विष्णुतत्त्वविनिर्णयः
(श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम्)
सदागमैकविज्ञेयं समतीतक्षराक्षरम् ।
नारायणं सदा वन्दे निर्दोषाशेषसद्गुणम् ॥
विशेषणाणि यानीह कथितानि सदुक्तिभिः ।
साधयिष्यामि तान्येव क्रमात् सज्जनसंविदे ॥
‘ऋगाद्या भारतं चैव पञ्चरात्रमथाखलिम् ।
मूलरामायणं चैव पुराणं चैतदात्मकम् ॥
ये चानुयायिनस्त्वेषां सर्वे ते च सदागमाः ।
दुरागमास्तदन्ये ये तैर्न ज्ञेयो जनार्दनः ॥
ज्ञेय एतैः सदायुक्तैः भक्तिमद्भिः सुनिष्ठितैः ।
न च केवलतर्केण नाक्षजेन न केनचित् ॥
केवलागमविज्ञेयो भक्तैरेव न चान्यथा ॥’ इति ब्रह्माण्डे ।
‘नावेदविन्मनुते तं बृहन्तं सर्वानुभूमात्मानं साम्पराये’(तै.ब्रा.३.१२.९.७) इति तैत्तिरीयश्रुतिः ।
‘नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ’(कठ.१.२.९) इति च कठश्रुतिः ।
‘नेन्द्रियाणि नानुमानं वेदा ह्येवैनं वेदयन्ति तस्मादाहुर्वेदाः’ इति च पिप्पलादश्रुतिः ।
न चैतेषां वचनानामेवाप्रामाण्यम् ।
अपौरुषेयत्वात् वेदस्य ।
‘इतिहासपुराणः पञ्चमो वेदानां वेदः’(छां.उ.७.१.४) इति तद्गृहीतत्वाच्च ।
न चापौरुषेयं वाक्यमेव नास्तीति वाच्यम् । तदभावे सर्वसमयाभिमतधर्माद्यसिद्धेः ।
यस्य तौ नाभिमतौ नासौ समयी, समयप्रयोजनाभावात् ।
न च तेन लोकोपकारः । धर्माद्यभावज्ञाने परस्परहिंसादिना अपकारस्यैव प्राप्तेः ।
न चोपकारेण तस्य प्रयोजनम्, अदृष्टाभावात् । अतो धर्माद्यभावं वदता स्वसमयस्याऽनर्थक्यमङ्गीकृतमेवेति नासौ समयी ।
न च पौरुषेयेण वाक्येन तत्सिद्धिः । अज्ञानविप्रलम्भयोः प्राप्तेः । न च तदर्थत्वेन सर्वज्ञः कल्प्येत । अन्यत्राऽदृष्टस्य सर्वज्ञत्वस्य कल्पनम्, तस्याविप्रलम्भकत्वकल्पनम् , तस्य तत्कृतत्वकल्पनं चेति कल्पनागौरवप्राप्तेः ।
अपौरुषेयवाक्याङ्गीकारे न किञ्चित् कल्प्यम् ।
अपौरुषेयत्वं च स्वत एव सिद्धम् । वेदकर्तृरप्रसिद्धेः । अप्रसिद्धौ च (तत्) कर्तुस्तत्कल्पने कल्पनागौरवम् । अकल्पने चाकर्तृत्वं सिद्धमेव ।
न च लौकिकवाक्यवत् सकर्तृकत्वम् । तस्य अकर्तृकत्वप्रसिद्ध्यभावात् ।
न च केनचित् कृत्वा वेद इत्युक्तं वेदसमम्, परम्पराभावात् ।
न च स्वयम्प्रतिभातवेदैः दृष्टमवेदवाक्यं भवति । परम्परासिद्धवेदवाक्यनुसारित्वात् । वेदद्रष्टॄणामुक्तगुणवत्वाच्च तेषाम् । उक्तं च ब्रह्माण्डे -
‘विंशल्लक्षणतोनूनः तपस्वी बहुवेदवित् ।
वेद इत्येव यं पश्येत् स वेदो ज्ञानदर्शनात् ’ ॥ इति ॥
प्रामाण्यं च स्वतः एव । अन्यथाऽनवस्थानात् ।
न चोक्तयुक्त्यधीनत्वं प्रामाण्यस्य । बुद्धिदोषनिरासमात्रकारणत्वाद् युक्तीनाम् । अदुष्टबुद्धीनां स्वत एव सिद्धत्वातच्च प्रामाण्यस्य ।
न चाऽकाङ्क्षायामेव प्रमाणान्तरापेक्षत्वादनवस्थाभाव इति वाच्यम् । आकाङ्क्षाया एव बुद्धिदोषात्मकत्वात् ।
दुष्टबुद्धीनामेवाप्रामाण्यशङ्केति परतोऽप्रामाण्यम् । प्रामाण्यं च स्वत एव सिद्धम् ।
॥ इति प्रामाण्यस्वतस्त्ववादः ॥
न चोच्चारणकाल एव वर्णानामुत्पत्तिरिति वाच्यम् ; तदेवेदं वचनमिति प्रत्यभिज्ञाविरोधात् ।
न च सादृश्यात् प्रत्यभिज्ञा भ्रान्तिरिति वाच्यम् । ‘सोऽयं देवदत्तः’ इत्यादेरपि तथात्वप्राप्तेः ।
सर्वक्षणिकत्वं वदताऽपि बौद्धेन ‘सेयं दिक्’ इत्यादिप्रत्यभिज्ञायाः न भ्रान्तित्वं वाच्यम् ; पञ्चस्कन्धेभ्योऽन्यत्वात् ।
न च दिश एव भ्रान्तिकल्पिताः ; विज्ञानशून्ययोरपि साम्यात् । न च आदित्योदयादिनैव दिक्कल्पना ; अन्धकारेऽपि दिङ्मात्रप्रतीतेः ।
कादाचित्कभ्रान्तिरेवाऽदित्योदयादिदर्शनान्निवर्तते । सा च विज्ञानशून्ययोरपि भवतीति तेषां मतम् ; वादिविप्रतिपत्तेः । अतो दिशः स्थिरा एवेति सिद्ध्यति शून्यवदेव ।
अतस्तद्वद्वेदस्यापि स्थैर्यं सिद्धम् ; तदेवेदं वाक्यमिति प्रत्यभिज्ञानात् ।
न चानुमानादीनामागमं विना प्रामाण्यं धर्मादिषु ; तदगोचरत्वात् । अतोऽपौरुषेयवाक्येनैव धर्मादिसिद्धेः सर्ववादिनामपि तदङ्गीकार्यम् ।
तत्प्रामाण्यं च स्वत एव सिद्धम् ।
अप्रामाण्यस्य च परतस्त्वानङ्गीकारे दुष्टेन्द्रियादेरप्यप्रामाण्यहेतुत्वं न स्यात् । तदनङ्गीकारे चानुभवविरोधः । अतः प्रामाण्यं स्वतः परतोऽप्रामाण्यमिति (च) सिद्धम् ।
‘वाचा विरूप नित्यया’(ऋ.सं.८.७५.६) , ‘नित्ययानित्यया स्तौमि ब्रह्म तत्परमं पदम्’ इति । ‘श्रुतिर्वाव नित्या अनित्या वाव स्मृतयो याश्चान्याः वाचः’ इति पैङ्गिश्रुतिः ।
‘विज्ञेयं परमं ब्रह्म ज्ञापिका परमा श्रुतिः ।
अनादिनित्या सा तच्च विना तां न स गम्यते ॥’ इति कात्यायनश्रुतिः ।
‘सहस्रधा महिमानः सहस्रं यावद् ब्रह्म विष्टितं तावती वाक् ॥
कश्छन्दसां योगमावेद धीरः को धिष्ण्यां प्रतिवाचं पपाद ।’(ऋ.सं.१०.११४.९-१०) इति च ।
‘नित्या वेदाः समस्ताश्च शाश्वता विष्णुबुद्धिगाः ।
सर्गे सर्गेऽमुनेवैत उद्गीर्यन्ते तथैव च ॥
तत्क्रमेणैव तैर्वर्णैस्तैः स्वरैरेव नान्यथा ॥’
‘अतः श्रुतित्वमेतासां श्रुता एव यतोऽखिलैः ।
जन्मान्तरे श्रुतास्तास्तु वासुदेवप्रसादतः ॥
मुनीनां प्रतिभास्यन्ति भागेनैव न सर्वशः ।
यतस्ता हरिणा दृष्टाः श्रुता एवापरैः जनैः ।
श्रुतयो दृष्टयश्चेति तेनोच्यन्ते पुरातनैः ॥’
‘तदुत्पत्तिवचश्चैव भवेत् व्यक्तिमपेक्ष्य तु ।
चेतनस्य जनिर्यद्वदुच्यते सर्वलौकिकैः ॥
पुराणानि तदर्थानि सर्गे सर्गेन्यथैव तु ।
क्रियन्तेतस्त्वनित्यानि तदर्थाः पूर्वसर्गवत् ॥’
‘वेदानां सृष्टिवाक्यानि भवेयुर्व्यक्त्यपेक्षया ।
अवान्तराभिमानानां देवानां वा व्यपेक्षया ॥
नानित्यत्वात् कुतस्तेषामनित्यत्वं स्थिरात्मनाम् ॥’ इति ब्रह्माण्डे ।
न चानित्यत्वे श्रुतिर्वेद इत्यादि विशेषशब्दो उपपद्यते(युज्यते) ।
‘वेदास्ते नित्यविन्नत्वात् श्रुतयश्चाखिलैः श्रुतेः ।
आम्नायोऽनन्यथापाठादीशबुद्धिस्थिताः सदा ॥’ इति महावाराहे ।
न च नित्यत्वं विना वेदानां दर्शनव्यवहारो युज्यते ।
न च वर्णपदानामनित्यत्वं वक्तुं युक्तम् । सर्वज्ञत्वादीश्वरस्य तद्बुद्धौ सर्वदा प्रतीयमानत्वात् । न च घटादिवत् संस्कारमात्रत्वं वक्तुं युक्तम् । प्रत्यभिज्ञाविरोधस्योक्तत्वात् । पुराणानामप्यन्यथा शब्दरचनमेवानित्यत्वम् ।
अत आकाशगुणे शब्दे व्यज्यमाना वर्णादयस्तत्क्रमात्मको वेदश्च नित्य एवेति सिद्धम् ।
॥ इति वर्णनित्यत्ववादः ॥
न केवलसिद्धेऽर्थे व्युत्पत्त्यभावादप्रामाण्यम् । सिद्धान्वित एव व्युत्पत्तिगृहीतेः ।
‘इयं माता’, ‘अयं पिता’ इत्यादौ अङ्गुलिप्रसारणादिपूर्वकनिर्देशेनैव हि तज्जानाति । ‘कार्यान्विते एव व्युत्पत्तिः’इति वदतः कार्यस्य कार्यान्वयाभावात् कल्पनागौरवम् ।
‘इयं माता’, ‘अयं पिता’, ‘सुरूपोऽसि’ इत्यादौ सिद्धमात्रज्ञापनेन पर्यवसितत्वात् वाक्यस्य ।
तस्य तत्र प्रामाण्यानुभवाच्च । न च कुत्रचित् सिद्धज्ञापनादन्यत् वाक्यस्य प्रयोजनं दृष्टम् । ज्ञात्वैव हीष्टसाधनतां प्रवर्तते; निवर्तते च विपर्ययेण । अतः सिद्ध एव सर्ववाक्यानां प्रामाण्यं सिद्धम् । प्रसिद्धं च व्याकरणनिरुक्त्यादीनां सिद्धमात्रे प्रामाण्यं सर्ववादिनाम् । तदनङ्गीकारे च सर्वशाब्दव्यवहारासिद्धिः ।
उक्तं च नारदीये-
‘सर्वज्ञं सर्वकर्तारं नारायणमनामयम् ।
सर्वोत्तमं ज्ञापयन्ति महातात्पर्यमत्र हि ॥
सर्वेषामपि वेदानाम् इतिहासपुराणयोः ।
प्रमाणानां च सर्वेषां तदर्थं चान्यदुच्यते ॥’ इति ॥
न च जीवेश्वराभेद एव तात्पर्यमागमस्य ; तत्र प्रमाणाभावात् । न च जीवेश्वरभेदः सिद्ध इत्यनुवादकत्वं भेदवाक्यानाम् ; आगमं विना ईश्वरस्यैव असिद्धेः । न च अनुमानात् तत्सिद्धिः ; विपर्ययेणापि अनुमातुं शक्यत्वात् ।
‘विमतं सकर्तृकं कार्यत्वात्, घटवत्’ इत्युक्ते ‘विमतं विकर्तृकमस्मत्संमतकर्तृरहितत्वात्, आत्मवत्’ इत्यनुमानविरोधात् ।
‘अकार्यत्वम्’ उपाधिरित्युक्ते ‘शरीरिजन्यत्वम्’ इतरत्रापि उपाधिः इत्युत्तरम् ।
प्रत्यक्षानुमानसिद्धत्वे च भेदस्य तद्विरोधादेवाप्रामाण्यमभेदागमस्य । तेनाभेदागमस्याप्रामाण्याभावे (तेनाभेदवाक्यास्याप्रामाण्याभावे च) नानुवादकत्वं भेदवाक्यानाम् । न हि बलवतोऽनुवादकत्वम् ; दार्ढ्यहेतुत्वात् ।
प्रत्यक्षादेरागमस्य प्राबल्येऽपि नोपजीव्यप्रमाणविरोधे प्रामाण्यम् । विषयाभावे स्वस्यैवाप्रामाण्यप्राप्तेः । तेनैव ह्यनुमानादिनाऽऽगमस्य विषयः सिद्ध्यति तत्पक्षेऽपि । अनुमानेन ह्यनुवादित्वपक्ष ईश्वरो बोद्धव्यः, प्रत्यक्षेण च आगमः । अतस्तयोर्विरोधे प्रामाण्यं न स्यात् । अनुमानसिद्धेश्वराच्च भेदोऽनुभवतः एव सिद्धो जीवस्य ; असर्वकर्तृत्वेनानुभवात् ।
न चानुभवविरोधे आगमस्य प्रामाण्यम् ; आगमप्रामाण्यानुभवस्याप्यप्रामाण्यप्राप्तेः । बहुप्रमाणसंवादश्च दार्ढ्यहेतुरेव ; बहूनां वचने तस्यैव दर्शने च दार्ढ्यस्यैव दृष्टेः ।
सर्वाविवादस्थल एव कथञ्चिदनुवादकत्वम् । न चात्र सर्वाविवादः, एकत्ववादिनामेव विवाददर्शनात् । बहुप्रमाणविरोधे च एकस्याप्रामाण्यं दृष्टं शुक्तिरजतादौ । न च दोषजन्यत्वादेव दुर्बलत्वमिति विरोधः । बहुप्रमाणविरुद्धानां दोषजन्यत्वनियमात् । दोषजन्यत्वं च बलवत्प्रमाणविरोधादेव ज्ञायते ।
‘अदुष्टमिन्द्रियं त्वक्षं तर्कोऽदुष्टस्तथाऽनुमा ।
आगमोऽदुष्टवाक्यं च स्वदृक् चानुभवः स्मृतः ॥
बलवत्प्रमाणतश्चैव ज्ञेया दोषा न चान्यथा ।
द्विविधं बलवत्त्वं च बहुत्वाच्च स्वभावतः ।
तयोः स्वभावो बलवानुपजीव्यादिकश्च सः ॥
याथार्थ्यमेव प्रामाण्यं तन्मुख्यं ज्ञानशब्दयोः ।
ज्ञानं च द्विविधं बाह्यं तथाऽनुभवरूपकम् ॥
बल्येवानुभवस्तत्र निर्दोषं त्वक्षजादिकम् ।
अनुप्रमाणतां याति तथाऽक्षादित्रयं ततः ॥
प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम् ।
उपजीव्यविरोधे तु न प्रामाण्यममुष्य च ॥