमधीयते ॐ ॥ १.२.२० ॥
ॐ अदृश्यत्वादिगुणको धर्मोक्तेः ॐ ॥ १.२.२१ ॥
ॐ विशेषणभेदव्यपदेशाभ्यां नेतरौ ॐ ॥ १.२.२२ ॥
ॐ रूपोपन्यासाच्च ॐ ॥ १.२.२३ ॥
ॐ वैश्वानरः साधारणशब्दविशेषात् ॐ ॥ १.२.२४ ॥
ॐ स्मर्यमाणमनुमानं स्यादिति ॐ ॥ १.२.२५ ॥
ॐ शब्दादिभ्योऽन्तः प्रतिष्ठानान्नेति चेन्न तथा
(पाठेभद प्रतिष्ठानाच्च नेति चेन्न)
दृष्ट्युपदेशादसम्भवात्पुरुषविध्मपि चैनमधीयते ॐ ॥ १.२.२६ ॥
ॐ अत एव न देवता भूतं च ॐ ॥ १.२.२७ ॥
ॐ साक्षादप्यविरोधं जैमिनिः ॐ ॥ १.२.२८ ॥
ॐ अभिव्यक्तेरित्याश्मरथ्यः ॐ ॥ १.२.२९ ॥
ॐ अनुस्मृतेर्बादरिः ॐ ॥ १.२.३० ॥
ॐ सम्पत्तेरिति जैमिनिः तथा हि दर्शयति ॐ ॥ १.२.३१ ॥
ॐ आमनन्ति चैनमस्मिन् ॐ ॥ १.२.३२ ॥
इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु
प्रथमाध्यायस्य द्वितीयः पादः समाप्तः
ॐ द्युभ्वाद्यायतनं स्वशब्दात् ॐ ॥ १.३.१ ॥
ॐ मुक्तोपसृप्यव्यपदेशात् ॐ ॥ १.३.२ ॥
ॐ नानुमानमतच्छब्दात् ॐ ॥ १.३.३ ॥
ॐ प्राणभृच्च ॐ ॥ १.३.४ ॥
ॐ भेदव्यपदेशात् ॐ ॥ १.३.५ ॥
ॐ प्रकरणात् ॐ ॥ १.३.६ ॥
ॐ स्थित्यदनाभ्यां च ॐ ॥ १.३.७ ॥
ॐ भूमा सम्प्रसादादध्युपदेशात् ॐ ॥ १.३.८ ॥
ॐ धर्मोपपत्तेश्च ॐ ॥ १.३.९ ॥
ॐ अक्षरमम्बरान्तधृतेः ॐ ॥ १.३.१० ॥
ॐ सा च प्रशासनात् ॐ ॥ १.३.११ ॥
ॐ अन्यभावव्यावृत्तेश्च ॐ ॥ १.३.१२ ॥
ॐ ईक्षतिकर्मव्यपदेशात् सः ॐ ॥ १.३.१३ ॥
ॐ दहर उत्तरेभ्यः ॐ ॥ १.३.१४ ॥
ॐ गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॐ ॥ १.३.१५ ॥
ॐ धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॐ ॥ १.३.१६ ॥
ॐ प्रसिद्धेश्च ॐ ॥ १.३.१७ ॥
ॐ इतरपरामर्शात् स इति चेन्नासम्भवात् ॐ ॥ १.३.१८ ॥
ॐ उत्तराच्चेदाविर्भूतस्वरूपस्तु ॐ ॥ १.३.१९ ॥
ॐ अन्यार्थश्च परामर्शः ॐ ॥ १.३.२० ॥
ॐ अल्पश्रुतेरिति चेत्तदुक्तम् ॐ ॥ १.३.२१ ॥
ॐ अनुकृतेस्तस्य च ॐ ॥ १.३.२२ ॥
ॐ अपि स्मर्यते ॐ ॥ १.३.२३ ॥ पाठभेद अपि च स्मर्यते
ॐ शब्दादेव प्रमितः ॐ ॥ १.३.२४ ॥
ॐ हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॐ ॥ १.३.२५ ॥
ॐ तदुपर्यपि बादरायणः सम्भवात् ॐ ॥ १.३.२६ ॥
ॐ विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॐ ॥ १.३.२७ ॥
ॐ शब्द इतिचेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ॐ ॥ १.३.२८ ॥
ॐ अत एव च नित्यत्वम् ॐ ॥ १.३.२९ ॥
ॐ समाननामरूपत्वाच्चावृत्तावप्यविरोधो
दर्शनात्स्मृतेश्च ॐ ॥ १.३.३० ॥
ॐ मध्वादिष्वसम्भवादनधिकारं जैमिनिः ॐ ॥ १.३.३१ ॥
ॐ ज्योतिषि भावाच्च ॐ ॥ १.३.३२ ॥
ॐ भावं तु बादरायणोऽस्ति हि ॐ ॥ १.३.३३ ॥
ॐ शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॐ ॥ १.३.३४ ॥
ॐ क्षत्रियत्वागतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॐ ॥ १.३.३५ ॥
ॐ संस्कारपरामर्शात्तदभावाभिलापाच्च ॐ ॥ १.३.३६ ॥
ॐ तदभावनिर्धारणे च प्रवृत्तेः ॐ ॥ १.३.३७ ॥
ॐ श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च ॐ ॥ १.३.३८ ॥
ॐ कम्पनात् ॐ ॥ १.३.३९ ॥
ॐ ज्योतिर्दर्शनात् ॐ ॥ १.३.४० ॥
ॐ आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॐ ॥ १.३.४१ ॥
ॐ सुषुप्त्युत्क्रान्त्योर्भेदेन ॐ ॥ १.३.४२ ॥
ॐ पत्यादिशब्देभ्यः ॐ ॥ १.३.४३ ॥
इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु
प्रथमाध्यायस्य तृतीयः पादः समाप्तः
ॐ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति
च ॐ ॥ १.४.१ ॥
ॐ सूक्ष्मं तु तदर्हत्वात् ॐ ॥ १.४.२ ॥
ॐ तदधीनत्वादर्थवत् ॐ ॥ १.४.३ ॥
ॐ ज्ञेयत्वावचनाच्च ॐ ॥ १.४.४ ॥
ॐ वदतीति चेन्न प्राज्ञो हि ॐ ॥ १.४.५ ॥
ॐ प्रकरणात् ॐ ॥ १.४.६ ॥
ॐ त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॐ ॥ १.४.७ ॥
ॐ महद्वच्च ॐ ॥ १.४.८ ॥
ॐ चमसवदविशेषात् ॐ ॥ १.४.९ ॥
ॐ ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ॐ ॥ १.४.१० ॥ (ज्योतिरुपक्रमात्तु)
ॐ कल्पनोपदेशाच्च मध्वादिवदविरोधः ॐ ॥ १.४.११ ॥
ॐ न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॐ ॥ १.४.१२ ॥
ॐ प्राणादयो वाक्यशेषात् ॐ ॥ १.४.१३ ॥
ॐ ज्योतिषैकेषामसत्यन्ने ॐ ॥ १.४.१४ ॥
ॐ कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॐ ॥ १.४.१५ ॥
ॐ समाकर्षात् ॐ ॥ १.४.१६ ॥
ॐ जगद्वाचित्वात् ॐ ॥ १.४.१७ ॥
ॐ जीवमुख्यप्राणलिङ्गान्नेति चेत् तद्व्याख्यातम् ॐ ॥ १.४.१८ ॥ (जीवमुख्यप्राणलिङ्गादिति)
ॐ अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॐ ॥ १.४.१९ ॥
ॐ वाक्यान्वयात् ॐ ॥ १.४.२० ॥
ॐ प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॐ ॥ १.४.२१ ॥
ॐ उत्क्रमिष्यत एवं भावादित्यौडुलोमिः ॐ ॥ १.४.२२ ॥
ॐ अवस्थितेरिति काशकृत्स्नः ॐ ॥ १.४.२३ ॥
ॐ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॐ ॥ १.४.२४ ॥
ॐ अभिध्योपदेशाच्च ॐ ॥ १.४.२५ ॥
ॐ साक्षाच्चोभयाम्नानात् ॐ ॥ १.४.२६ ॥
ॐ आत्मकृतेः परिणामात् ॐ ॥ १.४.२७ ॥
ॐ योनिश्च हि गीयते ॐ ॥ १.४.२८ ॥
ॐ एतेन सर्वेव्याख्याताव्याख्याताः ॐ ॥ १.४.२९ ॥
इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु
प्रथमाध्यायस्य चतुर्थः पादः समाप्तः
॥ इति प्रथमोऽध्यायः ॥
॥ अथ द्वितीयोऽध्यायः ॥
ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति
चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ ॥ २.१.१ ॥
ॐ इतरेषां चानुपलब्धेः ॐ ॥ २.१.२ ॥
ॐ एतेन योगः प्रत्युक्तः ॐ ॥ २.१.३ ॥
ॐ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॐ ॥ २.१.४ ॥
ॐ दृश्यते तु ॐ ॥ २.१.५ ॥
ॐ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॐ ॥ २.१.६ ॥
ॐ दृश्यते च ॐ ॥ २.१.७ ॥ पाठभेद दृश्यते तु
ॐ असदिति चेन्न प्रतिषेधमात्रत्वात् ॐ ॥ २.१.८ ॥
ॐ अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॐ ॥ २.१.९ ॥
ॐ न तु दृष्टान्तभावात् ॐ ॥ २.१.१० ॥
ॐ स्वपक्षदोषाच्च ॐ ॥ २.१.११ ॥
ॐ तर्काप्रतिष्ठानादपि अन्यथानुमेयमिति
चेदेवमप्यनिर्मोक्षप्रसङ्गः ॐ ॥ २.१.१२ ॥
ॐ एतेन शिष्टापरिग्रहाऽपि व्याख्याताः ॐ ॥ २.१.१३ ॥
ॐ भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॐ ॥ २.१.१४ ॥
ॐ तदनन्यत्वमारम्भणशब्दादिभ्यः ॐ ॥ २.१.१५ ॥
ॐ भावे चोपलब्धेः ॐ ॥ २.१.१६ ॥
ॐ सत्त्वाच्चावरस्य ॐ ॥ २.१.१७ ॥
ॐ असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॐ ॥ २.१.१८ ॥
ॐ युक्तेः शब्दान्तराच्च ॐ ॥ २.१.१९ ॥
ॐ पटवच्च ॐ ॥ २.१.२० ॥
ॐ यथा प्राणादिः ॐ ॥ २.१.२१ ॥
ॐ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॐ ॥ २.१.२२ ॥
ॐ अधिकं तु भेदनिर्देशात् ॐ ॥ २.१.२३ ॥
ॐ अश्मादिवच्च तदनुपपत्तिः ॐ ॥ २.१.२४ ॥
ॐ उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॐ ॥ २.१.२५ ॥
ॐ देवादिवदपि लोके ॐ ॥ २.१.२६ ॥
ॐ कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॐ ॥ २.१.२७ ॥
ॐ श्रुतेस्तु शब्दमूलत्वात् ॐ ॥ २.१.२८ ॥
ॐ आत्मनि चैवं विचित्राश्च हि ॐ ॥ २.१.२९ ॥
ॐ स्वपक्षदोषाच्च ॐ ॥ २.१.३० ॥
ॐ सर्वोपेता च तद्दर्शनात् ॐ ॥ २.१.३१ ॥
ॐ विकरणत्वान्नेतिचेत्तदुक्तम् ॐ ॥ २.१.३२ ॥
ॐ न प्रयोजनत्त्वात् ॐ ॥ २.१.३३ ॥
ॐ लोकवत्तु लीलाकैवल्यम् ॐ ॥ २.१.३४ ॥
ॐ वैष्यम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ॐ ॥ २.१.३५ ॥
ॐ कर्माविभागादिति चेन्नानादित्वात् ॐ ॥ २.१.३६ ॥