अनुव्याख्यानम्
/ 24
←

Anuvyakhyanam English (IAST) PDF & Online Reader (anuvyākhyānam)

Anuvyakhyanam (अनुव्याख्यानम्) by Madhvacharya (मध्वाचार्यः) — English (IAST) Text & PDF Download

📜 Last Proofread: 30 Aug 2026
📥 Download English (IAST) PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 30 Aug 2026
📥 Download PDF ♡ Save
🌐 Language & Script English (IAST)
↔️ Text Alignment Center
श्रीमदनुव्याख्यानम् (श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम्) ॥ अथ प्रथमोऽध्यायः ॥ ॥ प्रथमः पादः ॥ नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः । अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥ १ ॥ तमेव शास्त्रप्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव । विशेषतो मे परमाख्यविद्याव्याख्यां करोम्यन्वपि चाहमेव ॥ २ ॥ प्रादुर्भूतो हरिर्व्यासो विरिञ्चभवपूर्वकैः । अर्थितः परविद्याख्यं चक्रे शास्त्रमनुत्तमम् ॥ ३ ॥ गुरुर्गुरूणां प्रभवः शास्त्राणां बादरायणः । यतस्तदुदितं मानमजादिभ्यस्तदर्थतः ॥ ४ ॥ वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलता । आप्तवाक्यतया तेन श्रुतिमूलतया तथा ॥ ५ ॥ युक्तिमूलतया चैव प्रामाण्यं त्रिविधं महत् । दृश्यते ब्रह्मसूत्राणामेकधाऽन्यत्र सर्वशः ॥ ६ ॥ अतो नैतादृशं किञ्चित् प्रमाणतममिष्यते । स्वयङ्कृताऽपि तद्य्वाख्या क्रियते स्पष्टतार्थतः ॥ ७ ॥ तत्र ताराथमूलत्वं सर्वशास्त्रस्य चेष्यते । सर्वत्रानुगतत्वेन पृथगोङ्क्रियतेऽखिलैः ॥ ८ ॥ ॥ अथ जिज्ञासाधिकरणम् ॥ ओतत्ववाची ह्योङ्कारो वक्त्यसौ तद्गुणोतताम् । स एव ब्रह्मशब्दार्थो नारायणपदोदितः ॥ ९ ॥ स एव भर्गशब्दार्थो व्याहृतीनां च भूमतः । भावनाच्चैव सुत्वाच्च सोऽयं पुरुष इत्यपि ॥ १० ॥ स एव सर्ववेदार्थो जिज्ञास्योऽयं विधीयते । ‘ज्ञानी प्रियतमोऽतो मे’ ‘तं विद्वानेव चामृतः’ ॥ ११ ॥ ‘वृणुते यं तेन लभ्यः’ इत्याद्युक्तिबलेन हि । जिज्ञासोत्थज्ञानजात्तत्प्रसादादेव मुच्यते ॥ १२ ॥ ‘द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया’ ॥ १३ ॥ ‘नर्ते त्वत्क्रियते किञ्चिद्’ इत्यादेर्न हरिं विना । ज्ञानस्वभावतोपि स्यान्मुक्तिः कस्यापि हि क्वचित् ॥ १४ ॥ ‘अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः । आनन्ददश्च मुक्तानां स एवैको जनार्दनः’ ॥ १५ ॥ इत्युक्तेर्बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते । मिथ्यात्वमपि बन्धस्य न प्रत्यक्षविरोधतः ॥ १६ ॥ मिथ्यात्वं यदि दुःखादेस्तद्वाक्यस्याग्रतो भवेत् । मिथ्यायाः साधकत्वं च न सिद्धं प्रतिवादिनः ॥ १७ ॥ तच्च मिथ्याप्रमाणेन सता वा साध्यते त्वया । सता चेत् द्वैतसिद्धिः स्यान्न सिद्धं चान्यसाधनम् ॥ १८ ॥ साधकत्वं सतस्तेन साक्षिणा सिद्धिमिच्छता । स्वीकृतं ह्यविशेषस्य साध्यासाधकता पुनः ॥ १९ ॥ तच्चाविशेषमानेन साध्यमित्यनवस्थितिः । अनङ्गीकुर्वतां विश्वसत्यतां तन्न वादिता ॥ २० ॥ तस्माद् व्यवहृतिः सर्वा सत्येत्येव व्यवस्थिता । व्यावहारिकमेतस्मात् सत्यमित्येव चागतम् ॥ २१ ॥ व्यवहारसतश्चापि साधकत्वं तु पूर्ववत् । सत्त्रैविध्यं च मानेन सिद्ध्येत् केनेति पृच्छ्यते ॥ २२ ॥ तस्याप्युक्तप्रकारेण नैव सिद्धिः कथञ्चन । वैलक्ष्ण्यं सदसतोरप्येतेन निषिध्यते ॥ २३ ॥ वैलक्ष्ण्यं सतश्चापि स्वयं सद्भेदवादिनः । असतश्चापि विश्वस्य तेनानिष्टं कथं भवेत् ॥ २४ ॥ यद्युच्यतेऽपि सर्वस्मादिति सद्भेदसंस्थितिः । सन्मात्रत्वं ब्रह्मणोऽपि तस्मात् तदपि नो भवेत् ॥ २५ ॥ ज्ञानबाध्यत्वमपि तु न सिद्धं प्रतिवादिनः । विज्ञातस्यान्यथा सम्यग् विज्ञानं ह्येव तन्मतम् ॥ २६ ॥ असद्वलिक्षणज्ञप्त्यै ज्ञातव्यमसदेव हि । तस्मादसत्प्रतीतिश्च कथं तेन निवार्यते ॥ २७ ॥ अन्यथात्वमसत्तस्माद् भ्रान्तावेव प्रतीयते । सत्त्वस्यासत एवं हि स्वीकार्यैव प्रतीतता ॥ २८ ॥ तस्यानिर्वचनीयत्वे स्यादेव ह्यनवस्थितिः । निर्विशेषे स्वयम्भाते किमज्ञानावृतं भवेत् ॥ २९ ॥ मिथ्याविशेषोप्यज्ञानसिद्धिमेव ह्यपेक्षते । न चावरणमज्ञानमसत्ये तेन चेष्यते ॥ ३० ॥ अप्रकाशस्वरूपत्वाज्जडेऽज्ञानं न मन्यते । अज्ञानाभावतः शास्त्रं सर्वं व्यर्थीभविष्यति ॥ ३१ ॥ अज्ञानस्य च मिथ्यात्वमज्ञानदिति कल्पने । अनवस्थितिस्तथा च स्यादन्योन्याश्रयताऽथवा ॥ ३२ ॥ स्वभावाज्ञानवादस्य निर्दोषत्वान्न तद्भवेत् । अविद्यादुर्घटत्वं चेत् स्यादात्माऽपि हि तादृशः ॥ ३३ ॥ अतोऽधिकारिविषयफलयोगादिवर्जितम् । अनन्तदोषदुष्टं च हेयं मायामतं शुभैः ॥ ३४ ॥ सत्यत्वात्तेन दुःखादेः प्रत्यक्षेण विरोधतः । न ब्रह्मतां वदेद्वेदो जीवस्य हि कथञ्चन ॥ ३५ ॥ यजमानप्रस्तरत्वं यथा नार्थः श्रुतेर्भवेत् । ब्रह्मत्वमपि जीवस्य प्रत्यक्षस्याविशेषतः ॥ ३६ ॥ सार्वज्ञादिगुणं जीवाद्भिन्नं ज्ञापयति श्रुतिः । ईशं तामुपजीव्यैव वर्तते ह्यैक्यवादिनी ॥ ३७ ॥ उपजीव्यविरोधेन नास्यास्तन्मानता भवेत् । स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि ॥ ३८ ॥ सादृश्ये चैक्यवाक् सम्यक् सावकाशा यथेष्टतः । अवकाशोज्झिता भेदश्रुतिर्नातिबला कथम् ॥ ३९ ॥ अज्ञानासम्भवादेव मिथ्याभेदो निराकृतः । अतो यथार्थबन्धस्य विना विष्णुप्रसादतः ॥ ४० ॥ अनिवृत्तेस्तदर्थं हि जिज्ञासाऽत्र विधीयते । यथा दृष्ट्या प्रसन्नस्सन् राजा बन्धापनोदकृत् ॥ ४१ ॥ एवं दृष्टः स भगवान् कुर्याद् बन्धविभेदनम् । कार्यता च न काचित् स्यादिष्टसाधनतां विना ॥ ४२ ॥ कार्यं न हि क्रियाव्याप्यं निषिद्धस्य समत्वतः । न भविष्यत्क्रिया कार्यं स्रक्ष्यतीश इति ह्यपि ॥ ४३ ॥ कार्यं स्यान्नैव चाकर्तुमशक्यं कार्यमिष्यते । साम्यादेव निषिद्धस्य तदिष्टं साधनं तथा ॥ ४४ ॥ कार्यं साधनमिष्टस्य भगवानिष्टदेवता । मुख्येष्टं वा सुमनसां ‘प्रेयस्तद्’ इति च श्रुतिः ॥ ४५ ॥ ‘प्राणबुद्धिमनःखात्मदेहापत्यधनादयः । यत्सम्पर्कात् प्रिया आसंस्ततः कोन्वपरः प्रियः’ ॥ ४६ ॥ इत्यादिवाक्यैराकाङ्क्षा सन्निधिर्योग्यता यतः । तस्मिन्नेव(अस्मिन्नेव) समस्तस्येति इष्टे व्युत्पत्तिरिष्यते ॥ ४७ ॥ अत्त्यपूपांस्तव भ्रातेत्यादावावापतोऽपि च । उद्वापाद्वर्तमानत्वादाकाङ्क्षादिबलादपि ॥ ४८ ॥ बालो व्युत्पत्तिमप्येति नानयेत्यादिवाक्यतः । आनीयमानदृष्ट्यैव व्युत्पत्तेः सम्भवे सति ॥ ४९ ॥ एष्यदानयनायायं कुत एव प्रतीक्षते । व्युत्पन्नो वर्तमाने तु क्रियाशब्दे भविष्यति ॥ ५० ॥ पुनर्दृष्ट्यैव शब्दश्रुत् पश्चाद् व्युत्पत्तिमेष्यति । वर्तमानमतीतञ्च भविष्यदिति च क्रमात् ॥ ५१ ॥ आकाङ्क्षादियुतं यस्माद् विधेर्व्युत्पादनं कुतः । दृष्ट्या ज्ञातपदार्थस्य स्यादाकाङ्क्षा(पदाकाङ्क्षा) भविष्यति ॥ ५२ ॥ व्युत्पत्तिः प्रथमा तस्माद् वर्तमानेऽगते ततः । इष्टमाकाङ्क्षते सर्वो न प्रवृत्तिमपेक्षते ॥ ५३ ॥ अपरोक्षं परोक्षं वा ज्ञानमिष्टस्य साधनम् । क्वापि चेष्टा तदर्था स्यादत्तिर्हि रसवित्तये ॥ ५४ ॥ वाक्यार्थज्ञानमात्रेण क्वचिदिष्टं भवेदपि । न च स्रुक्स्रुववह्न्यादावतात्पर्यं श्रुतेर्भवेत् ॥ ५५ ॥ यत्किञ्चित्करणस्यापि यज्ञतैवाऽन्यथा भवेत् । तस्मादुपासनार्थं च स्वार्थे तात्पर्यवद्भवेत् ॥ ५६ ॥ इतिशब्दोन्नयेऽग्नावित्यप्युन्नीते स्मृतिर्भवेत् । इतिशब्दव्यपेतानि ह्यपि सन्ति वचांस्यलम् ॥ ५७ ॥ आत्मानमेवेत्यादीनि योगेऽग्नावपि तत्समम् । एकवाक्यत्वयोगे तु वेदस्यापि ह्यशेषतः ॥ ५८ ॥ वाक्यभेदो न युक्तस्स्याद्योगश्च स्यान्महाफले । इति ब्रूयादिति वचो गतमग्नौ समीपगम् ॥ ५९ ॥ कल्पनागौरवं चेत् स्यात् पृथक्तात्पर्यकल्पने(पृथक् तात्पर्यसम्भवे) । कल्पनागौरवादेव पदार्था न स्युरेव हि ॥ ६० ॥ प्रमाणावगतत्वं चेत् तात्पर्याणां तथैव हि । तस्मात् पदार्थे वाक्यार्थे तात्पर्यमुभयत्र च ॥ ६१ ॥ पृथगेव च वाक्यत्वं पृथगन्वयतो भवेत् । अवान्तरत्वाद्वाक्यानां वाक्यभेदो न दूषणम् ॥ ६२ ॥ अङ्गीकृतत्वादपि तैः पदानां तु पृथक् पृथक् । क्रियापदेनान्वयस्य वाक्यभेदो हि दूषणम् ॥ ६३ ॥ प्रत्यक्षादिविरोधे तु गौणार्थस्यापि सम्भवात् । अतात्पर्यं पदार्थेऽपि न कल्प्यमविरोधतः ॥ ६४ ॥ अतो ज्ञानफलान्येव कर्माणि ज्ञानमेव हि । मुख्यप्रसाददं विष्णोर्जिज्ञासायाश्च तद्भवेत् ॥ ६५ ॥ कर्तव्या तेन जिज्ञासा श्रुतिप्रामाण्ययोगतः । प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि ॥ ६६ ॥ अनवस्थान्यथा हि स्यादप्रामाण्यं तथान्यतः । मिथ्याज्ञप्तिप्रलम्भादेस्तेन वेदविरोधि यत् ॥ ६७ ॥ न मानमपि वेदानामङ्गीकार्या हि नित्यता । न हि धर्मादिसिद्धिः स्यान्नित्यवाक्यं विना क्वचित् (भवेत्) ॥ ६८ ॥ अविप्रलम्भस्तज्ज्ञानं तत्कृतत्वादयोऽपि च । कल्प्या गौरवदोषेण पुंवाक्यं ज्ञापकं न तत् ॥ ६९ ॥ प्रत्यक्षः कस्यचिद्धर्मो वस्तुत्वादिति चोदिते । न बुद्धो धर्मदर्शी स्यात् पुंस्त्वादित्यनुमाहतिः ॥ ७० ॥ अधर्मवादिनो वाक्यमप्रयोजनमेव हि । धर्माभावेऽपि नो तेन प्रत्यक्षावगतो भवेत् ॥ ७१ ॥ अतः संशयसम्पत्तौ वाक्यं प्रत्यक्षवत् प्रमा । शक्तिश्चैवान्विते स्वार्थे शब्दानामनुभूयते ॥ ७२ ॥ अतोन्विताभिधायित्वं गौरवं कल्पनेऽन्यथा । न चाशक्त्यभिधायित्वं प्रवृत्तिश्च द्विधाऽन्यथा ॥ ७३ ॥ एतत्सर्वं तर्कशास्त्रे ब्रह्मतर्के हि विस्तरात् । उक्तं विद्यापृथक्त्वात्तु सङ्क्षेपेणात्र सूचितम् ॥ ७४ ॥ प्रमाणन्यायसच्छिक्षा क्रियते तर्कशास्त्रतः । मानन्यायैस्तु तत्सिद्धैर्मीमांसा मेयशोधनम् ॥ ७५ ॥ ब्रह्मतर्कं च भगवान् स एव कृतवान् प्रभुः । पञ्चाशत्कोटिविस्तारान्नारायणतनौ कृतात् ॥ ७६ ॥ उद्धृत्य पञ्चसाहस्रं कृतवान् बादरायणः । अतस्तदर्थं सङ्क्षेपादत इत्यभ्यसूचयत् ॥ ७७ ॥ यतोऽनुभवतः सर्वं सिद्धमेतदतोऽपि च । देवैश्च दुर्गमार्थेषु व्यापृतो नातिविस्तृतिम् ॥ ७८ ॥ चकारैता ह्यवज्ञेया युक्तयः प्रतिपक्षगाः । प्रत्यक्षेक्षाक्षमः पक्षः कमेवात्राभिवीक्षते ॥ ७९ ॥ तस्मादक्षमपक्षत्वात् मोक्षशास्त्रेऽभ्युपेक्षितः । स्वयं भगवता विष्णुर्ब्रह्मेत्येतत्पुरोदितम् ॥ ८० ॥ ‘स विष्णुराह हि’ इत्यन्ते देवशास्त्रस्य तेन हि । आद्यन्तं देवशास्त्रस्य स्वयं भगवता कृतम् ॥ ८१ ॥ मध्यं तदाज्ञया पैलशेषालाभ्यां कृतमञ्जसा । अतस्तत्रैव विष्णुत्वसिद्धेर्ब्रह्मेत्यसूचयत् ॥ ८२ ॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 30 Aug 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine