ब्रह्मसूत्रभाष्यम् (रामानुजाचार्यविरचितम्)
/ 106
←

Brahmasutrabhashyam (ramanujacaryaviracitam) Telugu PDF & Online Reader (బ్రహ్మసూత్రభాష్యమ్ (రామానుజాచార్యవిరచితమ్))

Brahmasutrabhashyam (ramanujacaryaviracitam) (ब्रह्मसूत्रभाष्यम् (रामानुजाचार्यविरचितम्)) by Ramanujacharya (रामानुजाचार्यः) — Telugu Text & PDF Download

📜 Last Proofread: 15 Aug 2026
📥 Download Telugu PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 15 Aug 2026
📥 Download PDF ♡ Save
🌐 Language & Script తెలుగు
↔️ Text Alignment Center
॥ प्रथमः भागः (प्रथमाध्यायः) ॥ श्रीभाष्यम् अखिलभुवनजन्मस्थेमभङ्गादिलीले विनतविविधभूतव्रातरक्षैकदीक्षे । श्रुतिशिरसि विदीप्ते ब्रह्मणि श्रीनिवासे भवतु मम परस्मिन् शेमुषी भक्तिरूपा ॥ 1 ॥ पाराशर्यवचस्सुधामुपनिषद्दुग्धाब्धिमध्योद्धृताम् । संसाराग्निविदीपनव्यपगतप्राणात्मसञ्जीविनीम् ॥ पूर्वाचार्यसुरक्षितां बहुमतिव्याघातदूरस्थितामानीतान्तु निजाक्षरैस्सुमनसो भौमाःपिबन्त्वन्वहम् ॥ भगवद्वोधायनकृतां विस्तीर्णां ब्रह्मसूत्रवृत्तिं पूर्वाचार्यास्सञ्चिक्षिषुस्तन्मतानुसारेण सूत्राक्षराणि व्याख्यास्यन्ते । 1.1.1 अथाऽतो ब्रह्मजिज्ञासा ॥ 1 ॥ अतश्शब्दो वृत्तस्य हेतुभावे । अधीतसाङ्गसशिरस्कवेदस्याधिगताल्पास्थिरफलकेवलकर्मज्ञानतया सञ्जातमोक्षाभिलाषस्याऽनन्तास्थिरफलब्रह्मजिज्ञासा ह्यनन्तरभाविनी । ब्रह्मणो जिज्ञासा - ब्रह्मजिज्ञासा, ब्रह्मण इति कर्माणि षष्ठी "कर्त्तृकर्मणोः कृती"ति विशेषविधानात् । यद्यपि सम्बन्धसामान्यपरिग्रहेपि जिज्ञासायाः कर्मापेक्षतवेन कर्मार्थत्वसिद्धिः, तथाप्याक्षेपतः प्राप्तादाभिधानिकस्यैव ग्राह्यत्वात्कर्मणि षष्ठी गृह्यते । न च "प्रतिपदविधाना षष्ठी न समस्यत" इति कर्मणि षष्ठयाः समासनिषेधः शङ्कनीयाः "कृद्योगा च षष्ठी समस्यत" इति प्रतिप्रसवसद्भावात् । ब्रह्मशब्देन च स्वभावतो निरस्तनिखिलदोषोऽनवधिकातिशयासङ्खयेयकल्याणगुणगणः पुरुषोत्तमोऽभिधीयते । सर्वत्र बृहत्त्वगुणयोगेन हि ब्रह्मशब्दः, बृहत्त्वं च स्वरूपेण गुणैश्च यत्रानवधिकातिशयं सोस्य मुख्योर्थः । स च सर्वेश्वर एव, अतो ब्रह्मशब्दस्तत्रैव मुख्यवृत्तः । तस्मादन्यत्र तद्गुणलेशयोगादौपचारिकः, अनेकार्थकल्पनायोगात्, भगवच्छब्दवत् । तापत्रयातुरैरमृतत्वाय स एव जिज्ञास्यः । अतस्सर्वेश्वर एव जिज्ञासाकर्मभूतं ब्रह्म । ज्ञातुमिच्छा - जिज्ञासा इच्छाया इष्यमाणप्रधानत्वादिष्यमाणं ज्ञानमिह विधीयते । मीमांसापूर्वभागज्ञातस्य कर्मणोऽल्पास्थिरफलत्वादुपरितनभागावसेयस्य ब्रह्मज्ञानस्यानन्ताक्षयफलत्वाच्च, पूर्ववृत्तात्कर्मज्ञानादनन्तरं तत एव हेतोर्ब्रह्म ज्ञातव्यमित्युक्तम्भवति । तदाह वृत्तिकारः- "वृत्तात्कर्माधिगमादनन्तरं ब्रह्मविविदिषा" इति । वक्ष्यति च कर्मब्रह्ममीमांसयोरैकशास्त्र्यं "संहितमेतच्छारीरकं जैमिनीयेन षोडशलक्षणेनेति शास्त्रैकत्वसिद्धिः"रिति, अतः प्रतिपिपादयिषितार्थभेदेन षट्कभेदवदध्यायभेदवच्च पूर्वोत्तरमीमांसयोर्भेदः । मीमांसाशास्त्रम् - "अथातो धर्मजिज्ञासा" इत्यारभ्य "अनावृत्तिश्शब्दादनावृत्तिश्शब्दात्" इत्येवमन्तं सङ्गतिविशेषेण विशिष्टक्रमम् । तथाहि- प्रथमं तावत् "स्वाध्यायोऽध्येतव्य" इत्यध्ययनेनैव स्वाध्याय तच्चाध्ययनं किं रूपं ? कथं च कर्त्तव्यम् ? इत्यपेक्षायाम् "अष्टवर्षं ब्राह्मणमुपनीयत तमध्यापयेत्" इत्यनेन "श्रावण्यां प्रौष्ठपद्यां वा उपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान्विप्रोर्द्धपञ्चमान् ॥" इत्यादिव्रतनियमविशेषोपदेशैश्चपेक्षितानि विधीयन्ते । एवं सत्सन्तानप्रसूतसदाचारनिष्ठात्मगुणोपेतवेदविदाचार्योपनीतस्य व्रतनियमविशेषयुक्तस्याचार्योच्चारणानूच्चारणरूपमक्षरराशिग्रहणफलमध्ययनमित्यवगम्ते । अध्ययनञ्च स्वाध्यायसंस्कारः "स्वाध्यायोऽध्येतव्य" इति स्वाध्यायस्य कमर्त्वावगमात् । संस्कारो हि नाम कार्यान्तरयोग्यताकरणम् । संस्कार्यत्वञ्च स्वाध्यायस्य युक्तम्, धर्मार्थकाममोक्षरूपपुरुषार्थचतुष्टयतत्साधनावबोधित्वात् । जापादिना स्वरूपेणापि तत्साधनत्वाच्च । एवमध्ययनविधिर्मन्त्रवन्नियमवदक्षरराशिग्रहणमात्रे पर्यवस्यति । अध्ययनगृहीतस्य स्वाध्यायस्य स्वभावत एव प्रयोजनवदर्थावबोधित्वदर्शनात् । गृहीतात्स्वाध्यायादवगम्यमानात् प्रयोजनवतोऽर्थानापाततो दृष्ट्वा तत्स्वरूपप्रकारविशेषनिर्णयफलवेदवाक्यविचाररूपमीमांसाश्रवणेऽधीतवेदः पुरुषः स्वयमेव प्रवर्त्तते । तत्र कर्मविधिस्वरूपे निरूपिते कर्मणामल्पास्थिरघलत्वं दृष्ट्वा अध्ययनगृहीतस्वाध्यायोपनिषद्वाक्येषु चामृतत्वरूपानन्तस्थिरफलापातप्रतीतेस्तन्निर्णयफलवेदान्तविचाररूपशारीरकमीमांसायामधिकरोति । तथा च वेदान्तवाक्यानि केवलकमर्फलस्य क्षयित्वं ब्रह्मज्ञानस्य चाक्षयफलत्वं दर्शयन्ति "तद्यथेह कर्मचितो लोकः क्षीयते, एवमेवात्र पुण्यचितो लोकः क्षीयते" "अन्तवदेवास्य तद्भवति" "नह्यध्रुवैः प्राप्यते" "प्लवा ह्येते अदृढा यज्ञरूपाः" "परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् नास्त्यकृतः कृतेन तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिश्श्रोत्रियं ब्रह्मनिष्ठं तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचिताय शमान्विताय येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्या"मिति । प्रोवाचप्रब्रूयादित्यर्थः । "ब्रह्मविदाप्नोति परम्" "न पुनमृत्यवे तदेकं पश्यति" "न पश्यो मृत्युं पश्यति" "स स्वराड् भवति" "तमेवं विद्वानमृत इह भवति नान्यःपन्थाअयनायविद्यते" "पृथगात्मानं प्ररितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति" इत्यादीनि । ननु च साङ्गवेदाध्ययनादेव कमर्णां स्वर्गादि फलत्वम्, स्वर्गादीनां च क्षयित्वं ब्रह्मोपासनस्यामृतत्वफलत्वञ्च ज्ञायत एव । अनन्तरं मुमुक्षुर्ब्रह्मजिज्ञासायामेव प्रवर्त्तताम्; किमर्था धर्मविचारापेक्षा ? एवं तर्हि शारीरकमामांसायामपि न प्रवर्त्ततां साङ्गाध्ययनादेव कृत्स्नस्य ज्ञातत्वात् । सत्यम् आपातप्रतीतिर्विद्यत एव, तथापि न्यायानुगृहीतस्य वाक्यस्यार्थनिश्चायकतादापातप्रतीतोप्यर्थः संशयविपर्ययौ नातिवर्त्तते; अतस्तन्निर्णयाय वेदान्तवाक्यविचारः कर्त्तव्य इति चेत्; तथैव धर्मविचारोपि कर्त्तव्य इति पश्यतु भवान् । ननु च ब्रह्मजिज्ञासा यदेव नियमेनापेक्षते, तदेव पूर्ववृत्तं वक्तव्यम् । न धर्मविचारापेक्षा ब्रह्मजिज्ञासायाः, अधीतवेदान्तस्यानधिगतकर्मणोपि वेदान्तवाक्यार्थविचारोपपत्तेः । कर्माङ्गाश्रयाण्युद्गीथाद्युपासनान्यत्रैव चिन्त्यन्ते, तदनधिगतकर्मणो न शक्यं कर्त्तुमिति चेत्, अनभिज्ञो भवान् शारीरकशास्त्रविज्ञानस्य । अस्मिन् शास्त्रे अनाद्यविद्याकृतविविधभेददर्शननिमित्तजन्मजरामरणादिसांसारिकदुःखसागरनिमग्नस्य निखिलदुःखमूलमिथ्याज्ञाननिर्वहणायात्मैकत्वविज्ञानं प्रतिपिपादयिषितम् । अस्य हि भेदावलम्बिकर्मज्ञानं क्वोपयुज्यते ? प्रत्युत विरुद्धमेव । उद्गीथादिविचारस्तु कर्मशेषभूत एव ज्ञानरूपत्वाविशेषादिहैव क्रियते, स तु न साक्षात्सङ्गतः, अतो यत्प्रधानं शास्त्रं तदपेक्षितमेव पूर्ववृत्तं किमपि वक्तव्यम् । बाढम्; तदपेक्षितं च कर्मविज्ञानमेव, कमर्समुच्चिताज्ज्ञानादपवर्गश्रुतेः । वक्ष्यति च "सर्वापेक्षा च यज्ञादिश्रुतेरश्वत्" इति । अपेक्षिते च कर्मण्यज्ञाते केन समुच्चयः केन नेति विभागो न शक्यते ज्ञातुम्, अतस्तदेव पूर्ववृत्तम् । नैतद्युक्तम्, सकलविशेषप्रत्यनीकचिन्मात्रब्रह्मविज्ञानादेवाविद्यानिवृत्तेः; अविद्यानिवृत्तिरेव हि मोक्षः । वर्णाश्रमविशेषसाध्यसाधनेतिकर्त्तव्यताद्यनन्तविकल्पास्पदं कर्म सकलभेददर्शननिवृत्तिरूपाज्ञाननिवृत्तेः कथमिव साधनं भवेत् ? श्रुतयश्च कर्मणामनित्यफलत्वेन मोक्षविरोधित्वं, ज्ञानस्यैव मोक्षसाधनत्वं च दर्शयन्ति "अन्तव देवास्य तद्भवति" "तद्यथेह कर्मचितो लोकः क्षीयते । एवमेवामुत्र पुण्यचितो लोकः क्षीयते" "ब्रह्मविदाप्नोति परम्" "ब्रह्म वेद ब्रह्मैव भवति" "तमेव विदित्वातिमृत्युमेति" इत्याद्याः । यदपि चेदमुक्तम्,-यज्ञादिकर्मापेक्षा विद्येति, तद्वस्तुविरोधाच्छØत्यक्षरपर्यालोचनया चान्तः करणनैर्मल्यद्वारेण विविदिषोत्पत्तावुपयुज्यते; न फलोत्पत्तौ, "विविदिषन्तीति श्रवणात् विविदिषायां जातायां ज्ञानोत्पत्तौ शमादीनामेवान्तरङ्गोपायतां श्रुतिरेवाह । "शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्येत्" इति । तदेवं जन्मान्तरशतानुष्ठितानभिसंहितफलविशेष कर्ममृदितकषायस्य विविदिषोत्पत्तौ सत्याम् "सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयम्" "सत्यं ज्ञानमनन्तं ब्रह्म निष्कलं निष्क्रियं शान्तम्" "अयमात्मा ब्रह्म" "तत्त्वमसि" इत्यादिवाक्यज्न्यज्ञानादविद्या निवर्त्तते । वाक्यार्थज्ञानोपयोगीनि च श्रवणमनननिदिध्यासनानि । श्रवणं नामवेदान्तवाक्यानि आत्मैकत्वविद्याप्रतिपादकनीति तत्त्वदर्शिन आचार्यान्न्याययुक्ताथर्ग्रहणम् । एवमाचार्योपदिष्टस्यार्थस्य स्वात्मन्येवमेव युक्तमिति हेतुतः प्रतिष्ठापनं मननम् । एतद्विरोध्यनादि भेदवासनानिरसनायास्यैवार्थस्यानवरतभावना निदिध्यासनम् । श्रवणादिभिर्निरस्तसमस्तभेदवासनस्य वाक्यार्थज्ञानमविद्यां निवर्त्तयतीत्येवं रूपस्य श्रवणस्यावश्यापेक्षितमेव पूवर्वृत्तं वक्तव्यम् । तच्च नित्यानित्यवस्तुविवेकः, शमदमादिसाधनसम्पत्, इहामुत्र फलभोगविरागः, मुमुक्षत्वं चेत्येतत्साधनचतुष्टयम् । अनेन विना जिज्ञासानुपपत्तेः, अथर्स्वभावादेवेदमेव पूर्ववृत्तमिति ज्ञायते । एतदुक्तं भवतिब्रह्मस्वरूपाच्छादिकाविद्यामूलमपारमार्थिकं भेददर्शनमेव बन्धमूलम् । बन्धश्चापारमार्थिकः स च समूलोऽपारमार्थिकत्वादेव ज्ञानेनैव निवत्र्त्यते । निवर्त्तकं च ज्ञानं तत्त्वमस्यादिवाक्यजन्यम् । तस्यैतस्य वाक्यजन्यस्य ज्ञानस्य स्वरूपोत्पत्तौ कार्ये वा कर्मणो नोपयोगः, विविदिषायाबेव तु कर्मणामुपयोगः । स च पापमूलरजस्तमोनिबर्हणद्वारेण सत्त्वविवृद्धया भवतीतीमुपयोगमभिप्रेत्य "ब्राह्मणा विविदिषन्ति" इत्युक्तमिति । अतः कर्मज्ञानस्यानुपयोगादुक्तमेव साधनचतुष्टयं पूर्ववृत्तमिति वक्तव्यम् । लघुसिद्धान्तः - अत्रोच्यतेयदुक्तमविद्यानिवृत्तिरेव मोक्षः, सा च ब्रह्मविज्ञानादेव भवति, इति । तदभ्युपगम्यते । अविद्यानिवृत्तये वेदान्तवाक्यैर्विधित्सितं ज्ञानं किंरूपमिति विवेचनीयम्किं वाक्याद्वाक्यार्थज्ञानमात्रम्, उत
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 15 Aug 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine