ब्रह्मसूत्राणि
/ 4
←

Brahmasutrani Kannada PDF & Online Reader (ಬ್ರಹ್ಮಸೂತ್ರಾಣಿ)

Brahmasutrani (ब्रह्मसूत्राणि) by Vedavyasa (वेदव्यासः) — Kannada Text & PDF Download

📜 Last Proofread: 09 Sep 2026
📥 Download Kannada PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 09 Sep 2026
📥 Download PDF ♡ Save
🌐 Language & Script ಕನ್ನಡ
↔️ Text Alignment Center
ब्रह्मसूत्राणि ॐ ॥ श्री गुरुभ्यो नमः हरिः ॐ ॥ ॥ श्री बादरायणाभिधेयश्रीवेदव्यासमहर्षिप्रणीतानि श्री ब्रह्मसूत्राणि ॥ ॥ अथ प्रथमोऽध्यायः ॥ ॐ अथातो ब्रह्मजिज्ञासा ॐ ॥ १.१.१ ॥ ॐ जन्माद्यस्य यतः ॐ ॥ १.१.२ ॥ ॐ शास्त्रयोनित्वात् ॐ ॥ १.१.३ ॥ ॐ तत्तुसमन्वयात् ॐ ॥ १.१.४ ॥ ॐ ईक्षतेर्नाशब्दम् ॐ ॥ १.१.५ ॥ ॐ गौणश्चेन्नात्मशब्दात् ॐ ॥ १.१.६ ॥ ॐ तन्निष्ठस्य मोक्षोपदेशात् ॐ ॥ १.१.७ ॥ ॐ हेयत्वावचनाच्च ॐ ॥ १.१.८ ॥ ॐ स्वाप्ययात् ॐ ॥ १.१.९ ॥ ॐ गतिसामान्यात् ॐ ॥ १.१.१० ॥ ॐ श्रुतत्वाच्च ॐ ॥ १.१.११ ॥ ॐ आनन्दमयोऽभ्यासात् ॐ ॥ १.१.१२ ॥ ॐ विकारशब्दान्नेतिचेन्न प्राचुर्यात् ॐ ॥ १.१.१३ ॥ ॐ तद्धेतुव्यपदेशाच्च ॐ ॥ १.१.१४ ॥ ॐ मान्त्रवर्णिकमेव च गीयते ॐ ॥ १.१.१५ ॥ ॐ नेतरोऽनुपपत्तेः ॐ ॥ १.१.१६ ॥ ॐ भेदव्यपदेशाच्च ॐ ॥ १.१.१७ ॥ ॐ कामाच्च नानुमानापेक्षा ॐ ॥ १.१.१८ ॥ ॐ अस्मिन्नस्य च तद्योगं शास्ति ॐ ॥ १.१.१९ ॥ ॐ अन्तस्तद्धर्मोपदेशात् ॐ ॥ १.१.२० ॥ ॐ भेदव्यपदेशाच्चान्यः ॐ ॥ १.१.२१ ॥ ॐ आकाशस्तल्लिङ्गात् ॐ ॥ १.१.२२ ॥ ॐ अत एव प्राणः ॐ ॥ १.१.२३ ॥ ॐ ज्योतिश्चरणाभिधानात् ॐ ॥ १.१.२४ ॥ ॐ छन्दोऽभिधानान्नेतिचेन्न तथाचेतोऽर्पणनिगदात्तथा हि दर्शनम् ॐ ॥ १.१.२५ ॥ ॐ भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॐ ॥ १.१.२६ ॥ ॐ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॐ ॥ १.१.२७ ॥ ॐ प्राणस्तथानुगमात् ॐ ॥ १.१.२८ ॥ ॐ नवक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् ॐ ॥ १.१.२९ ॥ ॐ शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॐ ॥ १.१.३० ॥ ॐ जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासत्रैविद्यादाश्रितत्वादिह तद्योगात् ॐ ॥ १.१.३१ ॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु प्रथमाध्यायस्य प्रथमः पादः समाप्तः ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ ॥ १.२.१ ॥ ॐ विवक्षितगुणोपपत्तेश्च ॐ ॥ १.२.२ ॥ ॐ अनुपपत्तेस्तु न शारीरः ॐ ॥ १.२.३ ॥ ॐ कर्मकर्तृव्यपदेशाच्च ॐ ॥ १.२.४ ॥ ॐ शब्दविशेषात् ॐ ॥ १.२.५ ॥ ॐ स्मृतेश्च ॐ ॥ १.२.६ ॥ ॐ अर्भकौकस्त्वात् तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॐ ॥ १.२.७ ॥ ॐ सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॐ ॥ १.२.८ ॥ ॐ अत्ता चराचरग्रहणात् ॐ ॥ १.२.९ ॥ ॐ प्रकरणाच्च ॐ ॥ १.२.१० ॥ ॐ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॐ ॥ १.२.११ ॥ ॐ विशेषणाच्च ॐ ॥ १.२.१२ ॥ ॐ अन्तर उपपत्तेः ॐ ॥ १.२.१३ ॥ ॐ स्थानादिव्यपदेशाच्च ॐ ॥ १.२.१४ ॥ ॐ सुखविशिष्टाभिधानादेव च ॐ ॥ १.२.१५ ॥ ॐ श्रुतोपनिषत्कगत्यभिधानाच्च ॐ ॥ १.२.१६ ॥ ॐ अनवस्थितेरसम्भवाच्च नेतरः ॐ ॥ १.२.१७ ॥ ॐ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॐ ॥ १.२.१८ ॥ ॐ न च स्मार्तमतद्धर्माभिपालात् ॐ ॥ १.२.१९ ॥ ॐ शरीरश्चोभयेऽपि हि भेदेनैनमधीयते ॐ ॥ १.२.२० ॥ ॐ अदृश्यत्वादिगुणको धर्मोक्तेः ॐ ॥ १.२.२१ ॥ ॐ विशेषणभेदव्यपदेशाभ्यां नेतरौ ॐ ॥ १.२.२२ ॥ ॐ रूपोपन्यासाच्च ॐ ॥ १.२.२३ ॥ ॐ वैश्वानरः साधारणशब्दविशेषात् ॐ ॥ १.२.२४ ॥ ॐ स्मर्यमाणमनुमानं स्यादिति ॐ ॥ १.२.२५ ॥ ॐ शब्दादिभ्योऽन्तः प्रतिष्ठानान्नेति चेन्न तथा (पाठेभद प्रतिष्ठानाच्च नेति चेन्न) दृष्ट्युपदेशादसम्भवात्पुरुषविध्मपि चैनमधीयते ॐ ॥ १.२.२६ ॥ ॐ अत एव न देवता भूतं च ॐ ॥ १.२.२७ ॥ ॐ साक्षादप्यविरोधं जैमिनिः ॐ ॥ १.२.२८ ॥ ॐ अभिव्यक्तेरित्याश्मरथ्यः ॐ ॥ १.२.२९ ॥ ॐ अनुस्मृतेर्बादरिः ॐ ॥ १.२.३० ॥ ॐ सम्पत्तेरिति जैमिनिः तथा हि दर्शयति ॐ ॥ १.२.३१ ॥ ॐ आमनन्ति चैनमस्मिन् ॐ ॥ १.२.३२ ॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु प्रथमाध्यायस्य द्वितीयः पादः समाप्तः ॐ द्युभ्वाद्यायतनं स्वशब्दात् ॐ ॥ १.३.१ ॥ ॐ मुक्तोपसृप्यव्यपदेशात् ॐ ॥ १.३.२ ॥ ॐ नानुमानमतच्छब्दात् ॐ ॥ १.३.३ ॥ ॐ प्राणभृच्च ॐ ॥ १.३.४ ॥ ॐ भेदव्यपदेशात् ॐ ॥ १.३.५ ॥ ॐ प्रकरणात् ॐ ॥ १.३.६ ॥ ॐ स्थित्यदनाभ्यां च ॐ ॥ १.३.७ ॥ ॐ भूमा सम्प्रसादादध्युपदेशात् ॐ ॥ १.३.८ ॥ ॐ धर्मोपपत्तेश्च ॐ ॥ १.३.९ ॥ ॐ अक्षरमम्बरान्तधृतेः ॐ ॥ १.३.१० ॥ ॐ सा च प्रशासनात् ॐ ॥ १.३.११ ॥ ॐ अन्यभावव्यावृत्तेश्च ॐ ॥ १.३.१२ ॥ ॐ ईक्षतिकर्मव्यपदेशात् सः ॐ ॥ १.३.१३ ॥ ॐ दहर उत्तरेभ्यः ॐ ॥ १.३.१४ ॥ ॐ गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॐ ॥ १.३.१५ ॥ ॐ धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॐ ॥ १.३.१६ ॥ ॐ प्रसिद्धेश्च ॐ ॥ १.३.१७ ॥ ॐ इतरपरामर्शात् स इति चेन्नासम्भवात् ॐ ॥ १.३.१८ ॥ ॐ उत्तराच्चेदाविर्भूतस्वरूपस्तु ॐ ॥ १.३.१९ ॥ ॐ अन्यार्थश्च परामर्शः ॐ ॥ १.३.२० ॥ ॐ अल्पश्रुतेरिति चेत्तदुक्तम् ॐ ॥ १.३.२१ ॥ ॐ अनुकृतेस्तस्य च ॐ ॥ १.३.२२ ॥ ॐ अपि स्मर्यते ॐ ॥ १.३.२३ ॥ पाठभेद अपि च स्मर्यते ॐ शब्दादेव प्रमितः ॐ ॥ १.३.२४ ॥ ॐ हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॐ ॥ १.३.२५ ॥ ॐ तदुपर्यपि बादरायणः सम्भवात् ॐ ॥ १.३.२६ ॥ ॐ विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॐ ॥ १.३.२७ ॥ ॐ शब्द इतिचेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ॐ ॥ १.३.२८ ॥ ॐ अत एव च नित्यत्वम् ॐ ॥ १.३.२९ ॥ ॐ समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च ॐ ॥ १.३.३० ॥ ॐ मध्वादिष्वसम्भवादनधिकारं जैमिनिः ॐ ॥ १.३.३१ ॥ ॐ ज्योतिषि भावाच्च ॐ ॥ १.३.३२ ॥ ॐ भावं तु बादरायणोऽस्ति हि ॐ ॥ १.३.३३ ॥ ॐ शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॐ ॥ १.३.३४ ॥ ॐ क्षत्रियत्वागतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॐ ॥ १.३.३५ ॥ ॐ संस्कारपरामर्शात्तदभावाभिलापाच्च ॐ ॥ १.३.३६ ॥ ॐ तदभावनिर्धारणे च प्रवृत्तेः ॐ ॥ १.३.३७ ॥ ॐ श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च ॐ ॥ १.३.३८ ॥ ॐ कम्पनात् ॐ ॥ १.३.३९ ॥ ॐ ज्योतिर्दर्शनात् ॐ ॥ १.३.४० ॥ ॐ आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॐ ॥ १.३.४१ ॥ ॐ सुषुप्त्युत्क्रान्त्योर्भेदेन ॐ ॥ १.३.४२ ॥ ॐ पत्यादिशब्देभ्यः ॐ ॥ १.३.४३ ॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु प्रथमाध्यायस्य तृतीयः पादः समाप्तः ॐ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॐ ॥ १.४.१ ॥ ॐ सूक्ष्मं तु तदर्हत्वात् ॐ ॥ १.४.२ ॥ ॐ तदधीनत्वादर्थवत् ॐ ॥ १.४.३ ॥ ॐ ज्ञेयत्वावचनाच्च ॐ ॥ १.४.४ ॥ ॐ वदतीति चेन्न प्राज्ञो हि ॐ ॥ १.४.५ ॥ ॐ प्रकरणात् ॐ ॥ १.४.६ ॥ ॐ त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॐ ॥ १.४.७ ॥ ॐ महद्वच्च ॐ ॥ १.४.८ ॥ ॐ चमसवदविशेषात् ॐ ॥ १.४.९ ॥ ॐ ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ॐ ॥ १.४.१० ॥ (ज्योतिरुपक्रमात्तु) ॐ कल्पनोपदेशाच्च मध्वादिवदविरोधः ॐ ॥ १.४.११ ॥ ॐ न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॐ ॥ १.४.१२ ॥ ॐ प्राणादयो वाक्यशेषात् ॐ ॥ १.४.१३ ॥ ॐ ज्योतिषैकेषामसत्यन्ने ॐ ॥ १.४.१४ ॥ ॐ कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॐ ॥ १.४.१५ ॥ ॐ समाकर्षात् ॐ ॥ १.४.१६ ॥ ॐ जगद्वाचित्वात् ॐ ॥ १.४.१७ ॥ ॐ जीवमुख्यप्राणलिङ्गान्नेति चेत् तद्व्याख्यातम् ॐ ॥ १.४.१८ ॥ (जीवमुख्यप्राणलिङ्गादिति) ॐ अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॐ ॥ १.४.१९ ॥ ॐ वाक्यान्वयात् ॐ ॥ १.४.२० ॥ ॐ प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॐ ॥ १.४.२१ ॥ ॐ उत्क्रमिष्यत एवं भावादित्यौडुलोमिः ॐ ॥ १.४.२२ ॥ ॐ अवस्थितेरिति काशकृत्स्नः ॐ ॥ १.४.२३ ॥ ॐ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॐ ॥ १.४.२४ ॥ ॐ अभिध्योपदेशाच्च ॐ ॥ १.४.२५ ॥ ॐ साक्षाच्चोभयाम्नानात् ॐ ॥ १.४.२६ ॥ ॐ आत्मकृतेः परिणामात् ॐ ॥ १.४.२७ ॥ ॐ योनिश्च हि गीयते ॐ ॥ १.४.२८ ॥ ॐ एतेन सर्वेव्याख्याताव्याख्याताः ॐ ॥ १.४.२९ ॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु प्रथमाध्यायस्य चतुर्थः पादः समाप्तः ॥ इति प्रथमोऽध्यायः ॥ ॥ अथ द्वितीयोऽध्यायः ॥ ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ ॥ २.१.१ ॥ ॐ इतरेषां चानुपलब्धेः ॐ ॥ २.१.२ ॥ ॐ एतेन योगः प्रत्युक्तः ॐ ॥ २.१.३ ॥ ॐ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॐ ॥ २.१.४ ॥ ॐ दृश्यते तु ॐ ॥ २.१.५ ॥ ॐ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॐ ॥ २.१.६ ॥ ॐ दृश्यते च ॐ ॥ २.१.७ ॥ पाठभेद दृश्यते तु ॐ असदिति चेन्न प्रतिषेधमात्रत्वात् ॐ ॥ २.१.८ ॥ ॐ अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॐ ॥ २.१.९ ॥ ॐ न तु दृष्टान्तभावात् ॐ ॥ २.१.१० ॥ ॐ स्वपक्षदोषाच्च ॐ ॥ २.१.११ ॥ ॐ तर्काप्रतिष्ठानादपि अन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः ॐ ॥ २.१.१२ ॥ ॐ एतेन शिष्टापरिग्रहाऽपि व्याख्याताः ॐ ॥ २.१.१३ ॥ ॐ भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॐ ॥ २.१.१४ ॥ ॐ तदनन्यत्वमारम्भणशब्दादिभ्यः ॐ ॥ २.१.१५ ॥ ॐ भावे चोपलब्धेः ॐ ॥ २.१.१६ ॥ ॐ सत्त्वाच्चावरस्य ॐ ॥ २.१.१७ ॥ ॐ असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॐ ॥ २.१.१८ ॥ ॐ युक्तेः शब्दान्तराच्च ॐ ॥ २.१.१९ ॥ ॐ पटवच्च ॐ ॥ २.१.२० ॥ ॐ यथा प्राणादिः ॐ ॥ २.१.२१ ॥ ॐ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॐ ॥ २.१.२२ ॥ ॐ अधिकं तु भेदनिर्देशात् ॐ ॥ २.१.२३ ॥ ॐ अश्मादिवच्च तदनुपपत्तिः ॐ ॥ २.१.२४ ॥ ॐ उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॐ ॥ २.१.२५ ॥ ॐ देवादिवदपि लोके ॐ ॥ २.१.२६ ॥ ॐ कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॐ ॥ २.१.२७ ॥ ॐ श्रुतेस्तु शब्दमूलत्वात् ॐ ॥ २.१.२८ ॥ ॐ आत्मनि चैवं विचित्राश्च हि ॐ ॥ २.१.२९ ॥ ॐ स्वपक्षदोषाच्च ॐ ॥ २.१.३० ॥ ॐ सर्वोपेता च तद्दर्शनात् ॐ ॥ २.१.३१ ॥ ॐ विकरणत्वान्नेतिचेत्तदुक्तम् ॐ ॥ २.१.३२ ॥ ॐ न प्रयोजनत्त्वात् ॐ ॥ २.१.३३ ॥ ॐ लोकवत्तु लीलाकैवल्यम् ॐ ॥ २.१.३४ ॥ ॐ वैष्यम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ॐ ॥ २.१.३५ ॥ ॐ कर्माविभागादिति चेन्नानादित्वात् ॐ ॥ २.१.३६ ॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 09 Sep 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine