विष्णुतत्त्वविनिर्णयः
/ 7
←

Vishnutattvavinirnaya Tamil PDF & Online Reader (விஷ்ணுதத்த்வவிநிர்ணய꞉)

Vishnutattvavinirnaya (विष्णुतत्त्वविनिर्णयः) by Madhvacharya (मध्वाचार्यः) — Tamil Text & PDF Download

📜 Last Proofread: 07 Sep 2026
📥 Download Tamil PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 07 Sep 2026
📥 Download PDF ♡ Save
🌐 Language & Script தமிழ்
↔️ Text Alignment Center
विष्णुतत्त्वविनिर्णयः (श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम्) सदागमैकविज्ञेयं समतीतक्षराक्षरम् । नारायणं सदा वन्दे निर्दोषाशेषसद्गुणम् ॥ विशेषणाणि यानीह कथितानि सदुक्तिभिः । साधयिष्यामि तान्येव क्रमात् सज्जनसंविदे ॥ ‘ऋगाद्या भारतं चैव पञ्चरात्रमथाखलिम् । मूलरामायणं चैव पुराणं चैतदात्मकम् ॥ ये चानुयायिनस्त्वेषां सर्वे ते च सदागमाः । दुरागमास्तदन्ये ये तैर्न ज्ञेयो जनार्दनः ॥ ज्ञेय एतैः सदायुक्तैः भक्तिमद्भिः सुनिष्ठितैः । न च केवलतर्केण नाक्षजेन न केनचित् ॥ केवलागमविज्ञेयो भक्तैरेव न चान्यथा ॥’ इति ब्रह्माण्डे । ‘नावेदविन्मनुते तं बृहन्तं सर्वानुभूमात्मानं साम्पराये’(तै.ब्रा.३.१२.९.७) इति तैत्तिरीयश्रुतिः । ‘नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ’(कठ.१.२.९) इति च कठश्रुतिः । ‘नेन्द्रियाणि नानुमानं वेदा ह्येवैनं वेदयन्ति तस्मादाहुर्वेदाः’ इति च पिप्पलादश्रुतिः । न चैतेषां वचनानामेवाप्रामाण्यम् । अपौरुषेयत्वात् वेदस्य । ‘इतिहासपुराणः पञ्चमो वेदानां वेदः’(छां.उ.७.१.४) इति तद्गृहीतत्वाच्च । न चापौरुषेयं वाक्यमेव नास्तीति वाच्यम् । तदभावे सर्वसमयाभिमतधर्माद्यसिद्धेः । यस्य तौ नाभिमतौ नासौ समयी, समयप्रयोजनाभावात् । न च तेन लोकोपकारः । धर्माद्यभावज्ञाने परस्परहिंसादिना अपकारस्यैव प्राप्तेः । न चोपकारेण तस्य प्रयोजनम्, अदृष्टाभावात् । अतो धर्माद्यभावं वदता स्वसमयस्याऽनर्थक्यमङ्गीकृतमेवेति नासौ समयी । न च पौरुषेयेण वाक्येन तत्सिद्धिः । अज्ञानविप्रलम्भयोः प्राप्तेः । न च तदर्थत्वेन सर्वज्ञः कल्प्येत । अन्यत्राऽदृष्टस्य सर्वज्ञत्वस्य कल्पनम्, तस्याविप्रलम्भकत्वकल्पनम् , तस्य तत्कृतत्वकल्पनं चेति कल्पनागौरवप्राप्तेः । अपौरुषेयवाक्याङ्गीकारे न किञ्चित् कल्प्यम् । अपौरुषेयत्वं च स्वत एव सिद्धम् । वेदकर्तृरप्रसिद्धेः । अप्रसिद्धौ च (तत्) कर्तुस्तत्कल्पने कल्पनागौरवम् । अकल्पने चाकर्तृत्वं सिद्धमेव । न च लौकिकवाक्यवत् सकर्तृकत्वम् । तस्य अकर्तृकत्वप्रसिद्ध्यभावात् । न च केनचित् कृत्वा वेद इत्युक्तं वेदसमम्, परम्पराभावात् । न च स्वयम्प्रतिभातवेदैः दृष्टमवेदवाक्यं भवति । परम्परासिद्धवेदवाक्यनुसारित्वात् । वेदद्रष्टॄणामुक्तगुणवत्वाच्च तेषाम् । उक्तं च ब्रह्माण्डे - ‘विंशल्लक्षणतोनूनः तपस्वी बहुवेदवित् । वेद इत्येव यं पश्येत् स वेदो ज्ञानदर्शनात् ’ ॥ इति ॥ प्रामाण्यं च स्वतः एव । अन्यथाऽनवस्थानात् । न चोक्तयुक्त्यधीनत्वं प्रामाण्यस्य । बुद्धिदोषनिरासमात्रकारणत्वाद् युक्तीनाम् । अदुष्टबुद्धीनां स्वत एव सिद्धत्वातच्च प्रामाण्यस्य । न चाऽकाङ्क्षायामेव प्रमाणान्तरापेक्षत्वादनवस्थाभाव इति वाच्यम् । आकाङ्क्षाया एव बुद्धिदोषात्मकत्वात् । दुष्टबुद्धीनामेवाप्रामाण्यशङ्केति परतोऽप्रामाण्यम् । प्रामाण्यं च स्वत एव सिद्धम् । ॥ इति प्रामाण्यस्वतस्त्ववादः ॥ न चोच्चारणकाल एव वर्णानामुत्पत्तिरिति वाच्यम् ; तदेवेदं वचनमिति प्रत्यभिज्ञाविरोधात् । न च सादृश्यात् प्रत्यभिज्ञा भ्रान्तिरिति वाच्यम् । ‘सोऽयं देवदत्तः’ इत्यादेरपि तथात्वप्राप्तेः । सर्वक्षणिकत्वं वदताऽपि बौद्धेन ‘सेयं दिक्’ इत्यादिप्रत्यभिज्ञायाः न भ्रान्तित्वं वाच्यम् ; पञ्चस्कन्धेभ्योऽन्यत्वात् । न च दिश एव भ्रान्तिकल्पिताः ; विज्ञानशून्ययोरपि साम्यात् । न च आदित्योदयादिनैव दिक्कल्पना ; अन्धकारेऽपि दिङ्मात्रप्रतीतेः । कादाचित्कभ्रान्तिरेवाऽदित्योदयादिदर्शनान्निवर्तते । सा च विज्ञानशून्ययोरपि भवतीति तेषां मतम् ; वादिविप्रतिपत्तेः । अतो दिशः स्थिरा एवेति सिद्ध्यति शून्यवदेव । अतस्तद्वद्वेदस्यापि स्थैर्यं सिद्धम् ; तदेवेदं वाक्यमिति प्रत्यभिज्ञानात् । न चानुमानादीनामागमं विना प्रामाण्यं धर्मादिषु ; तदगोचरत्वात् । अतोऽपौरुषेयवाक्येनैव धर्मादिसिद्धेः सर्ववादिनामपि तदङ्गीकार्यम् । तत्प्रामाण्यं च स्वत एव सिद्धम् । अप्रामाण्यस्य च परतस्त्वानङ्गीकारे दुष्टेन्द्रियादेरप्यप्रामाण्यहेतुत्वं न स्यात् । तदनङ्गीकारे चानुभवविरोधः । अतः प्रामाण्यं स्वतः परतोऽप्रामाण्यमिति (च) सिद्धम् । ‘वाचा विरूप नित्यया’(ऋ.सं.८.७५.६) , ‘नित्ययानित्यया स्तौमि ब्रह्म तत्परमं पदम्’ इति । ‘श्रुतिर्वाव नित्या अनित्या वाव स्मृतयो याश्चान्याः वाचः’ इति पैङ्गिश्रुतिः । ‘विज्ञेयं परमं ब्रह्म ज्ञापिका परमा श्रुतिः । अनादिनित्या सा तच्च विना तां न स गम्यते ॥’ इति कात्यायनश्रुतिः । ‘सहस्रधा महिमानः सहस्रं यावद् ब्रह्म विष्टितं तावती वाक् ॥ कश्छन्दसां योगमावेद धीरः को धिष्ण्यां प्रतिवाचं पपाद ।’(ऋ.सं.१०.११४.९-१०) इति च । ‘नित्या वेदाः समस्ताश्च शाश्वता विष्णुबुद्धिगाः । सर्गे सर्गेऽमुनेवैत उद्गीर्यन्ते तथैव च ॥ तत्क्रमेणैव तैर्वर्णैस्तैः स्वरैरेव नान्यथा ॥’ ‘अतः श्रुतित्वमेतासां श्रुता एव यतोऽखिलैः । जन्मान्तरे श्रुतास्तास्तु वासुदेवप्रसादतः ॥ मुनीनां प्रतिभास्यन्ति भागेनैव न सर्वशः । यतस्ता हरिणा दृष्टाः श्रुता एवापरैः जनैः । श्रुतयो दृष्टयश्चेति तेनोच्यन्ते पुरातनैः ॥’ ‘तदुत्पत्तिवचश्चैव भवेत् व्यक्तिमपेक्ष्य तु । चेतनस्य जनिर्यद्वदुच्यते सर्वलौकिकैः ॥ पुराणानि तदर्थानि सर्गे सर्गेन्यथैव तु । क्रियन्तेतस्त्वनित्यानि तदर्थाः पूर्वसर्गवत् ॥’ ‘वेदानां सृष्टिवाक्यानि भवेयुर्व्यक्त्यपेक्षया । अवान्तराभिमानानां देवानां वा व्यपेक्षया ॥ नानित्यत्वात् कुतस्तेषामनित्यत्वं स्थिरात्मनाम् ॥’ इति ब्रह्माण्डे । न चानित्यत्वे श्रुतिर्वेद इत्यादि विशेषशब्दो उपपद्यते(युज्यते) । ‘वेदास्ते नित्यविन्नत्वात् श्रुतयश्चाखिलैः श्रुतेः । आम्नायोऽनन्यथापाठादीशबुद्धिस्थिताः सदा ॥’ इति महावाराहे । न च नित्यत्वं विना वेदानां दर्शनव्यवहारो युज्यते । न च वर्णपदानामनित्यत्वं वक्तुं युक्तम् । सर्वज्ञत्वादीश्वरस्य तद्बुद्धौ सर्वदा प्रतीयमानत्वात् । न च घटादिवत् संस्कारमात्रत्वं वक्तुं युक्तम् । प्रत्यभिज्ञाविरोधस्योक्तत्वात् । पुराणानामप्यन्यथा शब्दरचनमेवानित्यत्वम् । अत आकाशगुणे शब्दे व्यज्यमाना वर्णादयस्तत्क्रमात्मको वेदश्च नित्य एवेति सिद्धम् । ॥ इति वर्णनित्यत्ववादः ॥ न केवलसिद्धेऽर्थे व्युत्पत्त्यभावादप्रामाण्यम् । सिद्धान्वित एव व्युत्पत्तिगृहीतेः । ‘इयं माता’, ‘अयं पिता’ इत्यादौ अङ्गुलिप्रसारणादिपूर्वकनिर्देशेनैव हि तज्जानाति । ‘कार्यान्विते एव व्युत्पत्तिः’इति वदतः कार्यस्य कार्यान्वयाभावात् कल्पनागौरवम् । ‘इयं माता’, ‘अयं पिता’, ‘सुरूपोऽसि’ इत्यादौ सिद्धमात्रज्ञापनेन पर्यवसितत्वात् वाक्यस्य । तस्य तत्र प्रामाण्यानुभवाच्च । न च कुत्रचित् सिद्धज्ञापनादन्यत् वाक्यस्य प्रयोजनं दृष्टम् । ज्ञात्वैव हीष्टसाधनतां प्रवर्तते; निवर्तते च विपर्ययेण । अतः सिद्ध एव सर्ववाक्यानां प्रामाण्यं सिद्धम् । प्रसिद्धं च व्याकरणनिरुक्त्यादीनां सिद्धमात्रे प्रामाण्यं सर्ववादिनाम् । तदनङ्गीकारे च सर्वशाब्दव्यवहारासिद्धिः । उक्तं च नारदीये- ‘सर्वज्ञं सर्वकर्तारं नारायणमनामयम् । सर्वोत्तमं ज्ञापयन्ति महातात्पर्यमत्र हि ॥ सर्वेषामपि वेदानाम् इतिहासपुराणयोः । प्रमाणानां च सर्वेषां तदर्थं चान्यदुच्यते ॥’ इति ॥ न च जीवेश्वराभेद एव तात्पर्यमागमस्य ; तत्र प्रमाणाभावात् । न च जीवेश्वरभेदः सिद्ध इत्यनुवादकत्वं भेदवाक्यानाम् ; आगमं विना ईश्वरस्यैव असिद्धेः । न च अनुमानात् तत्सिद्धिः ; विपर्ययेणापि अनुमातुं शक्यत्वात् । ‘विमतं सकर्तृकं कार्यत्वात्, घटवत्’ इत्युक्ते ‘विमतं विकर्तृकमस्मत्संमतकर्तृरहितत्वात्, आत्मवत्’ इत्यनुमानविरोधात् । ‘अकार्यत्वम्’ उपाधिरित्युक्ते ‘शरीरिजन्यत्वम्’ इतरत्रापि उपाधिः इत्युत्तरम् । प्रत्यक्षानुमानसिद्धत्वे च भेदस्य तद्विरोधादेवाप्रामाण्यमभेदागमस्य । तेनाभेदागमस्याप्रामाण्याभावे (तेनाभेदवाक्यास्याप्रामाण्याभावे च) नानुवादकत्वं भेदवाक्यानाम् । न हि बलवतोऽनुवादकत्वम् ; दार्ढ्यहेतुत्वात् । प्रत्यक्षादेरागमस्य प्राबल्येऽपि नोपजीव्यप्रमाणविरोधे प्रामाण्यम् । विषयाभावे स्वस्यैवाप्रामाण्यप्राप्तेः । तेनैव ह्यनुमानादिनाऽऽगमस्य विषयः सिद्ध्यति तत्पक्षेऽपि । अनुमानेन ह्यनुवादित्वपक्ष ईश्वरो बोद्धव्यः, प्रत्यक्षेण च आगमः । अतस्तयोर्विरोधे प्रामाण्यं न स्यात् । अनुमानसिद्धेश्वराच्च भेदोऽनुभवतः एव सिद्धो जीवस्य ; असर्वकर्तृत्वेनानुभवात् । न चानुभवविरोधे आगमस्य प्रामाण्यम् ; आगमप्रामाण्यानुभवस्याप्यप्रामाण्यप्राप्तेः । बहुप्रमाणसंवादश्च दार्ढ्यहेतुरेव ; बहूनां वचने तस्यैव दर्शने च दार्ढ्यस्यैव दृष्टेः । सर्वाविवादस्थल एव कथञ्चिदनुवादकत्वम् । न चात्र सर्वाविवादः, एकत्ववादिनामेव विवाददर्शनात् । बहुप्रमाणविरोधे च एकस्याप्रामाण्यं दृष्टं शुक्तिरजतादौ । न च दोषजन्यत्वादेव दुर्बलत्वमिति विरोधः । बहुप्रमाणविरुद्धानां दोषजन्यत्वनियमात् । दोषजन्यत्वं च बलवत्प्रमाणविरोधादेव ज्ञायते । ‘अदुष्टमिन्द्रियं त्वक्षं तर्कोऽदुष्टस्तथाऽनुमा । आगमोऽदुष्टवाक्यं च स्वदृक् चानुभवः स्मृतः ॥ बलवत्प्रमाणतश्चैव ज्ञेया दोषा न चान्यथा । द्विविधं बलवत्त्वं च बहुत्वाच्च स्वभावतः । तयोः स्वभावो बलवानुपजीव्यादिकश्च सः ॥ याथार्थ्यमेव प्रामाण्यं तन्मुख्यं ज्ञानशब्दयोः । ज्ञानं च द्विविधं बाह्यं तथाऽनुभवरूपकम् ॥ बल्येवानुभवस्तत्र निर्दोषं त्वक्षजादिकम् । अनुप्रमाणतां याति तथाऽक्षादित्रयं ततः ॥ प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम् । उपजीव्यविरोधे तु न प्रामाण्यममुष्य च ॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 07 Sep 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine