श्रीमदनुव्याख्यानम्
(श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम्)
॥ अथ प्रथमोऽध्यायः ॥
॥ प्रथमः पादः ॥
नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः ।
अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥ १ ॥
तमेव शास्त्रप्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव ।
विशेषतो मे परमाख्यविद्याव्याख्यां करोम्यन्वपि चाहमेव ॥ २ ॥
प्रादुर्भूतो हरिर्व्यासो विरिञ्चभवपूर्वकैः ।
अर्थितः परविद्याख्यं चक्रे शास्त्रमनुत्तमम् ॥ ३ ॥
गुरुर्गुरूणां प्रभवः शास्त्राणां बादरायणः ।
यतस्तदुदितं मानमजादिभ्यस्तदर्थतः ॥ ४ ॥
वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलता ।
आप्तवाक्यतया तेन श्रुतिमूलतया तथा ॥ ५ ॥
युक्तिमूलतया चैव प्रामाण्यं त्रिविधं महत् ।
दृश्यते ब्रह्मसूत्राणामेकधाऽन्यत्र सर्वशः ॥ ६ ॥
अतो नैतादृशं किञ्चित् प्रमाणतममिष्यते ।
स्वयङ्कृताऽपि तद्य्वाख्या क्रियते स्पष्टतार्थतः ॥ ७ ॥
तत्र ताराथमूलत्वं सर्वशास्त्रस्य चेष्यते ।
सर्वत्रानुगतत्वेन पृथगोङ्क्रियतेऽखिलैः ॥ ८ ॥
॥ अथ जिज्ञासाधिकरणम् ॥
ओतत्ववाची ह्योङ्कारो वक्त्यसौ तद्गुणोतताम् ।
स एव ब्रह्मशब्दार्थो नारायणपदोदितः ॥ ९ ॥
स एव भर्गशब्दार्थो व्याहृतीनां च भूमतः ।
भावनाच्चैव सुत्वाच्च सोऽयं पुरुष इत्यपि ॥ १० ॥
स एव सर्ववेदार्थो जिज्ञास्योऽयं विधीयते ।
‘ज्ञानी प्रियतमोऽतो मे’ ‘तं विद्वानेव चामृतः’ ॥ ११ ॥
‘वृणुते यं तेन लभ्यः’ इत्याद्युक्तिबलेन हि ।
जिज्ञासोत्थज्ञानजात्तत्प्रसादादेव मुच्यते ॥ १२ ॥
‘द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।
यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया’ ॥ १३ ॥
‘नर्ते त्वत्क्रियते किञ्चिद्’ इत्यादेर्न हरिं विना ।
ज्ञानस्वभावतोपि स्यान्मुक्तिः कस्यापि हि क्वचित् ॥ १४ ॥
‘अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः ।
आनन्ददश्च मुक्तानां स एवैको जनार्दनः’ ॥ १५ ॥
इत्युक्तेर्बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते ।
मिथ्यात्वमपि बन्धस्य न प्रत्यक्षविरोधतः ॥ १६ ॥
मिथ्यात्वं यदि दुःखादेस्तद्वाक्यस्याग्रतो भवेत् ।
मिथ्यायाः साधकत्वं च न सिद्धं प्रतिवादिनः ॥ १७ ॥
तच्च मिथ्याप्रमाणेन सता वा साध्यते त्वया ।
सता चेत् द्वैतसिद्धिः स्यान्न सिद्धं चान्यसाधनम् ॥ १८ ॥
साधकत्वं सतस्तेन साक्षिणा सिद्धिमिच्छता ।
स्वीकृतं ह्यविशेषस्य साध्यासाधकता पुनः ॥ १९ ॥
तच्चाविशेषमानेन साध्यमित्यनवस्थितिः ।
अनङ्गीकुर्वतां विश्वसत्यतां तन्न वादिता ॥ २० ॥
तस्माद् व्यवहृतिः सर्वा सत्येत्येव व्यवस्थिता ।
व्यावहारिकमेतस्मात् सत्यमित्येव चागतम् ॥ २१ ॥
व्यवहारसतश्चापि साधकत्वं तु पूर्ववत् ।
सत्त्रैविध्यं च मानेन सिद्ध्येत् केनेति पृच्छ्यते ॥ २२ ॥
तस्याप्युक्तप्रकारेण नैव सिद्धिः कथञ्चन ।
वैलक्ष्ण्यं सदसतोरप्येतेन निषिध्यते ॥ २३ ॥
वैलक्ष्ण्यं सतश्चापि स्वयं सद्भेदवादिनः ।
असतश्चापि विश्वस्य तेनानिष्टं कथं भवेत् ॥ २४ ॥
यद्युच्यतेऽपि सर्वस्मादिति सद्भेदसंस्थितिः ।
सन्मात्रत्वं ब्रह्मणोऽपि तस्मात् तदपि नो भवेत् ॥ २५ ॥
ज्ञानबाध्यत्वमपि तु न सिद्धं प्रतिवादिनः ।
विज्ञातस्यान्यथा सम्यग् विज्ञानं ह्येव तन्मतम् ॥ २६ ॥
असद्वलिक्षणज्ञप्त्यै ज्ञातव्यमसदेव हि ।
तस्मादसत्प्रतीतिश्च कथं तेन निवार्यते ॥ २७ ॥
अन्यथात्वमसत्तस्माद् भ्रान्तावेव प्रतीयते ।
सत्त्वस्यासत एवं हि स्वीकार्यैव प्रतीतता ॥ २८ ॥
तस्यानिर्वचनीयत्वे स्यादेव ह्यनवस्थितिः ।
निर्विशेषे स्वयम्भाते किमज्ञानावृतं भवेत् ॥ २९ ॥
मिथ्याविशेषोप्यज्ञानसिद्धिमेव ह्यपेक्षते ।
न चावरणमज्ञानमसत्ये तेन चेष्यते ॥ ३० ॥
अप्रकाशस्वरूपत्वाज्जडेऽज्ञानं न मन्यते ।
अज्ञानाभावतः शास्त्रं सर्वं व्यर्थीभविष्यति ॥ ३१ ॥
अज्ञानस्य च मिथ्यात्वमज्ञानदिति कल्पने ।
अनवस्थितिस्तथा च स्यादन्योन्याश्रयताऽथवा ॥ ३२ ॥
स्वभावाज्ञानवादस्य निर्दोषत्वान्न तद्भवेत् ।
अविद्यादुर्घटत्वं चेत् स्यादात्माऽपि हि तादृशः ॥ ३३ ॥
अतोऽधिकारिविषयफलयोगादिवर्जितम् ।
अनन्तदोषदुष्टं च हेयं मायामतं शुभैः ॥ ३४ ॥
सत्यत्वात्तेन दुःखादेः प्रत्यक्षेण विरोधतः ।
न ब्रह्मतां वदेद्वेदो जीवस्य हि कथञ्चन ॥ ३५ ॥
यजमानप्रस्तरत्वं यथा नार्थः श्रुतेर्भवेत् ।
ब्रह्मत्वमपि जीवस्य प्रत्यक्षस्याविशेषतः ॥ ३६ ॥
सार्वज्ञादिगुणं जीवाद्भिन्नं ज्ञापयति श्रुतिः ।
ईशं तामुपजीव्यैव वर्तते ह्यैक्यवादिनी ॥ ३७ ॥
उपजीव्यविरोधेन नास्यास्तन्मानता भवेत् ।
स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि ॥ ३८ ॥
सादृश्ये चैक्यवाक् सम्यक् सावकाशा यथेष्टतः ।
अवकाशोज्झिता भेदश्रुतिर्नातिबला कथम् ॥ ३९ ॥
अज्ञानासम्भवादेव मिथ्याभेदो निराकृतः ।
अतो यथार्थबन्धस्य विना विष्णुप्रसादतः ॥ ४० ॥
अनिवृत्तेस्तदर्थं हि जिज्ञासाऽत्र विधीयते ।
यथा दृष्ट्या प्रसन्नस्सन् राजा बन्धापनोदकृत् ॥ ४१ ॥
एवं दृष्टः स भगवान् कुर्याद् बन्धविभेदनम् ।
कार्यता च न काचित् स्यादिष्टसाधनतां विना ॥ ४२ ॥
कार्यं न हि क्रियाव्याप्यं निषिद्धस्य समत्वतः ।
न भविष्यत्क्रिया कार्यं स्रक्ष्यतीश इति ह्यपि ॥ ४३ ॥
कार्यं स्यान्नैव चाकर्तुमशक्यं कार्यमिष्यते ।
साम्यादेव निषिद्धस्य तदिष्टं साधनं तथा ॥ ४४ ॥
कार्यं साधनमिष्टस्य भगवानिष्टदेवता ।
मुख्येष्टं वा सुमनसां ‘प्रेयस्तद्’ इति च श्रुतिः ॥ ४५ ॥
‘प्राणबुद्धिमनःखात्मदेहापत्यधनादयः ।
यत्सम्पर्कात् प्रिया आसंस्ततः कोन्वपरः प्रियः’ ॥ ४६ ॥
इत्यादिवाक्यैराकाङ्क्षा सन्निधिर्योग्यता यतः ।
तस्मिन्नेव(अस्मिन्नेव) समस्तस्येति इष्टे व्युत्पत्तिरिष्यते ॥ ४७ ॥
अत्त्यपूपांस्तव भ्रातेत्यादावावापतोऽपि च ।
उद्वापाद्वर्तमानत्वादाकाङ्क्षादिबलादपि ॥ ४८ ॥
बालो व्युत्पत्तिमप्येति नानयेत्यादिवाक्यतः ।
आनीयमानदृष्ट्यैव व्युत्पत्तेः सम्भवे सति ॥ ४९ ॥
एष्यदानयनायायं कुत एव प्रतीक्षते ।
व्युत्पन्नो वर्तमाने तु क्रियाशब्दे भविष्यति ॥ ५० ॥
पुनर्दृष्ट्यैव शब्दश्रुत् पश्चाद् व्युत्पत्तिमेष्यति ।
वर्तमानमतीतञ्च भविष्यदिति च क्रमात् ॥ ५१ ॥
आकाङ्क्षादियुतं यस्माद् विधेर्व्युत्पादनं कुतः ।
दृष्ट्या ज्ञातपदार्थस्य स्यादाकाङ्क्षा(पदाकाङ्क्षा) भविष्यति ॥ ५२ ॥
व्युत्पत्तिः प्रथमा तस्माद् वर्तमानेऽगते ततः ।
इष्टमाकाङ्क्षते सर्वो न प्रवृत्तिमपेक्षते ॥ ५३ ॥
अपरोक्षं परोक्षं वा ज्ञानमिष्टस्य साधनम् ।
क्वापि चेष्टा तदर्था स्यादत्तिर्हि रसवित्तये ॥ ५४ ॥
वाक्यार्थज्ञानमात्रेण क्वचिदिष्टं भवेदपि ।
न च स्रुक्स्रुववह्न्यादावतात्पर्यं श्रुतेर्भवेत् ॥ ५५ ॥
यत्किञ्चित्करणस्यापि यज्ञतैवाऽन्यथा भवेत् ।
तस्मादुपासनार्थं च स्वार्थे तात्पर्यवद्भवेत् ॥ ५६ ॥
इतिशब्दोन्नयेऽग्नावित्यप्युन्नीते स्मृतिर्भवेत् ।
इतिशब्दव्यपेतानि ह्यपि सन्ति वचांस्यलम् ॥ ५७ ॥
आत्मानमेवेत्यादीनि योगेऽग्नावपि तत्समम् ।
एकवाक्यत्वयोगे तु वेदस्यापि ह्यशेषतः ॥ ५८ ॥
वाक्यभेदो न युक्तस्स्याद्योगश्च स्यान्महाफले ।
इति ब्रूयादिति वचो गतमग्नौ समीपगम् ॥ ५९ ॥
कल्पनागौरवं चेत् स्यात् पृथक्तात्पर्यकल्पने(पृथक् तात्पर्यसम्भवे) ।
कल्पनागौरवादेव पदार्था न स्युरेव हि ॥ ६० ॥
प्रमाणावगतत्वं चेत् तात्पर्याणां तथैव हि ।
तस्मात् पदार्थे वाक्यार्थे तात्पर्यमुभयत्र च ॥ ६१ ॥
पृथगेव च वाक्यत्वं पृथगन्वयतो भवेत् ।
अवान्तरत्वाद्वाक्यानां वाक्यभेदो न दूषणम् ॥ ६२ ॥
अङ्गीकृतत्वादपि तैः पदानां तु पृथक् पृथक् ।
क्रियापदेनान्वयस्य वाक्यभेदो हि दूषणम् ॥ ६३ ॥
प्रत्यक्षादिविरोधे तु गौणार्थस्यापि सम्भवात् ।
अतात्पर्यं पदार्थेऽपि न कल्प्यमविरोधतः ॥ ६४ ॥
अतो ज्ञानफलान्येव कर्माणि ज्ञानमेव हि ।
मुख्यप्रसाददं विष्णोर्जिज्ञासायाश्च तद्भवेत् ॥ ६५ ॥
कर्तव्या तेन जिज्ञासा श्रुतिप्रामाण्ययोगतः ।
प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि ॥ ६६ ॥
अनवस्थान्यथा हि स्यादप्रामाण्यं तथान्यतः ।
मिथ्याज्ञप्तिप्रलम्भादेस्तेन वेदविरोधि यत् ॥ ६७ ॥
न मानमपि वेदानामङ्गीकार्या हि नित्यता ।
न हि धर्मादिसिद्धिः स्यान्नित्यवाक्यं विना क्वचित् (भवेत्) ॥ ६८ ॥
अविप्रलम्भस्तज्ज्ञानं तत्कृतत्वादयोऽपि च ।
कल्प्या गौरवदोषेण पुंवाक्यं ज्ञापकं न तत् ॥ ६९ ॥
प्रत्यक्षः कस्यचिद्धर्मो वस्तुत्वादिति चोदिते ।
न बुद्धो धर्मदर्शी स्यात् पुंस्त्वादित्यनुमाहतिः ॥ ७० ॥
अधर्मवादिनो वाक्यमप्रयोजनमेव हि ।
धर्माभावेऽपि नो तेन प्रत्यक्षावगतो भवेत् ॥ ७१ ॥
अतः संशयसम्पत्तौ वाक्यं प्रत्यक्षवत् प्रमा ।
शक्तिश्चैवान्विते स्वार्थे शब्दानामनुभूयते ॥ ७२ ॥
अतोन्विताभिधायित्वं गौरवं कल्पनेऽन्यथा ।
न चाशक्त्यभिधायित्वं प्रवृत्तिश्च द्विधाऽन्यथा ॥ ७३ ॥
एतत्सर्वं तर्कशास्त्रे ब्रह्मतर्के हि विस्तरात् ।
उक्तं विद्यापृथक्त्वात्तु सङ्क्षेपेणात्र सूचितम् ॥ ७४ ॥
प्रमाणन्यायसच्छिक्षा क्रियते तर्कशास्त्रतः ।
मानन्यायैस्तु तत्सिद्धैर्मीमांसा मेयशोधनम् ॥ ७५ ॥
ब्रह्मतर्कं च भगवान् स एव कृतवान् प्रभुः ।
पञ्चाशत्कोटिविस्तारान्नारायणतनौ कृतात् ॥ ७६ ॥
उद्धृत्य पञ्चसाहस्रं कृतवान् बादरायणः ।
अतस्तदर्थं सङ्क्षेपादत इत्यभ्यसूचयत् ॥ ७७ ॥
यतोऽनुभवतः सर्वं सिद्धमेतदतोऽपि च ।
देवैश्च दुर्गमार्थेषु व्यापृतो नातिविस्तृतिम् ॥ ७८ ॥
चकारैता ह्यवज्ञेया युक्तयः प्रतिपक्षगाः ।
प्रत्यक्षेक्षाक्षमः पक्षः कमेवात्राभिवीक्षते ॥ ७९ ॥
तस्मादक्षमपक्षत्वात् मोक्षशास्त्रेऽभ्युपेक्षितः ।
स्वयं भगवता विष्णुर्ब्रह्मेत्येतत्पुरोदितम् ॥ ८० ॥
‘स विष्णुराह हि’ इत्यन्ते देवशास्त्रस्य तेन हि ।
आद्यन्तं देवशास्त्रस्य स्वयं भगवता कृतम् ॥ ८१ ॥
मध्यं तदाज्ञया पैलशेषालाभ्यां कृतमञ्जसा ।
अतस्तत्रैव विष्णुत्वसिद्धेर्ब्रह्मेत्यसूचयत् ॥ ८२ ॥