यतिराजसप्ततिः
/ 2
←

Yatirajasaptati Telugu PDF & Online Reader (యతిరాజసప్తతిః)

Yatirajasaptati (यतिराजसप्ततिः) by Vedanta Desika (वेदान्तदेशिकः) — Telugu Text & PDF Download

📜 Last Proofread: 15 Sep 2026
📥 Download Telugu PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 15 Sep 2026
📥 Download PDF ♡ Save
🌐 Language & Script తెలుగు
↔️ Text Alignment Center
यतिराज सप्ततिः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्य वर्योमे सन्निधत्तां सदा हृदि ॥ कमप्याध्यं गुरुं वन्दे कमलागृहमेधिनम् । प्रवक्ता छन्दसां वक्ता पञ्चरात्रस्य यः स्वयम् ॥ १॥ सहधर्मचरीं शौरेः संमन्त्रितजगध्दिताम् । अनुग्रहमयीं वन्दे नित्यमज्ञातनिग्रहाम् ॥ २॥ वन्दे वैकुण्ठसेनान्यं देवं सूत्रवतीसखम् । यद्वेत्रशिखरस्पन्दे विश्वमेतद् व्यवस्थितम् ॥ ३॥ यस्य सारस्वतस्रोतो वकुलामोदवासितम् । var सारस्वतं स्रोतो श्रुतीनां विश्रमायालं शठारिं तमुपास्महे ॥ ४॥ नाथेन मुनिना तेन भवेयं नाथवाहनम् । var मुनिनाथेन यस्य नैगमिकं तत्त्वं हस्तामलकतां गतम् ॥ ५॥ नमस्याम्यरविन्दाक्षं नाथभावे व्यवस्थितम् । शुध्दसत्वमयं शौरेरवतारमिवापरम् ॥ ६॥ अनुज्झितक्षमायोगमपुण्यजनबाधकम् । अस्पृष्टमदिरागं तं रामं तुर्यमुपास्महे ॥ ७॥ var अस्पृष्टमदिरा गन्धं विगाहे यामुनं तीर्थं साधु वृन्दावने स्थितम् । निरस्तजिह्मगस्पर्शे यत्र कृष्णः कृतादरः ॥ ८॥ दया निघ्नं यतीन्द्रस्य देशिकं पूर्णमाश्रये। येन विश्वसृजो विष्णोरपूर्यत मनोरथः ॥ ९॥ प्रणामं लक्ष्मणमुनिः प्रतिगृह्णातु मामकम् । प्रसाधयति यत्सूक्तिः स्वाधीन पतिकां श्रुतिम् ॥ १०॥ उपवीतिनमूर्ध्वपुण्ड्रवन्तं त्रिजगत्पुण्यफलं त्रिदण्डहस्तम् । शरणागतसार्थवाहमीडे शिखया शेखरिणं पतिं यतीनाम् ॥ ११॥ प्रथयन् विमतेषु तीक्ष्णभावं प्रभुरस्मत्परिरक्षणे यतीन्द्रः । अपृथक्प्रतिपन्न यन्मयत्वैः ववृधे पञ्चभिरायुधैर्मुरारेः ॥ १२॥ शमितोदयशङ्करादिगर्वः स्वबलादुध्दृतयादवप्रकाशः । अवरोपितवान् श्रुतेरपार्थान् ननु रामावरजः स एष भूयः ॥ १३॥ var एव अबहुश्रुतसंभवं श्रुतीनां जरतीनामयथायथ प्रचारम् । विनिवर्तयितुं यतीश्वरोक्तिः विदधे ताः स्थिरनीतिपञ्जरस्थाः ॥ १४॥ अमुना तपनातिशायि भूम्ना यतिराजेन निबध्दनायकश्रीः । महती गुरुपङ्क्तिहारयष्टिः विबुधानां हृदयङ्गमा विभाति ॥ १५॥ अलूनपक्षस्य यति क्षमाभृतो विभाति वंशे हरितत्वमक्षतम् । यदुद्भवाः शुध्दसुवृत्तशीतलाः भवन्ति मुक्तावलिभूषणं भुवः ॥ १६॥ अनपाय विष्णुपदसंश्रयं भजे कलया कयाऽपि कलयाऽप्यनुज्झितम् । अकलङ्कयोगमजडाशयोदयं var अकलङ्कयोगमजडाशयोदितं यतिराजचन्द्रमुपराग दूरगम् ॥ १७॥ अभिगम्य सम्यगनघाः सुमेधसो यति चक्रवर्तिपदपद्मपत्तनम् । हरिभक्तदास्यरसिकाः परस्परं क्रयैक्रयार्हदशया समिन्धते ॥ १८॥ परुषातिवादपरिवादपैशुन- प्रभृति प्रभूतपतनीयपङ्किला । स्वदते ममाध्य सुभगा सरस्वती यतिराजकीर्त्तिकतकैर्विशोधिता ॥ १९॥ अनुकल्पभूतमुरभित्पदं सतां अजहत्त्रिवर्गमपवर्गवैभवम् । चलचित्तवृत्तिविनिवर्त्तनौषधं शरणं यतीन्द्रचरणं वृणीमहे ॥ २०॥ श्वसितावधूतपरवातिवैभवाः निगमान्तनीतिजलधेस्तलस्पृशः । प्रतिपादयन्ति गतिमापवर्गिकीं यतिसार्वभौमपदसात्कृताशयाः ॥ २१॥ मूले निविश्य महतां निगमद्रुमाणां मुष्णन् प्रतारकभयं धृतनैकदण्डः । रङ्गेश भक्तजनमानसराजहंसो रामानुजः शरणमस्तु मुनिः स्वयं नः ॥ २२॥ सन्मन्त्रवित् क्षिपति संयमिनां नरेन्द्रः संसारजिह्मगमुखैः समुपस्थितं नः । विष्वक्ततं विषयलोभविषं निजाभिः गाढानुभावगरुडध्वजभावनाभिः ॥ २३॥ नाथः स एष यमिनां नखरश्मिजालैः अन्त निलीनमपनीय तमो मदीयम् । विज्ञानचित्रमनघं लिखतीव चित्ते व्याख्यानकेलिरसिकेन कराम्बुजेन ॥ २४॥ उद्गृह्णतीमुपनिषत्सु निगूढमर्थं चित्ते निवेशयितुमल्पधियां स्वयं नः । पश्येम लख़्श्मण् मुनेः प्रतिपन्नहस्तां उन्निद्रपद्मसुभगामुपदेशमुद्राम् ॥ २५॥ var तत्त्व आकर्षणानि निगमान्तसरस्वतीनां उच्चाटनानि बहिरन्तरुपप्लवानाम् । पथ्यानि घोरभवसंज्वरपीडितानां हृध्यानि भान्ति यतिराजमुनेर्वचांसि ॥ २६॥ शीतस्वभावसुभगानुभवः शिखावान् दोषावमर्दनियतोन्नतिरोषधीशः । तापानुबन्धशमनस्तपनः प्रजानां रामानुजो जयति संवलितत्रिधामा ॥ २७॥ जयति सकलविद्यावाहिनी जन्मशैलो जनिपथपरिवृत्तिश्रान्तविश्रान्तिशाखी । निखिलकुमति माया शर्वरी बालसूर्यो निगमजलधिवेला पूर्णचन्द्रो यतीन्द्रः ॥ २८॥ मुनिबहुमतसारा मुक्तिनिश्रेणिकेयं सहृदयहृदयानां शाश्वती दिष्टसिध्दिः । शमितदुरितगन्धा संयमीन्द्रस्य सूक्तिः var शमितविमतखेदा परिचितगहना नः प्रस्नुवीत प्रसादम् ॥ २९॥ भवमरुपरिखिन्नस्फीतपानीयसिन्धुः var सिद्धिः दुरितरहितजिह्वा दुग्धकुल्या सकुल्या । श्रुतिनयनसनाभिः शोभते लक्ष्मणोक्तिः नरकमथनसेवास्वादनाडिंधमा नः ॥ ३०॥ हरिपदमकरन्दस्यन्दिनः संश्रितानां अनुगतबहुशाखास्तापमुन्मूलयन्ति ॥ शमितदुरितगन्धाः संयमीन्द्रप्रबन्धाः कथकजनमनीषा कल्पना कल्पवृक्षाः ॥ ३१॥ नानाभूतैर्जगति समयैर्नर्मलीलां विधित्सोः अन्त्यं वर्णं प्रथयति विभोरादिमव्यूहभेदे । var भेदैः विश्वं त्रातुं विषयनियतं व्यञ्जितानुग्रहः सन् विष्वक्सेनो यतिपतिरभूद्वेत्रसारस्त्रिदण्डः ॥ ३२॥ लक्ष्यं बुध्दे रसिकरसनालास्यलीलानिदानं शुध्दास्वादं किमपि जगति श्रोत्रदिव्यौषधं नः । लक्ष्यालक्ष्यैः सितजलधिवद्भाति तात्पर्यरत्नैः लक्ष्मीकान्त स्फटिकमुकुरो लक्ष्मणार्योपदेशः ॥ ३३॥ स्थितिमवधीरयन्त्यतिमनोरथसिध्दिमतीं यतिपतिसंप्रदायनिरपायधनोपचिताः । मधुकरमौलिदघ्नमददन्तुरदन्तिघटा- करटकटाहवाहि घनशीकरशीभरिताम् ॥ ३४॥ var शीफरिताम् निरुपधि रङ्गवृत्ति रसिकानभिताण्डवयन् निगमविमर्शकेलिरसिकैर्निभृतैर्विधृतः । var निरतैः गुणपरिणद्धसूक्ति दृढकोणविघट्टनया रटति दिशा मुखेषु यतिराजयशः पटहः ॥ ३५॥ इदं प्रथमसंभवत्कुमति जालकूलङ्गषाः मृषा मतविषानलज्वलितजीवजीवातवः । क्षरन्त्यमृतमक्षरं यति पुरन्दरस्योक्तयः चिरन्तनसरस्वति चिकुरबन्धसैरन्ध्रिकाः ॥ ३६॥ सुधाशनसुदुर्ग्रह श्रुतिसमष्टिमुष्टिन्ध्यः कथाहवमसौ गतान् कपटसौगतान् खण्डयन् । मुनिर्मनसि लक्ष्मणो मुदम्दञ्चयत्यञ्जसा मुकुन्द गुणमौक्तिकप्रकरशुक्तिभिः सूक्तिभिः ॥ ३७॥ कपर्दिमतकर्दमं कपिलकल्पनावागुरां दुरत्ययमतीत्य तद्द्रुहिणतन्त्रयन्त्रोदरम् । कुदृष्टि कुहनामुखे निपततः परबृह्मणः करग्रहविचक्षणो जयति लक्ष्मणोऽयं मुनिः ॥ ३८॥ कणादपरिपाटिभिः कपिलकल्पनानाटकैः कुमारिलकुभाषितैर्गुरुनिबन्धनग्रन्थिभिः । तथागतकथाशतैस्तदनुसारि जल्पैरपि प्रतारितमिदं जगत् प्रगुणितं यतीन्द्रोक्तिभिः ॥ ३९॥ कथाकलहकौतुकग्रहग्रृहीतकौतस्कुत- प्रथा जलधि संप्लवग्रसनकुम्भसम्भूतयः । जयन्ति सुधियो यतिक्षितिभृदन्तिकोपासना- var यतिक्षितिभृदन्तिकोपासनप्रभाव प्रभावपरिपक्त्रिम प्रमिति भारती संपदः ॥ ४०॥ यतीश्वरसरस्वती सुरभिताशयानां सतां वहामि चरणाम्बुजं प्रणति शालिना मौलिना । तदन्यमतदुर्मदज्वलितचेतसां वादिनां शिरस्सु निहितं मया पदमदक्षिणं लक्ष्यताम् ॥ ४१॥ भजस्व यतिभूपतेरनिदमादिदुर्वासना कदध्व परिवर्तनश्रमनिवर्तनीं वर्तनीम् । लभस्य हृदय स्वयं रथपदायुधानुग्रह- द्रुतप्रहृति निस्तृटद्दुरितदुर्वृतिं निर्वृतिम् ॥ ४२॥ कुमतिविहितग्रन्थग्रन्थिप्रभूतमतान्तर- ग्रहिलमनसः पश्यन्त्यल्पां यतीश्वरभारतीम् । विकटमुरभिद्वक्षः पीठी परिष्करणोचितः कुलगिरितुलारोहे भावी कियानिव कौस्तुभः ॥ ४३॥ स्थविरनिगमस्तोमस्थेयां यतीश्वरभारतीं कुमतिफणितिक्षोभक्षीबाः क्षिपन्तु भजन्तु वा । रसपरिमलश्लाघा घोषस्फुटत्पुटभेदनं लवणवणिजः कर्पूरार्घं किमित्यभिमन्वते ॥ ४४॥ var कर्पूरोद्धं वहति महिलामाध्यो वेधास्त्रयी मुखरैर्मुखैः वरतनुतया वामो भागः शिवस्य विवर्तते । तदपि परमं तत्त्वं गोपीजनस्य वशंवदं मदनकदनैर्न क्लिश्यन्ते यतीश्वरसंश्रयाः ॥ ४५॥ निगमपथिकच्छाया शाखी निराशमहानिधिः महितविविधच्छात्रश्रेणी मनोरथसारथिः । त्रिभुवनतमःप्रत्यूषोऽयं त्रिविद्यशिखामणिः प्रथयति यतिक्ष्माभृत्पारावरीमविपर्ययाम् ॥ ४६॥ जडमति मुधा दन्तादन्तिव्यथौषधसिध्दयः प्रमितिनिधयः प्रज्ञाशालि प्रपालनयष्टयः । श्रुतिसुरभयः शुध्दानन्दाभिवर्षुकवारिदाः यमगति कथा विच्छेदिन्यो यतीश्वरसूक्तयः ॥ ४७॥ प्रतिकलमिह प्रत्यक्तत्वावलोकनदीपिकाः यतिपरिबृढग्रन्थाश्चिन्तां निरन्तरयन्ति नः । अकलुषपरज्ञानौत्सुक्यक्षुधातुरदुर्दशा- var अकलुषपरिज्ञान परिणत फल प्रत्यासीदत् फलेग्रहि सुग्रहाः ॥ ४८॥ मुकुन्दाङ्घ्रिश्रध्दा कुमुदवनचन्द्रातपनिभाः मुमुक्षामाक्षोभ्यां ददति मुनिवृन्दारकगिरः । स्वसिध्दान्तध्वान्तस्थिरकुतुकदुर्वादिपरिषद्- दिवाभीतप्रेक्षा दिनकरसमुत्थानपरुषाः ॥ ४९॥ निराबाधा बोधायनभणिति निष्यन्दसुभगाः var फणिति, भणित विशुद्धोपन्यासव्यतिभिदुरशारीरकनयाः । अकुण्ठैः कल्पन्ते यतिपतिनिबन्धा निजमुखैः अनिद्राणप्रज्ञारसधमनि वेधाय सुधियाम् ॥ ५०॥ विकल्पाटोपेन श्रुतिपथमशेषं विघटयन् यदृच्छानिर्दिष्टे यति नृपति शब्दे विरमति । वितण्डाहंकुर्वत्प्रतिकथकवेतण्डपृतना- वियातव्यापारव्यतिमथनसंरम्भकलहः ॥ ५१॥ प्रतिष्ठा तर्काणां प्रतिपदमृचां धाम यजुषां परिष्कारः साम्नां परिपणमथर्वाङ्गिरसयोः । प्रदीपस्तत्वानां प्रतिकृतिरसौ तापसगिरां प्रसत्तिम् संवित्तेः प्रदिशति यतीशानफणितिः ॥ ५२॥ var प्रदिशतु हतावध्ये हृध्ये हरिचरणपङ्केरुहयुगे निबध्नन्त्यैकान्त्यं किमपि यति भूभृत्फणितयः । शुनासीरस्कन्धद्रुहिणहरहेरम्बहुतभुक्- प्रभेशादि क्षुद्रप्रणति परिहारप्रतिभुवः ॥ ५३॥ यथाभूत स्वार्था यति नृपतिसूक्तिर्विजयते सुधा संदोहाब्धिः सुचरितविपक्तिः श्रुतिमताम् । कथा दृप्यत्कौतस्कुतकलहकोलाहलहत- त्रिवेदी निर्वेदप्रशमनविनोदप्रणयीनी ॥ ५४॥ श्रुतिश्रेणीचूडापदबहुमते लक्ष्मणमते स्वपक्षस्थान् दोषान् वितथमतिरारोपयति यः । स्वहस्तेनोत्क्षिप्तैः स खलु निजगात्रेषु बहुलं गलद्भिर्जम्बालैर्गगनतलमालिम्पति जडः ॥ ५५॥ निरालोके लोके निरुपधि परस्नेहभरितो यति क्ष्माभृद्दीपो यदि न किल जाज्वल्यत इह । अहंकारध्वान्तं विजहति कथंकारमनघाः कुतर्क व्यालौघं कुमति मतपाताळकुहरम् ॥ ५६॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 15 Sep 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine