॥ प्रथमः भागः (प्रथमाध्यायः) ॥
श्रीभाष्यम्
अखिलभुवनजन्मस्थेमभङ्गादिलीले विनतविविधभूतव्रातरक्षैकदीक्षे ।
श्रुतिशिरसि विदीप्ते ब्रह्मणि श्रीनिवासे भवतु मम परस्मिन् शेमुषी भक्तिरूपा ॥ 1 ॥
पाराशर्यवचस्सुधामुपनिषद्दुग्धाब्धिमध्योद्धृताम् ।
संसाराग्निविदीपनव्यपगतप्राणात्मसञ्जीविनीम् ॥
पूर्वाचार्यसुरक्षितां बहुमतिव्याघातदूरस्थितामानीतान्तु निजाक्षरैस्सुमनसो भौमाःपिबन्त्वन्वहम् ॥
भगवद्वोधायनकृतां विस्तीर्णां ब्रह्मसूत्रवृत्तिं पूर्वाचार्यास्सञ्चिक्षिषुस्तन्मतानुसारेण सूत्राक्षराणि व्याख्यास्यन्ते ।
1.1.1 अथाऽतो ब्रह्मजिज्ञासा ॥ 1 ॥
अतश्शब्दो वृत्तस्य हेतुभावे । अधीतसाङ्गसशिरस्कवेदस्याधिगताल्पास्थिरफलकेवलकर्मज्ञानतया सञ्जातमोक्षाभिलाषस्याऽनन्तास्थिरफलब्रह्मजिज्ञासा ह्यनन्तरभाविनी । ब्रह्मणो जिज्ञासा - ब्रह्मजिज्ञासा, ब्रह्मण इति कर्माणि षष्ठी "कर्त्तृकर्मणोः कृती"ति विशेषविधानात् । यद्यपि सम्बन्धसामान्यपरिग्रहेपि जिज्ञासायाः कर्मापेक्षतवेन कर्मार्थत्वसिद्धिः, तथाप्याक्षेपतः प्राप्तादाभिधानिकस्यैव ग्राह्यत्वात्कर्मणि षष्ठी गृह्यते । न च "प्रतिपदविधाना षष्ठी न समस्यत" इति कर्मणि षष्ठयाः समासनिषेधः शङ्कनीयाः "कृद्योगा च षष्ठी समस्यत" इति प्रतिप्रसवसद्भावात् । ब्रह्मशब्देन च स्वभावतो निरस्तनिखिलदोषोऽनवधिकातिशयासङ्खयेयकल्याणगुणगणः पुरुषोत्तमोऽभिधीयते । सर्वत्र बृहत्त्वगुणयोगेन हि ब्रह्मशब्दः, बृहत्त्वं च स्वरूपेण गुणैश्च यत्रानवधिकातिशयं सोस्य मुख्योर्थः । स च सर्वेश्वर एव, अतो ब्रह्मशब्दस्तत्रैव मुख्यवृत्तः । तस्मादन्यत्र तद्गुणलेशयोगादौपचारिकः, अनेकार्थकल्पनायोगात्, भगवच्छब्दवत् । तापत्रयातुरैरमृतत्वाय स एव जिज्ञास्यः । अतस्सर्वेश्वर एव जिज्ञासाकर्मभूतं ब्रह्म । ज्ञातुमिच्छा - जिज्ञासा इच्छाया इष्यमाणप्रधानत्वादिष्यमाणं ज्ञानमिह विधीयते । मीमांसापूर्वभागज्ञातस्य कर्मणोऽल्पास्थिरफलत्वादुपरितनभागावसेयस्य ब्रह्मज्ञानस्यानन्ताक्षयफलत्वाच्च, पूर्ववृत्तात्कर्मज्ञानादनन्तरं तत एव हेतोर्ब्रह्म ज्ञातव्यमित्युक्तम्भवति । तदाह वृत्तिकारः- "वृत्तात्कर्माधिगमादनन्तरं ब्रह्मविविदिषा" इति । वक्ष्यति च कर्मब्रह्ममीमांसयोरैकशास्त्र्यं "संहितमेतच्छारीरकं जैमिनीयेन षोडशलक्षणेनेति शास्त्रैकत्वसिद्धिः"रिति, अतः प्रतिपिपादयिषितार्थभेदेन षट्कभेदवदध्यायभेदवच्च पूर्वोत्तरमीमांसयोर्भेदः ।
मीमांसाशास्त्रम् - "अथातो धर्मजिज्ञासा" इत्यारभ्य "अनावृत्तिश्शब्दादनावृत्तिश्शब्दात्" इत्येवमन्तं सङ्गतिविशेषेण विशिष्टक्रमम् । तथाहि- प्रथमं तावत् "स्वाध्यायोऽध्येतव्य" इत्यध्ययनेनैव स्वाध्याय तच्चाध्ययनं किं रूपं ? कथं च कर्त्तव्यम् ? इत्यपेक्षायाम् "अष्टवर्षं ब्राह्मणमुपनीयत तमध्यापयेत्" इत्यनेन
"श्रावण्यां प्रौष्ठपद्यां वा उपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान्विप्रोर्द्धपञ्चमान् ॥"
इत्यादिव्रतनियमविशेषोपदेशैश्चपेक्षितानि विधीयन्ते । एवं सत्सन्तानप्रसूतसदाचारनिष्ठात्मगुणोपेतवेदविदाचार्योपनीतस्य व्रतनियमविशेषयुक्तस्याचार्योच्चारणानूच्चारणरूपमक्षरराशिग्रहणफलमध्ययनमित्यवगम्ते । अध्ययनञ्च स्वाध्यायसंस्कारः "स्वाध्यायोऽध्येतव्य" इति स्वाध्यायस्य कमर्त्वावगमात् । संस्कारो हि नाम कार्यान्तरयोग्यताकरणम् ।
संस्कार्यत्वञ्च स्वाध्यायस्य युक्तम्, धर्मार्थकाममोक्षरूपपुरुषार्थचतुष्टयतत्साधनावबोधित्वात् । जापादिना स्वरूपेणापि तत्साधनत्वाच्च । एवमध्ययनविधिर्मन्त्रवन्नियमवदक्षरराशिग्रहणमात्रे पर्यवस्यति । अध्ययनगृहीतस्य स्वाध्यायस्य स्वभावत एव प्रयोजनवदर्थावबोधित्वदर्शनात् । गृहीतात्स्वाध्यायादवगम्यमानात् प्रयोजनवतोऽर्थानापाततो दृष्ट्वा तत्स्वरूपप्रकारविशेषनिर्णयफलवेदवाक्यविचाररूपमीमांसाश्रवणेऽधीतवेदः पुरुषः स्वयमेव प्रवर्त्तते । तत्र कर्मविधिस्वरूपे निरूपिते कर्मणामल्पास्थिरघलत्वं दृष्ट्वा अध्ययनगृहीतस्वाध्यायोपनिषद्वाक्येषु चामृतत्वरूपानन्तस्थिरफलापातप्रतीतेस्तन्निर्णयफलवेदान्तविचाररूपशारीरकमीमांसायामधिकरोति । तथा च वेदान्तवाक्यानि केवलकमर्फलस्य क्षयित्वं ब्रह्मज्ञानस्य चाक्षयफलत्वं दर्शयन्ति "तद्यथेह कर्मचितो लोकः क्षीयते, एवमेवात्र पुण्यचितो लोकः क्षीयते" "अन्तवदेवास्य तद्भवति" "नह्यध्रुवैः प्राप्यते" "प्लवा ह्येते अदृढा यज्ञरूपाः" "परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् नास्त्यकृतः कृतेन तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिश्श्रोत्रियं ब्रह्मनिष्ठं तस्मै स
विद्वानुपसन्नाय सम्यक् प्रशान्तचिताय शमान्विताय येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्या"मिति । प्रोवाचप्रब्रूयादित्यर्थः । "ब्रह्मविदाप्नोति परम्" "न पुनमृत्यवे तदेकं पश्यति" "न पश्यो मृत्युं पश्यति" "स स्वराड् भवति" "तमेवं विद्वानमृत इह भवति नान्यःपन्थाअयनायविद्यते" "पृथगात्मानं प्ररितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति" इत्यादीनि । ननु च साङ्गवेदाध्ययनादेव कमर्णां स्वर्गादि फलत्वम्, स्वर्गादीनां च क्षयित्वं ब्रह्मोपासनस्यामृतत्वफलत्वञ्च ज्ञायत एव । अनन्तरं मुमुक्षुर्ब्रह्मजिज्ञासायामेव प्रवर्त्तताम्; किमर्था धर्मविचारापेक्षा ? एवं तर्हि शारीरकमामांसायामपि न प्रवर्त्ततां साङ्गाध्ययनादेव कृत्स्नस्य ज्ञातत्वात् । सत्यम् आपातप्रतीतिर्विद्यत एव, तथापि न्यायानुगृहीतस्य वाक्यस्यार्थनिश्चायकतादापातप्रतीतोप्यर्थः संशयविपर्ययौ नातिवर्त्तते; अतस्तन्निर्णयाय वेदान्तवाक्यविचारः कर्त्तव्य इति चेत्; तथैव धर्मविचारोपि कर्त्तव्य इति पश्यतु भवान् ।
ननु च ब्रह्मजिज्ञासा यदेव नियमेनापेक्षते, तदेव पूर्ववृत्तं वक्तव्यम् । न धर्मविचारापेक्षा ब्रह्मजिज्ञासायाः, अधीतवेदान्तस्यानधिगतकर्मणोपि वेदान्तवाक्यार्थविचारोपपत्तेः । कर्माङ्गाश्रयाण्युद्गीथाद्युपासनान्यत्रैव चिन्त्यन्ते, तदनधिगतकर्मणो न शक्यं कर्त्तुमिति चेत्, अनभिज्ञो भवान् शारीरकशास्त्रविज्ञानस्य । अस्मिन् शास्त्रे अनाद्यविद्याकृतविविधभेददर्शननिमित्तजन्मजरामरणादिसांसारिकदुःखसागरनिमग्नस्य निखिलदुःखमूलमिथ्याज्ञाननिर्वहणायात्मैकत्वविज्ञानं प्रतिपिपादयिषितम् । अस्य हि भेदावलम्बिकर्मज्ञानं क्वोपयुज्यते ? प्रत्युत विरुद्धमेव । उद्गीथादिविचारस्तु कर्मशेषभूत एव ज्ञानरूपत्वाविशेषादिहैव क्रियते, स तु न साक्षात्सङ्गतः, अतो यत्प्रधानं शास्त्रं तदपेक्षितमेव पूर्ववृत्तं किमपि वक्तव्यम् । बाढम्; तदपेक्षितं च कर्मविज्ञानमेव, कमर्समुच्चिताज्ज्ञानादपवर्गश्रुतेः । वक्ष्यति च "सर्वापेक्षा च यज्ञादिश्रुतेरश्वत्" इति । अपेक्षिते च कर्मण्यज्ञाते केन समुच्चयः केन नेति विभागो न शक्यते ज्ञातुम्, अतस्तदेव पूर्ववृत्तम् । नैतद्युक्तम्, सकलविशेषप्रत्यनीकचिन्मात्रब्रह्मविज्ञानादेवाविद्यानिवृत्तेः; अविद्यानिवृत्तिरेव हि मोक्षः । वर्णाश्रमविशेषसाध्यसाधनेतिकर्त्तव्यताद्यनन्तविकल्पास्पदं कर्म सकलभेददर्शननिवृत्तिरूपाज्ञाननिवृत्तेः कथमिव साधनं भवेत् ? श्रुतयश्च कर्मणामनित्यफलत्वेन मोक्षविरोधित्वं, ज्ञानस्यैव मोक्षसाधनत्वं च दर्शयन्ति "अन्तव देवास्य तद्भवति" "तद्यथेह कर्मचितो लोकः क्षीयते । एवमेवामुत्र पुण्यचितो लोकः क्षीयते" "ब्रह्मविदाप्नोति परम्" "ब्रह्म वेद ब्रह्मैव भवति" "तमेव विदित्वातिमृत्युमेति" इत्याद्याः ।
यदपि चेदमुक्तम्,-यज्ञादिकर्मापेक्षा विद्येति, तद्वस्तुविरोधाच्छØत्यक्षरपर्यालोचनया चान्तः करणनैर्मल्यद्वारेण विविदिषोत्पत्तावुपयुज्यते; न फलोत्पत्तौ, "विविदिषन्तीति श्रवणात् विविदिषायां जातायां ज्ञानोत्पत्तौ शमादीनामेवान्तरङ्गोपायतां श्रुतिरेवाह । "शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्येत्" इति ।
तदेवं जन्मान्तरशतानुष्ठितानभिसंहितफलविशेष कर्ममृदितकषायस्य विविदिषोत्पत्तौ सत्याम् "सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयम्" "सत्यं ज्ञानमनन्तं ब्रह्म निष्कलं निष्क्रियं शान्तम्" "अयमात्मा ब्रह्म" "तत्त्वमसि" इत्यादिवाक्यज्न्यज्ञानादविद्या निवर्त्तते । वाक्यार्थज्ञानोपयोगीनि च श्रवणमनननिदिध्यासनानि । श्रवणं नामवेदान्तवाक्यानि आत्मैकत्वविद्याप्रतिपादकनीति तत्त्वदर्शिन आचार्यान्न्याययुक्ताथर्ग्रहणम् । एवमाचार्योपदिष्टस्यार्थस्य स्वात्मन्येवमेव युक्तमिति हेतुतः प्रतिष्ठापनं मननम् । एतद्विरोध्यनादि भेदवासनानिरसनायास्यैवार्थस्यानवरतभावना निदिध्यासनम् । श्रवणादिभिर्निरस्तसमस्तभेदवासनस्य वाक्यार्थज्ञानमविद्यां निवर्त्तयतीत्येवं रूपस्य श्रवणस्यावश्यापेक्षितमेव पूवर्वृत्तं वक्तव्यम् । तच्च नित्यानित्यवस्तुविवेकः, शमदमादिसाधनसम्पत्, इहामुत्र फलभोगविरागः, मुमुक्षत्वं चेत्येतत्साधनचतुष्टयम् । अनेन विना जिज्ञासानुपपत्तेः, अथर्स्वभावादेवेदमेव पूर्ववृत्तमिति ज्ञायते ।
एतदुक्तं भवतिब्रह्मस्वरूपाच्छादिकाविद्यामूलमपारमार्थिकं भेददर्शनमेव बन्धमूलम् । बन्धश्चापारमार्थिकः स च समूलोऽपारमार्थिकत्वादेव ज्ञानेनैव निवत्र्त्यते । निवर्त्तकं च ज्ञानं तत्त्वमस्यादिवाक्यजन्यम् । तस्यैतस्य वाक्यजन्यस्य ज्ञानस्य स्वरूपोत्पत्तौ कार्ये वा कर्मणो नोपयोगः, विविदिषायाबेव तु कर्मणामुपयोगः । स च पापमूलरजस्तमोनिबर्हणद्वारेण सत्त्वविवृद्धया भवतीतीमुपयोगमभिप्रेत्य "ब्राह्मणा विविदिषन्ति" इत्युक्तमिति । अतः कर्मज्ञानस्यानुपयोगादुक्तमेव साधनचतुष्टयं पूर्ववृत्तमिति वक्तव्यम् ।
लघुसिद्धान्तः - अत्रोच्यतेयदुक्तमविद्यानिवृत्तिरेव मोक्षः, सा च ब्रह्मविज्ञानादेव भवति, इति । तदभ्युपगम्यते । अविद्यानिवृत्तये वेदान्तवाक्यैर्विधित्सितं ज्ञानं किंरूपमिति विवेचनीयम्किं वाक्याद्वाक्यार्थज्ञानमात्रम्, उत