यादवाभ्युदयम्
/ 38
←

Yadavabhyudayam English (IAST) PDF & Online Reader (yādavābhyudayam)

Yadavabhyudayam (यादवाभ्युदयम्) by Vedanta Desika (वेदान्तदेशिकः) — English (IAST) Text & PDF Download

📜 Last Proofread: 02 Sep 2026
📥 Download English (IAST) PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 02 Sep 2026
📥 Download PDF ♡ Save
🌐 Language & Script English (IAST)
↔️ Text Alignment Center
यादवाभ्युदयं महाकाव्यम् ध्यानम् । श्रीकृष्णाय परस्मै परब्रह्मणे नमः । श्रीमते निगमान्तमहादेशिकाय नमः । श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ वन्देय वेदान्तगुरोः पदाब्जं सन्देहमोहक्षपणार्थवित्यै । मन्देतरा भक्तिरुदेतु विद्वद्वृन्दे च वृन्दावनदैवते च ॥ श्रीमच्छीतांशुवंशे जनितगुणनिधेर्दिव्यलीलाप्रबन्धम् । श्रीमद्वेदान्तसूरेर्भणितसुरुचिरं यच्चरित्रं प्रशस्तम् ॥ सूक्तं श‍ृङ्गारशान्त्यादिबहुरसयुतं सज्जनानां निधानम् । तद्वन्दे काव्यरत्नं कलिमलहरणं श्रीचिदानन्दरूपम् ॥ यादवाभ्युदयं काव्यं वेङ्कटेशेन निर्मितम् । श्रीकृष्णचरितं पुण्यं सर्वलोकमनोहरम् ॥ वन्देय वेदान्तगुरोः पदाब्जं सन्देहमोहक्षपणार्थवित्यै । मन्देतरा भक्तिरुदेतु विद्वद्वृन्दे च वृन्दावनदैवते च ॥ ॥ कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदयमहाकाव्यम् ॥ ॥ प्रथमः सर्गः १॥ वन्दे वृन्दावनचरं वल्लवीजनवल्लभम् । जयन्तीसम्भवं धाम वैजयन्तीविभूषणम् ॥ १-१॥ यदेकैकगुणप्रान्ते श्रान्ता निगमवन्दिनः । यथावत् वर्णने तस्य किमुतान्ये मितम्पचाः ॥ १-२॥ शक्त्या शौरिकथास्वादः स्थाने मन्दधियामपि । अमृतं यदि लभ्येत किं न गृह्येत मानवैः ॥ १-३॥ वसुधाश्रोत्रजे तस्मिन् व्यासे च हृदयस्थिते । अन्येऽपि कवयः कामं बभूवुरनपत्रपाः ॥ १-४॥ स कविः कथ्यते स्रष्टा रमते यत्र भारती । रसभावगुणीभूतैरलङ्कारैर्गुणोदयैः ॥ १-५॥ तदात्वे नूतनं सर्वमायत्याञ्च पुरातनम् । न दोषायैतदुभयं न गुणाय च कल्पते ॥ १-६॥ प्रवृत्तामनघे मार्गे प्रमाद्यन्तीमपि क्वचित् । न वाचमवमन्यन्ते नर्तकीमिव भावुकाः ॥ १-७॥ विहाय तदहं व्रीडां व्यासवेदार्णवामृतम् । वक्ष्ये विबुधजीवातुं वसुदेवसुतोदयम् ॥ १-८॥ क्रीडातूलिकया स्वस्मिन् कृपारूषितया स्वयम् । एको विश्वमिदं चित्रं विभुः श्रीमानजीजनत् ॥ १-९॥ जगदाह्लादनो जज्ञे मनसस्तस्य चन्द्रमाः । परिपालयितव्येषु प्रसाद इव मूर्तिमान् ॥ १-१०॥ यदपत्यसमुद्भूतः पुण्यकीर्तिः पुरूरवाः । सतामाहितवह्नीनां विहारस्थेयतां ययौ ॥ १-११॥ समवर्धत तद्वंशः उपर्युपरि पर्वभिः । यशोमुक्ताफलैर्यस्य दिशो दश विभूषिताः ॥ १-१२॥ बभूव नहुषस्तस्मिन् ऐरावत इवाम्बुधौ । यमिन्द्रविगमे देवाः पदे तस्य न्यवीविशन् ॥ १-१३॥ नरेन्द्राः पृथिवीचक्रे नामचिह्नैरलङ्कृताः । जङ्गमास्तस्य वीरस्य जयस्तम्भा इवाभवन् ॥ १-१४॥ शक्तिरप्रतिघा तस्य शात्रवैरपि तुष्टुवे । यथावत् साधकस्येव यावदर्था सरस्वती ॥ १-१५॥ वीरो रस इवोत्साहान्नहुषादभ्यजायत । ययातिर्नाम येनैन्द्रमर्धासनमधिष्ठितम् ॥ १-१६॥ विशालविपुलोत्तुङ्गे यद्बाहुशिखरान्तरे । आसीद्वीरश्रिया सार्धं भूमिरर्धासने स्थिता(रा)॥ १-१७॥ निदेशं तस्य राजानो न शेकुरतिवर्तितुम् । प्राप्तस्वपरनिर्वाहं प्रमाणमिव वादिनः ॥ १-१८॥ तटाकमिव तापार्तास्तमिन्द्रमिव निर्जराः । भावा इव रसं भव्याः पार्थिवाः पर्युपासत ॥ १-१९॥ यदुर्नाम ततो जज्ञे यत्सन्ततिसमुद्भवैः । समानगणनालेख्ये निस्समानैर्निषद्यते ॥ १-२०॥ देहीति वदतां प्रायः प्रसीदन् प्रत्युवाच सः । ललितध्वनिभिर्लक्ष्मीलीलाकमलषट्षदैः ॥ १-२१॥ स च वृत्तविहीनस्य न विद्यां बह्वमन्यत । न हि शुद्धेति गृह्येत चतुर्थीचन्द्रचन्द्रिका ॥ १-२२॥ अपुनःप्रार्थनीयस्य प्रार्थिताधिकदायिनः । अर्थिनः प्रथमे तस्य चरमान् पर्यपूरयन् ॥ १-२३॥ शराणां शात्रवाणां च सन्धानेन महौजसः । तस्य निर्धूतलक्षेण द्विः कचिन्नाप्यभृयत ॥ १-२४॥ युक्तदण्डममित्राणां कृतान्तं समवर्तिनम् । दक्षिणं लोकपालं तममन्यन्त दिवौकसः ॥ १-२५॥ यशःप्रसूनसुरभिर्यदुसन्तानपादपः । बभूव विबुधप्रीत्यै बहुशाखः क्षमातले ॥ १-२६॥ वंशे समभवत् तस्य वसुदेवः क्षितीश्वरः । जनकः प्राग्भवे योऽभूत् देवदानवयूथयोः ॥ १-२७॥ आनकानाञ्च दिव्यानां दुन्दुभीनाञ्च निस्वनैः । सह जातं यमाचख्युराख्ययाऽऽनकदुन्दुभिम् ॥ १-२८॥ तेन निर्मलसत्त्वेन विनिवृत्तरजस्तमाः । जगती शान्तमोहेव धर्मोच्छ्वासवती बभौ ॥ १-२९॥ स विष्णुरिव लोकानां तपनस्तेजसामिव । समुद्र इव रत्नानां सतामेकाश्रयोभवत् ॥ १-३०॥ प्रख्यातविभवे पत्न्यौ तस्य पूर्वं प्रजापतेः । रोहिणीदेवकीरूपे मनुष्यत्वे बभूवतुः ॥ १-३१॥ अक्षुद्रगतिशालिन्योस्तयोरन्योन्यसक्तयोः । ऐकरस्यमभूत् पत्या गङ्गायमुनयोरिव ॥ १-३२॥ स ताभ्यामनुरूपाभ्यां समतुष्यत् समेयिवान् । व्यक्तिहेतुरभूत् येन सपर्यङ्कस्य शार्ङ्गिणः ॥ १-३३॥ अलिप्सत न साम्राज्यं सोऽर्थकामपराङ्मुखः । यदृच्छागतमैश्वर्यमानृण्यरुचिरन्वभूत् ॥ १-३४॥ कयाचिदशरीरिण्या वाचा व्यवसितायतिः । देवकीं वसुदेवञ्च कंसः कारामयोजयत् ॥ १-३५॥ स कालातिबलः कंसः कालनेमिरनेहसा । सर्वदैतेयसत्त्वानां समाहार इवोदितः ॥ १-३६॥ एतस्मिन्नन्तरे देवी मेरुमध्यमुपेयुषः । प्रजापतिमुखान् देवान् प्राह सागरमेखला ॥ १-३७॥ विदितं भवतां देवाः! विश्वरूपेण विष्णुना । महीयान् धर्मशीलेषु भारो यत्तन्निवेशितः ॥ १-३८॥ अधर्मनिघ्नैरधुना धर्मसेतुविभेदकैः । असङ्खथैरद्भुतैस्तुङ्गैः क्रम्ये राक्षसपर्वतैः ॥ १-३९॥ अत आलोचितजगद्धितैः सुरगणैः स्वयम् । (अतः स्वयं सुरगणैरालोचितजगद्धितैः?) न पतामि न भिद्ये च यथाऽहं क्रियतां तथा ॥ १-४०॥ इति ते भूतधारिण्या निसृष्टार्था दिवौकसः । अविदुस्तत्प्रियस्यैव तद्भारहरणं क्षमम् ॥ १-४१॥ पुरस्कृत्य जगद्धात्रीं मनसोऽपि पुरस्सराः । दुग्धोदधिशयं देवं दुरमेत्याभितुष्टुवुः ॥ १-४२॥ त्रिवेदीमध्यदीप्ताय त्रिधाम्ने पञ्चहेतये । वरदाय नमस्तुभ्यं बाह्यान्तरहविर्भुजे ॥ १-४३॥ अनन्याधीनमहिमा स्वाधीनपरवैभवः । दयाधीनविहारस्त्वं प्रणतान् परिपाहि नः ॥ १-४४॥ स भवान् गुणरत्नौघैर्दीप्यमानो दयाम्बुधिः । तनोति व्यूहनिवहैस्तरङ्गैरिव ताण्डवम् ॥ १-४५॥ त्वदेकव्यञ्जितैरादौ त्वदन्येष्वनिदम्परैः । निगमैरनिगम्यं त्वां कः परिच्छेत्तुमर्हति ॥ १-४६॥ अमितस्य महिम्नस्ते प्रयातुं पारमिच्छताम् । वितथा वेदपान्थानां यत्रसायङ्गृहा गतिः ॥ १-४७॥ नम्यस्य नमतः क्षुद्रान् वरदस्य वरार्थिनः । पुत्रैः पितृमतः क्रिडा कथं ते केन वर्ण्यते ॥ १-४८॥ नटवद् भूमिकाभेदैर्नाथ दीव्यन् पृथग्विधैः । पुंसामनन्यभावानां पुष्णासि रसमद्भुतम् ॥ १-४९॥ ब्रह्मादिस्तम्बपर्यन्तविचित्राङ्कुरशालिनाम् । सलिलं कर्मकन्दानां क्रीडैव तव केवलम् ॥ १-५०॥ निराधारनिजस्थेम्नो निरुपाधिकशेषिणः । निरपेक्षनियन्तुस्ते निस्समाभ्यधिका गुणाः ॥ १-५१॥ अनाविलधियामन्तश्चिन्तामणिरिव स्फुरन् । दिशस्यभिमतं सर्वमतिरस्कार्यदीधितिः ॥ १-५२॥ संसारमरुकान्तारे परिश्रान्तस्य देहिनः । त्वद्भक्त्यमृतवाहिन्यामादिष्टमवगाहनम् ॥ १-५३॥ दुरितोदन्वदावर्ते घूर्णमानस्य दुःख्यतः । समग्रगुणसम्पन्नः तारकस्त्वं प्लवो महान् ॥ १-५४॥ अपरिच्छिद्यमानस्य देशकालादिभिस्तव । निदर्शनं त्वमेवैकस्त्वदन्यद्व्यतिरेकतः ॥ १-५५॥ अकर्तुमखिलं कर्तुमन्यथाकर्तुमप्यलम् । सङ्कल्पसचिवः काले (लः)शक्तिलेशः स तावकः ॥ १-५६॥ यन्मूलमखिलं कार्यं यदमूलमधीमहे(यते)। लक्ष्यं तदसि योगानां लक्ष्मीकौस्तुभलक्षणम् ॥ १-५७॥ त्रिवर्गमपवर्गं वा प्रतिलब्धुं प्रयस्यताम् । प्रलयेष्वपि दीर्घायुः प्रतिभूस्त्वदनुग्रहः ॥ १-५८॥ यदेकमक्षरं ब्रह्म सर्वाम्नायसमन्वितम् । तारकं सर्वजन्तूनां तत् त्वं तव च वाचकम् ॥ १-५९॥ त्वदालम्बितहस्तानां भवादुन्मज्जतां सताम् । मज्जतः पापजातस्य नास्ति हस्तावलम्बनम् ॥ १-६०॥ अनन्यरक्षाव्रतिनं चातकव्रतचारिणः । भवन्तमवलम्बन्ते निरालम्बनभावनम् ॥ १-६१॥ अनिदम्पूर्वनिद्राणामनस्तमयभानुमान् । आपादयसि पुंसां त्वमपुनस्स्वापजागरम् ॥ १-६२॥ त्वदेकशरणानां त्वं शरणागतजीवनः । विपदं नः क्षिप क्षिप्रं तमिस्रामिव भास्करः ॥ १-६३॥ सति सूर्ये समुद्यन्तः प्रतिसूर्या इवासुराः । जगद्बाधाय जायन्ते जहि तान् स्वेन तेजसा ॥ १-६४॥ सदैत्यहत्यामिच्छद्भिः सुरैरेवमभिष्टुतः । अनन्यदृश्यः सहसा दयया दर्शनं ददौ ॥ १-६५॥ ततस्तं ददृशुर्देवाः शेषपर्यङ्कमास्थितम् । अधिरूढशरन्मेघमन्यादृशमिवाम्बुदम् ॥ १-६६॥ पत्न्या सह निषेदुष्या पद्मलक्षणलक्ष्यया । स्वेच्छयैव शरीरिण्या सूचितैश्वर्यसम्पदम् ॥ १-६७॥ सुकुमारसुखस्पर्शसुगन्धिभिरलङ्कृतम् । स्वविग्रहगुणारामप्रसूनैरिव भूषणैः ॥ १-६८॥ आरञ्जितजगन्नेत्रैरन्योन्यपरिकर्मितैः । अङ्गैरमितसौन्दर्यैरनुकल्पितभूषणम् ॥ १-६९॥ उत्तेजितजयोत्साहमायुधैरनघोद्यमैः । शौर्यविक्रमशक्त्याद्यैः सहजैः स्वगुणैरिव ॥ १-७०॥ स्वकान्तिजलधेरन्तस्सिद्धसंहननं स्वतः । महिम्ना जातवैचित्र्यं महानीलमिवोदितम् ॥ १-७१॥ श्रुतिरूपेण वाहेन शेषकङ्कणशोभिना । स्वाङ्घ्रिसौरभदिग्धेन दत्तसङ्ग्रामदोहलम् ॥ १-७२॥ स्ववेत्रस्पन्दनिःस्पन्दनेतव्येन निवेदितम् । भक्तिनम्रेण सेनान्या प्रतिश‍ृण्वन्तमिङ्गितैः ॥ १-७३॥ अनपायं तमादित्यमक्षयं तारकाधिपम् । अपारममृताम्भोधिममन्यन्त दिवौकसः ॥ १-७४॥ अभयोदारहस्ताग्रमनघस्वागतस्मितम् । अवेक्ष्य विबुधा देवमलभन्त दृशोः फलम् ॥ १-७५॥ तस्मै विज्ञापयामासुर्विदितार्थाय नाकिनः । निहताशेषदैत्याय निदानं स्वागतेः पुनः ॥ १-७६॥ त इमे क्षत्रिया भूत्वा क्षोभयन्ति क्षमामिमाम् । तव तेजसि यैर्नाथ दनुजैश्शलभायितम् ॥ १-७७॥ चतुर्णां पुरुषार्थानां प्रसवो यत्समाश्रयात् । हव्यकव्यप्रसूरेषा दीर्यते दैत्यभारतः ॥ १-७८॥ जाता निखिलवेदानामुत्तमाङ्गोपधानतः । त्वत्पादकमलादेषा त्वदेकाधीनधारणा ॥ १-७९॥ यदि न त्वरते नाथ भारव्यपनये भवान् । प्लावयिष्यन्त्युदन्वन्तः पृथिवीं पृथुवीचयः ॥ १-८०॥ करुणाधीनचित्तेन कर्णधारवती त्वया । माऽवसीदतु पृथ्वीयं महती नौरिवाम्भसि ॥ १-८१॥ रशनारत्नरूपेण पयोधिरशना त्वया । प्रशान्तदनुजक्लेशा परिष्करणमर्हति ॥ १-८२॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 02 Sep 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine