वेङ्कटेशस्तोत्रम् (ब्रह्माण्डपुराणगतम्)
←

Venkateshastotram (brahmandapuranagatam) Kannada PDF & Online Reader (ವೇಙ್ಕಟೇಶಸ್ತೋತ್ರಮ್ (ಬ್ರಹ್ಮಾಣ್ಡಪುರಾಣಗತಮ್))

Venkateshastotram (brahmandapuranagatam) (वेङ्कटेशस्तोत्रम् (ब्रह्माण्डपुराणगतम्)) by Vedavyasa (वेदव्यासः) — Kannada Text & PDF Download

📜 Last Proofread: 07 Oct 2026
📥 Download Kannada PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 07 Oct 2026
📥 Download PDF ♡ Save
🌐 Language & Script ಕನ್ನಡ
↔️ Text Alignment Center
श्रीवेङ्कटेशस्तोत्रम् (ब्रह्माण्डपुराणगतम्) वेङ्कटेशो वासुदेवः प्रद्युम्नोऽमितविक्रमः । सङ्कर्षणोऽनिरुद्धश्च शेषाद्रिपतिरेव च ॥ १ ॥ जनार्दनः पद्मनाभो वेङ्कटाचलवासनः । सृष्टिकर्ता जगन्नाथो माधवो भक्तवत्सलः ॥ २ ॥ गोविन्दो गोपतिः कृष्णः केशवो गरुडध्वजः । वराहो वामनश्चैव नारायण अधोक्षजः ॥ ३ ॥ श्रीधरः पुण्डरीकाक्षः सर्वदेवस्तुतो हरिः । श्रीनृसिंहो महासिंहः सूत्राकारः पुरातनः ॥ ४ ॥ रमानाथो महीभर्ता भूधरः पुरुषोत्तमः । चोलपुत्रप्रियः शान्तो ब्रह्मादीनां वरप्रदः ॥ ५ ॥ श्रीनिधिः सर्वभूतानां भयकृद्भयनाशनः । श्रीरामो रामभद्रश्च भवबन्धैकमोचकः ॥ ६ ॥ भूतावासो गिरावासः श्रीनिवासः श्रियःपतिः । अच्युतानन्तगोविन्दो विष्णुर्वेङ्कटनायकः ॥ ७ ॥ सर्वदेवैकशरणं सर्वदेवैकदैवतम् । समस्तदेवकवचं सर्वदेवशिखामणिः ॥ ८ ॥ इतीदं कीर्तितं यस्य विष्णोरमिततेजसः । त्रिकाले यः पठेन्नित्यं पापं तस्य न विद्यते ॥ ९ ॥ राजद्वारे पठेद्घोरे सङ्ग्रामे रिपुसङ्कटे । भूतसर्पपिशाचादिभयं नास्ति कदाचन ॥ १० ॥ अपुत्रो लभते पुत्रान् निर्धनो धनवान् भवेत् । रोगार्तो मुच्यते रोगाद् बद्धो मुच्येत बन्धनात् ॥ ११ ॥ यद्यदिष्टतमं लोके तत्तत्प्राप्नोत्यसंशयः । ऐश्वर्यं राजसम्मानं भक्तिमुक्तिफलप्रदम् ॥ १२ ॥ विष्णोर्लोकैकसोपानं सर्वदुःखैकनाशनम् । सर्वैश्वर्यप्रदं नॄणां सर्वमङ्गलकारकम् ॥ १३ ॥ मायावी परमानन्दं त्यक्त्वा वैकुण्ठमुत्तमम् । स्वामिपुष्करिणीतीरे रमया सह मोदते ॥ १४ ॥ कल्याणाद्भुतगात्राय कामितार्थप्रदायिने । श्रीमद्वेङ्कटनाथाय श्रीनिवासाय ते नमः ॥ १५ ॥ वेङ्कटाद्रिसमं स्थानं ब्रह्माण्डे नास्ति किञ्चन । वेङ्कटेशसमो देवो न भूतो न भविष्यति । एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम् ॥ १६ ॥ ॥ इति श्रीब्रह्माण्डपुराणे ब्रह्मनारदसंवादे श्रीवेङ्कटेशस्तोत्रं सम्पूर्णम् ॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 07 Oct 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine