ऐतरेयोपनिषद्भाष्यम्
/ 17
←

Aitareyopanishadbhashyam Telugu PDF & Online Reader (ఐతరేయోపనిషద్భాష్యమ్)

Aitareyopanishadbhashyam (ऐतरेयोपनिषद्भाष्यम्) by Madhvacharya (मध्वाचार्यः) — Telugu Text & PDF Download

📜 Last Proofread: 25 Aug 2026
📥 Download Telugu PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 25 Aug 2026
📥 Download PDF ♡ Save
🌐 Language & Script తెలుగు
↔️ Text Alignment Center
ऐतरेयोपनिषद्भाष्यम् (मूलम् — ऐतरेयोपनिषत्) (भाष्यम् — श्रीमदानन्दतीर्थभगवत्पादाचार्यः) ॥ प्रथमाध्यायः ॥
📖 2.1 ▼
नारायणं निखिलपूर्णगुणैकदेहं सर्वज्ञमच्युतमपेतसमस्तदोषम् । प्राणस्य सर्वचिदचित्परमेश्वरस्य साक्षादधीश्वरमियां शरणं रमेशम् ॥ प्रादुबर्भूव भगवांस्तपसेतराया नारायणोऽब्जजसुतस्य विशालनाम्नः । तस्मिन् गतेऽध्वरमभूत् सुरविप्रसङ्घो निश्चेतनस्तदनु पद्मभवोऽमुमस्तौत् ॥ तेन स्तुतः(तैः संस्तुतः .हृ) स भगवान् गिरिशेन्द्रमुख्यान् सर्वानबोधयदजेन सहैव तेऽथ । दासत्वमापुरत एव महत्सुराणां दासत्वतः स महिदास इति प्रसिद्धः ॥ शृण्वत्सु तेषु भगवानवदद्रमायै दिव्यां श्रुतिं स परमोऽतिमुदैतरेयीम् । सा बह्वृचैः प्रपठिता चतुराननास्याद् यस्यां रहस्यमुदितं परमं हि विष्णोः ॥ महाभूतिः श्रुतिः सैषा महाभूतिर्यतो हरिः । विशेषेणात्र कथितः सर्वज्ञः शाश्वतः प्रभुः ॥ इति ऋक्संहितायाम् ।
📖 1.1 ▼
एष पन्था एतत्कर्म एतद्ब्रह्मैतत्सत्यम् । तस्मान्न प्रमाद्येत् तन्नातीयान्न ह्यत्यायन् पूर्वे । येऽत्यायंस्ते ह पराबभूवुः ।
📖 2.1 ▼
एष एव सदा पन्था भगवान् पुरुषोत्तमः । नित्यं स्वप्राप्तिहेतुत्वात्, कर्तृत्वात् कर्म मातृतः ॥ ब्रह्मैव गुणपूर्णत्वात्, सत्यं साधुस्वरूपतः । क्वापि तं विस्मरेन्नैव त्यक्त्वा तं नेतरं व्रजेत् ॥ पूर्वे नैनं तत्यजुर्हि ब्रह्माद्यास्तेन संसृतेः । मुक्ताः श्रीश्च तदत्यागान्नित्यमुक्ता गुणाधिका ॥
📖 1.1 ▼
तदुक्तमृषिणा- ‘प्रजा ह तिस्रो अत्यायमीयुर्न्यन्या अर्कमभितो विविश्रे । बृहद्ध तस्थौ भुवनेष्वन्तः पवमानो हरित आ विवेशेति ।’(ऋ.सं.८.१०१.१४)इति । ‘प्रजा ह तिस्रो अत्यायमीयुः’इति या वै ता इमाः प्रजास्तिस्रो अत्यायमायंस्तानीमानि वयांसि वङ्गावगधाश्चेरपादाः । ‘न्यन्या अर्कमभितो विविश्रे’ इति ।
📖 2.1 ▼
विहायस्ययनात् प्रोक्ता वयांसीति पिशाचकाः । वर्तितज्ञानतो वङ्गा नरास्तैरवनं सदा । अन्नरूपैर्गृध्नवो हि वङ्गावगधनामकाः ॥ राक्षसा असुरा ईरपादा इति समीरिताः । धर्मो ज्ञानं च वैराग्यमैश्वर्यं चतुरात्मकः ॥ वायुर्देवोऽत्रासुराणामैश्वर्य गुण एव हि । ईरपादास्ततः प्रोक्तास्ते त्रयो विष्णुमत्यजन् ॥ पराभूतास्ततस्ते तु तमस्यन्धे निपातिताः । ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महैतरेयोपनिषद्भाष्ये द्वितीयप्रघट्टके प्रथमोऽध्यायः ॥
📖 1.1 ▼
ता इमाः प्रजा अर्कमभितो निविष्टा इममेवाग्निम् । बृहद्ध तस्थौ भुवनेष्वन्तरित्यद उ एव बृहद्भुवनेष्वन्तरसावादित्यः । पवमानो हरित आ विविशेति । वायुरेव पवमानो दिशो हरित आविष्टः ॥
📖 2.1 ▼
देवाश्च ऋषयो मर्त्यसत्तमा इति च त्रयः ॥ आश्रिता विष्णुमेवैकं त्रिस्थानस्थितमच्युतम् । अग्निस्थमाश्रिता मर्त्या विष्णुमर्काभिधं परम् ॥ आ जनैरर्चितत्वात् स ह्यर्क इत्युच्यते हरिः । अग्नौ कर्माणि कृत्वैव मानुषा मुक्तिभागिनः ॥ कर्मभिः शुद्धसत्त्वानां कर्मत्यागोऽपि नान्यथा । आश्रिताः सूर्यगं विष्णुम् ऋषयो बृहदित्यसौ ॥ तेजसा बृंहणादुक्तो, विष्णुरादित्य इत्यपि । आदानात् सर्ववस्तूनाम्, स्वाध्यायेनामुमाश्रिताः ॥ मुच्यन्ते ऋषयो नित्यं नान्यथा तु कथञ्चन । वायुस्थमाश्रिता देवाः पवमानाभिधं हरिम् । संसारात् पावयित्वा यन्महानन्दे मिनोत्ययम् ॥ पवमानस्ततो विष्णुः व्याप्तः सर्वासु दिक्षु च । आश्रितो भगवान् सर्वैः सर्वत्रापि, विशेषतः ॥ आश्रयात् पृथगुक्तोऽयं नित्यानन्दो रमापतिः ॥ १ ॥
📖 1.1 ▼
उक्थमुक्थमिति वै प्रजा वदन्ति, तदिदमेवोक्थमियमेव पृथिवी । इतो हीदं सर्वमुत्तिष्ठति यदिदं किञ्च । तस्याग्निरर्कः । अन्नमशीतयः, अन्नेन हीदं सर्वमश्नुते । अन्तरिक्षमेवोक्थम् । अन्तरिक्षं वा अनु पतन्त्यन्तरिक्षमनु धावयन्ति ॥ तस्य वायुरर्कः । अन्नमशीतयः । अन्नेन हीदं सर्वमश्नुते । असावेव द्यौरुक्थम् । अमुतः प्रदानाद्धीदं सर्वमुत्तिष्ठति यदिदं किञ्च । तस्यासावादित्योऽर्कः । अन्नमशीतयः, अन्नेन हीदं सर्वमश्नुते- इत्यधिदैवतम् । अथाध्यात्मम् - पुरुष एवोक्थम् । अयमेव महान् प्रजापतिरहमुक्थमस्मीति विद्यात् । तस्य मुखमेवोक्थम् । यथा पृथिवी तथा । तस्य वागर्कः । अन्नमशीतयः, अन्नेन हीदं सर्वमश्नुते । नासिके एवोक्थं यथाऽन्तरिक्षं तथा । तस्य प्राणोऽर्कः । अन्नमशीतयः, अन्नेन हीदं सर्वमश्नुते । तदेतद् ब्रध्नस्य विष्टपं यदेतन्नासिकायै विनतमिव । ललाटमेवोक्थम् ॥ यथा द्यौस्तथा तस्य चक्षुरर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते ॥
📖 2.1 ▼
तृचाशीतिविभिन्नस्य शस्त्रस्यान्नत्वहेतुतः ॥ विष्णोस्तृचाशीतिवत् स्यात् प्रसिद्धान्नमिति स्फुटम् । अन्नाभिमानिदेवश्च तृचाशीत्याश्च देवता ॥ सोम एव ततश्चान्नमशीतय इतरितम् । अदनाऽऽघ्राणदृष्ट्याख्यभोगत्रयविभागतः ॥ मुखनासाचक्षुषां तद्भोग्यमन्नं हरेः श्रुतम् । अरणं गमनं यस्माद् अर्कः शीघ्रगतित्वतः ॥ श्येन एव, तदाकारा चितिरर्कपदोदिता । सुपर्णप्रतिमा सा, यत् तदारूढो जनार्दनः ॥ तस्मात् तस्यार्क इति सा प्रोच्यते वैदिकैः पदैः । योऽसौ चितिगतो वीन्द्रः सोऽग्निवातरविष्वपि ॥ तथा वाक्प्राणचक्षुष्षु तस्मात् तेऽर्काः प्रकीर्तिताः । तेषु स्थिते सुपर्णे च रूपभेदैः पृथक् पृथक् ॥ स्थितो विष्णुस्तदर्कास्ते तस्मादेव प्रकीर्तिताः । व्याप्तत्वाज्जीवदेहेषु मुखे विष्णोर्मुखं स्मृतम् ॥ नासयोर्नासिका विष्णोरक्ष्णोरेव तदक्षिणी । जीववाक्प्राणचक्षुष्षु तद्वागाद्यास्ततः स्थिताः ॥ विष्णोर्वाग्भार्गवो रामो प्राणोऽस्य नरकेसरी । चक्षुस्तु कपिलो विष्णुरग्न्यादीनां च कारणम् ॥ जीववागादिसंस्थं च सुपर्णमधिसंस्थिताः । अविशेषोऽपि भगवान् पूर्णैश्वर्यस्वरूपतः ॥ अङ्गाङ्गित्वेनैक एव स्वानन्दानुभवे स्थितः । स एव व्यूह्य चात्मानं पृथग्रूप इव स्थितः ॥ सुपर्णनामा भगवान् सुपर्णे च व्यवस्थितः । अग्न्यादिषु च तन्नामा वासुदेवः स संस्थितः ॥ अन्ननामा स एवान्ने चेष्टयन् सर्वमास्थितः । अन्ने स्थितः स एवेशो ह्यन्नदातृगतिप्रदः ॥ तस्यान्तरिक्षगस्यैव नियमादनुपक्षिणः । पतन्ति धावयन्त्यश्वान् नरादींश्च नरादयः ॥ परस्य विष्णोर्धामत्वात् सूर्यो ब्रध्न इतीरितः । निहितश्चैव तल्लोको नासिकायां नतस्थले ॥ पृथिव्यां संस्थितो विष्णुः स्त्रीरूपेण द्युलोकतः । पतितं सर्वमेवात्ति तथा दिवि च संस्थितः ॥ इतो गतं सर्वमत्ति द्युनामा भगवान् परः । भोग्यत्वादाद्य इत्युक्तः एवमाद्यात्तृरूपवान् ॥ एक एव परो विष्णुरत्ताऽन्यैरुपजीव्यतः । आद्यो भवति चान्येषाम्, नोपजीव्यो भवेद् यथा ॥ हरिः स सर्वजीवानाम्, न भुज्यन्ते यथाऽमुना । सर्वे लोकास्तथा कर्तुं नैवेष्टे कश्चन क्वचित् ॥ २ ॥ तमिमं प्रथमज्ञानिपुरुषं चतुराननम् । वासुदेवाभिधं ब्रह्म प्राप प्रपदयोः पुरा ॥ यस्मात् प्रपेदे भगवान् प्रपदाच्चतुराननम् । तस्मात् प्रपदनादेव प्रपदं नाम कीर्तितम् ॥ चतुर्मुखाकारवतां नृणां पादतलोपरि । प्रपदाख्या वर्ततेऽतो, न तु पश्वादिनां क्वचित् ॥ अयादूर्ध्वं ततो विष्णुः प्रपदाद् ऊरुमत्र च । स्थित ऊरू च तावास्ताम् ऊरूर्ध्वगमनाद्धरेः ॥ ककिञ्चिदूर्ध्वं ततो गत्वा वायुना सह केशवः । वायुमाहोरुगरणं कुर्वत्र स्थित इत्यपि ॥ उर्वेव गरणं चक्रे वायुर्यत्र स्थितः सदा । तत्स्थानमुदरं नाम, पुनराह जनार्दनः ॥ उरु स्थानं निवासं मे कुरु विस्तारसंयुतम् । तथाऽकरोत् स वायुश्च तदुरोऽभूद् उरुत्वतः ॥ उरोमध्ये च हृदयम्, तत्रवासो (तत्राऽवासो) हरेः सदा । सूक्ष्मदृष्टियुता ये तु मुनयः शार्कराक्ष्यकाः ॥ उदरे ते परं ब्रह्म वासुदेवमुपासते । हृत्स्थमेव परं विष्णुं ध्यायन्त्यारुणयः सदा ॥ उदरस्थं च हृद्गं च ते उभे ब्रह्म तत्परम् । एकमेव यतस्तस्माद उभये ह्यपि तद्विदः ॥ तत ऊर्ध्वं गतो विष्णुर्वायुना सह दैवतैः । स्थितो मूर्धनि देवेशः श्रितोऽसाविति तच्छिरः ॥ तत्र प्राणात्मना वायुर्मनोरूपेण शङ्करः । शेषः सुपर्ण इन्द्रश्च मनांस्येव पृथक् पृथक् ॥ अहम्भावमनो रुद्रः, शेषोऽसौ पाञ्चरात्रकम् । वैदिकं गरुडश्चेन्द्रो यज्ञादिविषयं मनः ॥ श्रोत्रं चन्द्रो, रविश्चक्षुर्वागग्निः परिकीर्तितः । एते देवास्तदन्ये च सर्वप्राणिषु संस्थितः ॥ उपासते महाविष्णुं परमात्मानमच्युतम् । वाचा हिंसामकुर्वंस्ते विनिन्दन्तः परस्परम् ॥ ते विष्णोराज्ञयाऽवोचन् ‘उत्क्रमाम पृथक् पृथक् । देहाद् अब्जभवस्यास्माद्, यस्मिन्नुत्क्रान्त एव हि ॥ शरीरं पद्यते श्रेयान् स न इत्यवधार्यताम् ’। ततः क्रमेण चाग्न्याद्या निष्क्रान्तास्तेषु सर्वशः ॥ निष्क्रान्तेषु न वै पातः शरीरस्याभवत् क्वचित् । वायावुत्क्रान्त एवैतच्छरीरमपतत् क्षितौ । उदासीनवदास्तां तौ केशवश्चाब्जसम्भवः ॥ तेषां बलपरीक्षार्थं वाय्वादीनां च सर्वशः । पुनस्ते प्राविशन् सर्वे वह्निसूर्यौ शशी शिवः ॥ नोत्थानमभवत् तेषु प्रविष्टेष्वपि सर्वशः । वायौ प्रविष्टे तूत्थानं कायस्यासीत् तदैव च ॥ उच्चैः स्थितत्वादुक्थोऽभूद् वायुरेव ततः प्रभुः । उच्चत्वं च गुणाधिक्यम्, त्वमुच्चोऽसीति तेऽब्रुवन् ॥ भृत्या वयं तवैव स्मः त्वमस्माकं पतिः सदा । स्पर्धामहे त्वद्बलेन त्वया, नान्येन केनचित् ॥ इत्यूचुर्वीन्द्रशेषेशशक्रचन्द्रादिकाः पृथक् । वायुः स संस्तुतस्तैश्च प्रसन्नोभूद् दिवौकसाम् ॥ ४ ॥
📖 1.1 ▼
तं देवाः प्राणयन्त । स प्रणीतः प्रातायत । प्रातायीती३ तत्प्रातरभवत् । समागादिती३ तत्सायमभवत् । अहरेव प्राणो, रात्रिरपानः ।
📖 2.1 ▼
तस्माच्छ्रुत्वा परं ब्रह्म देवा नारायणाभिधम् ॥ शिष्यप्रशिष्यादिषु च तेऽनयन् वायुनोदितम् । वायुमप्यनयन् सर्वे यशसा तद्गुणोक्तितः ॥ ये ये गुणान् विजानन्ति वायोस्तान् आविशन् मरुत् । तत्र तत्र प्रविष्टत्वात् प्रततोऽसौ बभूव ह ॥ प्रततत्वात् प्रातरिति तस्य नामाऽभवद्विभोः । सङ्गतश्चाभवज्जीवचिता रूपान्तरेण सः । सङ्गतत्वात् सायमिति तद् रूपं नामतोऽभवत् ॥ वायोस्तत्पुनरध्यात्मं प्राणापानाभिधं द्वयम् ।
📖 1.1 ▼
वागग्निश्चक्षुरसावादित्यश्चन्द्रमा मनः, दिशः श्रोत्रं स एष प्रहितां संयोगोऽध्यात्मम् । इमा देवताः । अद उ आविरधिदैवतम् । इत्येतत् तदुक्तं भवति ।
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 25 Aug 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine