विवेकचूडामणिः
/ 9
←

Vivekacudamani Tamil PDF & Online Reader (விவேகசூடா³மணி꞉)

Vivekacudamani (विवेकचूडामणिः) by आदिशङ्कराचार्यः — Tamil Text & PDF Download

📜 Last Proofread: 11 Aug 2026
📥 Download Tamil PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 11 Aug 2026
📥 Download PDF ♡ Save
🌐 Language & Script தமிழ்
↔️ Text Alignment Center
॥ विवेकचूडामणिः ॥ सर्ववेदान्तसिद्धान्तगोचरं तमगोचरम् । गोविन्दं परमानन्दं सद्गुरुं प्रणतोऽस्म्यहम् ॥ १ ॥ जन्तूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रता तस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात्परम् । आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिः मुक्तिर्नो शतजन्मकोटिसुकृतैः पुण्यैर्विना लभ्यते ॥ २ ॥ दुर्लभं त्रयमेवैतद्देवानुग्रहहेतुकम् । मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः ॥ ३ ॥ लब्ध्वा कथञ्चिन्नरजन्म दुर्लभं तत्रापि पुंस्त्वं श्रुतिपारदर्शनम् । यस्त्वात्ममुक्तौ न यतेत मूढधीः स ह्यात्महा स्वं विनिहन्त्यसद्ग्रहात् ॥ ४ ॥ इतः को न्वस्ति मूढात्मा यस्तु स्वार्थे प्रमाद्यति । दुर्लभं मानुषं देहं प्राप्य तत्रापि पौरुषम् ॥ ५ ॥ वदन्तु शास्त्राणि यजन्तु देवान् कुर्वन्तु कर्माणि भजन्तु देवताः । आत्मैक्यबोधेन विनापि मुक्तिर्न सिध्यति ब्रह्मशतान्तरेऽपि ॥ ६ ॥ अमृतत्त्वस्य नाशास्ति वित्तेनेत्येव हि श्रुतिः । ब्रवीति कर्मणो मुक्तेरहेतुत्वं स्फुटं यतः ॥ ७ ॥ अतो विमुक्त्यै प्रयतेत विद्वान् सन्न्यस्तबाह्यार्थसुखस्पृहः सन् । सन्तं महान्तं समुपेत्य देशिकं तेनोपदिष्टार्थसमाहितात्मा ॥ ८ ॥ उद्धरेदात्मनाऽऽत्मानं मग्नं संसारवारिधौ । योगारूढत्वमासाद्य सम्यग्दर्शननिष्ठया ॥ ९ ॥ सन्न्यस्य सर्वकर्माणि भवबन्धविमुक्तये । यत्यतां पण्डितैर्धीरैरात्माभ्यास उपस्थितैः ॥ १० ॥ चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये । वस्तुसिद्धिर्विचारेण न किञ्चित्कर्मकोटिभिः ॥ ११ ॥ सम्यग्विचारतः सिद्धा रज्जुतत्त्वावधारणा । भ्रान्तोदितमहासर्पभयदुःखविनाशिनी ॥ १२ ॥ भ्रान्त्यो अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तितः । न स्नानेन न दानेन प्राणायामशतेन वा ॥ १३ ॥ अधिकारिणमाशास्ते फलसिद्धिर्विशेषतः । उपाया देशकालाद्याः सन्त्यस्मिन्सहकारिणः ॥ १४ ॥ सन्त्यस्यां अतो विचारः कर्तव्यो जिज्ञासोरात्मवस्तुनः ॥ समासाद्य दयासिन्धुं गुरुं ब्रह्मविदुत्तमम् ॥ १५ ॥ मेधावी पुरुषो विद्वानूहापोहविचक्षणः । अधिकार्यात्मविद्यायामुक्तलक्षणलक्षितः ॥ १६ ॥ विवेकिनो विरक्तस्य शमादिगुणशालिनः । मुमुक्षोरेव हि ब्रह्मजिज्ञासायोग्यता मता ॥ १७ ॥ साधनान्यत्र चत्वारि कथितानि मनीषिभिः । येषु सत्स्वेव सन्निष्ठा यदभावे न सिध्यति ॥ १८ ॥ आदौ नित्यानित्यवस्तुविवेकः परिगण्यते । इहामुत्रफलभोगविरागस्तदनन्तरम् । शमादिषट्कसम्पत्तिर्मुमुक्षुत्वमिति स्फुटम् ॥ १९ ॥ ब्रह्म सत्यं जगन्मिथ्येत्येवंरूपो विनिश्चयः । सोऽयं नित्यानित्यवस्तुविवेकः समुदाहृतः ॥ २० ॥ तद्वैराग्यं जिहासा या दर्शनश्रवणादिभिः । जुगुप्सा या देहादिब्रह्मपर्यन्ते ह्यनित्ये भोगवस्तुनि ॥ २१ ॥ भोग्यवस्तुनि विरज्य विषयव्राताद्दोषदृष्ट्या मुहुर्मुहुः । स्वलक्ष्ये नियतावस्था मनसः शम उच्यते ॥ २२ ॥ विषयेभ्यः परावर्त्य स्थापनं स्वस्वगोलके । उभयेषामिन्द्रियाणां स दमः परिकीर्तितः । बाह्यानालम्बनं वृत्तेरेषोपरतिरुत्तमा ॥ २३ ॥ सहनं सर्वदुःखानामप्रतीकारपूर्वकम् । चिन्ताविलापरहितं सा तितिक्षा निगद्यते ॥ २४ ॥ शास्त्रस्य गुरुवाक्यस्य सत्यबुद्ध्यवधारणम् । सत्यबुद्ध्यावधारणा सा श्रद्धा कथिता सद्भिर्यया वस्तूपलभ्यते ॥ २५ ॥ सर्वदा स्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा । सम्यगास्थापनं तत्समाधानमित्युक्तं न तु चित्तस्य लालनम् ॥ २६ ॥ अहङ्कारादिदेहान्तान् बन्धानज्ञानकल्पितान् । स्वस्वरूपावबोधेन मोक्तुमिच्छा मुमुक्षुता ॥ २७ ॥ मन्दमध्यमरूपापि वैराग्येण शमादिना । प्रसादेन गुरोः सेयं प्रवृद्धा सूयते फलम् ॥ २८ ॥ वैराग्यं च मुमुक्षुत्वं तीव्रं यस्य तु विद्यते । तस्मिन्नेवार्थवन्तः स्युः फलवन्तः शमादयः ॥ २९ ॥ एतयोर्मन्दता यत्र विरक्तत्वमुमुक्षयोः । मरौ सलिलवत्तत्र शमादेर्भानमात्रता ॥ ३० ॥ मोक्षकारणसामग्र्यां भक्तिरेव गरीयसी । स्वस्वरूपानुसन्धानं भक्तिरित्यभिधीयते ॥ ३१ ॥ स्वात्मतत्त्वानुसन्धानं भक्तिरित्यपरे जगुः । उक्तसाधनसम्पन्नस्तत्त्वजिज्ञासुरात्मनः । उपसीदेद्गुरुं प्राज्ञं यस्माद्बन्धविमोक्षणम् ॥ ३२ ॥ श्रोत्रियोऽवृजिनोऽकामहतो यो ब्रह्मवित्तमः । ब्रह्मण्युपरतः शान्तो निरिन्धन इवानलः । अहेतुकदयासिन्धुर्बन्धुरानमतां सताम् ॥ ३३ ॥ तमाराध्य गुरुं भक्त्या प्रह्वप्रश्रयसेवनैः । प्रह्वः प्रसन्नं तमनुप्राप्य पृच्छेज्ज्ञातव्यमात्मनः ॥ ३४ ॥ स्वामिन्नमस्ते नतलोकबन्धो कारुण्यसिन्धो पतितं भवाब्धौ । मामुद्धरात्मीयकटाक्षदृष्ट्या ऋज्व्यातिकारुण्यसुधाभिवृष्ट्या ॥ ३५ ॥ दुर्वारसंसारदवाग्नितप्तं दोधूयमानं दुरदृष्टवातैः । भीतं प्रपन्नं परिपाहि मृत्योः शरण्यमन्यद्यदहं न जाने ॥ ३६ ॥ अन्यं शान्ता महान्तो निवसन्ति सन्तो वसन्तवल्लोकहितं चरन्तः । तीर्णाः स्वयं भीमभवार्णवं जनानहेतुनान्यानपि तारयन्तः ॥ ३७ ॥ अयं स्वभावः स्वत एव यत्परश्रमापनोदप्रवणं महात्मनाम् । सुधांशुरेष स्वयमर्ककर्कशप्रभाभितप्तामवति क्षितिं किल ॥ ३८ ॥ ब्रह्मानन्दरसानुभूतिकलितैः पूतैः सुशीतैर्युतैर्युष्मद्वाक्कलशोज्झितैः श्रुतिसुखैर्वाक्यामृतैः सेचय । सन्तप्तं भवतापदावदहनज्वालाभिरेनं प्रभो धन्यास्ते भवदीक्षणक्षणगतेः पात्रीकृताः स्वीकृताः ॥ ३९ ॥ कथं तरेयं भवसिन्धुमेतं का वा गतिर्मे कतमोऽस्त्युपायः । जाने न किञ्चित्कृपयाऽव मां प्रभो संसारदुःखक्षतिमातनुष्व ॥ ४० ॥ तथा वदन्तं शरणागतं स्वं संसारदावानलतापतप्तम् । निरीक्ष्य कारुण्यरसार्द्रदृष्ट्या दद्यादभीतिं सहसा महात्मा ॥ ४१ ॥ विद्वान् स तस्मा उपसत्तिमीयुषे मुमुक्षवे साधु यथोक्तकारिणे । प्रशान्तचित्ताय शमान्विताय तत्त्वोपदेशं कृपयैव कुर्यात् ॥ ४२ ॥ मा भैष्ट विद्वंस्तव नास्त्यपायः संसारसिन्धोस्तरणेऽस्त्युपायः । येनैव याता यतयोऽस्य पारं तमेव मार्गं तव निर्दिशामि ॥ ४३ ॥ अस्त्युपायो महान्कश्चित्संसारभयनाशनः । तेन तीर्त्वा भवाम्भोधिं परमानन्दमाप्स्यसि ॥ ४४ ॥ वेदान्तार्थविचारेण जायते ज्ञानमुत्तमम् । तेनात्यन्तिकसंसारदुःखनाशो भवत्यनु ॥ ४५ ॥ श्रद्धाभक्तिध्यानयोगान्मुमुक्षोः मुक्तेर्हेतून्वक्ति साक्षाच्छ्रुतेर्गीः । यो वा एतेष्वेव तिष्ठत्यमुष्य मोक्षोऽविद्याकल्पिताद्देहबन्धात् ॥ ४६ ॥ अज्ञानयोगात्परमात्मनस्तव ह्यनात्मबन्धस्तत एव संसृतिः । तयोर्विवेकोदितबोधवह्निः अज्ञानकार्यं प्रदहेत्समूलम् ॥ ४७ ॥ शिष्य उवाच । कृपया श्रूयतां स्वामिन्प्रश्नोऽयं क्रियते मया । यदुत्तरमहं श्रुत्वा कृतार्थः स्यां भवन्मुखात् ॥ ४८ ॥ को नाम बन्धः कथमेष आगतः कथं प्रतिष्ठास्य कथं विमोक्षः । कोऽसावनात्मा परमः क आत्मा तयोर्विवेकः कथमेतदुच्यताम् ॥ ४९ ॥ श्रीगुरुवाच । धन्योऽसि कृतकृत्योऽसि पावितं ते कुलं त्वया । पावितं यदविद्याबन्धमुक्त्या ब्रह्मीभवितुमिच्छसि ॥ ५० ॥ ऋणमोचनकर्तारः पितुः सन्ति सुतादयः । बन्धमोचनकर्ता तु स्वस्मादन्यो न कश्चन ॥ ५१ ॥ मस्तकन्यस्तभारादेर्दुःखमन्यैर्निवार्यते । क्षुधादिकृतदुःखं तु विना स्वेन न केनचित् ॥ ५२ ॥ पथ्यमौषधसेवा च क्रियते येन रोगिणा । आरोग्यसिद्धिर्दृष्टाऽस्य नान्यानुष्ठितकर्मणा ॥ ५३ ॥ वस्तुस्वरूपं स्फुटबोधचक्षुषा स्वेनैव वेद्यं न तु पण्डितेन । चन्द्रस्वरूपं निजचक्षुषैव ज्ञातव्यमन्यैरवगम्यते किम् ॥ ५४ ॥ अविद्याकामकर्मादिपाशबन्धं विमोचितुम् । कः शक्नुयाद्विनाऽऽत्मानं कल्पकोटिशतैरपि ॥ ५५ ॥ न योगेन न साङ्ख्येन कर्मणा नो न विद्यया । ब्रह्मात्मैकत्वबोधेन मोक्षः सिध्यति नान्यथा ॥ ५६ ॥ वीणाया रूपसौन्दर्यं तन्त्रीवादनसौष्ठवम् । प्रजारञ्जनमात्रं तन्न साम्राज्याय कल्पते ॥ ५७ ॥ वाग्वैखरी शब्दझरी शास्त्रव्याख्यानकौशलम् । वैदुष्यं विदुषां तद्वद्भुक्तये न तु मुक्तये ॥ ५८ ॥ अविज्ञाते परे तत्त्वे शास्त्राधीतिस्तु निष्फला । विज्ञातेऽपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला ॥ ५९ ॥ शब्दजालं महारण्यं चित्तभ्रमणकारणम् । अतः प्रयत्नाज्ज्ञातव्यं तत्त्वज्ञैस्तत्त्वमात्मनः ॥ ६० ॥ तत्त्वज्ञात्तत्त्व अज्ञानसर्पदष्टस्य ब्रह्मज्ञानौषधं विना । किमु वेदैश्च शास्त्रैश्च किमु मन्त्रैः किमौषधैः ॥ ६१ ॥ न गच्छति विना पानं व्याधिरौषधशब्दतः । विनाऽपरोक्षानुभवं ब्रह्मशब्दैर्न मुच्यते ॥ ६२ ॥ अकृत्वा दृश्यविलयमज्ञात्वा तत्त्वमात्मनः । ब्रह्मशब्दैः कुतो मुक्तिरुक्तिमात्रफलैर्नृणाम् ॥ ६३ ॥ बाह्यशब्दैः अकृत्वा शत्रुसंहारमगत्वाखिलभूश्रियम् । राजाहमिति शब्दान्नो राजा भवितुमर्हति ॥ ६४ ॥ आप्तोक्तिं खननं तथोपरिशिलाद्युत्कर्षणं स्वीकृतिं निक्षेपः समपेक्षते न हि बहिःशब्दैस्तु निर्गच्छति । तद्वद्ब्रह्मविदोपदेशमननध्यानादिभिर्लभ्यते मायाकार्यतिरोहितं स्वममलं तत्त्वं न दुर्युक्तिभिः ॥ ६५ ॥ तस्मात्सर्वप्रयत्नेन भवबन्धविमुक्तये । स्वैरेव यत्नः कर्तव्यो रोगादाविव पण्डितैः ॥ ६६ ॥ रोगादेरिव यस्त्वयाद्य कृतः प्रश्नो वरीयाञ्छास्त्रविन्मतः । सम्मतः सूत्रप्रायो निगूढार्थो ज्ञातव्यश्च मुमुक्षुभिः ॥ ६७ ॥ शृणुष्वावहितो विद्वन्यन्मया समुदीर्यते । तदेतच्छ्रवणात्सद्यो भवबन्धाद्विमोक्ष्यसे ॥ ६८ ॥ मोक्षस्य हेतुः प्रथमो निगद्यते वैराग्यमत्यन्तमनित्यवस्तुषु । ततः शमश्चापि दमस्तितिक्षा न्यासः प्रसक्ताखिलकर्मणां भृशम् ॥ ६९ ॥ ततः श्रुतिस्तन्मननं सतत्त्वध्यानं चिरं नित्यनिरन्तरं मुनेः । ततोऽविकल्पं परमेत्य विद्वान् इहैव निर्वाणसुखं समृच्छति ॥ ७० ॥ यद्बोद्धव्यं तवेदानीमात्मानात्मविवेचनम् । तदुच्यते मया सम्यक् श्रुत्वात्मन्यवधारय ॥ ७१ ॥ मज्जास्थिमेदःपलरक्तचर्मत्वगाह्वयैर्धातुभिरेभिरन्वितम् । पादोरुवक्षोभुजपृष्ठमस्तकैः अङ्गैरुपाङ्गैरुपयुक्तमेतत् ॥ ७२ ॥ अहम्ममेति प्रथितं शरीरं मोहास्पदं स्थूलमितीर्यते बुधैः । नभोनभस्वद्दहनाम्बुभूमयः सूक्ष्माणि भूतानि भवन्ति तानि ॥ ७३ ॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 11 Aug 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine